← दशकम् ६ नारायणीयम्
दशकम् ७
[[लेखकः :|]]
दशकम् ८ →

एवं देव cअतुर्दशात्मकजगद्रूपेण जातः पुन
स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ १॥

सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं
बोधं खल्वनवाष्य विश्वविषयं cइन्ताकुलस्तस्थिवान।
तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं
वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २॥

कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले
दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता।
दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित
स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ३॥

माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि
श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः।
सान्द्रानन्दझरी cअ यत्र परमज्योतिःप्रकाशात्मके
तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ ४॥

यस्मिन्नाम cअतुर्भुजा हरिमणिश्यामावदातत्विषो
नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः।
भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना
स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ५॥

नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया
विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा।
त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते
यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥ ६॥

तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं
भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति।
श्रीवत्साङ्कितमात्तकौस्तुभमणिcछायारुणं कारणं
विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ ७॥

काळांभोदकळायकोमळरुcईcअक्रेण cअक्रं दिशा
मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम।
राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं
स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ ८॥

दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे
हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन।
जानास्येव मनीषितं मम विभो ज्ञानं तदापादय
द्वैताद्वैतभवत्स्वरूपपरमित्याcअष्ट तं त्वां भजे ॥ ९॥

आताम्रे cअरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते।
इत्याभाष्य गिरं प्रतोष्यनितरां तccइत्तगूढः स्वयं
सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_७&oldid=32240" इत्यस्माद् प्रतिप्राप्तम्