नैष्कर्म्यसिद्धिः/चतुर्थोऽध्यायः

← तृतीयोऽध्यायः नैष्कर्म्यसिद्धिः
सुरेश्वरः

अथ चतुर्थोऽध्यायः ।

पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् ।

संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥ १॥

संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् ।

वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥ २॥

आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः ।

सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३॥

अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः ।

ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥

असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः ।

अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः ॥ ५॥

इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि ।

द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६॥

केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः

क्रियत इति । उच्यते ।

न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् ।

तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७॥

विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा ।

अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा ॥ ८॥

उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति ।

उच्यते । अन्वयव्यतिरेकाभ्याम् ।

त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते ।

नावगच्च्हाम्यहं यस्मान्निजात्मानमनात्मनः ॥ ९॥

अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति

प्रमाणाद्विनिश्चित्य

किमिति बुभुत्सातो नोपरमते । शृणु ।

अनुच्च्हिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः ।

दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः ॥ १०॥

अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः

किमिति न प्रतिपद्यत इति। यस्मात् ।

यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते ।

दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति ॥ ११॥

कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि

रात्मानमनात्मवन्न वीक्षत इति । उच्यते ।

चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् ।

यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति ॥ १२॥

प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन

तावत्तददर्शनकारणमुक्तम् ।

अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते ।

धीविक्रियासहस्राणां हानोपादानधर्मिणाम् ।

सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते ॥ १३॥

क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति । किंचातः ।

यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् ।

अथानात्मनि तस्याप्यचैतन्यान्न विवेकसंबन्ध इति । उच्यते ।

"दाह्यदाहकतैकत्र" इत्युक्तपरिहारात् ।

बुद्धावेव विवेकोऽयं यदनात्मतया भिदा ।

बुद्धिमेवोपमृद्{}नाति कदलीं तत्फलं यथा ॥ १४॥

सोऽयमतत्त्वे तत्त्वदृक् ।

अनुमानप्रदीपेन हित्वा सर्वाननात्मनः ।

संसारैकावलम्बिन्या तदभावं धियेप्सति ॥ १५॥

योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग

लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्

प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक

प्रबोधववदित्यत आह ।

संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्च्हति ।

शशो निमीलनेनेव मृत्युं परिजिहीर्षति ॥ १६॥

अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् ।

इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् ।

"यच्चक्षुषे"ति विस्रब्धं "न दृष्टे "रिति

च स्फुटम् ॥ १७॥

बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः ।

श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी ॥ १८॥

एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः ।

सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद

लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष

सिद्धस्वभावत्वात्कैश्चिच्च्ह्रद्धधानैर्न प्रतीयते ।

तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् ।

भगवत्पूज्यपादैश्च उदाहार्येवमेव तु ।

सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९॥

किं परमात्मन उपदेश उतापरमात्मन इति । किं चातः ।

यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक

उपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार

स्वभावत्वान्निष्फल उपदेशः । एवमुभयत्रापि

दोषवत्त्वादत आह ।

"अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्{}ग्रहस्तथा " ।

इति पक्षमुपादाय पूर्वपक्षं निशात्य च ॥ २०॥

तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् ।

युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः ।

यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् ॥ २१॥

तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं

प्रतिपद्यते । शृणु ।

"अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च ।

स्यादेतदहमित्यत्र युक्तिरेवावधारणम् " ॥ २२॥

कथं तौ युक्तिरित्यत्राह ।

"नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि ।

न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति " ॥ २३॥

"एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः ।

श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये " ॥ २४॥

तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते ।

"अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि ।

सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता " ॥ २५॥

अन्यच्चान्वयव्यतिरेकोदाहरणम् । तथा ।

"च्हित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते ।

तथा शिष्टेन सर्वेण येनयेन विशेष्यते ॥ २६॥

विशेषणमिदं सर्वं साध्वलंकरणं यथा ।

अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् ॥ २७॥

तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् ।

अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः ॥ २८॥

ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः ।

अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् " ॥ २९॥

"दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् ।

तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः " ॥ ३०॥

सर्वन्यायोपसंग्रहः ।

"नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः ।

वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ ३१॥

अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् ।

एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ ३२॥

सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।

दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि " ॥ ३३॥

वीक्षापन्नस्योदाहरणम् ।

"नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् ।

अपश्यन् ज्ञातुमेवेच्च्हेत्स्वमात्मानं जनस्तथा ॥ ३४॥

अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा ।

विविक्तं दृशिमात्मानं नेक्षते दशमं यथा " ॥ ३५॥

सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन्

कथमुत्थाप्यत इत्याह ।

यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः ।

करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः ॥ ३६॥

अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः ।

गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥ ३७॥

स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत

उत नेतीति । अत्र ब्रूमः । कूटस्थावगतिशेषमात्रत्वा

त्प्रतिपत्तेरत आह ।

दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा ।

नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३८॥

कुत एतत् । यस्मात् ।

पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् ।

अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९॥

तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते । यस्मात् ।

अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते ।

अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः ॥ ४०॥

अस्यार्थस्य द्रढिम्न उदाहरणम् ।

"कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।

प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः " ॥ ४१॥

"अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः ।

विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते " ॥ ४२॥

तथा भगवत्पादीयमुदाहरणम् ।

"सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।

आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् " ॥

४३॥

एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः ।

अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः ॥ ४४॥

तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म

एवेत्याह ।

इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् ।

योऽविकारो विजानाति परागेवास्य तत्तमः ॥ ४५॥

यत एतदेवमतस्तस्यैव

बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य

स्वकार्यद्वितीयाभिसंबन्धो न त्वविकारिण आत्मन इत्याह

दृष्टान्तेन ।

रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः ।

सुखदुःखादिसंबन्धश्चित्तस्यैवं विकारिणः ॥ ४६॥

तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह ।

संप्रसादेऽविकारित्वादस्तं याते विकारिणि ।

पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि ॥ ४७॥

सोऽयं कूटस्थज्ञानमूर्तिरात्मा ।

यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः ।

पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति ॥ ४८॥

एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः ।

भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९॥

तत्र दृष्टान्तः ।

आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः ।

बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः ॥ ५०॥

स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् ।

सर्वमेवानुजानाति सर्वमेव निषेधति ।

भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः ॥ ५१॥

सर्वस्योक्तत्वादुपसंहारः ।

परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् ।

तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया ॥ ५२॥

एतावदिहोक्तम् ।

नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन ।

इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः ॥ ५३॥

एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि

न्मुक्तप्रग्रहतेति । उच्यते ।

ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः ।

न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते ॥ ५४॥

कुत एतज्ज्ञेयाभिन्नमिति । यतः ।

प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः ।

प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः ॥ ५५॥

एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव

स्तत्कारणस्योत्सारितत्वादित्याह ।

वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् ।

निवृत्तिमपि मृद्{}नाति सम्यग्बोधः प्रवृत्तिवत् ॥ ५६॥

सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् ।

ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७॥

देशकालाद्यसंबद्धाद्देशादेर्मोहकार्यतः ।

नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ॥ ५८॥

सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः ।

सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ॥ ५९॥

वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न

किंचिदवशिष्यत इत्युक्तः परिहारः । अथापरस्सांप्रदायिकः

परिहारः ।

निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति ।

विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् ॥ ६०॥

यतः प्रवृत्तिबीजमुच्च्हिन्नं तस्मात् ।

तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः ।

तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः ॥ ६१॥

अथालेपकपक्षनिरासार्थमाह ।

बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि ।

शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२॥

कस्मान्न भवति । यस्मात् ।

अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः ।

धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३॥

प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः ।

"यस्य सर्वे समारम्भाः " "प्रकाशं चे "ति

सर्वदृक् ॥ ६४॥

तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं

मुमुक्ष्ववस्थायामपि न संभवति यथेष्टाचरणम् ।

तदाह ।

" यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते ।

लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते " ॥ ६५॥

तत्र दृष्टान्तः ।

"क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्च्हति ।

मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति " ॥ ६६॥

यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि

घटते मुमुक्षुत्वेऽपि च तस्मात् ।

रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु ।

कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥ ६७॥

सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः

प्रसूतिरिति । उच्यते ।

अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः ।

ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६८॥

उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या

त्मकामानित्वदयो निवर्तन्त उत नेति । नेति ब्रूमः । किं

कारणम् । निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो

न तु नियोगवशात् । कथं तर्हि । शृणु ।

उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः ।

अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९॥

यत एतदेवमतः ।

इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः ।

यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् ॥ ७०॥

न दातव्यश्चायं ग्रन्थः ।

नाविरक्ताय संसारान्नानिरस्तैषणाय च ।

न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१॥

ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते ।

न चानिरस्तकर्मेदं जानीयादञ्जसा ततः ॥ ७२॥

निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः ।

निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् ॥ ७३॥

श्रीमच्च्हङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान्

  ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् ।

मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः

  सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥

७४॥ 

सुभाषितं चार्वपि नामहात्मनां

     दिवाकरो नक्तदृशामिवामलः ।

प्रभाति भात्येव विशुद्धचेतसां

    निधिर्यथापास्ततृषां महाधनः ॥ ७५॥

विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप

योगात्

सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य

भक्तया ।

विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां

कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६॥

वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्च्हिदस्मद्धियो

   दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् ।

यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः

  प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः ॥ ७७॥

संबन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता ।

नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्{}ध्रुवम्

॥ ७८॥

इति चतुर्थोऽध्यायः ॥ ४॥