← सप्तमः सर्गः नैषधीयचरितम्‌
अष्टमः सर्गः
श्रीहर्षः
नवमः सर्गः →

अथाद्भुतेनास्तनिमेषमुद्रमुन्निद्रलोमानममुं युवानम् ।
दृशा पपुस्ताः सुदृशः समुस्ताः सुता च भीमस्य महीमघोनः ॥ ८.१ ॥

कियच्चिरं दैवतभाषितानि निह्नोतुमेनं प्रभवन्तु नाम ।
पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भिः ॥ ८.२ ॥

अपाङ्गमप्याप दृशोर्न रश्मिर्नलस्य भैमीमभिलष्य यावत् ।
स्मराशुगः सुभ्रुवि तावदस्यां प्रत्यङ्गमापुङ्खशिखं ममज्ज ॥ ८.३ ॥

यदक्रमं विक्रमशक्तिसाम्यादुपाचरद्द्वावपि पञ्चबाणः ।
कथं न वैमत्यममुष्य चक्रे शरैरनर्धार्धविभागभाग्भिः ॥ ८.४ ॥

तस्मिन्नलोऽसाविति सान्वरज्यत्क्षणं क्षणं क्वेह स इत्युदास्त ।
पुनः स्म तस्यां वलतेऽस्य चित्तं दूत्यादनेनाथ पुनर्न्यवर्ति ॥ ८.५ ॥

कयाचिदालोक्य नलं ललज्जे कयापि तद्भासि हृदा ममज्जे ।
तं कापि मेने स्मरमेव कन्या भेजे मनोभूवशभूयमन्या ॥ ८.६ ॥

कस्त्वं कुतो वेति न जातु शेकुस्तं प्रष्टुमप्यप्रतिभातिभारात् ।
उत्तस्थुरभ्युत्थितिवाञ्छयेव निजासनान्नेकरसाः कृशाङ्ग्यः ॥ ८.७ ॥

स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमप्यवाप ।
महारयं निर्झरिणीव वारामासाद्य धाराधरकेलिकालम् ॥ ८.८ ॥

तत्रैव मग्ना यदपश्यदग्रे नास्यादृगस्थाङ्गमयास्यदन्यत् ।
नादास्यदस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरान्निमेष ॥ ८.९ ॥

दृशापि सालिङ्गितमङ्गमस्य जग्राह नाग्रावगताङ्गहर्षैः ।
सङ्गान्तरेऽनन्तरमीक्षिते तु निवृत्य सस्मार न पूर्वदृष्टम् ॥ ८.१ ॥

हित्वैकमस्यापघनं विशन्ती तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ।
चिरं चकारोभयलाभलोभात्स्वभावलोला गतमागतं ॥ ८.११ ॥

निरीक्षितं चाङ्गमवीक्षितं च दृशा पिबन्ती रभसेन तस्य ।
समानमानन्दमियं दधाना विवेद भेदं न विदर्भसुभ्रुः ॥ ८.१२ ॥

सूक्ष्मे घने नैषधकेशपाशे निपत्य निस्पन्दतरीभवद्भ्याम् ।
तस्यानुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम् ॥ ८.१३ ॥

भूलोकभर्तुर्मुखपाणिपादपद्मैः परीरम्भमवाप्य तस्य ।
दमस्वसुर्दृष्टिसरोजराजिश्चिरं न तत्याज सबन्धुबन्धम् ॥ ८.१४ ॥

तत्कालमानन्दमयीभवन्ती भवत्तरानिर्वचनीयमोहा ।
सा मुक्तसंसारिदशारसाभ्यां द्विस्वादमुल्लासमभुङ्क्त मिष्टम् ॥ ८.१५ ॥

दूते नलश्रीभृति भाविभावा कलङ्किनीयं जनि मेति नूनम् ।
न संव्यधान्नैषाधकायमायं विधिः स्वयंदूतमिमां प्रतीन्द्रम् ॥ ८.१६ ॥

पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाणमास्ते यदघेऽपि धावत् ।
तच्चिन्ति चित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणिद्धि ॥ ८.१७ ॥

सालीकदृष्टे मदनोन्मदिष्णुर्यथाप शालीनतमा न मौनम् ।
तथैव तथ्येऽपि नले न लेभे मुग्धेषु कः सत्यमृषाविवेकः ॥ ८.१८ ॥

व्यर्थीभवद्भावपिधानयत्ना स्वरेण साथ श्लथगद्गदेन ।
सखीचये साध्वसबद्धवाचि स्वयं तमूचे नमदाननेन्दुः ॥ ८.१९ ॥

नत्वा शिरोरत्नरुचापि पाद्यं संपाद्यमाचारविदातिथिभ्यः ।
प्रियाक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः ॥ ८.२ ॥

स्वात्मापि शीलेन तृणं विधेयं देया विहायासनभूर्निजापि ।
आनन्दबाष्पैरपि कल्प्यमम्भः पृच्छा विधेया मधुभिर्वचोभिः ॥ ८.२१ ॥

पदोपहोरेऽनुपनम्रतापि संभाव्यतेऽपां त्वरयापराधः ।
तत्कर्तुमर्हाञ्जलिसञ्जनेन स्वसंभृतिः प्राञ्जलतापि तावत् ॥ ८.२२ ॥

पुरा परित्यज्य मयात्यसर्जि स्वमासनं तत्किमिति क्षणं न ।
अनर्हमप्येतदलंक्रियेत प्रयातुमीहा यदि चान्यतोऽपि ॥ ८.२३ ॥

निवेद्यतां हन्त समापयन्तौ शिरीषकोषम्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ ८.२४ ॥

अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ ८.२५ ॥

तीर्णः किमर्णोनिधिरेव नैष सुरक्षितेभूदिह यत्प्रवेशः ।
फलं किमेतस्य तु साहसस्य न तावदद्यापि विनिश्चिनोमि ॥ ८.२६ ॥

तव प्रवेशे सुकृतानि हेतुर्मन्ये मदक्ष्णोरपि तावदत्र ।
न लक्षितो रक्षिभटैर्यदाभ्यां पीतोऽसि तन्वा जितपुष्पधन्वा ॥ ८.२७ ॥

यथा कृतिः काचन ते यथावा दौवारिकान्धंकरणी च शक्तिः ।
रुच्यो रुचीभिर्जितकाञ्चनीभिस्तथासि पीयूषभुजां सनाभिः ॥ ८.२८ ॥

न मन्मथस्त्वं स हि नास्तिमूर्तिर्न चाश्विनेयः स हि नाद्वितीयः ।
चिह्नैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥ ८.२९ ॥

आलोकतृप्तीकृतलोक यस्त्वामसूत पीयूषमयूखमेनम् ।
कः स्पर्धितुं धावति साधु सार्धमुदन्वता नन्वयमन्ववायः ॥ ८.३ ॥

भूयोऽपि बाला नलसुन्दरं तं मत्वामरं रक्षिजनाक्षिबन्धात् ।
आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियास्यास्तुतव स्तुतः सा ॥ ८.३१ ॥

वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् ।
खलत्वमल्पीयसि जल्पिते तु तदस्तु बन्दिभ्रमभूमितैव ॥ ८.३२ ॥

कंदर्प एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्म ।
चण्डीशचण्डाक्षिहुताशकुण्डे जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥ ८.३३ ॥

शोभायशोभिर्जितशैवशैलं करोषि लज्जागुरुमौलिमैलम् ।
दस्रौ हठश्रीहरणादुदस्रौ कंदर्पमप्युज्झितरूपदर्पम् ॥ ८.३४ ॥

अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः प्लवन्ते ॥ ८.३५ ॥

भवत्पदाङ्गुष्ठमपि श्रिता श्रीर्ध्रुवं न लब्धा कुसुमायुधेन ।
रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुरास्ते नखवेषधारी ॥ ८.३६ ॥

