पञ्चपादिकाविवरणम्/नवमवर्णकम् - समन्वयाधिकरणम्
← ८ वेदान्तानां ब्रह्मणि समन्वयनिरूपणम् | पञ्चपादिकाविवरणम् श्रीप्रकाशात्मयतिः |
अथ नवमं वर्णकम्
लोके पदानां योग्येतरसंसृष्टस्वार्थप्रतिपादने सामर्थ्यमङ्गीकृत्य भूतेऽप्यर्थे प्रामाण्योपगमेन लौकिकवचसां भूतेऽर्थे प्रमाणान्तरानुसारेण प्रयोजनपर्यन्तं प्रामाण्यमङ्गीकृत्य वेदवचसां तु प्रमाणान्तराभावाद्विध्यनुसारेणैव प्रयोजनपर्यन्तं प्रामाण्यं वक्तव्यमित्याशङ्क्य नेति प्रतिपादितम्। इदानीं कार्यसंसृष्टस्वार्थे शब्दसामर्थ्यमिति मन्वानाः कार्यशेषतयैव भूतेऽप्यर्थे प्रामाण्यमिति प्रत्यवतिष्ठन्त इत्याह--अत्रापरे प्रत्यवतिष्ठन्त इति। ननु लौकिकवचसां भूतेऽप्यर्थे प्रयोगप्रत्ययदर्शनात् तदनुसारेण च योग्येतरसंसृष्टे शब्दसामर्थ्यप्रतिपत्तेः कुतो विधिसंस्पर्श इत्याक्षिपति--कस्मादेवमिति।। परिहरति--अन्यथा शब्दप्रयोगानुपपत्तेरिति।।
अयं भावः--श्रोतुः साध्यमेव किंचित्प्रयोजनमुद्दिश्य प्रवृत्तिं विवक्षित्वा प्रवर्तकज्ञानाय प्रयोक्ता शब्दं प्रयुङ्क्ते। ततः प्रवर्तकनिष्ठं वाक्यं श्रोतुः प्रवर्तकज्ञानमेव जनयति। प्रवर्तकज्ञानेन च शब्दसमनन्तरभाविनाऽनन्यथासिद्धान्वय-व्यतिरेकाभ्यां शब्दस्य संबन्धं व्युत्पत्ता प्रतिपद्यते। तच्च प्रवर्तकं प्रत्यक्षादिव्यवहारेषु शब्दव्युत्पत्तेः प्राक् कार्यमिति ज्ञानात्सर्वत्र प्रवर्तते, इति कार्यमेव श्रोतुः शाब्दज्ञानगोचरं कल्पयति। तत्र कार्यसंसृष्टेषु पदार्थेषु पदसमुदायस्य प्रथमं सामर्थ्यं कल्पयित्वा पुनः प्रयोगान्तरेष्वावापोद्वापाभ्यामेकैकस्य पदस्य कार्यसंसृष्टस्वार्थेषु संबन्धं प्रतिपद्यते; प्रथमप्रयोगे कार्यसंसृष्टपदार्थेषु सामर्थ्यप्रतिपत्तेः। ननु बालस्य स्वव्यवहारेऽभिलषितसाधनताज्ञानात्प्रवृत्तिः, न कार्यज्ञानात्। ततश्च श्रोतुः शब्दसामर्थ्यविषयतयाभिलषितसाधनज्ञानमेव प्रवृत्त्याऽनुमिमीते, न कार्यज्ञानमिति, नैतद्युक्तम्; अभिलषितसाधनेऽपि कार्यमितिज्ञानस्य प्रवृत्त्यानन्तर्यात्तदेव प्रवर्तकमनुमीयते। नचेष्टसाधनज्ञानं प्रवर्तकम्; अतीतानागतवर्तमानेष्टसाधनज्ञानानामप्रवर्तकत्वात्। तस्मात्कार्यसंसृष्टस्वार्थेषुशब्दसामर्थ्यमिति। ननु सर्वत्र कार्यव्यभिचाराभावेसंसृष्टस्वार्थेषु शब्दसामर्थ्यमिति युक्तं प्रतिपत्तुम्, कार्यसंसृष्टस्वार्थ इति विशेषणायोगात्, अन्यथा प्रमाणान्तरगृहीतकार्यसंसृष्टस्वार्थं इत्यव्यभिचारात्कल्प्येत, नैतत् युक्तम्, संसृष्टस्यार्थं इत्युक्ते केन संसृष्टः इत्यपेक्षायां कार्यसंसृष्ट इति विशेषप्रतिपत्तिमन्तरेण प्रयोजकस्यानिरूपणात्प्रमाणान्तरगृहीतत्वस्य
