← पञ्चदशः सर्गः नैषधीयचरितम्‌
षोडशः सर्गः
श्रीहर्षः
सप्तदशः सर्गः →

वृतः प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः ।
पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥ १६.१ ॥

विभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः ।
मृगेक्षणानां समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥ १६.२ ॥

परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि ।
दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥ १६.३ ॥

नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया ।
अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसंपदा ॥ १६.४ ॥

विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः ।
दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्योपचिकाय तच्चयः ॥ १६.५ ॥

हरिद्विपद्वीपिभिरांशुकैर्नभोनभस्वदाध्मापनपीनितैरभूत् ।
तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनाम्बरवल्लिवेल्लिवेल्लितम् ॥ १६.६ ॥

भुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः ।
ददर्श दूतीमिव भीमजन्मनह् स तत्प्रतीहारमहीं महीपतिः ॥ १६.७ ॥

श्लथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा ।
प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतप्रश्निततूर्यनिःस्वना ॥ १६.८ ॥

विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः ।
अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्गमः ॥ १६.९ ॥

निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृतार्हणम् ।
विनीतमा द्वारत एव पद्गतां गतं तमैक्षिष्ट मुदा विदर्भराट् ॥ १६.१ ॥

अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः ।
सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः ॥ १६.११ ॥

यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः ।
शिवामथ स्वस्य शिवाय नन्दनां ददे पतिः सर्वविदे महीभृताम् ॥ १६.१२ ॥

असिस्वदद्यन्मधुपर्कमर्पितं स तद्व्यधात्तर्कमुदर्कदर्शिने ।
यदेष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदाकृत ॥ १६.१३ ॥

वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः ।
सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः ॥ १६.१४ ॥

विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल ।
विशङ्क्य सूत्रं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः ॥ १६.१५ ॥

सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः ।
ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् ॥ १६.१६ ॥

बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् ।
बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥ १६.१७ ॥

असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म ददाति भासुरम् ।
ददे हि तस्मै धवनामधारिणे स शंभुसंभोगनिमग्नयानया ॥ १६.१८ ॥

अधारि यः प्राङ्नहिषासुरद्विषा कृपाणमस्मै तमदत्त कूकुदः ।
अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन पराङ्गदारणः ॥ १६.१९ ॥

उवाह यः सान्द्रतराङ्गकाननः स्वशौर्यसूर्योदयपर्वतव्रतम्।
सनिर्झरः शाणनधौतधारया समूढसंध्यः क्षतशत्रुजासृजा ॥ १६.२ ॥

यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् ।
स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥ १६.२१ ॥

यदङ्गभूमी बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले ।
रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥ १६.२२ ॥

पुरैव तस्मिन्समदेशि तत्सुताभिकेन यः सौहृदनाटिनाग्निना ।
नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम् ॥ १६.२३ ॥

प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् ।
कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते ॥ १६.२४ ॥

महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम् ।
स तद्ददेऽस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥ १६.२५ ॥

जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय ददे मुदं न यः ।
ददद्दिदृक्षादरदासतां यथा तयैव तत्पांसुलकण्ठनालताम् ॥ १६.२६ ॥

दिवस्पतेरादरदर्शिनादरादढौकि यस्तं प्रति विश्वकर्मणा ।
तमेकमाणिक्यमयं महोन्नतं पतद्ग्रहं ग्राहितवान्नलेन सः ॥ १६.२७ ॥

नलेन ताम्बूलविलासितोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा ।
इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणचारुणश्चिरात् ॥ १६.२८ ॥

मयेन भीमं भगवन्तमर्चता नृपेति पूजा प्रभुनाम्नि या कृता ।
अदत्त भीमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनम् महत् ॥ १६.२९ ॥

छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं विसर्पति ।
न नीलकण्ठत्वमधास्यदत्र चेत् स कालकूटं भगवानभोक्ष्यत ॥ १६.३ ॥

विराध्य दुर्वाससमस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः ।
अदत्त तस्मै स मदच्छलात्सदा यमभ्रमातङ्गतयैव वर्षुकम् ॥ १६.३१ ॥

मदान्मदग्रे भवताथवा भिया परं दिगन्तादपि यात जीवत ।
इति स्म यो दिक्करिणः स्वकर्णयोर्विनैव वर्णस्रजमागतैर्गतैः ॥ १६.३२ ॥