राजा द्विजानामनुमासभिन्नः पूर्णां तनूकृत्य तनूं तपोभिः ।
कुहूषु दृश्येतरतां किम्त्य सायुज्यमाप्नोति भवन्मुखस्य ॥ ८.३७ ॥

कृत्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोर्मृगस्य ।
अदूरजाग्रद्विदरप्रणालीरेखामयच्छद्विधिरर्धचन्द्रम् ॥ ८.३८ ॥

मुग्धः स मोहात्सुभगान्न देहाद्दद्भवद्भ्रूरचनाय चापम् ।
भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदातदाभूत् ॥ ८.३९ ॥

मृगस्य नेत्रद्वितयं तवास्ये विधौ विधुत्वानुमितस्य दृश्यम् ।
तस्यैव चञ्चत्कचपाशवेषः पुच्छः स्फुरच्चामरगुच्छ एषः ॥ ८.४ ॥

आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी ।
तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभातिवादः ॥ ८.४१ ॥

त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाशीलि शिलोञ्छवृत्तिः ।
आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण ॥ ८.४२ ॥

आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् ।
त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥ ८.४३ ॥

मही कृतार्था यदि मानवोऽसि जितं दिवा यद्यमरेषु कोऽपि ।
कुलं त्वयालंकृतमौरगं चेन्नाधोऽपि कस्योपरि नागलोकः ॥ ८.४४ ॥

सेयं न धत्तेऽनुपपत्तिमुच्चैर्मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ।
ममौ स भद्रं चुलुके समुद्रस्त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥ ८.४५ ॥

संसारसिन्धावनुबिम्बमत्र जागर्ति जाने तव वैरसेनिः ।
बिम्बानुबिम्बौ हि विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः ॥ ८.४६ ॥

इयत्कृतं केन महीजगत्यामहो महीयः सुकृतं जनेन ।
पादौ यमुद्दिश्य तवापि पद्यारजःसु पद्मस्रजमारभेते ॥ ८.४७ ॥

ब्रवीति ते किं किमियं न जाने संदेहदोलामवलम्ब्य संवित् ।
कस्यापि धन्य्स्य गृहातिथिस्त्वमलीकसंभावनयाथवालम् ॥ ८.४८ ॥

प्राप्तैव तावत्तव रूपसृष्तिं निपीय दृष्टिर्जनुषः फलं मे ।
अपि श्रुती नामृतमाद्रियेतां तयोः प्रसादीकुरुषे गिरं चेत् ॥ ८.४९ ॥

इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा ।
कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥ ८.५ ॥

अमुज्जदाकण्ठमंसौ सुधासु प्रियं प्रियाया वचनं निपीय ।
द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मि(न्मृ)ष्टता नेष्टमुखे त्वमेया ॥ ८.५१ ॥

पौरस्त्यशैलं जनतोपनीतां गृह्णन्यथाह्नः पतिरर्घ्यपूजाम् ।
तथातिथेयीमथ संप्रतीच्छन्प्रियार्पितामासनमाससाद ॥ ८.५२ ॥

अयोधि तद्धैर्यमनोभवाभ्यां तामेव भैमीमवलम्ब्य भूमिम् ।
आह स्म यत्र स्मरचापमन्तश्छिन्नं भ्रुवौ तज्जयभङ्गवार्ताम् ॥ ८.५३ ॥

अथ स्मराज्ञामवधीर्य धैर्यादूचे स तद्वागुपवीणितोऽपि ।
विवेकधाराशतधौतमन्तः सतां न कामः कलुषीकरोति ॥ ८.५४ ॥

हरित्पतीनां सदसः प्रतीहि त्वदीयमेवातिथिमागतं माम् ।
वहन्तमन्तर्गुरुणादरेण प्राणानिव स्वःप्रभुवाचिकानि ॥ ८.५५ ॥