शब्दसामर्थ्यप्रतिपत्तिकालेऽप्रतिपत्तेर्न तत्र शब्दसामर्थ्यमित्युक्तम्। ननु कार्यसंसृष्ट इत्युक्ते कार्यस्य कार्यान्तराभावात् कार्यपदस्यान्यसंसृष्ट इति प्रयोजकभेदो वक्तव्यः स्यात्, न; धात्वर्थस्यापि कार्यत्वात्तत्संसृष्टनियोगे कार्यपदसामर्थ्यात्। ननु लोकेऽतीतानागतवर्तमानार्थनिष्ठवाक्येभ्योऽतीताद्यर्थप्रतिपत्तिकार्यदर्शनात् तदनुसारेण संसृष्टस्वार्थे सामर्थ्ये नियम्यत इति, न; सम्बन्धग्रहणाधीनत्वादर्थप्रतिपत्तेस्तया सम्बन्धग्रहणनियमायोगात्। अतीतादिवाक्यानां चैवमवधार्यतामिति नियोगनिष्ठत्वात्। तस्मान्न कार्यसंस्पर्शमन्तरेण भूतेऽप्यर्थे शब्दप्रामाण्यमिति। अपि च प्रवृत्ति-निवृत्तिसाध्यप्रयोजनमन्तरेण वाक्यप्रयोगानुपपत्तेः प्रयोजनस्य नियोगसामर्थ्याधीनत्वाद् नियोगपर्यवसितमेव वाक्यमित्याह--पुरुषेच्छासमुत्थापितो हीति।। ननु नेदं कालान्तरभावि नैयोगिकं फलम्, येन नियोगाधीना फलप्रतिपत्तिः स्यात्, किन्तु सम्यग्ज्ञानफलं प्राप्तब्रह्मप्राप्तिलक्षणमविद्यानिवृत्तिलक्षणं च हस्तगतविस्मृतसुवर्णप्राप्तिवदन्वयव्यतिरेकसिद्धमिति, नेत्याह नच विस्मृतसुवर्णारोपितसर्परशनाप्रतिपत्ताविवेति।। ननु अन्वयव्यतिरेकविरुद्धमेतत्, यद् ब्रह्मात्मतत्त्वज्ञानाद् ब्रह्मप्राप्त्यनर्थनिवृत्ती न स्त इति, न; प्रत्यक्षविरोधादित्याह--पूर्ववत्संसारित्वोपलब्धेरिति।। अपि च--शब्दज्ञानव्यतिरेकेण ब्रह्मात्मनि ज्ञानसाधनान्तरविधानात् प्रयत्नान्तरसाध्यं प्रयोजनं न ज्ञानमात्रसाध्यमित्याह--प्रतीत्युत्तरकालं चेति।। ननु लोके भूतार्थनिष्ठतया प्रयोजनपर्यन्तता दृश्यते, तद्वदिहापि स्यादिति, नेत्याह--तस्मात्सन्तु नाम लोक इति।।
ननु धर्मजिज्ञासा ब्रह्मजिज्ञासेति च जिज्ञास्ययोर्धर्मब्रह्मणोः सिद्ध-साध्यभेदेन वैलक्षण्यं दर्शितम्, नच ब्रह्मणि जिज्ञासाकर्मणि शब्दप्रतिपत्तिविध्यादयः शास्त्रेण प्रतिपाद्या इति युक्तं प्रतिपत्तुम्, सूत्रविरोधात्, इत्यत आह--तस्माद्यद्यपीति।। तथाऽपि प्रतिपत्यादिविधिशेषतयैव ब्रह्म जिज्ञास्यमित्यर्थः। कथं पुनर्ब्रह्मप्रतिपादनपराणां वाक्यानां ब्रह्मप्रतिपत्तिविधिशेषतया समन्वय इति तदाह--सोऽन्वेष्टव्य इत्यादि--यः पुनस्तस्मादित्यादिः स्पष्टार्थः।। तत्र नियोगमुखेन ब्रह्मणोऽवगतिमिच्छतो नियोग-ब्रह्मणी न प्रमाणेन प्रमातुं शक्येति, इत्येतत् प्रथमं दर्शयति--अत्रोच्यत इति।। तत्र विधेयाभावात्तद्व्यावृत्तो विधिः प्रमातुं न शक्य इत्याह--किमिदं ज्ञानमिति।। तत्र तावच्छाब्दं ब्रह्मविषयं विज्ञानं विधातुं न शक्यत इत्याह--न तावच्छब्दजन्यमिति।। गृहीतपदपदार्थस्याधीयमानाद्वाक्याद्विधिवाक्यादिव विध्यर्थे ब्रह्मणि विज्ञानमुत्पद्यते, तदेव च विचारेण प्रतिष्ठाप्यत इति। न चान्यथासिद्धकार्यमन्तरेण नियोग