नैष्कर्म्यसिद्धिः/द्वितीयोऽध्यायः

← प्रथमोऽध्यायः नैष्कर्म्यसिद्धिः
सुरेश्वरः
तृतीयोऽध्यायः →



अथ द्वितीयोऽध्यायः ।

प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक

विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या

त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं

वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस

एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् ।

अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय

द्वितीयोऽध्याय आरभ्यते ।

श्रावितो वेत्ति वाक्यार्थं नcएत्तत्त्वमसीत्यतः ।

त्वंपदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते ॥ १॥

योऽयमहंब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति

प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य

विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते ।

कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् ।

श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २॥

एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि संभावनायाह ।

वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् ।

त्रिषु यादृच्च्हिकी सिद्धिः स्मार्यमाणे तु निश्चिता ॥ ३॥

नायमनैकान्तिको हेतुः । यतः ।

सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः ।

वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः ॥ ४॥

वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव

सर्वप्रमाणानामप्येवंवृत्तत्वात् ।

नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि ।

विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५॥

नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् ।

न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६॥

न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् ।

न विना गुरुसंबन्धं वाक्यस्य श्रवणं भवेत् ॥ ७॥

तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् ।

अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ ॥ ८॥

अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् ।

न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते ॥ ९॥

विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः ।

तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते ॥ १०॥

वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते ।

तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११॥

आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः ।

प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया ।

स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२॥

अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्च्हरीराद्

अशुचिराशेर्निराशो भविष्यसि ।

मन्यसे तावदस्मीति यावदस्मान्न नीयसे ।

श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे ॥ १३॥

शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः ।

दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४॥

श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह ।

बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा ।

बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५॥

यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते

विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः ।

वर्चस्के संपरित्यक्ते दोषतश्चावधारिते ।

यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥ १६॥

तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः ।

यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥ १७॥

एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं

यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः ।

तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म

न्यवतिष्ठत इत्याह ।

रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः ।

विवेकिनः कुतः कोपः स्वदेहावयवेश्विव ॥ १८॥

इतश्चानात्मा देहादिः ।

घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः ।

स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः ॥ १९॥

देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः

प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते ।

चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् ।

तूलायते तदेवाहंधियाघ्रातमचेतसाम् ॥ २०॥

प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह ।

स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव ।

देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१॥

कथं देहं सूक्ष्मं निराकृर्यादिति । उच्यते ।

अहंममत्वयत्नेच्च्हा नात्मधर्माः कृशत्ववत् ।

कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२॥

वैधर्म्ये दृष्टान्तः ।

नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् ।

तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३॥

एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा

मीमांसकः प्रत्यवतिष्ठते । अहंप्रत्ययग्राह्यत्वाद्ग्राहक

आत्मेति तन्निवृत्त्यर्थमाह ।

यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः ।

घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः ॥ २४॥

अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे

तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति

चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः ।

यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु ।

द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत्

॥ २५॥

प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्

सुस्थमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च

विकल्पदूषणाभिधानम् ।

नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते ।

अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः ॥ २६॥

न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो

ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह ।

द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता ।

कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते ॥ २७॥

सन्तु काममनात्मधर्मा ममत्वादयो

यथोक्तन्यायबलादनात्मतयैव

च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसंबन्धितयैव

प्रसिद्धेरहंब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति

चेत्तन्न ।

अहंधर्मस्त्वभिन्नश्चेदहंब्रह्मेति वाक्यतः ।

गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् ॥ २८॥

कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते ।

योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ।

ब्रह्मास्मीतिधियाशेषा ह्यहंबुद्धिर्निवर्त्यते ॥ २९॥

अहंपरिच्च्हेदव्यावृत्तौ न किंचिदव्यावृत्तं

द्वैतजातमवशिष्यते

द्वितीयसंबन्धस्य तन्मूलत्वात् । अत आह ।

निवृत्तायामहंबुद्धौ ममधीः प्रविलीयते ।

अहंबीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी ॥ ३०॥

विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या ।

तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् ।

भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते ॥ ३१॥

अनन्वयाच्च नात्मधर्मोऽहङ्कारः ।

आत्मनश्चेदहंधर्मो यायान्मुक्तिसुषुप्तयोः ।

यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२॥

आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च ।

यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् ।

नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्{}ध्रुवम् ॥

३३॥

स्यात्परिहारः

स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति

चेत्तन्न ।

आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः ।

अविकारि तु तद्ब्रह्म "न हि द्रष्टुरि"तिश्रुतेः ॥ ३४॥

अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं

प्राप्नोति ।

आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः ।

उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् ॥ ३५॥

अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न ।

सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते ।

अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६॥

एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् ।

प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः ।

यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ ३७॥

धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः ।

धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः ।

मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति ॥ ३८॥

तस्माद्विस्रब्धमुपगम्यताम् ।

द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् ।

दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ॥

३९॥

