निरुक्तशास्त्रम्/षष्टोध्यायः

← पञ्चमोध्यायः निरुक्तशास्त्रम्
षष्टोध्यायः
[[लेखकः :|]]
सप्तमोध्यायः →

अथ षष्ठोऽध्यायः
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑ः ॥
त्वमग्ने द्युभिरहोभिः । त्वमाशुशुक्षणिः । आशु इति च शु इति च क्षिप्रनामनी भवतः । क्षणिरुत्तरः । क्षणोतेः । आशु शुचा क्षणोतीति वा । सनोतीति वा । शुक् शोचतेः । पञ्चम्यर्थे वा प्रथमा । तथा हि वाक्यसंयोगः । आ इत्याकार उपसर्गः पुरस्तात् । चिकीर्षितज उत्तरः । आशुशोचयिषुरिति । शुचिः शोचतेः । ज्वलतिकर्मणः । अयमपीतरः शुचिरेतस्मादेव । निःषिक्तमस्मात्पापकमिति नैरुक्ताः ।
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
आशा दिशो भवन्ति । आसदनात् । आशा उपदिशो भवन्ति । अभ्यशनात् । काशिर्मुष्टिः प्रकाशनात् । मुष्टिर्मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । []इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥
इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यौ । विरोधनात् । रोधः कूलं निरुणद्धि स्रोतः । कूलं रुजतेः । विपरीतात् । लोष्टोऽविपर्ययेण । अपारे दूरपारे । यत्संगृभ्णासि मघवन् । काशिस्ते महान् ।
अ॒ह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् ।
अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम् ६.१

अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र ।
सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणी॑ः पुरुहू॒तं धम॑न्तीः ॥
अलातृणोऽलमातर्दनो मेघः । वलो वृणोतेः । व्रजो व्रजत्यन्तरिक्षे । गोरेतस्या माध्यमिकाया वाचः । पुरा हननाद्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथो अकरोत् । निरजनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः । आपो वा वहनात् । वाचो वा वदनात् । बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा २
उद्वृ॑ह॒ रक्ष॑ः स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि ।
आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥
उद्धर रक्षः सहमूलमिन्द्र । मूलं मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । वृश्च मध्यम् । प्रति शृणीह्यग्रम् । अग्रमागतं भवति । आ कियतो देशात् । सललूकं संलुब्धं भवति । पापकमिति नैरुक्ताः । सररुकं वा स्यात् । सर्तेरभ्यस्तात् । तपुषिस्तपतेः । हेतिर्हन्तेः ।
त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नम्।
सुखपयसम् । सुखमस्य पयः । विस्रुह आपो भवन्ति । विस्रवणात् ।
व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुह॑ः । इत्यपि निगमो भवति ।
वीरुध ओषधयो भवन्ति । विरोहणात् ।
र्वी॒रुध॑ः पारयि॒ष्ण्व॑ः। इत्यपि निगमो भवति ।
नक्षद्दाभम् । अश्नुवानदाभम् । अभ्यशनेन दभ्नोतीति वा ।
न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठाम्। इत्यपि निगमो भवति ।
अस्कृधोयुरकृध्वायुः । कृध्विति ह्रस्वनाम । निकृत्तं भवति ।
यो अस्कृ॑धोयुर॒जर॒ः स्व॑र्वा॒न्। इत्यपि निगमो भवति । निशुंभा निश्रथ्यहारिणः ३
आजास॑ः पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् ।
दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥
आवहन्त्वजाः पूषणं रथे । निश्रथ्यहारिणस्ते । जनश्रियं जातश्रियम् ।
बृबदुक्थो महदुक्थः । वक्तव्यमस्मा उक्थमिति । बृबदुक्थो वा ।
बृ॒बदु॑क्थं हवामहे । इत्यपि निगमो भवति ।
ऋदूदरः सोमः । मृदूदरः । मृदूदरेष्विति वा ।
ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒। इत्यपि निगमो भवति ।
ऋदूपे इत्युपरिष्टाद् व्याख्यास्यामः ।
पुलुकामः पुरुकामः ।
पुलु॒कामो॒ हि मर्त्य॑ः । इत्यपि निगमो भवति ।
असिन्वती असंखादन्त्यौ ।
असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः । इत्यपि निगमो भवति ।
कपनाः कंपनाः क्रिमयो भवन्ति ।
मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः। इत्यपि निगमो भवति । भाऋजीकः प्रसिद्धभाः ।
धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीकः। इत्यपि निगमो भवति ।
रुजाना नद्यो भवन्ति । रुजन्ति कूलानि ।
सं रुजानाः पिपिष इन्द्रशत्रुः । इत्यपि निगमो भवति ।
जूर्णिर्जवतेर्वा । द्रवतेर्वा । दूनोतेर्वा ।
क्षि॒प्ता जूर्णि॒र्न वक्षति । इत्यपि निगमो भवति ।
परि घ्रं॒समो॒मना वां॒ वयो गात् ।
पर्यगाद्वां घ्रंसमहरवनायान्नम् ६.४

