← चतुर्दशः सर्गः नैषधीयचरितम्‌
पञ्चदशः सर्गः
श्रीहर्षः
षोडशः सर्गः →

अथोपकार्या निषधावनीपतिर्निजामयासीद्वरणस्रजाञ्चितः ।
वसूनि वर्षन्सुबहूनि बन्दिनां विशिष्यभैमीगुणकीर्तनाकृताम् ॥ १५.१ ॥

तथा पथि त्यागमयं वितीर्णवान्यथातिभाराधिगमेन मागधैः ।
तृणीकृतं रत्ननिकाय मुच्चकैश्चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥ १५.२ ॥

त्रपास्य न स्यात्सदसि स्त्रियान्वयात्कुतोऽतिरूपः सुखभाजनं जनः ।
अमूदृशी तत्कविबन्दिवर्णनैरवाक्कृता राजकरञ्जिलोकवाक् ॥ १५.३ ॥

अदोषतामेव सतां विवृण्वते द्विषां मृषादोषकणाधिरोपणाः ।
न जातु सत्ये सति दूषाणे भवेदलीकमाधातुमवद्यमुद्यमः ॥ १५.४ ॥

विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्नवरोधमात्मनः ।
शशंस देवीमनुजातसंशयां प्रतीच्छ जामातरमुत्सुके नलम् ॥ १५.५ ॥

तनुत्विषा यस्य तृणं स मन्मथा कुलश्रिया यः पवितास्मदन्वयम् ।
जगत्त्रयीनायकमेलके वरं सुतां परं वेद विवेक्तुमीदृशम् ॥ १५.६ ॥

सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः स्त्रीसमयस्पृशः क्रियाः ।
शृउतिस्मृतीनां तु वयं विदध्महे विधीनिति स्माह च निर्ययौ च सः ॥ १५.७ ॥

निरीय भूपेन निरीक्षितानना शशंस मौहूर्तिकसंसदंशकम् ।
गुणैररीणैरुदयास्तनिस्तुषां तदा स दातुं तनयां प्रचक्रमे ॥ १५.८ ॥

अथावदद्दूतमुखः स नैषधं कुलं च बाला च ममानुकम्प्यताम् ।
स पल्लवत्वद्य मनोरथाङ्क्रुरश्चिरेण नस्त्वच्चरणोदकैरिति ॥ १५.९ ॥

तथोत्थितं भीमवचःप्रतिध्वनिं निपीय दूतस्य स वक्त्रगह्वरात् ।
व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन्प्रदाय प्रजिघाय तं बहु ॥ १५.१ ॥

निपीतदूतालपितस्ततो नलं विदर्भभर्तागमयांबभूव सः ।
निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः ॥ १५.११ ॥

क्वचित्तदालेपनदानपण्डिता कमप्यहंकारमगात्पुरस्कृता ।
अलम्भि तुङ्गासनसंनिवेशनादपूपनिर्माणविदग्धयादरः ॥ १५.१२ ॥

मुखानि मुक्तामणितोरणोद्गतैर्मरीचिभिः पान्थविलासमाश्रितैः ।
पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि रेजिरे ॥ १५.१३ ॥

पथामनीयन्त तथाधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः ।
वितानतामातपनिर्भयास्तदा पटच्छिदाकालिकपुष्पजाः स्रजः ॥ १५.१४ ॥

विभूषणैः कञ्चुकिता बभुः प्रजा विचित्रचित्रैः स्नपितत्विषो गृहाः ।
बभूव तस्मिन्मणिकुट्टिमैः पुरे वपुः स्वमुर्व्याः परिवर्तितोपमम् ॥ १५.१५ ॥

तदा निसस्वानतमां घनं घनं ननाद तस्मिन्नितरां ततं ततम् ।
अवापुरुच्चैः सुषिराणि राणिताममानमानद्धमियत्तयाध्वनीत् ॥ १५.१६ ॥