उपपद्यते। शब्दावगते ब्रह्मणि तत्समानजातीयस्मृतिसन्तानो, विधीयतामिति शङ्कते--अथ शब्दजन्यस्यैवेति।। तत्र स्मृतिसन्तानविधेः प्रयोजनं न तावददृष्टम्; स्वर्गादिवन्मोक्षस्य कर्मजन्यत्वप्रसङ्गात्, दृष्टफलत्वेऽपि न किञ्चित्फलं निरूप्यत इत्याह--न तस्य प्रयोजनं पश्यान इति।। ननु मर्दनसुखवत् प्रत्यक्षं सुखमित्याह--ननु इष्टविषयस्येति।। तर्ह्यन्वय-व्यतिरेकसिद्धसाधनत्वान्मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह--यद्येवमिति।। अस्तु तर्हि स्मर्यमाणस्य साक्षात्करणं स्मृतिसन्तानविधेः प्रयोजनमिति शङ्कते--अथ पुनरिति।। किं साक्षात्करणं स्मृतिसन्तानस्यादृष्टं प्रयोजनम् दृष्टं वा भवति नचादृष्टम्; वस्त्वापरोक्ष्यस्य चक्षुरादिप्रमाणसामग्रीसाध्यत्वाददृष्टमात्राजन्यत्वात्। अदृष्टसहकृताज्जन्मान्तरीयप्रमाणकारणाज्जन्यत इति चेत्, तर्हि जन्मान्तरे यथा शब्दादिप्रमाणकारणं विधिमन्तरेण ब्रह्मावगतिं जनयिष्यति, तथेहापि स्यात्। अथ दृष्टमेव ब्रह्मसाक्षात्करणं प्रयोजनमिति, न; अनुपलब्धेरित्याह--नैतद्युक्तमिति।। अनुपलब्धिविरोधमेव दर्शयति--नहि लैङ्गिकोऽर्थ इति।। शाब्दज्ञानस्मृतिसन्तानान्नापरोक्षज्ञानमात्रमुत्पद्यते, किं तु तज्जननसमर्थं विज्ञानान्तरमुत्पद्यते। तद्विज्ञानफलाय स्मृतिसन्तानो विधीयत इति शङ्कते--मा भूच्छाब्दज्ञानादेवेति।। तदप्यपरोक्षफलं विज्ञानं नादृष्टतया विधिफलम्; प्रमाणाधीनत्वादवगमस्य, नापि दृष्टतया; स्मृतिसन्तानस्य प्रमाणत्वाभावात्, नापि तद्विधिज्ञानफलत्वे प्रमाणमस्तीत्याह--नेत्थम्भावे प्रमाणमस्तीति।। मा भूत् स्मृतिसन्तानविधिः, शब्दावगते ब्रह्मणि ध्यानं विधीयते। ननु को विशेषः स्मृतिसन्तानाद् ध्यानस्य तत्र स्मृतिसन्तानो नाम प्रमाणावगते वस्तुनि तत एव प्रमाणात्सजातीयप्रत्ययप्रवाहो वस्तुतत्त्वविषयः। ध्यानं नाम वस्तुतत्त्वमनपेक्ष्यारोपितविषयतयाऽपि मनःसंकल्पप्रवाहः, स विधेय इत्याह--अस्तु तर्हि शब्दात् प्रतिपन्नस्येति।
ननु तस्याप्यदृष्टं दृष्टं वा प्रयोजनं वक्तव्यम्। न तावददृष्टम्; नैयोगिकत्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात्, नापि दृष्टं दृश्यत इत्याक्षिपति--किमर्थमिति।। ननु ध्येयसाक्षात्करणाय तदपि नादृष्टं फलम्; प्रमाणजन्यत्वादर्थानुभवस्य, दृष्टं फलं चेत्; न; अनुपलब्धिविरोधादित्याह--न तस्य सम्भव इत्यादि।। ननु ध्यानाभ्यासप्रचयसामर्थ्याद्विनष्टपुत्राद्यापरोक्ष्यं दृश्यत इति चोदयति--ननु दृष्टमिति।। न हि विनष्टपुत्रादीनामिदानीमविद्यमानत्वात्तदापरोक्ष्यं सम्भवति, किंतु यत्पुरोदेशे पुत्राद्यवभासते, तद् बाध्यमानत्वादविद्यात्मकम्, अतो न वस्त्वापरोक्ष्यमिति परिहरति--मैवम्; न