← दशकम् ७ नारायणीयम्
दशकम् ८
[[लेखकः :|]]
दशकम् ९ →

एवं तावत्प्राकृतप्रक्षयान्ते
ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्
सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ १॥

सोऽयं चतुर्युगसहस्रमितान्यहानि
तावन्मिताश्च रजनीर्बहुशो निनाय ।
निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
नैमित्तिकप्रळयमाहुरतोऽस्य रात्रिम् ॥ २॥

अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
प्राग्ब्रह्मकल्पजनुषां च परायुषां तु
सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ ३॥

पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम्
एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
तत्रान्त्यरात्रिजनितान्कथयामि भूमन्
पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ४॥

दिनावसानेऽथ सरोजयोनिः
सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयु
स्तदेदमेकार्णवमास विश्वम् ॥ ५॥

तवैव वेषे फणिराज शेषे
जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः
स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६॥

कालाख्यशक्तिं प्रलयावसाने
प्रबोधयेत्यादिशता किलादौ ।
त्वया प्रसुप्तं परिसुप्तशक्ति
व्रजेन तत्राखिलजीवधाम्ना ॥ ७॥

चतुर्युगाणां च सहस्रमेवं
त्वयि प्रसुप्ते पुनरद्वितीये ।
कालाख्यशक्तिः प्रथमप्रबुद्धा
प्राबोधयत्त्वां किल विश्वनाथ ॥ ८॥

विबुध्य च त्वं जलगर्भशायिन्
विलोक्य लोकानखिलान्प्रलीनान् ।
तेष्वेव सूक्ष्मात्मतया निजान्तः
स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ९॥

ततस्त्वदीयादयि नाभिरन्ध्रा
दुदञ्चितं किञ्चन दिव्यपद्मम।
निलीननिश्शेषपदार्थमाला
सङ्क्षेपरूपं मुकुलायमानम् ॥ १०॥

तदेतदंभोरुहकुड्मळं ते
कळेबरात्तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः
स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११॥

संफुल्लपत्रे नितरां विचित्रे
तस्मिन्भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत्
स्वयंप्रबुद्धाखिलवेदराशिः ॥ १२॥

अस्मिन्परात्मन् ननु पद्मकल्पे
त्वमित्थमुत्थापितपद्मयोनिः ।
अनन्तभूमा मम रोगराशिं
निरुन्धि वातालयवास विष्णो ॥ १३॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_८&oldid=32242" इत्यस्माद् प्रतिप्राप्तम्