← दशकम् ४९ नारायणीयम्
दशकम् ५०
[[लेखकः :|]]
दशकम् ५१ →

तरलमधुकृद्वृन्दे बृन्दावनेऽथ मनोहरे
पशुपशिशुभिस्साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन्
गवलमुरळीवेत्रं नेत्राभिरामतनुद्युतिः ॥ ५०१॥

विहितजगतीरक्षं लक्ष्मीकराम्बुजलाळितं
ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥ ४९२॥

विलसदुलपे कान्तारान्ते समीरणशीतळे
विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
लळितमुरळीनादस्सञ्चारयन्खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ५०३॥

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ५०४॥

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परमिळद्वृन्दा बृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ ५०५॥

सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरस्सोऽयं नूनं समेति शनैरिति ॥ ५०६॥

क्वचन दिवसे भूयो भूयस्तरेपरुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ५०७॥

पिबति सलिलं गोपव्राते भवनतमभिद्रुतः
स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो
खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ५०८॥

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन्बके सुमनोगणे
किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥ ५०९॥

लळितमुरळीनादं दूरान्निशम्य वधूजनै
स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दस्समीरणमन्दिर
प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥ ५०१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५०&oldid=32288" इत्यस्माद् प्रतिप्राप्तम्