विरम्यतां भूतवती सपर्या निविश्यतामासनमुज्झितं किम् ।
या दूतता नः फलिना विधेया सैवातिथेयी पृथुरुद्भवित्री ॥ ८.५६ ॥

कल्याणि कल्यानि तवाङ्गकानि कच्चित्तमां चित्तमनाविलं ते ।
अलं विलम्बेन गिरं मदीयामाकर्णयाकर्णतटायताक्षि ॥ ८.५७ ॥

कौमारमारभ्य गणा गुणानां हरन्ति ते दिक्षु धृताधिपत्यान् ।
सुराधिराजं सलिलाधिपं च हुताशनं चर्यमनन्दनं च ॥ ८.५८ ॥

चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदमेति ।
तेषां रुचश्चौरतरेण चित्तं पञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥ ८.५९ ॥

तेषामिदानीं किल केवलं सा हृदि त्वदाशा विलसत्यजस्रम् ।
आशास्तु नासाद्य तनूरुदाराः पूर्वादयः पूर्ववदात्मदाराः ॥ ८.६ ॥

अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ।
प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ ८.६१ ॥

प्राचीं प्रयाते विरहादयं ते तापाच्च रूपाच्च शशाङ्कशङ्की ।
परापराधैर्निदधाति भानौ रुषारुणं लोचनवृन्दमिन्द्रः ॥ ८.६२ ॥

त्रिनेत्रमाट्रेण रुषा कृतं यत्तदेव योऽद्यापि न संवृणोति ।
न वेद रुष्टेऽद्य सहस्रनेत्रे गन्ता स कामः खलु कामवस्थाम् ॥ ८.६३ ॥

पिकस्य वाङ्मात्राकृताद्व्यलीकान्न स प्रभुर्नन्दति नन्दनेऽपि ।
बालस्य चूडाशशिनोऽपराधान्नाराधनं शिलति शूलिनोऽपि ॥ ८.६४ ॥

तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रदृशां दिशन्ति ।
कुहूगिरश्चञ्चुपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ ८.६५ ॥

शरैः प्रसूनैस्तुदतः स्मरस्य स्मर्तुं स किं नाशनिना करोति ।
अभेद्यमस्याहह वर्म न स्यादनङ्गता चेद्गिरिशप्रसादः ॥ ८.६६ ॥

धृताधृतेस्तस्य भवद्वियोगादन्यान्यशय्यारचनाय लूनैः ।
अप्यन्यदारिद्र्यहराः प्रवालैजीता दरिद्रास्तरवोऽमराणाम् ॥ ८.६७ ॥

रवैर्गुणास्फालभवैः स्मरस्य स्वर्णाथकर्णौ बधिरावभूताम् ।
गुरोः शृणोतु स्मरमोहनिद्राप्रबोधदक्षाणि किमक्षराणि ॥ ८.६८ ॥

अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् ।
मधौमधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥ ८.६९ ॥

दमस्वसः सेयमुपैति तृष्णा हरेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।
दृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभार्तिमसौ बिभर्ति ॥ ८.७ ॥

अग्न्याहिता नित्यमुपासते यां देदीप्यमानां तनुमष्टामूर्तेः ।
आशापतिस्ते दमयन्ति सोऽपि स्मरेण दासीभवितुं न्यदेशि ॥ ८.७१ ॥

त्वद्गोचरस्तं खलु पञ्चबाणः करोति संताप्य तथा विनीतम् ।
स्वयं यथा स्वादिततप्तभूयः परं न संतापयिता स भूयः ॥ ८.७२ ॥

अदाहि यस्तेन दशार्धबाणः पुरापुरारेर्नयनालयेन ।
न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधमर्णः ॥ ८.७३ ॥

सोमाय कुप्यन्निव विप्रयुक्तः स सोममाचामति दूयमानम् ।
नामापि जागर्ति हि यत्र शत्रोस्तेजस्विनस्तं कतमे सहन्ते ॥ ८.७४ ॥