उपलप्रक्षिणी । उपलेषु प्रक्षिणाति । उपलप्रक्षेपिणी वा ।
इन्द्र ऋषीन् पप्रच्छ । दुर्भिक्षे केन जीवितीति । तेषामेकः प्रत्युवाच ।
शकटं शाकिनी गावो जालमस्यन्दनं वनम् ।
उदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तयः ॥
इति सा निगदव्याख्याता १
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना ।
नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥
कारुरहमस्मि । कर्ता स्तोमानाम् । ततो भिषक् । तत इति सन्ताननाम । पितुर्वा । पुत्रस्य वा । उपलप्रक्षिणी सक्तुकारिका । नना नमतेः । माता वा । दुहिता वा । नानाधियो नानाकर्माणः । वसूयवो वसुकामाः । अन्वास्थिताः स्मो गाव इव लोकम् । इन्द्रायेन्दो परिस्रव । इत्यध्येषणा ।
आसीन ऊर्ध्वामुपसि क्षिणाति । उपस्थे । प्रकलविद्वणिग्भवति । कलाश्च वेद प्रकलाश्च ।
दुर्मित्रासः प्रकलविन्मिानाः । इत्यपि निगमो भवति ।
अभ्यर्धयज्वा । अभ्यर्धयन्यजति ।
सिषक्ति पूषा अभ्यर्धयज्वा । इत्यपि निगमो भवति । ६.५

ईक्ष ईशिषे । ईक्षे हि वस्व उभय॑स्य राजन् । इत्यपि निगमो भवति । क्षोणस्य क्षयणस्य । महः क्षोणस्या॑श्विना कण्वाय । इत्यपि निगमो भवति ६.६
 
अस्मे ते बन्धुः । वयमित्यर्थः ।
अस्मे यातं नासत्या स॒जोषाः । अस्मानित्यर्थः ।
अस्मे समानेभिर्वृषभ पौंस्येभिः । अस्माभिरित्यर्थः ।
अस्मे प्र यन्धि मघवन्नृजीषिन् । अस्मभ्यमित्यर्थः ।
अस्मे आराच्चिद् द्वेषः सनुतर्युयोतु । अस्मदित्यर्थः ।
ऊर्व इव पप्रथे कामो अस्मे । अस्माकमित्यर्थः ।
अस्मे धत्त वसवो वसूनि । अस्मास्वित्यर्थः ।
पाथोऽन्तरिक्षम् । पथा व्याख्यातम् । श्येनो न दीयन्नन्वेति पाथः । इत्यपि निगमो भवति । उदकमपि पाथ उच्यते पानात् ।
आ चष्ट आसां पाथो नदीनाम् । इत्यपि निगमो भवति ।
अन्नमपि पाथ उच्यते पानादेव ।
देवानां पाथ उप वक्षि विद्वान् । इत्यपि निगमो भवति ।
सवीमनि प्रसवे ।
देवस्य वयं सवितुः सीमनि । इत्यपि निगमो भवति ।
सप्रथाः सर्वतः पृथुः ।।
त्वम॑ग्ने सप्रथा असि । इत्यपि निगमो भवति ।
विदथानि वेदनानि । विदथानि प्र चोदयन् । इत्यपि निगमो भवति ६.७

श्राय॑न्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जाते जनमान ओज॑सा प्रति भागं न दीधिम ॥
समाश्रिताः सूर्यमुपतिष्ठन्ते । अपि वोपमार्थे स्यात् ।
सूर्यमिवेन्द्रमुपतिष्ठन्त इति । सर्वाणीन्द्रस्य धनानि विभक्षमाणाः । स यथा धनानि विभजति जाते च जनिष्यमाणे च । तं वयं भागमनुध्यायाम । ओजसा बलेन । ओज ओजतेर्वा । उब्जतेर्वा । आशीराश्रयणाद्वा । आश्रपणाद्वा । अथेयमितराशीराशास्तेः । इन्द्राय गाव आशिरम् । इत्यपि निगमो भवति ।
सा मे सत्याशीर्देवेषु । इति च ।
यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः ।
यदा ते मर्तो भोगमन्वापदथ ग्रसितृतम ओषधीरगारीः ।
जिगर्तिर्गिरतिकर्मा वा । गृणातिकर्मा वा । गृह्णातिकर्मा वा ।
मूरा अमूर न वयं चिकित्वो महित्वम॑ग्ने॒ त्वमङ्ग वित्से ।
मूढा वयं स्मः । अमूढस्त्वमसि । न वयं विद्मो महित्वमग्ने । त्वं तु वेत्थ ।
शशमानः शंसमानः । यो वां यज्ञैः शशमानो ह दाशति । इत्यपि निगमो भवति ।
देवो देवाच्या कृपा ।
देवो देवान्प्रत्यक्तया कृपा । कृप्कृपतेर्वा । कल्पतेर्वा । ६.८