बभार बीजं निजकीर्तये रदौ द्विषामकीर्त्यै खलु दानविप्लुषः ।
श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीमुपास्त यः ॥ १६.३३ ॥

न तेन वाहेषु विवाहदक्षिणीकृतेषु संख्यानुभवेऽभवत्क्षमः ।
न शातकुम्भेषु न मत्तकुम्भिषु प्रयत्नवान्कोऽपि न रत्नराशिषु ॥ १६.३४ ॥

करग्रहे वाम्यमधत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः ।
कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ॥ १६.३५ ॥

स्थिरा त्वमश्मेव भवेति मन्त्रवागनेशदाशास्य किमाशु तां ह्रिया ।
शिला चलेत्प्रेरणया नृणामपि स्थितेस्तु नाचालि बिडौजसापि सा ॥ १६.३६ ॥

प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधे विदर्भजाम् ।
जगाद विच्छिद्य पटं प्रयास्यतो नलादविश्वासमिवैष विश्ववित् ॥ १६.३७ ॥

ध्रुवावलोकाय तदुन्मुखभुवा निर्दिश्य पत्याभिदधे विदर्भजा ।
किमस्य न स्यादणिमाक्षिसाक्षिकस्तथापि तथ्यो महिमागमोदितः ॥ १६.३८ ॥

धवेन सादर्शि वधूररुन्धतीं सतीमिमां पश्य गतामिवाणुताम् ।
कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति ॥ १६.३९ ॥

प्रसूनता तत्करपल्लवस्थितैरुडुच्छविर्व्योमविहारिभिः पथि ।
मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्द्युतिः ॥ १६.४ ॥

तया प्रतीष्टाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् ।
ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता ॥ १६.४१ ॥

अपह्नुतः स्वेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।
दृशोरपि प्रस्रुतमस्रु सात्त्विकं घनैः समाधीयत धूमलङ्घनैः ॥ १६.४२ ॥

बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्त्वमवेक्ष्य तत्क्षणम् ।
जनेषु रोमाञ्चमितेषु मिश्रतां ययुस्तयोः कण्टककुड्मलश्रियः ॥ १६.४३ ॥

बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा ।
न कम्पसंपत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधा समेधितः ॥ १६.४४ ॥

दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः ।
महर्षिणेवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः ॥ १६.४५ ॥

सकौतुकागारमगात्पुरंध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः ।
अधात्सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना ॥ १६.४६ ॥

तथाशनाय निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया ।
विमुक्तसंभोगमशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम् ॥ १६.४७ ॥

कटाक्षणाज्जन्यजनैर्निजप्रजाः क्वचित्परीहारसमचीकर्त्तराम् ।
धराप्सरोभिर्वरयात्रयागतानभोजयद्भोजकुलाङ्कुरः क्वचित् ॥ १६.४८ ॥

स कंचिदूचे रचयन्तु तेमनोपहारमत्राङ्गरुचेर्यथोचितम् ।
पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् ॥ १६.४९ ॥

मुखेन तेत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमतिं खलाहसत् ।
वराङ्गभागः स्वमुखं मतोऽधुना स हि स्फुटं येन किलोपविश्यते ॥ १६.५ ॥

युवामिमे मे स्त्रितमे इतीरिणौ गले तथोक्ता निजगुच्छमेकिका ।
न भास्यदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः पराकृषत् ॥ १६.५१ ॥

नलाय वालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेऽर्पितात् ।
अहासि लोकैः सरटात्पटोज्झिनी भयेन जङ्घायतिलङ्घिरंहसः ॥ १६.५२ ॥

पुरःस्थलाङ्गूलमदात्खला वृसीमुपाविशत्तत्र ऋजुर्वरद्विजः ।
पुनस्तदुत्थाप्य निजामतेर्वदाऽहसच्च पश्चात्कृतपुच्छतत्प्रदा ॥ १६.५३ ॥

स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा ।
परेण पश्चान्निभृतं न्यधापयद्ददर्श चादर्शतलं हसन्खलु ॥ १६.५४ ॥

अथोपचारोद्धुरचारुलोचना विलासनिर्वासितधैर्यसंपदः ।
स्मरस्य शिल्पं वरवर्गविक्रिया विलोककं लोकमहासयन्मुहुः ॥ १६.५५ ॥