शरैरजस्रं कुसुमायुधस्य कदर्थ्यमानस्तरुणि त्वदर्थे ।
अभ्यर्चयद्भिर्विनिवेद्यमानादप्येष मन्ये कुसुमाद्बिभेति ॥ ८.७५ ॥

स्मरेन्धने वक्षसि तेन दत्ता संवर्तिका शैवलवल्लिचित्रा ।
रराज चेतोभवपावकस्य धूमाविला कीलपरम्परेव ॥ ८.७६ ॥

पुत्री सुहृद्येन सरोरुहाणां यत्प्रेयसी चन्दनवासिता दिक् ।
धैर्यं विभुः सोऽपि तयैव हेतोः स्मरप्रतापज्वलने जुहाव ॥ ८.७७ ॥

तं दह्यमानैरपि मन्मथैधं हस्तैरुपास्ते मलयः प्रवालैः ।
कृच्छ्रेऽप्यसौ नोज्झति तस्य सेवां सदा यदाशामवलम्बते यः ॥ ८.७८ ॥

स्मरस्य कीर्त्येव सितीकृतानि तद्दोःप्रतापैरिव तापितानि ।
अङ्गानि धत्ते स भवद्वियोगात्पाण्डूनि चण्डज्वरजर्जराणि ॥ ८.७९ ॥

यस्तन्वि भर्ता घुसृणेन सायं दिशः समालम्भनकौतुकिन्याः ।
तदा स चेतः प्रजिघाय तुभ्यं यदा गतो नैति निवृत्य पान्थः ॥ ८.८ ॥

तथा न तापाय पयोनिधीनामश्वामुखोत्थः क्षुधितः शिखावान् ।
निजः पतिः संप्रति वारिपोपि यथा हृदिस्थः स्मरतापदुःस्थः ॥ ८.८१ ॥

अत्प्रत्युत त्वन्मृदुबाहुवल्लीस्मृतिस्रजं गुम्फति दुर्विनीता ।
ततो विधत्तेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥ ८.८२ ॥

न्यस्तं ततस्तेन मृणालदण्डखण्डं बभासे हृदि तापभाजि ।
तच्चित्तमग्नैर्मदनस्य बाणैः कृतं शतच्छिद्रमिव क्षणेन ॥ ८.८३ ॥

इति त्रिलोकीतिलकेषु तेषु मनोभुवो विक्रमकामचारः ।
अमोघमस्त्रं भवतीमवाप्य मदान्धतानर्गलचापलस्य ॥ ८.८४ ॥

सारोत्थधारेव सुधारसस्य स्वयंवरः श्वो भविता तवेति ।
संतर्पयन्ती हृदयानि तेषां श्रुतिः श्रुती नाकजुषामयासीत् ॥ ८.८५ ॥

समं सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिकैर्मरुद्भिः ।
अनङ्गशौर्यानलतापदुःस्थैरथ प्रतस्थे हरितां मरुद्भिः ॥ ८.८६ ॥

अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन ।
क्षुधं च निर्वापयता तृषं च स्वादीयसाऽध्वा गमितः सुखं तैः ॥ ८.८७ ॥

प्रिया मनोभूशरदावदाहे देवीस्त्वदर्थेन निमज्जयद्भिः ।
सुरेषु सारैः क्रियतेऽधुना तैः पादार्पणानुग्रहभूरियं भूः ॥ ८.८८ ॥

अलंकृतासन्नमहीविभागैरयं जनस्तैरमरैर्भवत्याम् ।
अवापितो जङ्गमलेखलक्ष्मीं निक्षिप्य संदेशमयाक्षराणि ॥ ८.८९ ॥

एकैकमेते परिरभ्य पीनस्तनोपपीडं त्वयि संदिशन्ति ।
त्वं मूर्च्छतां नः स्मरभिल्लशल्यैर्मुदे विशल्यौषधिवल्लिरेधि ॥ ८.९ ॥