तद् ध्यायमानमिति।। ननु ब्रह्मात्मनि ध्यायमाने ध्यानप्रकर्षाद् ध्येयापरोक्ष्यं तावत् पुत्रादिवत्सिध्यति, ध्येयस्य च वस्तुत्वं शब्दप्रमाणात्सिध्यति, अतो वस्त्वापरोक्ष्यं ध्यानात्फलिष्यति, यथा स्वप्ने चतुष्पथे हस्तिज्ञानमुत्पन्नं तथाभूतजागरणसंवादेन सम्यग् ज्ञानं भवतीति, नैतत्सारम्; अपरोक्षज्ञानस्य शब्दप्रमाणसामर्थ्यात्तथाभूतज्ञानत्वेन संवादात्प्रामाण्यं स्यात्। नच स्वप्नज्ञानं प्रमाणम्; अविद्यात्मकत्वात्, संवादस्तु सादृश्यभ्रमादिति। न हि चक्षुरादिप्रवृत्तिमन्तरेण वस्तुदर्शनं सम्भवति।।
ननु विध्युद्देशसामर्थ्यादेव ध्येयसाक्षात्करणं ध्यानफलं गम्यते, किमन्वय-व्यतिरेकाभ्यामित्याह--ननु द्रष्टव्य इति।। तत्रापि किं नैयोगिकं फलम् आहोस्विद् दृष्टमिति नैयोगिकत्वे स्वर्गादिवदुपचयापचयात्मको मोक्षः स्यात्, दृष्टं फलं चेत्, तदाह--उक्तमेतदिति।। विधेयसद्भावमङ्गीकृत्य शब्दानां ध्यानविधिपरत्वे ब्रह्मात्मैकत्वं न सिध्यतीत्याह--अथापि भवतु ध्यानादिति।। ननु शब्दो ब्रह्मात्मैकत्वं प्रतिपादयतीति, नेत्याह--शब्दस्तावदिति।। ननु ज्ञानविधिवाक्यव्यतिरिक्तानामवान्तरवाक्यानां ब्रह्मणि समन्वयाद्वस्तुसिद्धिरित्याह--सत्यं तथाऽपि तत्त्वं सिध्यतीति।। परिहरति--विषम उपन्यास इति।। तस्माद्विधिपरत्वे नास्ति वस्तुसिद्धिरिति। सर्वविधिभेदेष्वतिदिशति--पूर्वोक्तेष्वपीति।।
स्मृतिसन्तान-ध्यानयोर्नियोगो निराकृतः, इदानीं तृतीयज्ञानेऽपरोक्षफले नियोगमाशङ्कते--यत्पुनः कैश्चिदुच्यत इति।। तत्र वदामः--विधीयमानज्ञानस्य प्रत्यक्षानुमान-शब्दजन्यत्वाभावाद्-दर्श-पूर्णमासवदलौकिककरणेतिकर्तव्यताविषयविदानैः सह दर्शनं विधेयम्, न तद् दृश्यत इत्याह--तत्पुनः किंसाधनमित्यादिना।। शङ्कते तमेतं वेदानुवचनेनेति।। श्रवण-मनन-निदिध्यासनैः करणैर्वेदानुवचन-यज्ञ-दान-तपोऽनशन-शम-दमाद्यनुगृहीतेर्मोक्षकामो ब्रह्मण्यपरोक्षफलं ज्ञानं कुर्यादित्यर्थः। परिहरति--प्रमाणान्तरस्य तर्हि प्रमाणमिति।। अयमर्थः। सेतिकर्तव्यं साधिकारं च ब्रह्मण्यपरोक्षफलं विज्ञानं प्रमाणान्तरम्। तत् कर्तव्यतया शब्दैः प्रमीयते चेत्, न ब्रह्मणि प्रमाणं शब्दः, किंतु ब्रह्मप्रमाणे प्रमाणम्। ततश्च कल्पनालाघवाद् ब्रह्मण्येव प्रामाण्यं युक्तमिति। ननु विधिविषयमन्तरेण ब्रह्ममात्रे प्रामाण्यं न युक्तमिति, नेत्याह--कार्यगम्यमिति।। गृहीतसम्बन्धस्य वेदान्तवाक्येभ्यो ब्रह्मणि निश्चितप्रमितिकार्यगम्यं वेदान्तप्रामाण्यम्। तत्र प्रमितिजननाद् विषयस्य विधेयत्वगम्ये प्रामाण्येऽग्निहोत्रवाक्यं दर्श-पूर्णमासविधिनिष्टं किं न स्यात् तत्र शब्दसामर्थ्याभावात्प्रमित्यनुदयादिति चेत्, इहापि "सत्यं ज्ञानमनन्तं