विपञ्चिराच्छादि न वेणुभिर्न ते प्रणीतगीतैर्न च तेऽपि झर्झरैः ।
न ते हुहुक्केन न सोऽपि ढक्कया न मर्दलैः सापि न तेऽपि ढक्कया ॥ १५.१७ ॥

विचित्रवादित्रनिनादमूर्च्छितः सुदूरचारी जनतामुखारवः ।
ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः ॥ १५.१८ ॥

उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे ।
यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयांबभूव ताम् ॥ १५.१९ ॥

विजित्य दास्यादिव वारिहारितामवापितास्तत्कुचयोर्द्वयेन ताः ।
शिखामवाक्षुः सहकारशाखिनस्त्रपाभरम्लानिमिवानतैर्मुखैः ॥ १५.२ ॥

असौ मुहुर्जातजलाभिषेचना क्रमाद्दुकूलेन सितांशुनोज्ज्वला ।
द्वयस्य वर्षाशरदां तदातनीं सनाभितां साधु बबन्ध संध्यया ॥ १५.२१ ॥

पुरा प्रभिन्नाम्बुददुर्दिनीकृतां निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।
शिरोरुहौघेण घनेन वर्षता क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥ १५.२२ ॥

विरेजिरे तच्चिकुरोत्कराः किराः क्षाणं गलन्निर्मलवारिविप्रुषाम् ।
तमःसुहृच्चामरनिर्जयार्जिताः सिता वमन्तः खलु कीर्तिमुक्तिकाः ॥ १५.२३ ॥

म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्ज्वलीकृताः ।
अदभ्रमभ्राजत साश्मशाणनात्प्रकाशरोचिःप्रतिमेव हेमजा ॥ १५.२४ ॥

तदा तदङ्गस्य बिभर्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि ॥ १५.२५ ॥

अवापितायाः शुचिवेदिकान्तरं कलासु तस्याः सकलासु पण्डिताः ।
क्षणेन सख्यश्चिरशिक्षणैः स्फुटं प्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥ १५.२६ ॥

विनापि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिरदर्शि चाधिका ।
न भूषयैषाधिचकास्ति किं तु सानयेति कस्यास्तु विचारचातुरी विधाय ॥ १५.२७ ॥

बन्धूकपयोजपूजने कृतां विधोर्गन्धफलीबलिश्रियम् ।
निनिन्द लब्धाधरलोचनार्चनं मनःशिलाचित्रकमेत्य तन्मुखम् ॥ १५.२८ ॥

महीमधोनां मदनान्धतातमीतमःपटारम्भणतन्तुसंततिः ।
अबन्धि तन्मूर्धजपाशमञ्जरी कयापि धूपग्रहधूमकोमला ॥ १५.२९ ॥

पुनःपुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् ।
सखी स्मितैस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धजचामरं चिरात् ॥ १५.३ ॥

वलस्य कृष्टेव हलेन भाति या कलिन्दकन्या घनभङ्गभङ्गुरा ।
तदार्पितैस्तां करुणस्य कुड्नलैर्जहास तस्याः कुटिला कचच्छटा ॥ १५.३१ ॥

धृतैतया हाटकपट्टिकालिके बभूव केशाम्बुदविद्युदेव सा ।
मुखेन्दुसंबन्धवशात्सुधाजुषः स्थिरत्वमूहे नियतं तदायुषः ॥ १५.३२ ॥

ललाटिकासीमनि चूर्णकुन्तला बभुः स्फुटं भीमनरेन्द्रजन्मनः ।
मनःशिलाचित्रकदीपसंभवा भ्रामीभृतः कज्जलधूमवल्लयः ॥ १५.३३ ॥

अपाङ्गमालिङ्ग्य तदीयमुच्चकैरदीपि रेखा जनिताञ्जनेन या ।
अपाति सूत्रं तदिव द्वितीयया वयःश्रिया वर्धयितुं विलोचने ॥ १५.३४ ॥

