← दशकम् ५० नारायणीयम्
दशकम् ५१
[[लेखकः :|]]
दशकम् ५२ →

कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ ५११ ॥

विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ ५१२ ॥

प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ ५१३ ॥

महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ५१४ ॥

प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५१५ ॥

गळोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ ५१६ ॥

क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ ५१७ ॥

सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ५१८ ॥

विषाणिकामपि मुरळीं नितम्बके निवेशयन्कबळधरः कराम्बुजे ।
प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ५१९ ॥

सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ ५११० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५१&oldid=32289" इत्यस्माद् प्रतिप्राप्तम्