ब्रह्म" "तत्त्वमसी"त्युक्तेन विधौ सामर्थ्यप्रमितिर्वा गम्यत इति ब्रह्मण्येव प्रामाण्यं युक्तमिति। ननु लौकिकं प्रामाण्यं कार्यगम्यमेव, शास्त्रीयं तु विधिगम्यमिति, नेत्याह--तदुक्तमिति।। अत्र लौकिकानां शब्दानां मुख्यार्थाभिधानमुखेन वैदिकार्थप्रतिपादनासम्भवे किं वेदे पृथक्सम्बन्धं गृह्णीमः, किं वा वृत्त्यन्तरद्वारेणापि लौकिकादेव सम्बन्धादर्थं प्रतिपाद्यामह इति विशये लौकिकमेव प्रतिपत्तुं युक्तम्; अलौकिककल्पनादित्याह--गुणाद्वाप्यभिधानं स्यादिति।। एवं लौकिकमेव प्रामाण्यं युक्तम्; अलौकिककल्पनादित्यर्थः। तस्मान्न दृष्टफलतया नियोगपर्यवसितानि वेदान्तवाक्यानि।।
ननु कोऽयं नियोगो नाम ननु आचार्यनियोग इत्यादौ प्रसिद्धः, सत्यम्; तत्रोत्कृष्टस्य पुरुषस्यावरपुरुषप्रेरणात्मकोऽभिप्रायभेदो नियोगः, नासावपौरुषेये वेदे बालस्य प्रत्यक्षादिव्यवहारे च संभवति। ननु कार्यबुद्धिगम्यं वस्तु नियोग इत्याख्यायते प्रवर्तकत्वसामान्यादिति, किमिदं कार्यं नाम यदि कृतियोग्यतामात्रम्, न ततः प्रवृत्तिः; प्रागभाववतां सर्वेषां कृतियोग्यत्वात्। अथ कृतिसंसृष्टं कार्यम्, न; कृतिसंसर्गस्यैव निमित्तत्वोपगमात्कार्यबुद्धेः। अथ कृतियोग्यमेवालौकिकं किञ्चिद्वस्तु कार्यमिति, तर्ह्यव्युत्पन्नस्य
घटेनोदकाहरणं कर्तव्यमित्यादिप्रत्यक्षव्यवहारे क्रिया-कारकव्यतिरिक्तमलौकिकं किंचित्प्रतिपन्नम् न वा इति वक्तव्यम्। प्रतिपन्नं चेत्, नालौकिकं किञ्चिदिति। निदर्शनीयं च शब्दान्तरेणेदमित्थमिति। ननु कार्यमिति प्रतिपद्य प्रवर्तते। ततश्च प्रवर्तकाकारता कार्यस्य क्रिया-कारकफलेभ्यो वैलक्षण्यमिति, न; धात्वर्थस्यैवाभिलषितसाधनतया प्रवर्तकत्वात् तस्यैव च कार्यबुद्धिगोचरत्वात्। ननु अन्यत् कार्यमन्यदभिलषितसाधनम्, सत्यम्; अभिलषितसाधनमेव कृतियोग्यतया प्रवर्तकं कार्यमुच्यते। नच श्रेयःकृतिप्रतियोगिभेदमात्रादुभयबुध्यालम्बनं साधनं भिद्यते। नच कृतियोग्येष्टसाधनव्यतिरिक्तं कार्यं नाम प्रवृत्तिनिमित्तं पश्यामः। ननु फलमपि कार्यतया प्रवृत्तिसमर्थं दृश्यते, न विशिष्टप्रवृत्तिहेतुत्वाभावात्फलकार्यत्वस्य। अभिलषितसाधनं कार्यमेव सम्बन्धग्रहणलिङ्गभूतायाः प्रवृत्तेर्हेतुः; फलस्य त्विच्छामात्रहेतुत्वात्। नच कार्यं नामालौकिकं किञ्चिल्लोके दृश्यते। न तावत्प्रत्यक्षेणावगन्तुं शक्यम्; असिद्धस्वभावत्वात्। सम्बन्धाग्रहणान्नानुमानेन। अव्युत्पन्नत्वान्नागमेन। अलौकिककार्यमन्तरेणानुपपत्त्यभावान्नार्थापत्त्या कार्यमवगन्तुं शक्यम्। प्रवर्तकत्वमनुपपन्न इति चेत्, न; कृतियोग्यादभिलषितसाधनादपि प्रवृत्तेः। नच साधनत्वमपि कार्यवत्प्रमाणशून्यम्; तत्फलोदयान्वय-व्यतिरेकाभ्यामवगमात्, अननुभूतेऽपि