अश्रवं हि भूरिदाव॑त्तरा वां विजामातुरुत वा घा स्यालात् । अथा सोम॑स्य॒ प्रय॑ती युवभ्या॒मिन्द्राग्नी स्तोमं जनयामि नव्य॑म् ॥
अश्रौषं हि बहुदातृतरौ वाम् । विजामातुः । असुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षते । असुसमाप्त इव वरोऽभिप्रेतः । जामाता । जा अपत्यम् । तन्निर्माता । उत वा घा स्यालात् । अपि च स्यालात् । स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः । स्यं शूर्पं स्यतेः । शूर्पमशनपवनम् । शृणातेर्वा । अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरम् ।
ओमास इत्युपरिष्टाद्व्याख्यास्यामः ६.९

सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य औशिजः ॥
सोमानां सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः । कक्षीवान् कक्ष्यावान् । औशिज उशिजः पुत्रः । उशिग्वष्टेः कान्तिकर्मणः । अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात् । तं सोमानां सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते ६.१०

इन्द्रासोमा समघशंसमभ्य १ घं तपुर्ययस्तु चरुरग्निवाँ इव ।
ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥
इन्द्रासोमावघस्य शंसितारम् । अघं हन्तेः । निर्ह्रसितोपसर्गः । आहन्तीति । तपुस्तपतेः । चरुर्मृच्चयो भवति । चरतेर्वा ।
समुच्चरन्त्यस्मादापः । ब्रह्मद्विषे क्रव्यमदते । घोरख्यानाय । क्रव्यं विकृत्ताज्जायत इति नैरुक्ताः । द्वेषो धत्तम् । अनवायमनवयवम् । यदन्ये न व्यवेयुः । अद्वेषस इति वा । किमीदिने । किमिदानीमिति चरते । किमिदं किमिदमिति वा । पिशुनाय चरते । पिशुनः पिंशतेः । विपिंशतीति ६.११

कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवाम॑वाँ इभैन ।
तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
कुरुष्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसयनात् । तंतुर्वा । जालं वा । याहि राजेव । अमात्यवान् । अभ्यमनवान् । स्ववान्वा । इराभृता गणेन गतभयेन । हस्तिनेति वा । तृष्व्यानु प्रसित्या द्रूणानः । तृष्वीति क्षिप्रनाम । तरतेर्वा । त्वरतेर्वा । असितासि । विध्य रक्षसः । तपिष्ठैः । तप्ततमैः । तृप्ततमैः । प्रपिष्ठतमैरिति वा ।
यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अमीवाभ्यमनेन व्याख्यातः । दुर्णामा क्रिमिर्भवति पापनामा । क्रिमिः क्रव्ये मेद्यति । क्रमतेर्वा स्यात्सरणकर्मणः । क्रामतेर्वा । अति क्राम॑न्तो दुरितानि विश्वा । अतिक्रममाणा दुर्गतिगमनानि सर्वाणि । अप्वा यदेनया विद्धोऽपवीयते । व्याधिर्वा । भयं वा । अप्वे परेहि । इत्यपि निगमो भवति ।
अमतिरमामयी । मतिरात्ममयी ।
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि । इत्यपि निगमो भवति ।
श्रुष्टीति क्षिप्रनाम । आशु अष्टीति ६.१२

ताँ अध्वर उश॒तो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ।
तानध्वरे यज्ञे । उशतः कामयमानान् । यजाग्ने । श्रुष्टी भगम् । नासत्यौ चाश्विनौ । सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः । नासिकाप्रभवौ बभूवतुरिति वा । पुरन्धिर्बहुधीः । तत्कः पुरन्धिः । भगः पुरस्तात्तस्यान्वादेश इत्येकम् । इन्द्र इत्यपरम् । स बहुकर्मतमः । पुरां च दारयितृतमः । वरुण इत्यपरम् । तं प्रज्ञया स्तौति । इमामू नु कवितमस्य मायाम् । इत्यपि निगमो भवति । रुशदिति वर्णनाम । रोचतेर्व़्िलतिकर्मणः । समिद्धस्य रुशददर्शि पाजः । इत्यपि निगमो भवति ६.१३

अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् । अस्ति हि वः । समानजातिता रेशयदारिणो देवाः । अस्त्याप्यम् । आप्यमाप्नोतेः । सुदत्रः कल्याणदानः ।
त्वष्टा सुदत्रो विदधातु रायः । इत्यपि निगमो भवति ।
सुविदत्रः कल्याणविद्यः । आग्ने याहि सुविदत्रेभिरर्वाङ् । इत्यपि निगमो भवति ।
आनुषगिति नामानुपूर्वस्य । अनुषक्तं भवति ।
स्तृणन्ति बर्हिरानुषक् । इत्यपि निगमो भवति ।
तुर्वणिस्तूर्णवनिः । स तुर्वणिर्महाँ अरेणु पौस्यै । इत्यपि निगमो भवति ।
गिर्वणा देवो भवति । गीर्भिरेनं वनयन्ति ।
जुष्टं गिर्वणसे बृहत् । इत्यपि निगमो भवति ६.१४

असूर्ते सूर्ते रज॑सि निषत्ते ये भूतानि समकृण्वन्निमानि ।
असुसमीरिताः सुसमीरिते वातसमीरिताः । माध्यमिका देवगणाः । ते रसेन पृथिवीं तर्पयन्तः । भूतानि च कुर्वन्ति । त आयजन्त । इत्यतिक्रान्तं प्रतिवचनम् ।
अम्यक्सा त इन्द्र ऋष्टिः । अमाक्तेति वा । अभ्यक्तेति । यादृश्म॒न्धायि तमपस्यया विदत् ।
यादृशेऽधायि तमपस्यया विदत् । उस्रः पितेव जारयायि यज्ञैः ।
उस्र इव गोपिता जायि यज्ञैः ६.१५

प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्व अग्रियोत वाजाः ।
प्रास्थुर्वो जोषयमाणा अभवत सर्वे । अग्रगमनेनेति वा ।अग्रगरणेनेति वा अग्रसंवादिन इति वा ।
अपि वाग्रमित्येतदनर्थकमुपबंधमाददीत ।
अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोम॑म् ।
अद्धीन्द्र प्रस्थितानीमानि हवींषि चनो दधिष्व । चन इत्यन्ननाम । पचतिर्नामीभूतः ।
तं मेदस्तः प्रति पचताग्रभीष्टाम् ।
इत्यपि निगमो भवति ।
अपि वा मेदसश्च पशोश्च । सात्त्वं द्विवचनं स्यात् । यत्र ह्येकवचनार्थः प्रसिद्धं तद्भवति ।
पुरोळा अग्ने पचतः । इति यथा ।
शुरुध आपो भवन्ति । शुचं संरुन्धन्ति ।
ऋतस्य॒ हि शुरुधः सन्ति पूर्वीः । इत्यपि निगमो भवति ।
अमिनोऽमितमात्रो महान्भवति । अभ्यमितो वा ।
अमिनः सहोभिः । इत्यपि निगमो भवति ।
जज्झतीरापो भवन्ति । शब्दकारिण्यः ।
मरुतो जज्झतीरिव । इत्यपि निगमो भवति ।
अप्रतिष्कुतः । अप्रतिष्कृतः । अप्रस्खलितो वा ।
अस्मभ्यमप्रतिष्कुतः । इत्यपि निगमो भवति । शाशदानः शाशाद्यमानः ।
प्र स्वां मतिमतिरच्छाशदानः । इत्यपि निगमो भवति ६.१६

