← दशकम् ३ नारायणीयम्
दशकम् ४
[[लेखकः :|]]
दशकम् ५ →

कल्यताम् मम कुरुष्व तावतीं कल्यते भवदुपासनं यया।
स्पष्टमष्टविधयोगcअर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ १ ॥

ब्रह्मcअर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्cअ पाविताः।
कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २ ॥

तारमन्तरनुcइन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः।
इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ ३ ॥

अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः।
तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्घ्रिcइन्तकाः ॥ ४ ॥

विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुcइरशीलनावशात।
अश्रमं मनसि cइन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ५॥

ध्यायतां सकळमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम।
सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ ६॥

तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक।
आश्रिताः पुनरतः परिcयुतावारभेमहि cअ धारणाधिकम् ॥ ७॥

इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः।
मुक्तभक्तकुलमौलितां गताः सञ्cअरेम शुकनारदादिवत् ॥ ८॥

त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा।
योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ ९ ॥

लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः।
ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ १०॥

अग्निवासरवळर्क्षपक्षगैरुत्तरायणजुषा cअ दैवतैः।
प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ११॥

आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२॥

तत्र वा तव पदेऽथवा वसन् प्राकृतप्रळय एति मुक्ततां ।
स्वेcछया खलु पुराऽपि मुcयते संविभिद्य जगदण्डमोजसा ॥ १३॥

तस्य अ क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः ।
तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतम् विभो ॥ १४॥

अर्cइरादिगतिमीद्रुशीं व्रजन् विcयुतिं न भजते जगत्पते ।
सccइदात्मक भवद्गुणोदयानुccअरन्तमनिलेश पाहि माम् ॥ १५॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४&oldid=32236" इत्यस्माद् प्रतिप्राप्तम्