निरुक्तशास्त्रम्/सप्तमोध्यायः

← षष्टोध्यायः निरुक्तशास्त्रम्
सप्तमोध्यायः
[[लेखकः :|]]
अष्टमोयायः →


अथोत्तरषट्कं प्रारभ्यते
अथ सप्तमोऽध्यायः
ॐ ॥ अथातो दैवतम् । तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते ।
सैषा देवतोपपरीक्षा ।
यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन्स्तुतिं प्रयुङ्क्ते तद्दैवतः स मन्त्रो भवति ।
तास्त्रिविधा ऋचः ।
परोक्षकृताः । प्रत्यक्षकृताः । आध्यात्मिक्यश्च ।
तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते । प्रथमपुरुषैश्चाख्यातस्य ७.१

इन्द्रो दिव इन्द्र ईशे पृथिव्याः ।
इन्द्रमिद् गाथिनो बृहत् ।
इन्द्रेणैते तृत्सवो वेविषाणाः ।
इन्द्राय साम गायत ।
नेन्द्रादृते पवते धाम किं चन ।
इन्द्रस्य नु वीर्याणि प्र वोचम् ।
इन्द्रे कामा अयंसत । इति ।
अथ प्रत्यक्षकृता मध्यमपुरुषयोगाः । त्वमिति चैतेन सर्वनाम्ना ।
त्वमिन्द्र बलादधि ।
वि न इन्द्र मृधो जहि । इति
अथापि प्रत्यक्षकृताः स्तोतारो भवन्ति । परोक्षकृतानि स्तोतव्यानि ।
मा चिदन्यद्वि शंसत ।
कण्वा अभि प्र गायत ।
उप प्रेत कुशिकाश्चेतयध्वम् । इति ।
अथाध्यात्मिक्य उत्तमपुरुषयोगाः ।
अहमिति चैतेन सर्वनाम्ना ।
यथैतदिन्द्रो वैकुण्ठः । लबसूक्तम् । वागाम्भृणीयमिति ७.२
 
परोक्षकृताः प्रत्यक्षकृताश्च मन्त्रा भूयिष्ठाः । अल्पशश्च आध्यात्मिकाः ।
अथापि स्तुतिरेव भवति नाशीर्वादः ।
इन्द्रस्य॒ नु वीर्याणि प्र वोचम् । इति । यथैतस्मिन्त्सूक्ते ।
अथाप्याशीरेव न स्तुतिः ।
सुचक्षा अहमक्षीभ्यां भूयासम् । सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासम् । इति । तदेतद्बहुलमाध्वर्यवे याज्ञेषु च मन्त्रेषु ।
अथापि शपथाभिशापौ ।
अद्या मुरीय यदि यातुधानो अस्मि ।
अधा स घोरैर्दशभिर्वि यूयाः । इति ।
अथापि कस्यचिद्भावस्याचिख्यासा ।
न मृत्युरासीदमृतं न तर्हि ।
तम आसीत्तम॑सा गूळ्हमग्रे ।
अथापि परिदेवना कस्माच्चिद्भावात् ।
सुदेवो अद्य प्रपतेदनावृत् ।
न वि जानामि यदि वेदमस्मि । इति ।
अथापि निन्दाप्रशंसे ।
केवलाघो भवति केवलादी ।
भोजस्येदं पुष्करिणीव वेश्म ।
एवमक्षसूक्ते द्यूतनिन्दा च कृषिप्रशंसा च ।
एवमुच्चावचैरभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ति ७.३