तिरोवलद्वक्त्रसरोजनालया स्मिते स्मितं यत्खलु यूनि बालया ।
तया तदीये हृदये निखाय तद्व्यधीयतासंमुखलक्ष्यवेधिता ॥ १६.५६ ॥

कृतं यदन्यत्करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया ।
हृदस्तदीयस्य तदेव कामुके जगाद वार्तामखिलां खलुं खलु ॥ १६.५७ ॥

जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितम् ।
पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणवञ्चनक्षणः ॥ १६.५८ ॥

युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः ।
श्लथोऽपि सख्यां परिधिः कलानिधौ दधावहो तं प्रति गाढबन्धताम् ॥ १६.५९ ॥

नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः ।
पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे न्यविक्षत ॥ १६.६ ॥

मुखं यदस्मायि विभुज्य सुभ्रुवा ह्रियं यदालम्ब्य नतास्यमासितम् ।
अवादि वा यन्मृदु गद्गदं युवा तदेव जग्राह तदाप्तिलग्नकम् ॥ १६.६१ ॥

विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिष्वदे ।
उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददृशे तदाननम् ॥ १६.६२ ॥

स तत्कुचस्पृष्टकचेष्टिदोर्लताचलद्दलाभव्यजनानिलाकुलः ।
अवाप नानानलजालशृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा ॥ १६.६३ ॥

अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन ।
यथा युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः ॥ १६.६४ ॥

पपौ न कोऽपि क्षममास्यमेलितं जलस्य गण्डूषमुदीतसंमदः ।
चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकाऋमुकभ्रुवः ॥ १६.६५ ॥

हरिन्मणेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः ।
भृतं न शाकैः प्रवितीर्णमस्ति वस्त्विषेदमेवं हरितेति बोधिताः ॥ १६.६६ ॥

ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्न विलोकयन्मुखम् ।
स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक् ॥ १६.६७ ॥

अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमाऋदवम् ।
रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः ॥ १६.६८ ॥

वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरश्चुम्बति सुन्दरे दृशा ।
स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनी ह्रीणतरा पराददे ॥ १६.६९ ॥

यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिर्ध्रुवं ततः ।
वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् ॥ १६.७ ॥

यदष्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते ।
अपि क्रतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै दधते सुधान्धसः ॥ १६.७१ ॥

अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥ १६.७२ ॥

न राजिकाराद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि ।
धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्धतालुभिः ॥ १६.७३ ॥

वियोगिदाहाय कटूभवत्त्विषस्तुषारभानोरिव खण्डमाहृतम् ।
सितं मृदु प्रागथ दाहदायि तत्खलः सुहृत्पूर्वमिवाहितस्ततः ॥ १६.७४ ॥

नवौ युवानौ निजभावगोपिनावभूमिषु प्राग्विहितभ्रमिक्रमः ।
दृशोर्विधत्तः स्म यदृच्छया किल त्रिभागमन्योन्यमुखे पुनः पुनः ॥ १६.७५ ॥

व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः ।
निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषजलैः किमश्रपि ॥ १६.७६ ॥

परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्धुमपि क्षणं प्रति ।
निमेषणेनैव कियच्चिरायुषा जनेषु यूनोरुदपादि निर्णयः ॥ १६.७७ ॥

अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे ।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥ १६.७८ ॥

क्रमेण कूरं स्पृशतोष्मणः पदं सितां च शीतां चतुरेण वीक्षिता ।
दधौ विदग्धारुणितेऽधरेऽङ्गुलीमनौचितीचिन्तनविस्मिता किल ॥ १६.७९ ॥

कियत्त्यजन्नोदनमानयन्कियत्करस्य पप्रच्छ गतागतेन याम् ।
अहं किमेष्यामि किमेष्यसीति सा व्यधत्त नम्रं किल लज्जयाननम् ॥ १६.८ ॥

यथामिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे ।
तथा विदग्धैः परिकर्मनिर्मितं विचित्रमेते परिहस्य भोजिताः ॥ १६.८१ ॥

नखेन कृत्वाधरसन्निभां निभाद्युवा मृदुव्यञ्जनमांसफालिकाम् ।
ददंश दन्तैः प्रशशंस तद्रसं विहस्य पश्यन्परिवेषिकाधरम् ॥ १६.८२ ॥

