← दशकम् ४६ नारायणीयम्
दशकम् ४७
[[लेखकः :|]]
दशकम् ४८ →

एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ ४७१॥

अर्धपीतकुचकुड्मळे त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ ४७२ ॥

सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ ४७३ ॥

उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता ।
त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ ४६४ ॥

वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ४६५॥

त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ४७६॥

बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति ।
सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ ४७७ ॥

विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ ४७८ ॥

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ ४७९॥

यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया ।
एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ ४७१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४७&oldid=32285" इत्यस्माद् प्रतिप्राप्तम्