तद्येऽनादिष्टदेवता मन्त्रास्तेषु देवतोपपरीक्षा ।
यद्देवतः स यज्ञो वा यज्ञाङ्गं वा तद्देवता भवन्ति ।
अथान्यत्र यज्ञात्।
प्राजापत्या इति याज्ञिकाः ।
नाराशंसा इति नैरुक्ताः ।
अपि वा सा कामदेवता स्यात् ।
प्रायोदेवता वा ।
अस्ति ह्याचारो बहुलं लोके । देवदेवत्यमतिथिदेवत्यं पितृदेवत्यम् ।
याज्ञदैवतो मन्त्र इति ।
अपि ह्यदेवता देवतावत् स्तूयन्ते ।
यथाश्वप्रभृतीन्योषधिपर्यन्तानि । अथाप्यष्टौ द्वन्द्वानि । स न मन्येतागन्तूनिवार्थान् देवतानाम् । प्रत्यक्षदृश्यमेतद्भवति । माहाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते । एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति । अपि च सत्त्वानां प्रकृतिभूमभिर्ऋषयः स्तुवन्तीत्याहुः । प्रकृतिसार्वनाम्न्याच्च ।
इतरेतरजन्मानो भवन्ति । इतरेतरप्रकृतयः ।
कर्मजन्मानः ।
आत्मजन्मानः ।
आत्मैवैषां रथो भवति । आत्माश्वः । आत्माऽऽयुधम् । आत्मेषवः । आत्मा सर्वं देवस्य ७.४

तिस्त्र एव देवता इति नैरुक्ताः ।
अग्निः पृथिवीस्थानः । वायुर्वेन्द्रो वान्तरिक्षस्थानः । सूर्यो द्युस्थानः ।
तासां माहाभाग्यादेकैकस्या अपि बहूनि नामधेयानि भवन्ति ।
अपि वा कर्मपृथक्त्वात् ।
यथा होताऽध्वर्युर्ब्रह्मोद्गातेत्यप्येकस्य सतः ।
अपि वा पृथगेव स्युः । पृथग्घि स्तुतयो भवन्ति ।
तथाभिधानानि ।
यथो एतत्कर्मपृथक्त्वादिति बहवोऽपि विभज्य कर्माणि कुर्युः ।
तत्र संस्थानैकत्वं संभोगैकत्वं चोपेक्षितव्यम् ।
यथा -- पृथिव्यां मनुष्याः पशवो देवा इति स्थानैकत्वम् । संभोगैकत्वं च दृश्यते । यथा पृथिव्याः पर्जन्येन च वाय्वादित्याभ्यां च संभोगः ।
अग्निना चेतरस्य लोकस्य ।
तत्रैतन्नरराष्ट्रमिव ७.५

अथाकारचिन्तनं देवतानाम् ।
पुरुषविधाः स्युरित्येकम् ।
चेतनावद्भिः स्तुतयो भवन्ति ।
तथाभिधानानि ।
अथापि पौरुषविधिकैरङ्गैः संस्तूयन्ते ।
ऋष्वा त इन्द्र स्थविरस्य बाहू ।
यत्संगृभ्णा मघवन्काशिरित्ते ।
अथापि पौरुषविधिकैर्द्रव्यसंयोगैः ।
आ द्वाभ्यां हरिभ्यामिन्द्र याहि ।
कल्याणीर्जाया सुरणं गृहे ते ।
अथापि पौरुषविधिकैः कर्मभिः ।
अद्धीन्द्र पिब च प्रस्थितस्य ।
आश्रुत्कर्ण श्रुधी हव॑म् । ७.६

अपुरुषविधाः स्युरित्यपरम् ।
अपि तु यद् दृश्यतेऽपुरुषविधं तत् । तद्यथाग्निर्वायुरादित्यः पृथिवी चन्द्रमा इति । यथो एतच्चेतनावद्वद्धि स्तुतयो भवन्तीत्यचेतनान्यप्येवं स्तूयन्ते । यथाक्षप्रभृतीन्योषधिपर्यन्तानि ।
यथो एतत्पौरुषविधिकैरङ्गैः संस्तूयन्त इत्यचेतनेष्वप्येतद्भवति ।
अभि क्रन्दन्ति हरितेभिरासभिः ।
इति ग्रावस्तुतिः ।
यथो एतत्पौरुषविधिकैर्द्रव्यसंयोगैरित्येतदपि तादृशमेव ।
सुखं रथं युयुजे सिन्धुरश्विनम् ।
इति नदीस्तुतिः ।
यथो एतत्पौरुषविधिकैः कर्मभिरित्येतदपि तादृशमेव ।
होतुश्चित्पूर्वे हविरद्यमाशत ।
इति ग्रावस्तुतिरेव । अपि वोभयविधाः स्युः ।
अपि वा पुरुषविधानामेव सतां कर्मात्मान एते स्युः । यथा यज्ञो यजमानस्य ।
एष चाख्यानसमयः ७.७