त्वत्कान्तिमस्माभिरयं पिपासन्मनोरथाश्वासनयैकयैव ।
निजः कटाक्षः खलु विप्रलभ्यः कियन्ति यावद्भण वासराणि ॥ ८.९१ ॥

निजे सृजास्मासु भुजे भजन्त्यावादित्यवर्गे परिवेषवेषम् ।
प्रसीद निर्वापय तापमङ्गैरनङ्गलीलालहरीतुषारैः ॥ ८.९२ ॥

दयस्व किं घातयसि त्वमस्माननङ्गचण्डालशरैरदृश्यैः ।
भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रैः ॥ ८.९३ ॥

त्वदर्थिनः सन्तु परस्सहस्राः प्राणास्तु नस्त्वच्चरणप्रसादः ।
विशङ्कसे कैतवनर्तितं चेदन्तश्चरः पञ्चशरः प्रमाणम् ॥ ८.९४ ॥

अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय ।
बहिस्त्वयालंक्रियतामिदानीमुरो मुरं विद्विषतः श्रियेव ॥ ८.९५ ॥

दयोदयश्चेतसि चेत्तवाभूदलंकुरु द्यां विफलो विलम्बः ।
भुवः स्वरादेशमथाचरामो भूमौ धृतिं यासि यदि स्वभूमौ ॥ ८.९६ ॥

धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि वितन्यमाना ।
तव प्रसादोपनते तु मौलौ पूजास्तु नस्त्वत्पदपङ्कजाभ्याम् ॥ ८.९७ ॥

स्वर्णैर्वितीर्णैः करवाम वामनेत्रे भवत्या किमुपासनासु ।
अङ्ग त्वदङ्गानि निपीतपीतदर्पाणि पाणिः खलु याचते नः ॥ ८.९८ ॥

वयं कलादा इव दुर्विदग्धं त्वद्गौरिमस्पर्धि दहेम हेम ।
प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु बभु ॥ ८.९९ ॥

सुधासरःसु त्वदनङ्गतापः शान्तो न नः किं पुनरप्सरःसु ।
निर्वाति तु त्वन्ममताक्षरेण सूनाशुगेषोर्मधुसीकरेण ॥ ८.१ ॥

खण्डः किमु त्वद्गिर एव खण्डः किं शर्करा तत्पथशर्करैव ।
कृशाङ्गि तद्भङ्गिरसोत्थकच्छतृणं न दिक्षु प्रथितं तदिक्षुः ॥ ८.१०१ ॥

ददाम किं ते सुधयाऽधरेण त्वदास्य एव स्वयमास्यते हि ।
चन्द्रं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि ॥ ८.१०२ ॥

प्रिये वृणीष्वामरभावमस्मदिति त्रपाकृद्वचनं न किं नः ।
त्वत्पादपद्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः ॥ ८.१०३ ॥

नास्माकमस्मान्मदनापमृत्योस्त्राणाय पीयूषरसायनानि ।
प्रसीद तस्मादधिकं निजं तु प्रयच्छ पातुं रदनच्छदं नः ॥ ८.१०४ ॥

पृष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुनाऽभूद्धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।
भ्रूभ्यां ते तन्वि धन्वी भवतु तव सितैर्जैत्रभल्लः स्मितैः स्तादस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ८.१०५ ॥

स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं तन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरा लङ्घितासि ॥ ८.१०६ ॥

इति धृतसुरसार्थवाचिकस्रङ्निजरसनातलपत्त्रहारकस्य ।
सफलय मम दूततां वृणीष्व स्वयमवधार्य दिगीशमेकमेषु ॥ ८.१०७ ॥

आनन्दयेन्द्रमथ मन्मथमग्नमग्निं केलीभिरुद्धर तनूदरि नूतनाभिः ।
आसादयोदितदयं शमने मनो वा नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥ ८.१०८ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ ८.१०९ ॥