पञ्चपादिकाविवरणम्/अष्टमवर्णकम् - वेदान्तानां ब्रह्मणि समन्वयनिरूपणम्

← ७ सप्तमवर्णकम् पञ्चपादिकाविवरणम्
श्रीप्रकाशात्मयतिः
९ समन्वयाधिकरणम्  →

 


                                                             अथ अष्टकं वर्णकम्।।

             ज्ञानानन्दैकरूपं निखिलजगदुपादानमीशं प्रभूणाम्

                सर्वज्ञं ब्रह्म नित्यं विशदमतितरां निर्गुणं निष्क्रियं च।

                एतत्कार्यावमृष्टिं निखिलभववतीं सम्यगुद्धूय विद्ध्वा

                त्वप्रामाण्यं श्रुतीनां श्रुतिभिरिदमजं ज्ञेयमित्युच्यतेऽस्मिन्।।

                जगतो जन्मादिकारणं ज्ञानानन्दं ब्रह्मेति च लक्षितम्। तत्र वेदान्ताः प्रमाणमिति प्रतिज्ञातम्। तत्रेदं निरूपणीयम्--किं भूतेऽप्यर्थे शब्दः प्रमाणम् न वेति नेति तावदाह--कथं पुनर्ब्रह्मण इति।। ननु आक्षेपः किंनिबन्धनः सूत्रप्रामाण्यादित्याह--यावताऽऽम्नायस्येति।।

                ननु वेदान्तानामानर्थक्यमुच्यते किं वा क्रियापरत्वमिति न तावत्क्रियापरत्वम्; आदिमध्यावसानेषु तात्पर्येण ब्रह्मैक्यपर्यवसानादिति, तत्राह--यद्यपि प्रदर्शितानीति।। तथाऽपि तत्र न सम्भवति प्रामाण्यमित्यर्थः। ननु यत्र शब्दस्य शक्ति-तात्पर्ये विद्येते, तत्र शब्दः प्रमाणम्, न विषयविशेषापेक्षं शब्दस्य प्रामाण्यम्; विषयस्य शाब्दप्रमितिहेतुत्वाभावादिति, तत्राह--तत्र परिनिष्ठिते वस्तुनीति।।अभूदस्ति भविष्यतीत्यवगम्ये वस्तुनि, असाध्यस्वभावे वा वस्तुनीत्यर्थः। ननु परिनिष्ठितोऽपि रसो न चक्षुषा गृह्यते, नापि जिह्वया गन्धः, तद्वत्परिनिष्ठिते ब्रह्मणि प्रमाणान्तरानधिगम्यतया शब्दैकगम्यत्वं किं न स्यात् न; चक्षुरादीनामितरेतरविषयव्यभिचारवदागमं व्यतिरिक्तप्रमाणानां परिनिष्ठिते वस्तुनि व्यभिचारदर्शनाद् भूतं चेत्प्रमाणान्तरगम्यमेवेति निश्चीयते। ननु तुच्छव्यावृत्तेऽपि वस्तुनि प्रमाणान्तरगम्यताया व्यभिचाराभावात् कार्यमपि प्रमाणान्तरगम्यं किं न स्यात् न; साध्यस्वभावतया प्रत्यक्षानधिगम्यतया सम्बन्धाग्रहणात्, अनुमानादीनामनवगम्यत्वात् तुच्छव्यावृत्तं प्रमाणान्तरयोग्यमिति च ग्रहणाद् वरं भूतं वस्तु-प्रमाणान्तरयोग्यमिति ग्रहणम्; प्रयोजकस्य निरुपाधिकत्वलाभात्।

                ननु रूपादिहीनत्वाद् ब्रह्मापि प्रमाणान्तरानधिगम्यमेव, तथाऽपि परिनिष्ठितवस्तित्वात्

प्रमाणान्तरयोग्यत्वाशङ्का न व्यावर्तते। अस्ति च प्रमाणान्तरं ब्रह्मस्वरूपविज्ञानम्; अतस्तत्संवादादप्रमाणं वेदान्ताः।।