तित्र एव देवता इत्युक्तं पुरस्तात् ।
तासां भक्तिसाहचर्यं व्याख्यास्यामः ।
अथैतान्यग्निभक्तीनि ।
अयं लोकः, प्रातः सवनं, वसन्तः, गायत्री, त्रिवृत्स्तोमः, रथंतरं साम ।
ये च देवगणाः समाम्नाताः प्रथमे स्थाने । अग्नायी पृथिवीळेति स्त्रियः ।
अथास्य कर्म । वहनं च हविषाम्, आवाहनं च देवतानाम् ।
यच्च किंचिद्दार्ष्टिविषयिकमग्निकर्मैव तत् ।
अथास्य संस्तविका देवाः ।
इन्द्रः सोमः वरुणः पर्जन्यः ऋतवः ।
आग्नावैष्णवं च हविः।।
न त्वृक्संस्तविकी दशतयीषु विद्यते ।
अथाप्याग्नापौष्णं हविर्न तु संस्तवः ।
तत्रैतां विभक्तस्तुतिमृचमुदाहरन्ति ७.८

पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुव॑नस्य गोपाः ।
स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥
पूषा त्वेतः प्रच्यावयतु । विद्वान् । अनष्टपशुः । भुवनस्य गोपा इत्येष हि सर्वेषां भूतानां गोपायिता आदित्यः । स त्वैतेभ्यः परिददत्पितृभ्य इति सांशयिकस्तृतीयः पादः । पूषा पुरस्तात्तस्यान्वादेश इत्येकम् । अग्निरुपरिष्टात्तस्य प्रकीर्तनेत्यपरम् ।
अग्निर्देवेभ्यः सुविदत्रियेभ्यः ।
सुविदत्रं धनं भवति । विन्दतेर्वैकोपसर्गात् । ददातेर्वा स्याद् द्वयुपसर्गात् ७.९

अथैतानीन्द्रभक्तीनि ।
अन्तरिक्षलोकः, माध्यंदिनं सवनम्, ग्रीष्मः, त्रिष्टुप् , पञ्चदशस्तोमः, बृहत्साम । ये च
देवगणाः समाम्नाता मध्यमे स्थाने
याश्च स्त्रियः ।
अथास्य कर्म - रसानुप्रदानं वृत्रवधः । या च का च बलकृतिरिन्द्रकर्मैव तत् ।
अथास्य संस्तविका देवाः ।
अग्निः - सोमः - वरुणः - पूषा - बृहस्पतिः - र्ब्रह्मणस्पतिः - पर्वतः - कुत्सः - विष्णु - र्वायुः ।
अथापि मित्रो वरुणेन संस्तूयते ।
पूष्णा रुद्रेण च सोमः । अग्निना(वायुना- पाठभेदः) च पूषा ।
वातेन च पर्जन्यः ७.१० ।

अथैतान्यादित्यभक्तीनि ।
असौ लोकः तृतीयसवनम् । वर्षा जगती सप्तदशस्तोमः वैरूपं साम । ये च देवगणाः समाम्नाता उत्तमे स्थाने।
याश्च स्त्रियः ।
अथास्य कर्म - रसादानं रश्मिभिश्च रसधारणम् , यच्च किञ्चित्प्रवह्लितमादित्यकर्मैव तत् ।
चन्द्रमसा वायुना संवत्सरेणेति संस्तवः ।
एतेष्वेव स्थानव्यूहेष्वृतुच्छन्दःस्तोमपृष्ठस्य भक्तिशेषमनुकल्पयीत ।
शरदनुष्टबेकविंशस्तोमो वैराजं सामेति पृथिव्यायतनानि ।
हेमन्तः पङ्क्तिस्त्रिणवस्तोमः शाक्वरं सामेत्यन्तरिक्षायतनानि ।
शिशिरोऽतिच्छन्दास्त्रयस्त्रिंशस्तोमो रैवतं सामेति द्युभक्तीनि ७.११