सर्वसंव्यवहारलोपश्च प्राप्नोति । यस्मात् ।

द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः ।

यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्च्हृतिः ॥ ४०॥

कुतः । यस्मात् ।

नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः ।

स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१॥

उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः ।

आर्तमन्यद्दृशेः सर्वं "नेति नेती"ति चासकृत् ।

वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२॥

"महाभूतान्यहंकार" इत्येतत्क्षेत्रमुच्यते ।

न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि ॥ ४३॥

अधुना प्रकृतार्थोऽपसंहारः ।

एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् ।

मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः ॥ ४४॥

कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् ।

न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः ।

आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि ॥ ४५॥

तस्मादज्ञानविजृम्भितमेतत् ।

दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् ।

अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्च्हति ॥४६॥

तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः ।

दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् ।

जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७॥

यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः ।

मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् ।

अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः ॥ ४८॥

अपहारो यथा भानोः सर्वतो जलपात्रकैः ।

तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९॥

न च विरुद्धधर्मणामेकत्रानुपपत्तिः ।

कल्पितानामवस्तुत्वात्स्यादेकत्रापि संभवः ।

कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति ॥ ५०॥

न चायं क्रियाकारकफलात्मक आभास ईषदपि

परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् ।

अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् ।

असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१॥

वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् ।

सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी ।

कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् ॥ ५२॥

सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव

तस्यात्मनात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया

तत्कार्येण वा संबधोऽभूदस्ति भविष्यति वा

तस्यापरिलिप्तदृष्टिस्वाभाव्यात् ।

दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् ।

अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः ॥ ५३॥

इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत

योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः

संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहंपदार्थयोः

सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं

प्राप्नोति । वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते

प्रसिद्धलक्षणागुणवृत्तिभिः ।

नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि ।

अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥ ५४॥

प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् ।

अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते ॥ ५५॥

आत्मना चाविनाभावमथवा विलयं व्रजेत् ।

न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६॥

कीदृक्पुनर्वस्तु लक्ष्यम् ।

नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः ।

स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः ॥ ५७॥

अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं

परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी

चेत्यहंकारादेरनात्मधर्मत्वमुक्तं

केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च ।

अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य

कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह ।

एष सर्वधियां नृत्तमविलुप्तैकदर्शनः ।

वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् ॥ ५८॥

ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा

दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि

विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं

सर्वतार्किकोपद्रवापसर्पणाय वर्त्म संभावयामः ।

उच्यते । विस्रब्धैः संभाव्यतामनुभवमात्रशरणत्वात्

सर्वतार्किकप्रस्थानानाम् । तदभिधीयते ।

इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः ।

त्वाच्च्हिरस्कवचोजालैर्मोहयन्तीतरेतरम् ॥ ५९॥

अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन

भ्युपगमेऽपि दोष एव । यस्मादाह ।

"वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् ।

चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः " ॥ ६०॥

बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता ।

अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१॥

अस्य परिहारः ।

ऊर्ध्वं गच्च्हति धूमे खं भिद्यते स्विन्न भिद्यते ।

न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का ॥ ६२॥

इत्येतत्प्रतिपत्त्यर्थमाह ।

अविक्रियस्य भोक्तृत्वं स्यादहंबुद्धिविभ्रमात् ।

नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् ॥ ६३॥

यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् ।

यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ।

संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥ ६४॥

अयमत्रांशो विवक्षित इति ज्ञापनायाह ।

यदवस्था व्यनक्तीति तदवस्थैव सा पुनः ।

भण्यते न व्यनक्तीति घटादीनामसंनिधौ ॥ ६५॥ 

तत्र च ।

सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः ।

संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः ॥ ६६॥

न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते ।

उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः ॥ ६७॥

मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति । यतः ।

यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् ।

भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६८॥

तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः ।

शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा ।

नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् ॥ ६९॥

एवं च सति बुद्धेः परिणामित्वं युक्तम् ।

अतीतानागतेहत्यान्युगपत्सर्वगोचरान् ।

वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७०॥

ततश्चैतत्सिद्धम् ।

अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा ।

निर्यत्नोऽविक्रियोऽनिच्च्हन्निच्च्हन्तीं चाप्यलुप्तदृक् ॥ ७१॥

द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः ।

निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि ॥ ७२॥

अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् ।

स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३॥

सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः ।

निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् ॥ ७४॥

निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः ।

सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति ॥ ७५॥

एतस्माच्च कारणादयमर्थो व्यवसीयताम् ।

दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् ।

दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा ॥ ७६॥

पूर्वस्यैव व्याख्यानार्थमाह ।

नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।

धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७॥

एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो

व्यवस्थापनायाह ।

प्रमाणतन्निभेष्वस्या नोच्च्हित्तिर्मम संविदः ।

मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि ॥ ७८॥

उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा ।

नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ॥७९॥

सुखदुःखसंबन्धानां च प्रत्यक्षत्वान्न

श्रद्धामात्रग्राह्यमेतत् ।

सुखदुःखादिसंबन्धां यथा दण्डेन दण्डिनम् ।

राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ८०॥

एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् ।

येनैवास्या भवेद्योगः सुखकुम्भादिना धियः ।

तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी ॥ ८१॥

अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी । न हि

कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि

सिद्धिरस्ति ।

परिणामिधियां वृत्तं नित्याक्रमदृगात्मना ।

षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा ॥ ८२॥

सत आत्मनश्चाविकारित्वे युक्तिः ।

स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः ।

दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः ॥ ८३॥

एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन

निरस्ताशेषविकारैकात्म्यं

प्रतिपादितमुपपत्तिभिः । अथाधुना श्रौतीं

प्रक्रियामवलम्ब्योच्यते ।

अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः ।

कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता ॥ ८४॥

षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि ।

दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः ॥ ८५॥

प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च

कूटस्थत्वं युक्तिभिरुच्यते ।

प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः ।

न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ८६॥

स्वसंबद्धार्थ एव ।

सावशेषपरिच्च्हेदिन्यत एव न कृत्स्नवित् ।

नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् ॥ ८७॥

अतोऽवगतेरेकत्वात् ।

चण्डालबुद्धेर्यर्दृ।र्ष्टृ तदेव ब्रह्मबुद्धिदृक् ।

एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् ॥ ८८॥ 

कस्मात् ।

अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः ।

तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते ॥ ८९॥

सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या

प्यप्रतिबुद्धदेहसंबद्धादशेषदुःखसंबन्ध इति चेत्तन्न ।

बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः ।

बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९०॥

न चेयं स्वमनीषिकेति ग्राह्यम् । कुतः ।

श्रुत्यवष्टम्भात् ।

शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी ।

भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः ॥ ९१॥

का त्वसौ श्रुतिः ।

दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया ।

विज्ञातारमरे केन विजानीयाद्धियां पतिम् ॥ ९२॥

यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो

जात्यन्धा इवानुकम्पनीया इत्याह ।

तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः ।

जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते ॥ ९३॥

प्रमाणोपपनस्यार्थस्यासंभावनात्तदनुकम्पनीयत्वसिद्धिः ।

तदेतदाह ।

यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् ।

खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः ॥ ९४॥

अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत

आह ।

अवगत्यात्मनो यस्मादागमापायि कुम्भवत् ।

साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् ॥ ९५॥

सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् ।

तदुच्यते ।

बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति ।

आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति ॥ ९६॥

यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक

आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया

निर्माल्यवदपविद्धः । तथापि तु नैवासौ स्वतस्सिद्धात्म

व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव ।

किं तर्हि ।

स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र

शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव

तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह ।

ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् ।

एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७॥

यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय

एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् । नैव हि कार्यं

स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति ।

अत आह ।

व्यवधीयन्त एवामी बुद्धिदेहघटादयः ।

आत्मत्वादात्मनः केन व्यवधानं मनागपि ॥ ९८॥

स्वयमनवगमात्मकत्वादनवगमात्कत्वं च

मोहमात्रोपादानत्वात् ।

प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता ।

अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते ॥ ९९॥

वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः ।

घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता ।

अहंबुद्धेरहंगम्याद्दुःखिनश्च तथा दृशेः ॥ १००॥

एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु

सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह ।

अभ्रयानं यथा मोहाच्च्हशभृत्यध्यवस्यति ।

सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते ॥ १०१ ॥

दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः ।

चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२॥

सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म

न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः ।

अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति

चेत्तदाह ।

दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी ।

मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् ॥ १०३॥

तद्बाधस्तत्त्वदर्शनादिति कुतः संभाव्यत इति चेदत

आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः ।

अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते ।

अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा ॥ १०४॥

लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः

प्रमाणफलम् ।

अविद्यानाशमात्रं तु फलमित्युपचर्यते ।

नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः ॥ १०५॥

यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् ।

न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः ।

न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् ॥ १०६॥

द्रष्ट्रादेरसाधारणरूपज्ञापनायाह ।

बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् ।

अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा ॥ १०७॥

सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति

कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह ।

ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् ।

हानोपादानयोस्साक्षी हानोपादानवर्जितः ॥ १०८॥

ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः

कस्मान्नेति चेत्तदाह ।

स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः ।

अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९॥

ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः

स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा

दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत

आह ।

धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः ।

निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् ॥ ११०॥

यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव

तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् ।

उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते ।

जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११॥

स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव

बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे

रनात्मनो द्वैतेन्द्रजालस्य ।

न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः ।

नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया ॥ ११२॥

यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः ।

नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः ।

अस्थूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३॥ 

सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध

मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा

नुपादेयत्वात् ।

आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः ।

षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ ११४॥

कुतो न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् ।

नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् ।

सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः ॥ ११५॥

यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं

फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध

मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील

त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक

संसारोऽहंममत्वयत्नेच्च्हादिमिथ्याध्यास एवेति

सिद्धमिममर्थमाह ।

अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया ।

इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः ॥ ११६॥

तस्यास्य मुमुक्षोः श्रौताद्वचसः

स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं

निश्चितार्था प्रमा जायते ।

नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः ।

भानाविव तमोध्यासोऽपह्नवश्च तथा मयि ॥ ११७॥

सोऽयमेवंप्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति ।

यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् ।

प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् ॥ ११८॥

इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः ।

विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् ॥ ११९॥

इति द्वितीयोऽध्यायः ॥ २॥