अनेकसंयोजनया तथाकृतेर्निकृत्य निष्पिष्य च तादृगर्जनात् ।
अमी कृताकालिकवस्तुविस्मयं जना बहु व्यञ्जनमभ्यवाहरन् ॥ १६.८३ ॥

पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणः ।
पुनः कर् कर्तुमना गलन्तिकां हसात्सखीनां सहसा न्यवर्तत ॥ १६.८४ ॥

युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् ।
चकार तन्नीविनिवेशिनं करं बभूव तच्च स्फुटकण्टकोत्करम् ॥ १६.८५ ॥

प्रलेहजस्नेहधृतानुबिम्बनां चुचुम्ब कोऽपि श्रितभोजनच्छलः ।
मुहुः परिस्पृश्य कराङ्गुलीमुखैस्ततो नु रक्तैः स्वमवापितैर्मुखम् ॥ १६.८६ ॥

अराधि यन्मीनमृगाजपत्त्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् ।
अशाकि लोकैः कुत एव जेमितुं न तत्तु संख्यातुमपि स्म शक्यते ॥ १६.८७ ॥

कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किंचनकुञ्चितभुवा ।
क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननयान्वकम्पि सः ॥ १६.८८ ॥

अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः ।
निपीय भृङ्गारकसङ्गि तत्र तैरवर्णि वारि प्रतिवारमीदृशम् ॥ १६.८९ ॥

त्वया विधातर्यदकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् ।
वृथेदमारम्भि तु सर्वतोमुखस्तथोचितः कर्तुंिदंपिबस्तव ॥ १६.९ ॥

सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते ।
सखि त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्ददतुः किलौदनम् ॥ १६.९१ ॥

इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
ध्रुवं मनोज्ञा व्यतरद्युदुत्तरं भिषेण भृङ्गारधृते करद्वयी ॥ १६.९२ ॥

अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शर्करा ।
हयद्विषद्बष्कयणीपयःसुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ॥ १६.९३ ॥

तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता ।
इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता ॥ १६.९४ ॥

ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सितयापि किं तया ।
इतीरिणे बिम्बफलं फलेच्छलाददायि बिम्बाधरयारुचेच्च तत् ॥ १६.९५ ॥

समं ययोरिङ्गितवान्वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् ।
अकारि नाकूतमवारि सा यया विदग्धयाऽरञ्जि तयैव भाववित् ॥ १६.९६ ॥

सखीं प्रति स्माह युवेङ्गितेक्षिणी क्रमेण तेऽयं क्षमते न दित्सुताम् ।
विलोम तद्व्यञ्जनमर्प्यते त्वया वरं किमस्मै न नितान्तमर्थिने ॥ १६.९७ ॥

समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वर्तुलयालयीकृतम् ।
अलंकृतं क्षीरवटैस्तदश्नतां रराज पाकार्पितगैरिकश्रिया ॥ १६.९८ ॥

चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बितां विटः ।
पुनःपुनः पानकपानकैतवाच्चकार तच्चुम्बनचुंकृतान्यपि ॥ १६.९९ ॥

घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली ।
चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा ॥ १६.१ ॥

कियद्बहु व्यञ्जनमेतदर्प्यते ममेति तृप्तेर्वदतां पुनःपुनः ।
अमूनि संख्यातुमसावढौकि तैश्छलेन तेषां कठिनीव भूयसी ॥ १६.१०१ ॥

विदग्धबालेङ्गितगुप्तिचातुरी प्रवह्लिकोत्पाटनपाटवे हृदः ।
निजस्य टीकां प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम् ॥ १६.१०२ ॥

घृतप्लुते भोजनभाजने पुरः स्फुरत्पुरंध्रिप्रतिबिम्बिताकृतेः ।
युवा निधायोरसि लड्डुकद्वयं नखैर्लिलेखाथ ममर्द निर्दयम् ॥ १६.१०३ ॥

विलोकिते रागितरेण सस्मितं ह्रियाथ वैमुख्यमिते सखीजने ।
तदालिरानीय कुतोऽपि शार्करीं करे ददौ तस्य विहस्य पुत्रिकाम् ॥ १६.१०४ ॥

निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः ।
अशक्नुविद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः ॥ १६.१०५ ॥