मन्त्रा मननात् ।
छन्दांसि छादनात् । (स्तोमः स्तवनात्) ।
यजुर्यजतेः ।
साम सम्मितमृचा ।
अस्यतेर्वा ।
ऋचा समं मेन इति नैदानाः ।
गायत्री गायतेः स्तुतिकर्मणः ।
त्रिगमना वा विपरीता । गायतो मुखादुदपतत् । इति च ब्राह्मणम् ।
उष्णिगुत्स्नाता भवति । स्निह्यतेर्वा स्यात्कान्तिकर्मणः । उष्णीषिणी वेत्यौपमिकम् । उष्णीषं स्नायतेः । ककुप् ककुभिनी भवति । ककुप् च कुब्जश्च कुजतेर्वा । उब्जतेर्वा ।
अनुष्टबनुष्टोभनात् । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति । इति च ब्राह्मणम् ।
बृहती परिबर्हणात् । पङ्क्तिः पञ्चपदा । त्रिष्टुप् स्तोभत्युत्तरपदा ।
का तु त्रिता स्यात् । तीर्णतमं छन्दः । त्रिवृद्वज्रः । तस्य स्तोभतीति वा ।
यत् त्रिरस्तोभत् तत् त्रिष्टुभस्त्रिष्टुप्त्वम् । इति विज्ञायते ७.१२

जगती गततमं छन्दः । जलचरगतिर्वा ।
गल्गल्यमानोऽसृजत् । इति च ब्राह्मणम् ।
विराड्विराजनाद्वा । विराधनाद्वा । विप्रापणाद्वा ।
विराजनात्संपूर्णाक्षरा । विराधनादूनाक्षरा । विप्रापणादधिकाक्षरा ।
पिपीलिकमध्येत्यौपमिकम् । पिपीलिका पेलतेर्गतिकर्मणः ।
इतीमा देवता अनुक्रान्ताः । सूक्तभाजः । हविर्भाजः ।
ऋग्भाजश्च भूयिष्ठाः । काश्चिन्निपातभाजः ।
अथोताभिधानैः संयुज्य हविश्चोदयति ।
इन्द्राय वृत्रघ्ने । इन्द्राय वृत्रतुरे। इन्द्रायाँहोमुच इति ।
तान्यप्येके समामनन्ति । भूयांसि तु समाम्नानात् ।
यत्तु संविज्ञानभूतं स्यात्प्राधान्यस्तुति तत्समामने ।
अथोत कर्मभिर्ऋषिर्देवताः स्तौति । वृत्रहा । पुरन्दरः । इति ।
तान्यप्येके समामनन्ति । भूयांसि तु समाम्नानात् । व्यञ्जनमात्रं तु तत् तस्याभिधानस्य भवति ।
यथा - ब्राह्मणाय बुभुक्षितायौदनं देहि । स्नातायानुलेपनम् । पिपासते पानीयमिति ७.१३

अथातोऽनुक्रमिष्यामः ।
अग्निः पृथिवीस्थानः । तं प्रथमं व्याख्यास्यामः ।
अग्निः कस्मात् । अग्रणीर्भवति । अग्रं यज्ञेषु प्रणीयते ।
अङ्गं नयति सन्नममानः । अक्नोपनो भवतीति स्थौलाष्ठीविः ।
न क्नोपयति न स्नेहयति । त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिः । इतात् । अक्ताद्दग्धाद्वा । नीतात् । स खल्वेते- रकारमादत्ते, गकारमनक्तेर्वा दहतेर्वा, नीः परः । तस्यैषा भवति ७.१४

अग्निमीळे पुरोहितं य॒ज्ञस्य॑ देवमृत्विजम् ।
होतारं रत्नधातमम् ॥
अग्निमीळेऽग्निं याचामि । ईळिरध्येषणाकर्मा । पूजाकर्मा वा । पुरोहितो व्याख्यातो यज्ञश्च । देवो दानाद्वा । दीपनाद्वा । द्योतनाद्वा । द्युस्थानो भवतीति वा । यो देवः सा देवता । होतारं ह्रातारम् । जुहोतेर्होतेत्यौर्णवाभः । रत्नधातमं रमणीयानां धनानां दातृतमम् । तस्यैषापरा भवति ७.१५

अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत ।
स दे॒वाँ एह वक्षति ॥
अग्निर्यः पूर्वैर्ऋषिभिरीळितव्यो वन्दितव्योऽस्माभिश्च नवतरैः स देवानिहावहत्विति ।
स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी अग्नी उच्येते । ततो नु मध्यमः ७.१६

अभि प्रवन्तु समनेव योषाः कल्याण्य १ : स्मय॑मानासो अग्निम् ।
घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
अभिनमन्त समनस इव योषाः । समनं समननाद्वा । संमाननाद्वा । कल्याण्यः । स्मयमानासः । अग्निमित्यौपमिकम् । घृतस्य धारा उदकस्य धाराः समिधो नसन्त । नसतिराप्नोतिकर्मा वा । नमतिकर्मा वा । ता जुषाणो हर्यति जातवेदाः । हर्यतिः प्रेप्साकर्मा । विहर्यतीति ।
समुद्रादूर्मिर्मधुमाँ उदारत् । इत्यादित्यमुक्तं मन्यन्ते । समुद्राद्ध्येषोऽद्भ्य उदेति । इति च ब्राह्मणम् । अथापि ब्राह्मणं भवति ।
अग्निः सर्वा देवताः । इति । तस्योत्तरा भूयसे निर्वचनाय ७.१७

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मा॑न् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
इममेवाग्निं महान्तं आत्मानं बहुधा मेधाविनो वदन्ति । इन्द्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मन्तम् । दिव्यो दिविजः । गरुत्मान् गरणवान् । गुर्वात्मा । महात्मेति वा ।
यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निः ।
निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते ७.१८

जातवेदाः कस्मात् । जातानि वेद । जातानि वैनं विदुः । जाते जाते विद्यत इति वा । जातवित्तो वा । जातधनः । जातविद्यो वा जातप्रज्ञानः ।
यतज्जातः पशूनविन्दत इति तज्जातवेदसो जातवेदस्त्वम् । इति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसर्पन्ति । इति च । तस्यैषा भवति ७.१९

[]जातवेदसे सुनवाम सोम॑मरातीयतो नि दहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य॒ग्निः ॥
(जातवेदस इति जातवेदस्यां वैवं जातवेदसेऽर्चाय सुनवाम सोममिति । प्रसवायाभिषवाय सोमं राजानममृतमरातीयतो यज्ञार्थमिति स्मोः । निदहाति निश्चयेन दहति भस्मीकरोति । सोमो दददित्यर्थः । स नः पर्षदति दुर्गाणि विश्वानि दुर्गमानि स्थानानि नावेव सिन्धुं नावा सिन्धुं सिन्धुं नावा नदीं जलदुर्गां महाकूलां तारयति । दुरितात्यग्निरिति दुरितानि तारयति । तस्यैषापरा भवति २) (प्रक्षिप्तम्)
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
इदं नो बर्हिरासदे ॥
प्रहिणुत जातवेदसं कर्मभिः समश्नुवानम् । अपि वोपमार्थे स्यात् । अश्वमिव जातवेदसमिति । इदं नो बर्हिरासीदत्विति ।
तदेतदेकमेव जातवेदसं गायत्रं तृचं द(दा)शतयीषु विद्यते ।
यत्तु किञ्चिदाग्नेयं तज्जातवेदसानां स्थाने युज्यते ।
स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी जातवेदसी उच्येते । ततो नु मध्यमः ।
अभि प्रवन्त समनेव योषाः । इति तत्पुरस्ताद् व्याख्यातम् ।
अथासावादित्यः ।
उदु त्यं जातवेदसम् । इति । तदुपरिष्टाद्व्याख्यास्यामः ।
यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निर्जातवेदाः । निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते ७.२०

वैश्वानरः कस्मात् । विश्वान्नरान्नयति । विश्व एनं नरा नयन्तीति वा । अपि वा विश्वानर एव स्यात् । प्रत्यृतः सर्वाणि भूतानि तस्य वैश्वानरः । तस्यैषा भवति ७.२१