सृप्रः सर्पणात् । इदमपीतरत् सृप्रमेतस्मादेव । सर्पिर्वा । तैलं वा ।
सृप्रकरस्नमूतये । इत्यपि निगमो भवति ।
करस्नौ बाहू । कर्मणां प्रस्नातारौ ।
सुशिप्रमेतेन व्याख्यातम् ।
वाजे सुशिप्र गोम॑ति । इत्यपि निगमो भवति ।
शिप्रे हनू नासिके वा । हनुर्हन्तेः । नासिका नसतेः ।
विष्य॑स्व शिप्रे वि सृजस्व धेने । इत्यपि निगमो भवति ।
धेना दधातेः ।
रंसु रमणात् ।
स चित्रेण चिकिते रंसु भासा । इत्यपि निगमो भवति ।
द्विबर्हा द्वयोः स्थानयोः परिवृढः । मध्यमे च स्थाने उत्तमे च ।
उत द्विबर्हा अमिनः सहोभिः । इत्यपि निगमो भवति ।
अक्र आक्रमणात् ।
अक्रो न बभ्रिः समिथे महीनाम् । इत्यपि निगमो भवति ।
उराण उरु कुर्वाणः । दूत ईयसे प्रदिव उरा॒णः । इत्यपि निगमो भवति ।
स्तिया आपो भवन्ति । स्त्यायनात् ।
वृषा सिन्धूनां वृषभः स्तिया॑नाम् । इत्यपि निगमो भवति ।
स्तिपाः स्तियापालनः । उपस्थितान् पालयतीति वा।
स न स्तिपा उत भवा तनूपाः । इत्यपि निगमो भवति ।
जबारु जवमानरोहि । जरमाणरोहि । गरमाणरोहीति वा ।
अग्रे रुप आरुपितं जबारु । इत्यपि निगमो भवति ।
जरूथं गरूथं गृणातेः ।
जरूथं हन्यक्षि राये पुर॑न्धिम् । इत्यपि निगमो भवति ।
कुलिश इति वज्रनाम । कूलशातनो भवति ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ।
स्कन्धो वृक्षस्य समास्कन्नो भवति । अयमपीतरः स्कन्ध एतस्मादेव । आस्कन्नं काये । अहिः शयत उपपर्चनः पृथिव्याः । तुजस्तुंजतेर्दानकर्मणः ६.१७

तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥
दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः ।
बर्हणा परिबर्हणा ।
बृहच्छ्रवा असुरो बर्हणा कृतः । इत्यपि निगमो भवति ६.१८

यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवास॒खः ॥
घ्रंस इत्यहर्नाम । ग्रस्यन्तेऽस्मिन्रसाः ।
गोरूध उद्धततरं भवति । उपोन्नद्धमिति वा ।
स्नेहानुप्रदानसामान्याद्रात्रिरप्यूध उच्यते । स योऽस्मा अहन्यपि वा रात्रौ सोमं सुनोति भवत्यह द्योतनवान् । अपोहत्यपोहति शक्रः तितनिषुं धर्मसन्तानादपेतमलंकरिष्णुमयज्वानम् । तनूशुभ्रं तनूशोभयितारम् । मघवा यः । कवासखो यस्य कुपूयाः सखायः ।
न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनुच्छुष्णमिन्द्रः ।
निरविध्यदिलाबिलशयस्य दृढानि । व्यभिनच्छृङ्गिणं शुष्णमिन्द्रः ६.१९

अस्मा इदु प्र भरा तूतुजानो वृत्राय॒ वज्रमीशानः कियेधाः ।
गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्य॒पां चरध्यै ॥
अस्मै प्रहर । तूर्णं त्वरमाणः । वृत्राय वज्रमीशानः । कियेधाः कियद्धा इति वा । क्रममाणधा इति वा । गोरिव पर्वाणि विरद मेघस्य । इष्यन्नर्णांसि । अपां चरणाय । भृमिर्भ्राम्यतेः ।
भृमिरस्यृषिकृन्मर्त्यानाम् । इत्यपि निगमो भवति ।
विष्पितो विप्राप्तः । पारं नो अस्य विष्पितस्य पर्षन् । इत्यपि निगमो भवति ६.२०

तन्नस्तुरीमद्भुतं पुरु वारं पुरु त्मना ।
त्वष्टा पोषाय वि ष्यतु राये नाभानो अस्मयुः ॥
तन्नः । तूर्णापि । महत् । संभृतम् । आत्मना । त्वष्टा धनस्य पोषाय विष्यतु । इत्यस्मयुः । अस्मान् कामयमानः । रास्पिनो रास्पी । रपतेर्वा । रसतेर्वा ।
रास्पिनस्यायोः । इत्यपि निगमो भवति ।
ऋञ्जतिः प्रसाधनकर्मा ।
आ व ऋजस ऊर्जां व्युष्टिषु । इत्यपि निगमो भवति ।
ऋजुरित्यप्यस्य भवति ।
ऋजुनीती नो वरुणः । इत्यपि निगमो भवति ।
प्रतद्वसू प्राप्तवसू ।
हरी इन्द्र प्रतद्वसू अभि स्वर । इत्यपि निगमो भवति ६.२१