पृथक्प्रकारेङ्गितशंसिताशयो युवा ययोदासि तयापि तापितः ।
ततो निराशः परिभावयन्परामये तयातोषि सरोषायैव सः ॥ १६.१०६ ॥

पयः स्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी ।
पदं रुचेर्भोज्यभुजां भुजिक्रिया प्रिया बभूवोज्ज्वलकूरहारिणी ॥ १६.१०७ ॥

चिरं युवाकूतशतैः कृताऋथनश्चिरं सरोषेङ्गितया च निर्धुतः ।
सृजन्करक्षालनलीलयाञ्जलीनसेचि किंचिद्विधुताम्बुधारया ॥ १६.१०८ ॥

न षड्विधः षिङ्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः ।
अपारशृङ्गारमयः समुन्मिषन्भृशं रसस्तोषमधत्त सप्तमः ॥ १६.१०९ ॥

मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम् ।
दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः ॥ १६.११ ॥

अमीषु तथ्यानृतरत्नजातयोर्वराटराट्चारुनितान्तचारुणोः ।
स्वयं गृहाणैकमिहेत्युदीर्य तद्द्वयं ददौ शेषजिघृक्षवे हसन् ॥ १६.१११ ॥

इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः ।
द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि ॥ १६.११२ ॥

उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गीं परिणीय तां नलः ।
अथ प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना ॥ १६.११३ ॥

परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् ।
रथे स भैमीं स्वयमध्यरूरुहन्न तत्किलाश्लिक्षदिमां जनेक्षितः ॥ १६.११४ ॥

इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।
स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥ १६.११५ ॥

तथा किमाजन्मनिजाङ्कवर्धितां प्रहित्य पुत्रीं पितरौ विषेदतुः ।
विसृज्य तौ तं दुहितुः पतिं यथा विनीततालक्षगुणीभवद्गुणम् ॥ १६.११६ ॥

निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः ।
तडागकल्लोल इवानिलं तटाद्धृतानतिर्व्याववृते वराटराट् ॥ १६.११७ ॥

पितात्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः ।
अतः परं पुत्रि न कोऽपि तेऽहमित्युदस्रुरेष व्यसृजन्निजौरसीम् ॥ १६.११८ ॥

प्रियः प्रियैकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु ।
तथास्त तन्मातृवियोगवाडवः स तु प्रियप्रेममहाम्बुधावपि ॥ १६.११९ ॥

असौ महीभृद्बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि ।
भुवा कुरङ्गक्षणदन्तिचारयोर्बभार शोभां कृतपादसेवया ॥ १६.१२ ॥

तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया ।
विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः ॥ १६.१२१ ॥

मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् ।
ददर्श पश्यामिव नैषधः प्रियामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः ॥ १६.१२२ ॥

पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः ।
ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥ १६.१२३ ॥

अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः ।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ १६.१२४ ॥

कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥ १६.१२५ ॥

अथ पथि पथि लाजैरात्मनो बाहुवल्लीमुकुलकुलसकुल्यैः पूजयन्त्यो जयेति ।
क्षितिपतिमुपनेमुस्तं दधाना जनानाममृतजलमृणालीसौकुमाऋयं कुमार्यः ॥ १६.१२६ ॥

अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन ।
निखिलनगरसौधाट्टावलीचन्द्रशालाःक्षाणमिव निजसंज्ञांसान्वयामन्वभूवन् ॥ १६.१२७ ॥

निषधनृपमुखेन्दुश्रीसुधां सौधवातायनविवरगरश्मिश्रेणिनालोपनीताम् ।
पपुरसमपिपासापांसुलत्वोत्परागाण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥ १६.१२८ ॥

अवनिपतिपथाट्टस्त्रैणपाणिप्रवालस्खलितसुरभिलाजव्याजभाजःप्रतीच्छन् ।
उपरि कुसुमवृष्टीरेष वैमानिकानामभिनवकृतभैमीसौधभूमिं विवेश ॥ १६.१२९ ॥

इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस्तत् ।
दिवि दिविषदधीशाःकौतुकेनावलोक्य प्रणिदधुरिवगन्तुं नाकमानन्दसान्द्राः ॥ १६.१३ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महाकाव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥ १६.१३१ ॥

अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम् ।