                ननु पुरुषवचांसि प्रमाणान्तरसापेक्षत्वात् तत्संवाद-विसंवादाभ्यां प्रामाण्यमप्रामाण्यं वाऽश्नुवाते, वेदवचसां तु पुरुषसम्बन्धाभावात् प्रमाणान्तरानधिगम्यविषयतया चक्षुरादिवदनपेक्षमेव प्रामाण्यमिति चोदयति--नन्वपौरुषेयत्वादिति।। परिहरति--सत्यं तथापीति।। अयमर्थः--अनपेक्षप्रमाणयोरपि चक्षुःस्पर्शनयोरर्थे विसंवादादन्यतरस्याप्रामाण्यवत्, ब्रह्मैकत्वश्रुतेः "अहं मनुष्यः" इति प्रत्यक्षस्य च परस्परव्याघातात् शब्दस्याप्रामाण्यमिति। किंचाप्तः खलु लोके प्रमाणान्तरेणार्थमवगम्य परस्मै शब्दं प्रयुञ्जानः श्रोतुः साक्षाद्वा परम्परया वा प्रयोजनपर्यन्तमर्थं विवक्षित्वा प्रयुङ्क्ते; प्रयोजनानभिसन्धाने तात्पर्यादर्शनात्। तच्च प्रयोजनं साध्यस्वभावम्, इति परिनिष्ठितं वस्तु स्वयं न प्रयोजनम्, नापि क्रियामनपेक्ष्य प्रयोजनसाधनम्, इति न तत्र तात्पर्यहीनः शब्दः प्रामाण्यमश्नुत इत्याह--किंञ्च पुरुषार्थशून्यत्वादित्यादिना।। "ततो न क्विचिदि"त्युपसंहरति। किंञ्च विधायकपदव्यतिरिक्तानां पदानां सम्भूय प्रमाणान्तरानधिगतवस्तुप्रतिपादनं न सम्भवति; प्रमाणान्तरानधिगतविषये सम्बन्धग्रहणात्, यथासम्बन्धग्रहणमर्थप्रतिपादनात्, कार्यस्य तु प्रमाणान्तरानवसेयतया तत्संसृष्टपदार्थानामतद्गोचरत्वाद् युक्ता शब्देभ्यः पूर्वार्थप्रमितिरिति दर्शयति--किञ्च प्रत्यक्षाद्यविषय इत्यादिना।। यस्मात् सूत्रकारवचनाद् भूतवस्तुप्रतिपादनायोगात् प्रयोजनशून्यत्वाद् अनधिगतार्थताऽभावाच्च न ब्रह्मणि वेदान्ताः प्रमाणम्, तस्मादनर्थका वेदान्ता इत्युपसंहरति--तस्मादिति।।     यत्पुनर्भाष्यकारेणेत्यादेरयमर्थः--न तावद् वेदान्ताः कस्यचित्कर्मविशेषस्य प्रकरणे समधिगताः, येन "सोऽरोदीदि"त्यादिवद् विधिसमन्वयः स्यात्। ननु सर्वकर्मविधायिवेदैकदेशत्वात् सर्वकर्मप्रकरणं स्यात्, न; सर्वेण वेदवाक्येनैकस्य वस्तुनः प्रतिपादनाभावादेकवाक्यताऽयोगात्, धर्मसामान्यस्याप्रतिपाद्यत्वात्। अस्तु तर्हि पर्णमयीवाक्यवत् कर्तृद्वारेण सर्वक्रतुशेषभूतोऽर्थवाद इति, नैतद्युक्तम्; स्तुतौ प्रतिपादने चोपयोगो नास्ति; विपरीतं च। न हि कर्मणां कर्ता नित्य-शुद्ध-बुद्ध-मुक्तस्वभावो निर्गुणो निष्क्रियोऽनश्नन्नन्योऽभिचाकशीतिति स्तवः, प्रतिपादनं वा कर्मसु प्रवृत्तावुपकरोति; विपरीतं च स्यात्। तस्मान्न कर्मसु वेदान्तानां समन्वयः, किंतु स्वप्रकरणगतसगुणोपासनासु सम्बन्ध इति भाष्यार्थमनूद्याक्षिपति--तदयुक्तमिति।। तथाऽपि विशिष्टब्रह्मस्वरूपासिद्धिरित्यर्थः। न खलूपासनाशेषतया ब्रह्मस्वरूपसिद्धिर्भाष्येऽभिप्रेता, किन्तूपास्ये गुणप्रक्षेपद्वारेण वेदान्तानां समन्वयो विवक्षित इति परिहरति---सत्यमनुमानेनेति।। ननुवेदान्तवाक्यानां सगुणोपासनप्रकरणादपि व्युत्थितानां स्वरूपमात्रपर्यवसितानां नोपासनासम्बन्धः, नापि स्वात्मन्युपासना कल्पयितुं शक्यते; अश्रुतत्वादिति, तत्राह--एवं चाध्ययनविधीति।। फलं चेति।। रात्रिसत्राणामिवेति शेषः।।

                सूत्रं व्याचष्टे--तद् ब्रह्म सर्वज्ञत्वादीत्यादिना।। तत्र तात्पर्येणेति।। अयमर्थः--तात्पर्य नाम तदर्थप्रमितिशेषता शब्दधर्मः। कथम् विवक्षातात्पर्यमिति चेत्, अर्थप्रमितिं विवक्षित्वा तादर्थ्येन प्रयुज्यमानत्वं शब्दधर्म एव। तत्रापि तात्पर्यं न विवक्षामात्रम्। तच्च तात्पर्यं यस्मिन्नर्थे वाक्यस्योपक्रमोपसंहारैकरूप्यम्, यस्य चार्थस्य पुनःपुनरभ्यासः, यस्मिन्नर्थे फलविशेषसङ्कीर्तनम्, अपूर्वार्थप्रमेयता च, यत्न चार्थवादोपादानमुपपत्तिभिरुपपादनं चेत्यादीनि लिङ्गानि भवन्ति, तस्य वाक्यस्य तस्मिन्नर्थे तात्पर्यमिति गम्यते। नच प्रमेयस्य साध्यतैव तात्पर्यलिङ्गम्; "पुत्रस्ते जातः" इत्यादिषु तात्पर्यदर्शनात्, साध्यस्य च प्रमेयत्वे तात्पर्यसिद्धिः, तात्पर्ये सिद्धे साध्यस्य प्रमेयतेतीतरेतराश्रयात्। साध्येऽर्थे प्रमिते प्रतिबन्धनिरासितया पश्चात्तात्पर्यमवगम्यत इति चेत्, तथाऽपि साध्यता न तात्पर्यलिङ्गम्; "जर्तिलयवाग्वा वा जुहुयादि"त्यादिष्वदर्शनात्। तस्मादुक्तानि तात्पर्यलिङ्गानि वेदान्तानां ब्रह्मणि दृश्यन्ते। तथाहि--"सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्" "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसी"त्युपक्रमोपसंहारयोरैकरूप्येण प्रत्यागात्माद्वितीयरूपं ब्रह्मावगम्यते। तथा "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसी"ति नवकृत्वोऽभ्यस्यते। प्रमाणान्तरेण चानधिगतमद्वितीयं ब्रह्मात्मत्वं प्रतिपाद्यते। "आचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इति च निरतिशयपुरुषार्थावाप्तिर्ब्रह्मविज्ञानफलमवगम्यते। "अनेन जीवेनात्मनाऽनुप्रविश्य" "येनाश्रुतं श्रुतमि"त्यादिब्रह्मण्यर्थवादश्चोपादीयते। मृल्लोहतप्तपरशुग्रहणादिदृष्टान्तैः स्वपितिनामनिर्वचनेन च