हिनोता नो अध्वरं देवय॒ज्या हिनोत ब्रह्म सनये धनानाम् ।
ऋतस्य॒ योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥
प्रहिणुत नोऽध्वरं देवयज्यायै । प्रहिणुत ब्रह्म धनस्य सनयाय ।
ऋतस्य योगे । यज्ञस्य योगे । याज्ञे शकट इति वा । शकटं शकृदितं भवति । शनकैस्तकतीति वा । शब्देन तकतीति वा । सुखवतीः श्रुष्टीवरीर्भूतनास्मभ्यमापः । सुखवत्यो भवतास्मभ्यमापः । चोष्कूयमाण इन्द्र भूरि वामम् । दददिन्द्र बहुवननीयम् ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ।
व्युदस्यति । एधमानानसुन्वतः । सुन्वतोऽभ्यादधाति । उभयस्य राजा । दिव्यस्य च पार्थिवस्य च । चोष्कूयमाण इति चोष्कूयतेश्चर्करीतवृत्तम् ।
सुमत्स्वयमित्यर्थः । उप प्रागात्सुमन्मेधाय मन्म ।
उपप्रैतु मां स्वयं यन्मे मनोऽध्यायि यज्ञेन । इत्याश्वमेधिको मन्त्रः ।
दिविष्टिषु दिव एषणेषु ।
स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
स्थूरः । समाश्रितमात्रो महान्भवति । अणुरनु स्थवीयांसम् । उपसर्गो लुप्तनामकरणः । यथा संप्रति ।
कुरुङ्गो राजा बभूव । कुरुगमनाद्वा । कुलगमनाद्वा । कुरुः कृन्ततेः । क्रूरमित्यप्यस्य भवति । कुलं कुष्णातेः । विकुषितं भवति ।
दूतो व्याख्यातः ।
जिन्वतिः प्रीतिकर्मा ।।
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ।
इत्यपि निगमो भवति ६.२२

अमत्रोऽमात्रो महान्भवति । अभ्यमितो वा । महाँ अमत्रो वृजने विरप्शि । इत्यपि निगमो भवति । स्तवे वज्र्यृचीषमः । स्तूयते वज्र्यृचा समः ।
अनर्शरातिमनश्लीलदानम् । अश्लीलं पापकम् । अश्रिमत् । विषमम् ।
अनर्शरातिं वसुदामुप स्तुहि । इत्यपि निगमो भवति ।
अनर्वा अप्रत्यृतोऽन्यस्मिन् । अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्य॑म॒र्कैः ।
अनर्वमप्रत्यृतमन्यस्मिन् । वृषभम् । मन्द्रजिह्वं मन्दनजिह्वं । मोदनजिह्वमिति वा । बृहस्पतिं वर्धय नव्यमर्केः । अर्चनीयैः स्तोमैः ।
असामि सामिप्रतिषिद्धम् । सामि स्यतेः ।
असाम्योजो बिभृथा सुदानवः ।
असुसमाप्तं बलं बिभृत कल्याणदानाः ६.२३

मा त्वा सोम॑स्य गल्दया सदा याचन्नहं गिरा ।
भूर्णिं मृगं न सव॑नेषु चुक्रुधं क ईशानं न याचिषत् ॥
मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहम् । गिरा गीत्या स्तुत्या । भूर्णिमिव मृगम् । न सवनेषु चुक्रुधम् । क ईशानं न याचिष्यत इति । गल्दा धमनयो भवन्ति । गलनमासु धीयते ।
आ त्वा विशन्त्विन्दव आ गल्दा धमनीनाम् ।
नानाविभक्तीत्येते भवतः । आगलना धमनीनामित्यत्रार्थः ६.२४

न पापासो मनामहे नारायासो न जल्हवः ।
न पापा मन्यामहे । नाधनाः । न ज्वलनेन हीनाः । अस्त्यस्मासु ब्रह्मचर्यमध्ययनं तपो दानकर्मेत्यृषिरवोचत् । बकुरो भास्करः । भयंकरः । भासमानो द्रवतीति वा 6.२५

यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
अभि दस्युं बकुरेणा धम॑न्तोरु ज्योतिश्चक्रथुरार्याय ॥
यवमिव वृकेणाश्विनौ निवपन्तौ । वृको लाङ्गलं भवति । विकर्तनात् ।
लाङ्गलं लगतेः । लाङ्गूलवद्वा । लागूलं लगतेः । लंगतेः । लंबतेर्वा । अन्नं दुहन्तौ मनुष्याय दर्शनीयौ । अभिधमन्तौ । दस्युं बकुरेण ज्योतिषा वोदकेन वा । अर्य ईश्वरपुत्रः । बेकनाटाः खलु कुसीदिनो भवन्ति । द्विगुणकारिणो वा । द्विगुणदायिनो वा । द्विगुणं कामयन्त इति वा ।
इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ।
इन्द्रो यः सर्वान् बेकनाटान् । अहर्दृशः सूर्यदृशः । य इमान्यहानि पश्यन्ति न पराणीति वा । अभिभवति कर्मणा ।
पणींश्च वणिजः ६.२६

जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
कद्ध स्थ हवनश्रुतः ॥
जीवतो नोऽभिधावतादित्याः पुरा हननात् । क्व नु स्थ ह्वानश्रुत इति ।
मत्स्यानां जालमापन्नानामेतदार्षं वेदयन्ते । मत्स्या मधा उदके स्यन्दन्ते । माद्यन्तेऽन्योन्यं भक्षणायेति वा । जालं जलचरं भवति । जलेभवं वा । जलेशयं वा ।
अंहुरोंऽहस्वान् । अंहूरणमित्यप्यस्य भवति ।
कृण्वन्नंहूरणादुरु । इत्यपि निगमो भवति ।
सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।
सप्त मर्यादाः कवयश्चक्रुः । तासामेकामप्यभिगच्छन्नंहस्वान्भवति । स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रूणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेऽनृतोद्यमिति ।
बत इति निपातः । खेदानुकम्पयोः ६.२७ ।

बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्येव युक्तं परिष्वजाते लिबुजेव वृक्षम् ॥
बतो बलातीतो भवति । दुर्बलो बतासि यम । नैव त मनो हृदयं च विजानामि । अन्या किल त्वां परिष्वंक्ष्यते कक्ष्येव युक्तं लिबुजेव वृक्षम् । लिबुजा व्रततिर्भवति । लीयते विभजन्तीति । व्रततिर्वराणाच्च । शयनाच्च । तनानाच्च ।
वाताप्यमुदकं भवति । वात एतदाप्याययति ।
पुनानो वाताप्यं विश्वश्चन्द्रम् । इत्यपि निगमो भवति ।
वने न वायो न्यधायि चाकन् ।
वन इव । वायो वेः पुत्रः । चायन्निति वा । कामयमान इति वा । वेति च य इति च चकार शाकल्यः । उदात्तं त्वेवमाख्यातमभविष्यत् । असुसमाप्तश्चार्थः ।
रथर्यतीति सिद्धस्तत्प्रेप्सुः । रथं कामयत इति वा ।
एष देवो रथर्यति । इत्यपि निगमो भवति ६.२८

धेनुं न इषं पिन्वतमसंक्राम् ।
असंक्रमणीम् ।
आधव आधवनात् ।
मतीनां च साधनं विप्राणां चाधवम् । इत्यपि निगमो भवति ।
अनवब्रवोऽनवक्षिप्तवचनः ।
विजेषकृदिन्द्र इवानवब्रवः । इत्यपि निगमो भवति ६.२९

अरायि काणे विकटे गिरिं गच्छ सदान्वे ।
शिरिम्बिठस्य सत्त्वभिस्तेभिष्ट्वा चातयामसि ॥
अदायिनि काणे विकटे । काणोऽविक्रान्तदर्शन इत्यौपमन्यवः । कान्तिर्वा स्यादणूभावकर्मणः। कणतेर्वा स्यादणूभावकर्मणः । कणतिः शब्दाणूभावे भाष्यते । अनुकणतीति । मात्राणूभावात्कणः । दर्शनाणूभावात्काणः । विकटो विक्रान्तगतिरित्यौपमन्यवः । कुटतेर्वा स्यात् विपरीतस्य विकुटितो भवति । गिरिं गच्छ । सदानोनुवे शब्दकारिके । शिरिम्बिठस्य सत्त्वभिः । शिरिम्बिठो मेघः । शीर्यते बिठे । बिठमन्तरिक्षं बिठं बीरिटेन व्याख्यातम् । तस्य सत्त्वैरुदकैरिति स्यात् । तैष्ट्वा चातयामः । अपि वा शिरिम्बिठो भारद्वाजः
कालकर्णोपेतः । अलक्ष्मीर्निर्णाशयाञ्चकार । तस्य सत्त्वैः कर्मभिरिति स्यात् । तैष्ट्वा चातयामः । चातयतिर्नाशने । पराशरः पराशीर्णस्य वसिष्ठस्य स्थविरस्य जज्ञे ।
पराशरः शतयातुर्वसिष्ठः । इत्यपि निगमो भवति ।
इन्द्रोऽपि पराशर उच्यते । परा शातयिता यातूनाम् ।
इन्द्रो यातूनामभवत्पराशरः । इत्यपि निगमो भवति ।
क्रिविर्दती विकर्तनदन्ती ।
यत्रा वो दिद्युद्रदति क्रिविर्दती । इत्यपि निगमो भवति ।
करूलती कृत्तदती । अपि वा देवं कञ्चित्कृत्तदन्तं दृष्ट्वैवमवक्ष्यत ६.३०