वैश्वानरस्य॑ सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
इतो जातः सर्वमिदमभिविपश्यति । वैश्वानरः संयतते सूर्येण । राजा यः सर्वेषां भूतानामभिश्रयणीयस्तस्य वयं वैश्वानरस्य कल्याण्यां मतौ स्यामेति । तत्को वैश्वानरः । मध्यम इत्याचार्याः । वर्षकर्मणा ह्येनं स्तौति ७.२२

[]प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते ।
वैश्वानरो दस्युम॒ग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥
प्रब्रवीमि तत् । महित्त्वं माहाभाग्यम् । वृषभस्य वर्षितुरपाम् । यं पूरवः पूरयितव्या मनुष्याः । वृत्रहणं मेघहनम् । सचन्ते सेवन्ते वर्षकामाः । दस्युर्दस्यतेः । क्षयार्थात् । उपदस्यन्त्यस्मिन्रसाः । उपदासयति कर्माणि । तमग्निर्वैश्वानरो घ्नन् । अवाधूनोदपः काष्ठा अभिनत् । शम्बरं मेघम् । अथासावादित्य इति पूर्वे याज्ञिकाः । एषां लोकानां रोहेण सवनानां रोह आम्नातः । रोहात्प्रत्यवरोहश्चिकीर्षितः । तामनुकृतिं होताग्निमारुते शस्त्रे वैश्वानरीयेण सूक्तेन प्रतिपद्यते । सोऽपि च स्तोत्रियमाद्रियेत । आग्नेयो हि भवति । तत आगच्छति मध्यमस्थाना देवता । रुद्रं च मरुतश्च ।
ततोऽग्निमिहस्थानमत्रैव स्तोत्रियं शंसति ।
अथापि वैश्वानरीयो द्वादशकपालो भवति । एतस्य हि द्वादशविधं कर्म । अथापि ब्राह्मणं भवति - असौ वा आदित्योऽग्निर्वैश्वानरः । इति ।
अथापि निवित्सौर्यवैश्वानरी भवति ।
आ यो द्यां भात्या पृथिवीम् । इति ।
एष हि द्यावापृथिव्यावाभासयति ।
अथापि छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवति ।
दिवि पृष्ठो अरोचत । इति ।
एष हि दिवि पृष्टो अरोचतेति ।
अथापि हविष्पान्तीयं सूक्तं सौर्यवैश्वानरं भवति ।
अयमेवाग्निर्वैश्वानर इति शाकपूणिः । विश्वानरावित्यप्येते उत्तरे
ज्योतिषी । वैश्वानरोऽयं यत् ताभ्यां जायते । कथं त्वयमेताभ्यां जायत इति । यत्र वैद्युतः शरणमभिहन्ति यावदनुपात्तो भवति मध्यमधर्मैव तावद् भवत्युदकेन्धनः शरीरोपशमनः । उपादीयमान एवायं सम्पद्यत उदकोपशमनः शरीरदीप्तिः ।
अथादित्यात् । उदीचि प्रथमसमावृत्त आदित्ये कंसं वा मणिं वा परिमृज्य प्रतिस्वरे यत्र शुष्कगोमयमसंस्पर्शयन् धारयति तत्प्रदीप्यते । सोऽयमेव सम्पद्यते ।
अथाप्याह । वैश्वानरो यतते सूर्येण । इति । न च पुनरात्मनात्मा संयतते । अन्येनैवान्यः संयतते । इत इममादधात्यमुतोऽमुष्य रश्मयः प्रादुर्भवन्ति । इतोऽस्यार्चिषस्तयोर्भासोः संसङ्गं दृष्ट्वैवमवक्ष्यत् । अथ यान्येतान्यौत्तमिकानि सूक्तानि भागानि वा सावित्राणि वा सौर्याणि वा पौष्णानि वा वैष्णवानि वा वैश्वदेव्यानि वा तेषु वैश्वानरीया प्रवादा अभविष्यन् । आदित्यकर्मणा चैनमस्तोष्यन्निति । उदेषीति अस्तमेषीति । विपर्येषीति । आग्नेयेष्वेव हि सूक्तेषु वैश्वानरीयाः प्रवादा भवन्ति । अग्निकर्मणा चैनं स्तौतीति । वहसीति । पचसीति । दहसीति । यथो एतद्वर्षकर्मणा ह्येनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते ।
समानमेतदुदकमुच्चैत्यव चाहभिः ।
भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य॒ग्नयः ॥
इति सा निगदव्याख्याता ७.२३