सामान्यतोदर्शनेन साधनत्वसिद्धेः। नचातीतादिसाधनेषु प्रवृत्तिप्रसङ्गः; कृतियोग्येष्टसाधन इति विशेषणात्। तस्मादव्युत्पन्नस्य व्यवहारे प्रमाणान्तरेण यत्प्रवर्तकतया वर्तते, तदेव श्रोतुरपि शाब्दबुद्धिगोचरतया प्रवर्तकमनुमीयत इति सिद्धम्। तत्र ब्रह्मात्मैकत्वविज्ञाने विधिसम्बन्धो नाम फलसाधनसामर्थ्यम्। तत्राविद्यानिवृत्तिव्यतिरेकेण मोक्षफलस्याभावात्तस्य चान्वय-व्यतिरेकसिद्धत्वात्तत्वज्ञानस्य मोक्षसाधनत्वमन्वय-व्यतिरेकगम्यं न शब्दप्रमेयमिति ब्रह्मण्येव प्रमाणं शब्द इति सिद्धम्। इदानीं जीव-ब्रह्मणोर्भेदमङ्गीकृत्य ब्रह्मणश्च प्रदेशान्तरवर्तित्वं सर्वगतत्वं चाभ्युपगम्याहं ब्रह्मास्मीत्यारोपितरूपेण विधीयमानादुपासनाद् यागादिव स्वर्गो मोक्षः फलिष्यतीति ये मन्यन्ते, तन्निरासायोत्तरं भाष्यमित्याह--अथाप्यथ यदतः परो दिवो ज्योतिरित्यादिना।। ननु एवमप्युपासनाविधिपरत्वे शब्दस्य ब्रह्मस्वरूपासिद्धिरित्यत आह--देवताविग्रहवत्वन्यायेति।। नच प्रमाणान्तरविरोधः; विकारसंस्पर्शित्वाद्, ब्रह्मणः सद्वितीयत्वात्। ननु नैयोगिकफलत्वे मोक्षस्य स्वर्गादिवदनित्यतेति, नेत्याह--न च साध्यत्वेऽपीति।। ननु श्रुतिरनित्यत्वानुमानविरुद्धा कथमनावृत्तिं साधयेदिति अत आह--न ह्येष इति। ननु अनुमानागमयोर्विरुद्धाव्यभिचारित्वात्संशयहेतुत्वमिति, तत्राह--शब्दगम्यस्येति।। अनुमानादागमो बलवानित्यर्थः। अस्य परिहारत्वेन भाष्यमवतारयति--न कर्मब्रह्मविद्याफलयोरित्यादिना।। भाष्यस्य तात्पर्यार्थमाह--अस्यायमर्थः संक्षेपत इत्यादिना।। ननु नास्ति फलवैलक्षण्यम्; मोक्षस्याप्युपासनासाध्यतया कर्मजन्यत्वात्, ततश्चोपचयापचयशरीरेन्द्रियादिमत्ताऽपि स्यादित्यत आह--श्रुतितो न्यायतश्चेति।। "ब्रह्म वेद ब्रह्मैव भवति" "विद्ययाऽमृतमश्नुते" "ब्रह्मसंस्थोऽमृतत्वमेति" "अथायमशरीरोऽमृतः प्राणो ब्रह्मैवे"त्यादिश्रुतितो ब्रह्मात्मताऽशरीरामृतत्वलक्षणो मोक्षो दर्शितः। न्यायतश्च मोक्षस्य नित्यत्वं गम्यते, पुनरावृत्तौ पुनर्बन्धान्मोक्षशब्दस्योपचरितार्थताप्रसङ्गात् अभ्युदयनिःश्रेयसयोश्च भेदप्रतिपत्तेः। अनादित्वमपि श्रुतिः--न्यायाभ्यामवगतम्। "विमुक्तश्च विमुच्यते" "ब्रह्मैव सन् ब्रह्माप्येती"ति श्रुतेः, सादित्वे चान्तवत्त्वं स्यादिति न्यायात्। ततश्च न क्रियासाध्यो मोक्ष इति। क्रियासाध्यत्वेऽभ्युदयफलवच्छरीरेन्द्रियादिसम्बन्धक्षयिष्णुतोपचयापचयवत्त्वं च मोक्षस्य स्यादित्याह--यदि सन्ध्योपासनवदित्यादिना।। ननु यथैवोपचयापचयवत्क्षयिष्णु शरीरेन्द्रियादिभोग्यं च कर्मफलम्, एवं तद्विपरीतमशरीरामृतब्रह्मलक्षणं च निःश्रेयसं कर्मफलमेव स्यात्, कर्मणां पश्वादिविविधफलहेतुत्वदर्शनादिति, अत आह--न चाशरीरत्वमेव धर्मकार्यमिति।।