सृष्टि-स्थिति-संहारैश्च ब्रह्मात्मैकत्वं प्रतिपाद्यत इति।।

                तथा तैत्तिरीयके--"सत्यं ज्ञानमनन्तं ब्रह्म" "स यश्चायं पुरुषे यश्चासावादित्ये स एकः" इत्युपक्रमोपसंहारयोः प्रत्यगद्वितीयं ब्रह्मावगम्यते। तथा "सच्च त्यच्चाभवद् यदिदं किंच तदात्मानं स्वयमकुरुत यतो वाचो निवर्तन्ते" इति च प्रत्यगद्वितीयं ब्रह्माभ्यस्यते। प्रमाणान्तरेणानधिगतं च प्रतिपाद्यते। "स सर्वान् कामान् समश्नुते" इत्यादि च फलं ब्रह्मविज्ञानेऽवगम्यते। सृष्टिश्रुतयश्चाद्वितीयब्रह्मप्रतिपत्त्यर्थवादभूता दृश्यन्ते। तथा कोशपञ्चकोपन्यासेन प्राणनादिव्यापारलिङैश्च ब्रह्मात्मैकत्वं प्रतिपाद्यत इति। एवं सर्वेषु वेदान्तेषु ब्रह्मात्मैकत्वप्रमितो तात्पर्यलिङ्गानि द्रष्टव्यामि। एवं तात्पर्येण समन्वयाद् ब्रह्मैव वेदान्तप्रमेयमिति।।

                सम्यगन्वय इत्यादिना सूत्रभागं व्याचष्टे। पदानामन्वय इति सम्बन्धः। तत्र क्रिया-कारकसंसर्गविषयतया पदानामन्वयं व्यावर्तयति--परस्परानवच्छिन्नार्थानामिति।। तत्रोद्भिदादिशब्दस्य यजतिसामानाधिकरण्येनोद्भिद्यागमात्रवर्तिनोरुद्भिद्यागशब्दयोरनवच्छिन्नार्थत्वेऽपि नियोगाकाङ्क्षा विद्यते, तथेहापि स्यादिति, नेत्याह--अनन्याकाङ्क्षाणामिति।। एवं शब्दानां क्रियावाक्येभ्यो वैलक्षण्यमुक्त्वाऽर्थवैलक्षण्यं दर्शयितुं तत्र क्रिया-कारक-संसर्गेभ्यो वैलक्षण्यमाह--अव्यतिरिक्तेति।। ननु नीलोत्पलवद् भेदाभेदविषयतयाऽप्यभिधेयाव्यतिरेक इति, नेत्याह--एकरसेति।। तत्रोद्भिद्यागशब्दयोर्यागविशेषैकरसार्थवर्तिनोरप्यर्थस्य नियोगाकाङ्क्षावदिहाप्यन्याकाङ्क्षेति, नेत्याह--प्रातिपदिकार्थेति।। तत्रापि लिङ्गसंख्ययोरवश्याभ्युपगमनीयतेति, नेत्याह--मात्रान्वय इति।।

                जगत्कारणसामान्यानुवादेन तत्र ज्ञानानन्दशब्दावानन्दविशेषं गमयतः। एक-सत्यानन्तशब्दा भेदमिथ्यात्वद्वैताभावाभिधानद्वारेण तत्र लक्षणया वर्तन्ते। "सर्वज्ञः सर्वशक्तिरि"त्यादिशब्दाश्चानिर्वचनीयप्रपञ्चोपाधितया तत्र वर्तन्ते। "अयमात्मा तत्त्वमसी"त्यादिशब्दाश्च मुख्यलक्षणाभ्यां ब्रह्मण्येव वर्तन्त इति।।

                सर्वे जगत्कारणविषयाः शब्दा मुख्यलक्षणोपाधिभिरेकरसमेव ब्रह्म प्रतिपादयन्ति। नचानिर्वचनीयभेदाभावयोः शब्दप्रवृत्तनिमित्तयोः परमार्थसत्यैकरसभेदनिमित्ततेति।।

                अनेकेषां पदानां लक्षणादिद्वारेणैकरसवृत्तितायामुदाहरणमाह। तत्र द्विविधा वाक्यप्रवृत्तिः--एका ब्रह्मात्मनोरेकत्वविषया, अपरा सत्यज्ञानादिलक्षणब्रह्मविषया। तत्र प्रथमं ब्रह्मात्मैकत्वे दृष्टान्तमाह--सोऽयमित्यादिवाक्यस्थपदानामिवेति।। तत्र "सोऽयं देवदत्तः" इति पदत्रयस्यैकस्मिन्देवदत्ते पर्यवसानं दृश्यते।।

                तथाहि--प्रत्यभिज्ञायामधिगतमेकत्वं परस्मै प्रतिपादयति--"सोऽयं देवदत्तः" इति। तत्र न तद्देशकालयोरेतद्देशकालयांश्च परस्परैक्यं प्रत्यभिजानाति; भेदप्रत्ययात्। अत एव विशिष्टयोरप्यैक्यं न प्रत्यभिज्ञायते, किन्तु सोऽयमिति विशिष्टद्वयोपलक्षितः प्रत्यभिज्ञागोचरः। प्रत्यभिज्ञातं चार्थं परस्मै "सोऽयमि"ति विशिष्टाभिधायिभ्यां पदाभ्यां स्वार्थैकदेशपरित्यागेनैकदेशलक्षणया देवदत्तस्वरूपैक्यमेव प्रतिपादयति। ननु "सोऽयमि"ति पदार्थयोर्यदैक्यम्, तदेव वाक्येनापि प्रतिपाद्यते चेत्, अनुवादप्रसङ्गः। नच देवदत्तस्यैक्यद्वयमस्ति,  येन वाक्यप्रमेयमपरमैक्यं स्यात्, प्रत्यभिज्ञायां तर्हि कथम् न ह्यभिज्ञयोरवगतदेवदत्तैक्यमस्ति। एकस्य कालद्वयसंबन्धः प्रत्यभिज्ञागोचर इति चेत्, कालद्वयसंबन्धिपदार्थाभिज्ञयोरेव सिद्धेः परिशेषात्तदैक्यं प्रत्यभिज्ञाविषयः। तत्र चानुवादो दर्शितः।।

