← दशकम् ४५ नारायणीयम्
दशकम् ४६
[[लेखकः :|]]
दशकम् ४७ →

अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये ।
परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ ४६१ ॥

पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते ।
फलसञ्चयवञ्चनकृधा तव मृद्भोजनमूचुरर्भकाः ॥ ४६२ ॥

अयि ते प्रळयावधौ विभो क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ४६३॥

अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता ।
इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४६४ ॥

अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् ।
इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ४६५ ॥

अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ४६६ ॥

कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् ।
मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ ४६७ ॥

कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ४६८ ॥

विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ ४६९॥

धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥ ४६१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४६&oldid=32284" इत्यस्माद् प्रतिप्राप्तम्