किमिदं स्वाभाविकमशरीरत्वम् किं वा नैमित्तिकमिति शरीरात्मनोर्मिथ्याज्ञानसम्बन्धव्यतिरिक्तस्य सर्वप्रकारसम्बन्धस्यात्यन्तिकाभावः स्वाभाविकमशरीरत्वम्, मिथ्याज्ञानसम्बन्धान्नैमित्तिकं शरीरित्वमिति। तत्र सम्यग्ज्ञानसाध्यस्य मिथ्याज्ञानसम्बन्धनिवृत्तिलक्षणस्याशरीरत्वस्य कर्मसाध्यत्वाभावात् सम्बन्धान्तरनिवृत्तिलक्षणस्याशरीरत्वस्य स्वाभाविकत्वान्न धर्मसाध्यो मोक्ष इति। ननु यदिदमशरीरामृतब्रह्मलक्षणं फलम्, तदन्यथा कर्मभिः परिणम्यत इति, नेत्याह--तथापि कथंचिदित्यादिना।।
ननु भवतु स्वाभाविकाशरीरामृतध्रुवलक्षणो मोक्षः सदैकरूपः; तथाऽप्युपासनासन्तानाद् विधीयमानाद्भविष्यति; ज्ञानलक्षणत्वादुपासनस्येत्यत्राह--तत्र यदि हस्तगतविस्मृतसुवर्णवदित्यादिना।।
ननु किमिति यागफलवदुपासनासाध्यत्वे मोक्षस्योपचयापचयक्षयिष्णुताशरीरसम्बन्धः स्यात् उच्यते--मोक्षफलाय विधीयमानस्योपासनस्य स्वरूपतः कालतः सङ्ख्यातो वा परिमितिरस्ति वा न वा इति वक्तव्यम्। अस्ति चेत्, साङ्गदर्श-पूर्णमासपरिमितिवदेतावदिदमित्युपासनापरिमितिः प्रदर्शनीया। नच तथा दृश्यते। नापि सङ्ख्यातः परिमाणमस्ति; सहसं लक्षं वा प्रत्ययानां मोक्षसाधनमिति नियामकादर्शनात्। नापि कालतः परिमाणमस्ति; एकं शतं सहस्रं वा संवत्सराणामुपासीनस्य मोक्ष इति नियमे प्रमाणाभावात्। मरणमेवावधिरिति चेत्, तथाऽपि दर्श-पूर्णमासवदेकाकारसाधनपरिमितिर्न लभ्यते; एकेन दशभिः शतेन सहस्रेण वा कालेन कस्यचिन्मरणात्पुरुषभेदेषूपासनोपचयापचयप्रसङ्गात्। उपास्यापरोक्ष्यमवधिरिति चेत्, तथाऽपि कस्यचित्केनचित्कालेनापरोक्षात्साधनोपचयापचयौ तदवस्थौ। अतो नोपासनलक्षणमोक्षसाधनैकरूप्यं लभ्यते। नचारोपितापरोक्षानुभव एव मोक्षसाधनम्; अविहितत्वान्मिथ्याज्ञानत्वाच्च। अथ मा भूदैकरूप्यम्, देश-काल-सङ्ख्या-परिमाणभेदादग्निहोत्राभ्यासवत्पुरुषभेदेषु साधनोपचयापचयात्मता भविष्यतीति, न तर्हि सर्वेषामेकरूपो मोक्षः स्यात्; काष्ठोपचयाद् ज्वालोपचयवदग्निहोत्रोपचयात् स्वर्गोपचयवच्चोपासनोपचयान्मोक्षोपचयापचयोपपत्तेः। अथ साधनवैषम्येऽपि फलैकरूप्यमुच्येत, अनुष्टानवैफल्यं स्यात्। अथ उपासनाऽपि विधीयमाना नियामकाभावादुपचयापचयरूपिणी, फलं च शास्त्रादेकरकूपमिति; नैतत्सारम्; उपासनातोऽविद्या-तत्संस्कार-काम-कर्मसु क्षीयमाणेषु चित्तैकाग्र्यादपरोक्षसम्यग्ज्ञानोदयोपपत्तेः, क्षीयमाणकर्मादिवैषम्यादपरोक्षज्ञानोपपत्तेश्च। तस्मात् स्वर्गादिफलवदुपचयरूपिणी मुक्तिः स्यात्, इति विधीयमानोपासनासाध्यत्वात् सुख-दुःखस्येव शरीरेन्द्रियादिदृष्टसामग्रीसाध्यत्वं साधनक्षयात्क्षयिष्णुता च स्यादित्युपसंहरति--अतो न कर्तव्यशेषत्वेनेति।।