                स्यादेतत्--क्षणिकत्वपरिहाराय तत्प्रत्यभिज्ञाप्रामाण्यं तावद् वक्तव्यम्। तत्र कालद्वयपरामर्शेन तत्संबन्धिपदार्थैक्ये प्रत्यभिज्ञाविषयेऽपि पदार्थभेदप्रतिभासविरोधितैव प्रमाणफलम्, नाज्ञातार्थाधिगतिः। तत्र कालद्वयपरामर्शेन तत्संबन्धिपदार्थैक्यमेवावलम्बमाना पदार्थभेदप्रतिभासविरोधितया प्रामाण्यमश्नुते प्रत्यभिज्ञा। एवं तर्हि "सोऽयमि"ति वाक्यस्याप्येवमेव प्रामाण्यं भविष्यति।। तथा तत्त्वमसिवाक्यस्यापि त्वंपदार्थैकदेशपरित्यागेन त्वंपदेन लक्ष्यमाणद्रष्टुस्वरूपस्य पारोक्ष्यपरित्यागेन तत्पदाभिधेयब्रह्मस्वरूपैक्ये वाक्यजन्यज्ञानगोचरेऽपि जीव-ब्रह्मपदार्थप्रतीतिसमये प्रतिपन्नैक्यविषयतयाऽनुवादप्राप्तावपि भेदप्रतिभासविरोधितया प्रामाण्यमुपपद्यत इति।।

                ननु पदार्थयोः प्रत्येकमसाधारणमैक्यं पदार्थप्रत्ययगोचरः, पदार्थयोरितरेतरैक्यं वाक्यगम्यम्, 

इत्यस्त्येव प्रमेयभेदः, नैतत् सारम्; भिन्नद्रव्ययोरैक्यप्रतिपादने तथा स्यात्। यदैकमेव द्रव्यं भिन्नोपाधिपरिकल्पितभेदप्रतिभासव्युदासेन प्रतिपाद्यते, तदा निवर्त्यविशेषादेव प्रामाण्यम्, न प्रमेयविशेषात्। तदुक्तम्--"सिद्धं तु निवर्तकत्वादि"ति। इह तु कार्य-कारणद्रव्यव्यतिरिक्तत्वे सति द्रव्याभिधायिपदयोः सामानधिकरण्यं "सोऽयमि"तिवदेकस्य द्रव्यस्योपाधिपरिकल्पितभेदव्युदासेनैकद्रव्यपर्यवसायीत्यवगम्यते। ननु तत्त्वंपदाभ्यां लक्ष्यमाणपदार्थयोरपि भेदो विद्यते न वा विद्यते चेत्, ऐक्यप्रमितिर्न स्यात्। न चेद् भेदः, वाक्यार्थ एव पदार्थः स्यात्, सत्यम्; वाक्यार्थ एव पदार्थः। स च लक्षणया प्रतिपाद्यते; मुख्याभिधेयैक्यायोगात्। तस्मात् तत्त्वंपदाभ्यामेकमेव ब्रह्मोपाधिपरामर्शेन प्रतिपाद्यत इति सिद्धम्।।

                अत्र केचिदाहुः--लक्ष्यमाणयोरपि जीव-ब्रह्मणोर्भेदाभेदविषयं सामानाधिकरण्यम्; अन्यथा पदार्थवाक्यार्थयोः साङ्कर्यात्। अस्ति जीव-ब्रह्मणोर्भेदोऽपि; "य आत्मनि तिष्ठन्नि"त्यादिलिङ्गात्, नैतद्युक्तम्; भेदाभेदविषयेण वाक्यजन्यज्ञानेन तदभ्यासजन्यापरोक्षज्ञानेन वा स भेदो निवर्त्यते वा न वेति निवर्त्यते चेत्, कथं विज्ञानस्य स्वविषयनिरासिता तृतीयज्ञानेनाभेदमात्रविषयेण भेदो निवर्तयत इति चेत्, न; यथाप्रमाणमभ्यासजन्यस्यापि ज्ञानस्य भेदाभेदविषयत्वात्, अन्यथाप्रमाणेऽन्यथाभ्यासजन्यज्ञाने च भेदाभेदप्रमाणवैकल्यात्। ज्ञाननिवर्त्येन भेदस्यापि विद्यावन्मिथ्यात्वमपि स्यात्। ज्ञानेनाज्ञानं निवर्त्यते, भेदस्तु कर्मभिर्विनश्यतीति चेत्, न; "ब्रह्म वेद ब्रह्मैव भवती"ति ज्ञानप्रयुक्तत्वादेवकाराभिधेयभेदनिरासस्य। येनैव चाकारेण जीवस्य भेदः, तेनैव चेदभेदोऽपि, भेदनिवृत्तावभेदोऽपि निवर्तेत। आकारान्तरेण चेदभेदः, तदा निरवयवद्रव्यस्यैकदेशो न कर्मणा निवर्तयितुं शक्यते, इति भिन्नाभिन्न एव मुक्तावपि जीवः स्यात्। नच भेदाभेदौ शास्त्रेण प्रतिपादनीयौ; लोकसिद्धसामान्यतो दर्शनेनैव सिद्धेः। यदि च भेदाकारविशिष्टो जीवः, तन्नाशेन नश्येत्। अथ भेदविनिर्मुक्तो जीवः, ब्रह्मस्वरूपमेव जीवः, इत्येकद्रव्यनिष्टं सामानाधिकरण्यं स्यात्। अथ विशिष्टो जीवो विशेषणनाशेऽपि स्वरूपावस्थानान्मुच्यत इति, तर्हि यो मुक्तिमनुभवति, स एव पूर्वमपि जीवः संसारी, इत्येकमेव वस्तु सामानाधिकरण्यालम्बनमित्युक्तं स्यात्। तस्मादभिधेयपरामर्शेनैकस्मिन् वस्तुनि लक्षणया वृत्तिः सामानाधिकरण्यमिति। योऽपि लक्ष्यमाण-जीव-ब्रह्मणोरतिरेकनिमित्तं पदार्थापौनरुक्त्यं कल्पयति, तस्यातिरेको भेदवन्निराकर्तव्यः, "एकधैवानुद्रष्टव्यं नेह नाने"ति श्रुतेः। तस्मादेकस्य द्रव्यस्योपाधिजनितभेदावभासपरामर्शेनैकद्रव्यपर्यवसायि सामानाधिकरण्यमित्येकरसं ब्रह्मेति सिद्धम्।।