[]कृष्णं नियानं हर॑यः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आ ववृत्रन्त्सदनादृतस्यादिद् घृतेन पृथिवी व्युद्यते।।
कृष्णं निरयणं रात्रिः आदित्यस्य, हरयः सुपर्णा हरणा आदित्यरश्मयः । ते यदाऽमुतोऽर्वाञ्चः पर्यावर्तन्ते सहस्थानादुदकस्यादित्यात् । अथ घृतेनोदकेन पृथिवी व्युद्यते । घृतमित्युदकनाम । जिघर्तेः सिञ्चतिकर्मणः । अथापि ब्राह्मणं भवति ।
अग्निर्वा इतो वृष्टिं समीरयति धामच्छद्दिवि खलु वै भूत्वा वर्षति मरुतः सृष्टां वृष्टिं नयन्ति । यदा खलु वै असावादित्योऽग्निं रश्मिभिः पर्यावर्ततेऽथ वर्षति । इति ।
यथो एतद्रोहात् प्रत्यवरोहश्चिकीर्षित इत्याम्नायवचनादेतद् भवति ।
यथो एतद्वैश्वानरीयो द्वादशकपालो भवतीत्यनिर्वचनं कपालानि भवन्ति ।
अस्ति हि सौर्य एककपालः पञ्चकपालश्च ।
यथो एतद् ब्राह्मणं भवतीति बहुभक्तिवादीनि हि ब्राह्मणानि भवन्ति । पृथिवी वैश्वानरः । संवत्सरो वैश्वानरः । ब्राह्मणो वैश्वानरः । इति ।
यथो एतन्निवित्सौर्यवैश्वानरी भवतीत्यस्यैव सा भवति - यो विड्भ्यो मानुषीभ्यो दीदेत् । इत्येष हि विड्भ्यो मानुषीभ्यो दीप्यते ।
यथो एतच्छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति । जमदग्निभिराहुतः । इति जमदग्नयः प्रजमिताग्नयो वा । प्रज्वलिताग्नयो वा । तैरभिहुतो भवति ।
(यथो एतच्छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति । यमदग्निभिराहुतः । इति यमदग्नयः प्रयमिताग्नयो वा । प्रज्वलिताग्नयो वा । तैरभिहुतो भवति । - पाठभेदः))
यथो एतद्धविष्पान्तीयं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति ७.२४

[]हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।
तस्य भर्मणे भुव॑नाय देवा धर्मणे कं स्वधयापप्रथन्त ॥
हविर्यत्पानीयम् । अजरम् । सूर्यविदि । दिविस्पृशि ।
अभिहुतं जुष्टमग्नौ । तस्य भरणाय च भावनाय च धारणाय च । एतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त । अथाप्याह ७.२५

[]अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप॑ तस्थुर्ऋग्मिय॑म् ।
आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥
अपामुपस्थ उपस्थाने महत्यन्तरिक्षलोक आसीना महान्त इति वा, अगृह्णत माध्यमिका देवगणाः । विश इव राजानमुपतस्थुः । ऋग्मियमृग्मन्तमिति वा । अर्चनीयमिति वा पूजनीयमिति वा । अहरद्यं दूतो देवानां विवस्वत आदित्यात् । विवस्वान्विवासनवान् । प्रेरितवतः परागताद्वा अपि वा अस्याग्नेर्वैश्वानरस्य मातरिश्वानमाहर्तारमाह । मातरिश्वा वायुः । मातर्यन्तरिक्षे श्वसिति । मातर्याश्वनितीति वा । अथैनमेताभ्यां सर्वाणि स्थानान्यभ्यापादं स्तौति ७.२६

मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् ।
मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ।
मूर्धा मूर्तमस्मिन्धीयते । मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निः । ततः सूर्यो जायते प्रातरुद्यन्त्स एव । प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसंपादिनाम् । अपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसंचरति त्वरमाणः । तस्योत्तरा भूयसे निर्वचनाय ७.२७

स्तोमेन हि दिवि देवासो अग्निमीजनञ्छक्तिभी रोदसिप्राम् ।
तमू अकृण्वंस्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥
स्तोमेन हि यं दिवि देवा अग्निमजनयन् शक्तिभिः
कर्मभिर्द्यावापृथिव्योः आ पूरणम् । तमकुर्वंस्त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः ।।
यदस्य दिवि तृतीयं तदसावादित्यः । इति हि ब्राह्मणम् ।
तदग्नीकृत्य स्तौति ।
अथैनमेतयादित्यीकृत्य स्तौति ७.२८
यदेदेन॒मद॑धुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् ।
यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुव॑नानि विश्वा ॥
यदैनमदधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रम् । यदा चरिष्णू मिथुनौ प्रादुरभूतां सर्वदा सहचारिणौ । उषाश्चादित्यश्च । मिथुनौ कस्मात् । मिनोतिः श्रयतिकर्मा । थु इति नामकरणः । थकारो वा । नयतिः परः । वनिर्वा । समाश्रितावन्योन्यं नयतः । वनुतो वा । मनुष्यमिथुनावप्येतस्मादेव । मेथन्तावन्योन्यं वनुत इति वा ।
अथैनमेतयाग्नीकृत्य स्तौति ७.२९

यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।
आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥
यत्र विवदेते दैव्यौ होतारौ । अयं चाग्निरसौ च मध्यमः । कतरो नौ यज्ञे भूयो वेद । इत्याशक्नुवन्ति । तत्सहमदनं समानाख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यतीति ।
तस्योत्तरा भूयसे निर्वचनाय ७.३०

यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो ३ वसते मातरिश्वः ।
तावद्दधात्युप॑ य॒ज्ञमायन्ब्राह्मणो होतुरवरो नि षीदन् ॥
यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वा ।
अस्त्युपमानस्य संप्रत्यर्थे प्रयोगः । इहेव निधेहीति यथा । सुपर्ण्यः सुपतनाः । एता रात्रयो वसते मातरिश्वञ्ज्योतिर्वर्णस्य । तावदुपदधाति यज्ञमागच्छन् ब्राह्मणो होतास्याग्नेर्होतुरवरो निषीदन् । होतृजपस्त्वनग्निर्वैश्वानरीयो भवति । देव सवितरेतं त्वा वृणतेऽग्निं होत्राय सह पित्रा वैश्वानरेण । इति । इममेवाग्निं सवितारमाह । सर्वस्य प्रसवितारम् । मध्यमं वा । उत्तमं वा पितरम् । यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निर्वैश्वानरः । निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते भजेते ७.३१
अथातो दैवतमिन्द्रोदिवः परोक्षकृतास्तद्ये तिस्र एव देवता अथाकारचिन्तनमपुरुषविधास्तिस्र एव देवता इत्युक्तं पूषात्वेतोऽथैतानीन्द्रभक्तीन्यथैतान्यादित्यभक्तीनि मन्त्रा मननाज्जगती गततममथातोऽनुक्रमिष्यामोऽग्निमीलेऽग्निः पूर्वेभिरभिप्रवन्तेन्द्र मित्रं जातवेदाः कस्मात्प्रनूनं वै जातवेदसं वैश्वानरः कस्माद्वैश्वानरस्य प्रनू महित्वं कृष्णं नियानं हविष्पान्तमपामुपस्थे मूर्धाभुवः स्तोमेन यदेदेन यत्रावदेते यावन्मात्रमेकत्रिंशत् ।।
इत्युत्तरषट्के प्रथमोऽध्यायः इति निरुक्ते सप्तमोऽध्यायः

  1. १.९९.१
  2. १.५९.६
  3. १.१६४.४७
  4. १०.८८.१
  5. ऋ. ६,८.४