वामं वामं त आदुरे देवो ददात्वर्यमा ।।
वामं पूषा वामं भगो वामं देवः करूळती ॥
वामं वननीयं भवति । आदुरिरादरणात् । तत्कः करूळती । भगः पुरस्तात्तस्यान्वादेश इत्येकम् । पूषेत्यपरम् । सोऽदन्तकः । अदन्तकः पूषा । इति च ब्राह्मणम् ।
दनो विश इन्द्र मृध्रवाचः ।
दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु ।
अवीरामिव मामयं शरारुरभि मन्यते ।
अबलामिव मामयं बालोऽभिमन्यते संशिशरिषुः ।
इदंयुरिदं कामयमानः । अथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यत्रार्थः ।
अश्वयुर्गव्यू रथयुर्वसूयुः इन्द्रः । इत्यपि निगमो भवति ६.३१

किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
आ नो भर प्रम॑गन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥
किं ते कुर्वन्ति कीकटेषु गावः । कीकटा नाम देशोऽनार्यनिवासः । कीकटाः किंकृताः । किं क्रियाभिरिति प्रेप्सा वा । नैव चाशिरं दुह्रे । न तपन्ति घर्मं हर्म्यम् । आहर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी । माङ्गदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दः । अत्यन्तकुसीदिकुलीनः । प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डको वा । पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत् स्थं नैचाशाखं नीचाशाखो नीचैः शाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन्रन्धयेति । रध्यतिर्वशगमने ।
बुन्द इषुर्भवति । भिन्दो वा । भयदो वा । भासमानो द्रवतीति वा ६.३२

तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥
तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः ।
साधयिता ते बुन्दो हिरण्मयः । उभौ ते बाहू रमणीयौ सांग्राम्यौ वा । ऋदूपे अर्दनपातिनौ । गमनपातिनौ शब्दपातिनौ दूरपातिनौ वा । मर्मण्यर्दनवेधिनौ । गमनवेधिनौ (शब्दवेधिनौ दूरवेधिनौ) वा ६३३

निरा विध्यद्गिरिभ्य आ धारयत्पक्वमौदनम् ।
इन्द्रो बुन्दं स्वाततम् ॥
निरविध्यगिरिभ्य आ धारयत्पक्वम् ओदनम्। उदकदानं मेघम् । इन्द्रो बुन्दं स्वाततम् ।
वृन्दं बुन्देन व्याख्यातम् । वृन्दारकश्च ६.३४

अयं यो होता किरु स यमस्य कमप्यूहे यत्सम॒ञ्जन्ति देवाः ।
अहरहर्जायते मासि मास्यथा देवा दधिरे हव्यवाहम् ॥
अयं यो होता कर्ता स यमस्य । कमप्यूहे अन्नमभिवहति यत्समश्नुवन्ति देवाः । अहरहर्जायते । मासे मासे । अर्धमासेऽर्धमासे वा । अथ देवा निदधिरे हव्यवाहम् । उल्बमूर्णोतेः । वृणोतेर्वा । महत्तदुल्बं स्थविरं तदासीत् । इत्यपि निगमो भवति ।
ऋबीसमपगतभासम् । अपहृतभासम् । अन्तर्हितभासम् । गतभासं वा ६.३५

हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
हिमेनोदकेन ग्रीष्मान्तेऽग्निं घ्रंसमहरवारयेथाम् । अन्नवतीं चास्मा ऊर्जमधत्तमग्नये । योऽयमृबीसे पृथिव्यामग्निरन्तरौषधिवनस्पतिष्वप्सु तमुन्निन्यथुः । सर्वगणं सर्वनामानं । गणो गणनात् । गुणश्च । यद्वृष्ट ओषधय उद्यन्ति प्राणिनश्च पृथिव्यां तदश्विनो रूपं तेनैनौ स्तौति स्तौति ६.३६

त्वमग्नेऽलातृण उद्वृहाजास उपलप्रक्षिणीकारुरहमस्मे ते श्रायन्त इवाश्रवं हि सोमानं स्वरणमिन्द्रा सोमा कृणुष्वपाजस्तां अध्वरेऽस्ति हिवोऽसूर्ते प्रवोच्छा सृप्रस्तुञ्जे तुञ्जे यो अस्मा अस्मा इदु तन्नस्तुरीपं हिनोतानोमत्रो मात्वा न पापासो यवं वृकेण जीवान्नो बतो बतासि धेनुन्नोऽरायि काणे वामं वामं किं ते तुविक्षं ते निराविध्यदयं यो होता हिमेनाग्निं षट्त्रिंशत् ॥
इति निरुक्ते पूर्वषट्के षष्ठोऽध्यायः समाप्तः
इति नैगमं काण्डं पूर्वार्धञ्च समाप्तम्


  1. ऋ. ३.३०.५