                इदनीं सत्यज्ञानादिवाक्यस्योदाहरणमाह--प्रकृष्टप्रकाशशब्दयोरिवेति।। तयोरेकार्थनिष्ठतामेव दर्शयति--तथाच व्यक्तिविशेष इति।। अयमर्थः--प्रकाशशब्दः सामान्याभिधानमुखेन व्यक्तिविशेषे वर्तते। प्रकृष्टशब्दश्च लक्षणया प्रकर्षगुणाभिधानमुखेन प्रकाशविशेषे वर्तते। तत्र गुणसामान्ययोश्चन्द्रपदाभिधेयत्वाभावाज्जहल्लक्षणया तदुभयं व्युदस्य तत्समवायिप्रकाशविशेष एव चन्द्रपदाभिधेयतया समर्प्यते, इति प्रकृष्ट-प्रकाश-चन्द्रशब्दानामेकार्थवृत्तिता सिद्धा। ननु गुण-गुण्यन्वयः क्रिया-कारकान्वयो वा किं न स्यादिति तत्राह--एवं च सति नीलोत्पलवदिति।। "एकमेवाद्वितीयमेकधैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन" "उदरमन्तरं कुरुते अथ तस्य भयं भवती"त्यादिप्रतिषेधादित्यर्थः। "तथाविधान्युदाहरती"त्यारभ्य "यत्पुनरि"त्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। "यत्पुनः सिद्धे वस्तुनी"त्युक्तार्थमनुवदति। परिहरति--तद्रूपाद्यसंभवादिति।। अयमाशयः--किं प्रमाणान्तरयोग्यत्वे सति तदनुत्पत्तौ विषयस्याभावे निश्चिते तत्र शब्दस्य मिथ्यात्वमाशङ्क्यते किं वा प्रमाणान्तरसंभिन्नार्थविषयत्वात्पौरुषेयवचोवत्सापेक्षं प्रामाण्यमिति किं वा प्रमाणान्तरयोग्यार्थविषयत्वात् तत्सिद्धार्थानुवादाशङ्केति तत्र न तावत् प्रथमः कल्पः; प्रमाणेन हि प्रमीयमाणस्यार्थस्य प्रमाणान्तरानुत्पादौ मिथ्यात्वं नावहति; सर्वप्रमाणानामनधिगतार्थगन्तृत्वात्, अन्यथा चक्षुषा गृह्यमाणस्य रूपस्य द्रव्यस्य वा स्पर्शेनाग्रहणान्मिथ्यात्वशङ्का स्यात्। कथंचित्सापेक्षप्रमाणस्य पुरुषवचसः प्रमाणान्तराभावे मिथ्यात्वाशङ्का स्यात्, न त्वपौरुषेयस्य वेदवचसः; अनपेक्षत्वात्।।

                नापि द्वितीयः कल्पः; प्रमाणान्तरसंभिन्नार्थताऽभावात्। भूतार्थविषयत्वेन नदीतीरफलसत्तावाक्यवत् प्रमाणान्तरसंभिन्नार्थतेति चेत्, न: पौरुषेयवचनप्रयुक्तत्वात् सम्भेदस्य। भूतार्थत्वप्रयुक्तत्वे प्रत्यक्षादीनामपि संभेदः

स्यात्। ननु भूतार्थस्मृतौ संभेदो दृश्यत इति चेत्, तर्हि स्वार्थप्रवृत्तज्ञानान्तरजन्यता संभेदहेतुः; कार्य-भूतार्थनिष्ठयोर्लौकिकवचसोस्तथा दर्शनात्। पुरुषो हि प्रमाणान्तरेणार्थमुपलभ्य तन्निमित्तं परस्मै शब्दं विरचयति, नतु वेदवचसः प्रमाणान्तरजन्यता, इत्यनपेक्षा। किञ्च तुच्छव्यावृत्तमात्रं प्रमाणान्तरयोग्यम्, इति विधिवाक्यानामपि संभिन्नार्थतया सापेक्षता स्यात्; लौकिकविधीनां प्रमाणान्तरयोग्यतादर्शनात्, अयोग्यत्वे वा तत्र संबन्धाग्रहणात् वेदेऽप्यर्थप्रतिपत्तिर्न स्यात्। ननु कार्यस्य साध्यस्वभावत्वान्न प्रमाणान्तरगम्यतेति, ब्रह्मापि तर्हि रूपादिहीनत्वान्न प्रमाणान्तरेण गम्यते। स्वरूपज्ञानमेव प्रमाणान्तरमस्ति, अतस्तत्संभिन्नतया सापेक्षतेति चेत्, न; शब्दजन्यविषयस्थचैतन्यतया प्रमाणफलरूपत्वात्, चैतन्यज्ञानसंभिन्ने वा ब्रह्मणि शब्दस्यानपेक्षप्रामाण्यसिद्धिः। पुरुषान्तरतत्संवेदनविषयं पुरुषान्तरानुमानं स्वयंप्रकाशविषयमपि संभिन्नार्थतया न सापेक्षमिति। तस्मादनपेक्षमपौरुषेयं वचः।।

