← दशकम् ५६ नारायणीयम्
दशकम् ५७
[[लेखकः :|]]
दशकम् ५८ →

रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् ।
सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ ५७१॥

सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ ५७२॥

तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ५७३॥

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ५७४॥

गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि ।
त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ ५७५॥

कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ५७६॥

एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ५७७॥

त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ ५७८॥

उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ५७९ ॥

हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिळतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ ५७१० ॥

आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ ५७११॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५७&oldid=32295" इत्यस्माद् प्रतिप्राप्तम्