अनङ्गलीलाभिरपाङ्गधाविनः कनीनिकानीलमणेः पुनः पुनः ।
तमिस्रवंशप्रभवेन रश्मिना स्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥ १५.३५ ॥

असेविषातां सुषमां विदर्भजादृशाववाप्याञ्जनरेखयाऽन्वयम् ।
भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण बाणीकृतयोः पयोजयोः ॥ १५.३६ ॥

तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी ।
विधिर्यदुद्धर्तुमियेष तत्तयोरदूरवर्तिक्षतता स्म शंसति ॥ १५.३७ ॥

विलोचनाभ्यामतिमात्रपीडिते वतंसनीलाम्बुरुहद्वयीं खलु ।
तयोः प्रतिद्वन्द्विधियाधिरोपयांबभूवतुर्भीमसुताश्रुती ततः ॥ १५.३८ ॥

धृतं वतंसोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविव ।
मनोभुवान्ध्यं गमितस्य पश्यतः स्थिते लगित्वा रसिकस्य कस्यचित् ॥ १५.३९ ॥

विदर्भपुत्रीश्रवणावतंसिकामणीमहःकिंशुककार्मुकोदरे ।
उदीतनेत्रोत्पलबाणसंभृतिर्नलं परं लक्ष्यमवैक्षत स्मरः ॥ १५.४ ॥

अनाचरत्तथ्यमृषाविचारणां तदाननं कर्णलतायुगेन किम् ।
बबन्ध जित्वा मणिकुण्डले विधू द्विचन्द्रबुद्ध्या कथितावसूयकौ ॥ १५.४१ ॥

अवादि भैमी परिधाप्य कुण्डले वयस्ययाभ्यामभितः समन्वयः ।
त्वदाननेन्दोः प्रियकामजन्मनि श्रयत्ययं दौरुधरीं धुरं ध्रुवम् ॥ १५.४२ ॥

निवेशितं यावकरागदीप्तये लगत्तदीयाधरसीम्नि सिक्थकम् ।
रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मणि ॥ १५.४३ ॥

स्वरेण वीणेत्यविशेषणं पुरा स्फुरत्तदीया खलु कण्ठकन्दली ।
अवाप्य तन्त्रीरथ सअप्त मुक्तिकासरानराजत्परिवादिनी स्फुटम् ॥ १५.४४ ॥

उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया ।
विरेजतुर्माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ॥ १५.४५ ॥

पदद्वयेऽस्या नवयावरञ्जना जनैस्तदानीमुदनीयतार्पिता ।
चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युतिः ॥ १५.४६ ॥

कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम् ।
स्फुटं सिषेव कुसुमेषुपावकः स रागचिह्नश्चरणौ न यावकः ॥ १५.४७ ॥

स्वयं तदङ्गेषु गतेषु चारुतां परस्परेणैव विभूषितेषु च ।
किमूचिरेऽलंकरणानि तानि तद्दृथैव तेषां करणं बभूव यत् ॥ १५.४८ ॥

क्रमाधिकामुत्तरमुत्तरं श्रियं पुपोष यां भूषणचुम्बनैरियम् ।
पुरः पुरस्तस्थुषि रामणीयके तया बबाधेऽवधिबुद्धिधोरणिः ॥ १५.४९ ॥

मणीसनाभौ मुकुरस्य मण्डले बभौ निजास्यप्रतिबिम्बदर्शिनी ।
विधोरदूरं स्वमुखं विधाय सा निरूपयन्तीव विशेषमेतयोः ॥ १५.५ ॥

जितस्तदास्येन कलानिधिर्दधे द्विचन्द्रधीसाक्षिकमायकायताम् ।
तथापि जिग्ये युगपत्सखीयुगप्रदर्शितादर्शबहूभविष्णुना ॥ १५.५१ ॥