                नापि तृतीयः कल्पः; स्पर्शज्ञानयोग्यद्रव्यविषयस्य चक्षुषोऽनुवादकत्वादर्शनात्। शब्दविषयोऽयं नियम इति चेत्, विधिवाक्यस्यापि स्यात्; तस्यापि लौकिकस्य मानान्तरयोग्यत्वात्, शब्दावगतस्य वा प्रमाणान्तरमनुवादः किं न स्यात् तस्माद् भूतार्थनिष्ठमपि वैदिकं वचोऽनपेक्षं प्रमाणमिति। तत्र चोदयति--नन्विन्द्रियागोचरत्वादिति।।

                अत्र पृच्छामः--किं प्रमाणान्तरगृहीतोऽर्थे संबन्धग्रहणमात्रमुच्यते किं वा प्रमाणान्तरमपि शब्दार्थ इति पूर्वस्त्वङ्गीकृत इत्याह--यद्यपि शब्दमात्रस्येति।। नापि द्वितीयः कल्पः; इत्याह--व्युत्पत्ता तु कथमिति।। ननु प्रमाणान्तरगृहीतेऽर्थे प्रयोगप्रत्ययदर्शनात् तत्संभिन्नार्थज्ञाने शब्दसामर्थ्यं गृह्यत इति, नेत्याह--श्रोतृव्यवहारो हि मूलमिति।। अयमर्थः--शब्दादर्थं प्रतिपद्यमानः श्रोता किं स्वकीयप्रमाणसंभिन्नं प्रतिपद्यते किं वा व्युत्पत्तुः प्रमाणसंभिन्नम् आहोस्विद्वक्तुः प्रमाणसंभिन्नमिति न तावत्पूर्वो पक्षौ; शब्दादर्थप्रतिपत्तेः प्रागुभयोरपि तस्मिन्नर्थे प्रमाणानुत्पादात्। प्रमाणान्तरेणोपलभ्य तत्र शब्दप्रयोगाद् वक्तुः प्रमाणसंभिन्नेऽर्थे श्रोतुः शाब्दप्रमितिरिति, व्युत्पत्ताऽपि तत्रैव शब्दसामर्थ्यं श्रोतुः प्रवृत्त्या प्रतिपद्यत इति चेत्, तत्राह--स च श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्ध इति।।

                अयमर्थः--व्युत्पत्ता तु प्रत्यक्षादिव्यवहारे प्रवर्तितव्यार्थमात्रज्ञानात् प्रवर्तमानमात्मानं पश्यति; न प्रमाणान्तरसंभिन्नार्थज्ञानात्। ततश्च स्वेनैव दृष्टान्तेन श्रोतुः प्रवृत्तिलिङ्गादर्थमात्रज्ञानमनुमिनीते। न वक्तुः प्रमाणस्य विषयविशेषणतयाऽवगम्यत्वेन प्रवृत्तिहेतुतां कल्पयति; दृष्टान्ताभावात्। अतः प्रमाणान्तरस्य विषयविशेषणत्वेनानवगम्यमानतया प्रवृत्तिं प्रत्यनिमित्ततया परिशुद्धः श्रोतुर्व्यवहारः, केवलार्थज्ञानजन्य इत्यर्थः। ततः शब्दस्यार्थमात्रज्ञाने सामर्थ्यप्रतिपत्तेर्न प्रमाणान्तरसंभिन्नः शब्दार्थ इत्याह--अतो न प्रतिपत्तुर्ज्ञानान्तरसिद्धार्थावबोधकत्वमिति।।

                ननु मा भूच्छ्रोतुः प्रमाणान्तरसंभिन्नोऽर्थः प्रतिपन्नः, तथाऽपि व्युत्पत्ता संभिन्नेऽर्थे शब्दसामर्थ्यं प्रतिपद्यत इति, नेत्याह--तेनानवगम्यैव तद्विषयमिति।। प्रवृत्तिहेतुज्ञानविषयतया स्वात्मानुमानेनानवगतस्य मानान्तरस्य च शब्दसामर्थ्यविषयता प्रतिपत्तुं शक्यत इत्यर्थः। ननु अर्थमात्रे सम्बन्धग्रहणेऽपि व्युत्पत्त्युत्तरकालं संभिन्नोऽर्थो बोध्यत इति, नेत्याह--यथावगमं चेति।। ननु कार्यविषयाद् वाक्यादसंभिन्नेऽर्थे युक्तः सम्बन्धग्रहः, कार्यपदव्यतिरिक्तस्य तु शब्दमात्रस्य संभिन्नेऽर्थे सम्बन्धग्रह इति, न; तेषामपि कार्यवाक्येऽर्थमात्रसम्बन्धग्रहणात्। अत्र केचिदाहुः--अर्थासंस्पर्शी शब्द इति। तथाहि--"अङ्गुल्यग्रे हस्तियूथशतमास्ते" इत्यादौ न कश्चिदर्थः प्रमीयते। यत्र न प्रमीयते, तत्रापि मानान्तरनिबन्धना प्रमितिर्न शब्दनिबन्धनेति।।

                अत्र केचित्परिहारमाचक्षते--पुरुषवचसां तु नार्थसंसर्गः प्रमेयः, किन्त्वेवमयं वेदेति वक्तृज्ञानमेव प्रमीयते, प्रमीयमाणवक्तृज्ञानसामर्थ्याच्चार्थो निश्चीयते। सर्वत्र चाङ्गुल्यादिवाक्येषु भ्रान्तिमुत्प्रेक्षां प्रमाणं वा वक्तृज्ञानं शब्दः प्रमेयं न व्यभिचरति। तस्मादर्थसंस्पर्शी शब्द इति, तदयुक्तम्; वक्तृज्ञानस्यानुमानगम्यत्वाच्छब्दप्रमेयत्वाभावादित्याह--यदा पुनर्व्युत्पन्नः सन्निति।। अयमर्थः--गृहीतसम्बन्धोऽपि सन् प्रमाणान्तरेणार्थमुपलभ्य विवक्षित्वा परस्मै शब्दं प्रयुञ्जानमात्मानं पश्यति। तेन दृष्टान्तेन पूर्वमपि

मध्यमवृद्धेभ्यः प्रयोक्तारः प्रयुञ्जानाः प्रमाणान्तरेणोपलभ्य विवक्षित्वा प्रयुञ्जत इत्यनुमिमीते। नन्वेवमपि शाब्दसामर्थ्यविषयतयैव प्रमाणान्तरमनुमिमीत इति, नेत्याह--केवलमिति।। शब्दप्रयोगनिमित्ततामेव विवक्षा-मानान्तरयोः स्वात्मनि पश्यन्नन्यत्रापि तथैवानुमिमीत इत्यर्थः। प्रकरणार्थमनूद्योपसंहरति--तस्मान्न शब्दस्येत्यारभ्य--अपिचेत्यतः प्राक्तनेन ग्रन्थेन।।

                किंच यदि लौकिकवचांसि वक्तृज्ञानमेव गमयन्ति, तदा संसृष्टार्थप्रतिपादनसामर्थ्याप्रतिपत्तेर्वेदे शब्दादर्थाधिगमो न स्यात्। किञ्च न तावद्वक्तृज्ञानमात्रं शब्दार्थः; अर्थे व्यवहारानुदयप्रसङ्गात्। नाप्यर्थव्यावृत्तं ज्ञानम्; अर्थस्यैव शब्दप्रमेयत्वप्रसङ्गाद् ज्ञानस्यानुमेयतयाऽन्यथासिद्धिः। ज्ञानाभिधायिशब्दाभावाच्च न तस्य वाक्यार्थता; पदार्थस्यैव वाक्यार्थत्वात्। ननु पदेभ्यः पदार्थाः प्रतीयन्ते, संसर्गश्चोत्प्रेक्षयाऽवगम्यते। तेन च व्यावृत्तं वक्तृज्ञानं शब्दार्थ इति, तदिदं श्रोतुः संसर्गज्ञानं वक्तृज्ञानविशेषणार्थविशिष्टतया प्रथमोत्पन्नं स्मृति संशयविपर्यासायोगात्प्रमाणज्ञानमेव परिशिष्यते, शब्दानां च पदार्थज्ञानोपक्षयाद्वक्तृज्ञानाधीनैव संसर्गप्रमितिरिति वेदे संसर्गः शब्दार्थो न स्यात्। तस्माच्छाब्दी संसर्गप्रमितिः, वक्तृज्ञानं त्वनुमेयमिति सिद्धम्। कस्तर्हि शब्दानामर्थासंस्पर्शस्य परिहार इति उच्यते--प्रत्यक्षेऽपि तुल्यमेतच्चोद्यम्; शुक्तिरजतादिज्ञानानामर्थव्यभिचारात्। अदुष्टकारणजन्यज्ञानानामर्थसंस्पर्श इति चेत्, शब्देऽपि योग्येतरसंसृष्टाभिधायिन्यर्थनियमो विद्यते; अङ्गुल्यग्रादीनां संसर्गायोग्यत्वादिति। किञ्च अपौरुषेयस्य शब्दस्यानपेक्षमाणत्वान्मानान्तरसंवाद-विसंवादाभ्यां न किञ्चित्परिहीयत इत्याह--अपिच अपौरुषेयमिति।। ननु उक्तमिति स्पष्टार्थम्।। न तत्सधूक्तमिति परिहारग्रन्थस्यायमर्थः--निरपेक्षज्ञानयोरपि परस्परविरुद्धयोरन्यतरस्य कारणदोषसंभावनया बाधो निरूप्यते। तत्राद्वितीयप्रत्यगात्मप्रतिपत्तेरात्मनि द्वैतप्रत्यक्षस्य च विरोधे द्वैतावभासस्य देहात्मप्रत्ययवद् दुष्टकारणजन्यत्वं कल्प्यते; शब्दस्य स्वयंदोषरहितत्वात्, द्वेतावभासहेतूनां चक्षुरादीनां संभावितदोषत्वात्, "इन्द्रो मायाभिः" "मायां तु प्रकृतिम्" "अविद्यायामन्तरे" इत्यादिदोषजन्यत्वश्रवणाच्च, स्वप्नद्दोषजन्यत्वेऽपि व्यवहारविसंवादात् प्रामाण्यलाभात्, शब्दे तु पुनर्दोषकल्पनायां व्यवहारातीतविषयत्वाद् दोषवत्तया च तत्त्वात्प्रच्युतेरुभयविधमपि प्रमाण्यं  न स्यात्। नच द्वैतावभासस्य दोषजन्यत्वाच्छुक्तिरजतज्ञानवद् व्यवहारविसंवादः कल्पयितुं शक्यः; प्रत्यक्षविरोधात्, आगमेन च द्वैतस्य तत्त्वांशबाधात्, व्यवहारबाधाभावात्, अद्वितीयात्मप्रतिपत्तेश्च शब्दादीनामर्थक्रियासामर्थ्यलभ्यत्वात्। तस्मादद्वितीयात्मप्रमितिरपरोक्षप्रत्ययरूपा च देहात्मप्रत्ययमिव द्वैतावभासं बाधते; अन्यथा देहात्मभावस्याप्यबाधप्रसङ्गादिति। ननु प्रमेयगतदोषादेव चित्रनिम्नोन्नतादिज्ञानवद् ब्रह्मज्ञानमपि मिथ्येति, नेत्याह--प्रमेयस्य पुनर्न ज्ञानहेतुत्व इत्यादिना।। अतः इत्युपसंहरति।। अपिच भूतार्थनिष्ठत्वात्प्रमाणान्तरविरोध उच्यते संवादो वाऽपेक्ष्यत इति विरोधेऽन्यतरस्य बाधो दर्शितः। संवादोऽपेक्षित इति चेत्, नेत्याह--नच संवादलक्षणमिति    अज्ञातार्थावगम एव प्रमाणलक्षणमित्यर्थः। ततः किमायातमिति तदाह--अतो यथैव विधिवाक्यानामिति।। ननु सूत्रवचनविरोध इति चोदयति--ननु विधिवाक्यानामेवेति।। "नेतरेतराश्रयत्वादि"ति परिहारः। ननु सूत्रकारप्रामाण्यादेवाम्नायस्य क्रियार्थत्वं सिद्धमिति, नेत्याह--नह्येकमप्यन्यत इति*।। कस्तर्ह्याम्नायार्थ इति तदाह--अतो यदवगमयतीति।। ननु प्रमेयविशेषादेव प्रामाण्यम्, नावबोधात्, न; कार्यस्याप्यवबोधनिबन्धनत्वादित्याह--तस्माद्यथा कार्यमिति।। न तर्हि ब्रह्मणि शब्देभ्यः प्रतीतिरिति, नेत्याह--प्रतीतिश्चेति।। ननु प्रवर्तनालक्षणं प्रामाण्यम्, न बोधलक्षणमिति, नेत्याह--प्रत्यक्षादिष्वपीति।। ननु भिन्नमेव प्रमाणलक्षणं प्रत्यक्षादिषु वस्तुमात्रावबोधप्रामाण्यलक्षणम्, प्रवृत्ति-निवृत्ती तु वस्तुस्वभावानुरोधिन्यौ न प्रमाणफलम्, शब्दे तु पुनः प्रवृत्ति-निवृत्तिफलपर्यन्त एव प्रमाणव्यापारः; श्रोतुः पुरुषार्थमुद्दिश्य शब्दप्रयोगात्। अतः प्रवृत्तिनिवृत्तिशून्ये भूते वस्तुनि न शब्दप्रामाण्यमित्याह--युक्तमित्यादिना--उच्यत इत्यतः प्राक्तनेन ग्रन्थेन।। उच्यते इत्यादिः परिहारः।।