किमालियुग्मार्पितदर्पणद्वये तदास्यमेकं बहु चान्यदम्बुजम् ।
हिमेषु निर्वाप्य निशासमाधिभिस्तदीयसालोक्यमितं व्यलोक्यत ॥ १५.५२ ॥

पलाशदामेतिमिलच्छिलीमुखैर्वृता विभूषामणिरश्मिकार्मुकैः ।
अलक्षि लक्षैर्धनुषामसौ तदा रतीशसर्वस्वतयाऽभिरक्षिता ॥ १५.५३ ॥

विशेषतीर्थैरिव जह्नुनन्दिनी गुणैरिवाजानिकरागभूमिता ।
जगाम भाग्यैरिव नीतिरुज्ज्वलैर्विभूषणैस्तत्सुषमा महार्धताम् ॥ १५.५४ ॥

नलात्स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षामदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥ १५.५५ ॥

अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम् ।
ततः प्रणम्राधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥ १५.५६ ॥

तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥ १५.५७ ॥

नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमवापिपन्कचान् ।
कलापलीलोपनिधिर्गरुत्त्यजः स यैरपालापि कलापिसंपदः ॥ १५.५८ ॥

पतत्त्रिणां द्राधिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यमलम्भि कुङ्नलैः ॥ १५.५९ ॥

अनर्ध्यरत्नौघमयेन मण्डितो रराज राजा मुकुटेन मूर्धनि ।
वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥ १५.६ ॥

नलात्स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षामदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥ १५.६१ ॥

अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवरक्षरस्रजाम् ।
ततः प्रणम्राधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषः ॥ १५.६२ ॥

तथैव तत्कालमथानुजीविभिः प्रसाधनासजनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥ १५.६३ ॥

नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमवापिपन्कचाण् ।
कलापलीलोपनिधिर्गरुत्त्यजः स यैरपालापि कलापिसंपदः ॥ १५.६४ ॥

पतत्त्रिणां द्राधिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यमलम्भि कुग्नलैः ॥ १५.६५ ॥

अनर्ध्यरत्नैघमयेन मण्डितो रराज राज मुकुटेन मूर्धति ।
वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥ १५.६६ ॥

नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः परिधिर्विधोर्बभौ ।
तदा शशाङ्काधिकरूपतां गते तदानने मातुमशक्नुवन्निव ॥ १५.६७ ॥

बभूव भैम्याः खलु मानसौकसं जिघांसतो धैर्यभरं मनोभुवः ।
उपभ्रु तद्वर्तुलचित्ररूपिणी धनुःसमीपे गुलिकेव संभृता ॥ १५.६८ ॥

अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना ।
श्रियं श्रिता काचन तारकासखी कृता शशाङ्कस्य तयाङ्कवर्तिनी ॥ १५.६९ ॥

न यावदग्निभ्रममेत्युदूढतां नलस्य भैमीति हरेर्दुराशया ।
स बिन्दुरिन्दुः प्रहितः किमस्य सा न वेति भाले पठितुं लिपीमिव ॥ १५.७ ॥

कपोलपालीजनिजानुबिम्बयोः समागमात्कुण्डलमण्डलद्वयी ।
नलस्य तत्कालमवाप चित्तभूरथ स्फुरच्चक्रचतुष्कचारुताम् ॥ १५.७१ ॥

श्रितास्य कण्ठं गुरुविप्रवन्दनाद्विनम्रमोलेश्चिबुकाग्रचुम्बिनी ।
अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥ १५.७२ ॥

यतोऽजनि श्रीर्बलवान्बलं द्विषन्बभूव यस्याजिषु वारणेन सः ।
अपूपुरत्तान्कमलार्थिनो घनान्समुद्रभावं स बभार तद्भुजः ॥ १५.७३ ॥

कृतार्थयन्नर्थिजनाननारतं बभूव तस्यामरभूरुहः करः ।
तदीयमूले निहितं द्वितीयवद्ध्रुवं दधे कङ्कणमालवालताम् ॥ १५.७४ ॥