                इदं निरूपणीयम्--पुरुषः खल्विष्टानिष्टप्राप्तिपरिहारमात्रं प्रार्थयते किं वा तयोः प्रवृत्ति-निवृत्तिसाध्यतामपीति तत्र प्रवृत्ति-निवृत्तिसाध्येष्टानिष्टप्राप्ति-परिहारप्रार्थनाकल्पनाल्लघीयसी

हिताहितप्राप्तिपरिहारप्रार्थनाकल्पनेत्याह--पुरुषो ह्येतावदपेक्षत इति।। ननु सर्वो बाध्यस्वभावमेव पुरुषार्थं प्रार्थयत इति, नेत्याह--नत्त्वित्थमन्यथा वेति।। फलमेव हि मुख्यं प्रार्थयते, नान्तरीयका साधनप्रार्थनेत्यर्थः।। ननु साध्यसाध्यावपि पुरुषार्थौ साध्यावेष करोतीति, नेत्याह--न चास्य स्वयमीष्ट इति।। ननु सर्वः साध्य एव पुरुषार्थः, न तु सिद्धस्वभावः; प्रेप्सागोचरत्वाभावादिति, तत्राह--द्विविधं चेष्टमिति।। ननु द्विविधेऽपि पुरुषार्थसाध्यस्वभावता न व्यावर्तत इति, नेतीति विभज्य दर्शयति--तत्र प्राप्तपरिहार्ययोरिति।। ननु ज्ञानमात्रसाध्यः पुरुषार्थो न लभ्यत इति, तत्राह--इतरयोस्तु भ्रान्तिमात्रव्यवहितत्वादिति।। ननु हस्तगतविस्मृतसुवर्णस्य तत्त्वज्ञानात्प्राप्तिमारोपितसर्पादिभावस्य तत्त्वज्ञानान्निवृत्तिं पुरुषार्थतया नानुमन्यते ; क्रियासाध्यस्यैव पुरुषार्थताप्रसिद्धेरिति, नेत्याह--एवमपि लभ्यमानमिति।। साधनसाध्यज्ञानलभ्यस्यातिशयेन पुरुषार्थतामाह--सुतरां चाभिनन्दतीति।। ननु ब्रह्मात्मैकत्वे प्रतिपाद्यमाने न क्रियास्धायः पुरुषार्थः, नापि ज्ञानलभ्य इति, तत्राह--अनेकानार्थकलुषितमिवेति।।

                किंच शब्दस्य प्रामाण्यं प्रत्यक्षादिवत्प्रमेयमात्रावबोधनिबन्धनं किं न स्यात् नच प्रवृत्ति-निवृत्ति साक्षात् फलम्; अवगते वस्तुनि प्रयोजनाद्यनुस्मृतिनिबन्धनत्वात्प्रवृत्ति-निवृत्त्योः। नच ते पुरुषार्थतयाऽकाङ्क्षिते; सुख-दुःखप्राप्तिपरिहारलक्षणत्वात् प्रयोजनस्य। ततश्च नित्य-नैमित्तिकवाक्यानां प्रयोजनशून्यतया प्रामाण्यं न स्यात्। अकरणे प्रत्यवायपरिहारः प्रयोजनमिति चेत्, न; प्रत्यवायस्यापि तन्निबन्धनत्वात्। ततश्च नित्यविधयोऽनुष्ठानाननुष्ठानयोरनर्थमेव प्रापयन्तीति न तद्वाक्यानां प्रामाण्यं युक्तम्। अतो बोधलक्षणमेव प्रामाण्यम्, न पवृत्तिलक्षणमिति। तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वमिति।।

               इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्य-स्वप्रकाशानुभवभगवतः कृतौ

                                                पञ्चपादिकाविवरणे वेदान्तानां ब्रह्मणि समन्वयनिरूपणं

                                                                   नामाष्टकं वर्णकं समाप्तम्।।