रराज दोर्मण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः ।
मिषेण वर्षन्दशदिङ्मुखोन्मुखौ यशःप्रतापाववनीजयार्जितौ ॥ १५.७५ ॥

घने समस्तापघनावलम्बिनां विभूषणानां मणिमण्डले नलः ।
स्वरूपरेखामवलोक्य निष्फलीचकार सेवाचणदर्पणार्पणाम् ॥ १५.७६ ॥

व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणाऋपणाद्युतिः ।
अदर्शि विस्फारितरत्नलोचनैः परस्परेणेव विभूषणैरपि ॥ १५.७७ ॥

ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षितारिक्षितिभृज्जयद्रथः ।
नृपः पृथासूनुरिवाधिरूढवान्स जन्ययात्रामुदितः किरीटवान् ॥ १५.७८ ॥

विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्ज्वलम् ।
गृहाद्गृहादेत्य धृतप्रसाधना व्यराजयन्राजपथानथाधिकम् ॥ १५.७९ ॥

अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् ।
कुचेन तस्मै चलतेऽकरोत्पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥ १५.८ ॥

सखीं नलं दर्शयमानयाङ्कतो जवादुदस्तस्य करस्य कङ्कणे ।
विषज्य हारैस्त्रुटितैरतर्कितैः कृतं कयापि क्षणलाजमोक्षणम् ॥ १५.८१ ॥

लसन्नखादर्शमुखाम्बुजस्मितप्रसूनवाणीमधुपाणिपल्लवम् ।
यियासतस्तस्य नृपस्य जज्ञिरे प्रशस्तवस्तूनि तदेवयौवतम् ॥ १५.८२ ॥

करस्थताम्बूलजिघत्सुरेकिका विलोकनैकाग्रविलोचनोत्पला ।
मुखे निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी ॥ १५.८३ ॥

कयापि वीक्षाविमनस्कलोचने समाज एवोपपतेः समीयुषः ।
घनं सविघ्नं परिरम्भसाहसैस्तदा तदालोकनमन्वभूयत ॥ १५.८४ ॥

दिदृक्षुरन्या विनिमेषावीक्षणां नृणामयोग्यां दधती तनुश्रियम् ।
पदाग्रमात्रेण यदस्पृशन्महीं न तावता केवलमप्सरोऽभवत् ॥ १५.८५ ॥

विभूषणस्रंसनशंसनार्पितैः करप्रहारैरपि धूननैरपि ।
अमान्तमन्तः प्रसभं पुराऽपरा सखीषु संमापयतीव संमदम् ॥ १५.८६ ॥

वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीदृशाम् ॥ १५.८७ ॥

काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तास्वशङ्कन्त कान्ता मौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् ।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥ १५.८८ ॥

भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननी तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा ।
हरारब्धक्रोधेन्धनमदनसिंहासनमसावलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥ १५.८९ ॥

अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।
अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा जाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥ १५.९ ॥

अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् ।
व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥ १५.९१ ॥

मा जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसीं सेयं भद्रमचीकरन्मघवता न स्वं द्वितीयां शचीम् ।
कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यतामेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥ १५.९२ ॥

वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया नेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः ।
गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया गोयं भीमजयानुभूय भजतामद्वैतमद्य त्विषाम् ॥ १५.९३ ॥

स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभूदभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये ।
आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडयाप्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥ १५.९४ ॥

ताभिर्दृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महे यदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।
सा स्त्रीराट् पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैः सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥ १५.९५ ॥

वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिलक्षोणीचक्रशतक्रतौ निजगदे तद्बृत्तवृत्तक्रमैः ।
किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकं देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥ १५.९६ ॥

आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे तादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा ।
आत्मानं त्रिदशप्रसादफलताम् पत्ये विधायानया ह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥ १५.९७ ॥

इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रियाहंकुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः ।
सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥ १५.९८ ॥

शृईहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥ १५.९९ ॥