ननु श्रुत्यनुमाने सामान्यावलम्बिनीं--"तद्यथेह कर्मचितः" "यत् कृतकम्, तदनित्यमि"ति, अपुनरावृत्तिश्रुतिस्तु मोक्षविषया बलीयसीत्युक्तार्थमनुवदति--यत्पुनर्न च पुनरावर्तत इति।। तत्र तावद्विधिपरत्वे वेदान्तानां फलश्रुतयोऽर्थवादाः; पर्णमयीत्वादिवत्, नचार्थवादैरपुनरावृत्तिः प्रमातुं शक्यते; द्रव्य-गुणसंस्कार-कर्मफलश्रुतिवत्। ननु नार्थवादत्वात्फलश्रुतयः प्रामाण्यं जहति, किंतु वर्तमानापदेशित्वेन योग्यतानुपलब्धिविरोधात्, इहापि तर्हि "नच पुनरावर्तते" इत्यप्राप्तप्रतिषेधान्नार्थवादानां नच प्रामाण्यम्। तथाहि--"ब्रह्मलोकमभिसंपद्यते नच पुनरावर्तते" इत्यभिसंपत्तिसमये पुनरावृत्तिरप्राप्ता प्रतिषिध्यते। ननु पुनरावर्तिष्यत इति भाविनी पुनरावृत्तिः प्रतिषिध्यत इति वाक्यार्थः कल्प्यत इति चेत्, न श्रुतार्थपरित्यागेनाश्रुतार्थकल्पनायाम्--यत्कृतकम्, तदनित्यम्, "तद्यथेह कर्मचितः" इति श्रुत्यनुमानविरोधात्। एवमपुनरावृत्तिवाक्यान्तरेषु योजयितव्यम्। तस्मादर्थवादमात्रमेतत्।
सामान्यश्रुत्यनुमानाभ्यां साध्यस्य मोक्षस्यानित्यता दर्शिता, इदानीमपुनरावृत्तिविशेषणसामर्थ्यादेवान्तमत्तामाह--किंच तेषामिहेति।। "इममिहे"ति विशेषणं मानवान्तरे स्वतः प्राप्तामावृत्तिं दर्शयति। ननु अस्मिन् कल्पेऽनावृत्तिं प्रतिपादयतो वाक्यस्य कल्पान्तरे पुनरावृत्तिप्रतिपादने द्वैयर्थ्याद्वाक्यभेदः स्यादिति, अनभिज्ञोऽयं सर्वसङ्करवादी देवानां प्रियः, यतः सर्वेषां सविशेषणवाक्यानामिदं चोद्यमवतरति। अथ सविशेषणं वाक्यं विशिष्टमर्थं मुखतः प्रतिपादयति, अर्थात्तु विशेष्यान्तरव्यावृत्तिः प्रमीयत इति न वाक्यभेदः, तर्हि इहाप्येतत्कल्पविशेषिताऽनावृत्तिर्मुखतः प्रतिपाद्यते, अर्थादपुनरावृत्तिरस्य कल्पान्तरे निवार्यते, इति न वाक्यभेदः। ननु कल्पान्तरेऽपि श्रुतिसामान्यादिह न पुनरावृत्तिरिति प्रतिषेधस्तुल्यः, सत्यम् अस्माकं तावदस्मिन् कल्पे प्रतिपन्नानां कल्पान्तरे पुनरावृत्तिर्विशेषणसामर्थ्यात्प्रमीयत इदानीम्, कल्पान्तरप्रतिपत्तृणामपि तस्मिन्ननावृत्तिप्रमितिश्चेत्, स्यात् इत्थं व्यवस्था कल्प्यते;--अस्मिन् कल्पे प्रतिपन्नानां कल्पान्तरे पुनरावृत्तिः, कल्पान्तरे प्रतिपन्नानां तत्रानावृत्तिरिति; अन्यथा विशेषणवैकल्यादिति।।
अपिच "अभ्युपेत्ये"त्यारभ्य "तथा तद्धैतदि"त्यतः प्राक्तनग्रन्थस्यायमर्थः--शब्दादवगते ब्रह्मणि सुखसंवेदनत्वादभ्यासेनापरोक्षीकृते विधिमन्तरेण यत्साक्षात्कारणम्, तद् ब्रह्मवेदनमित्युच्यते।
तस्मिन्नुत्पन्नेऽनन्तरमेवाविद्यादिदोषनिवृत्तेर्युक्तम् ब्रह्मसंवेदनेन समानकालत्वं फलस्य। यदा पुनरुपासनैवाध्यारोपितात्मविषया विधीयमाना ब्रह्मसंवेदनमुच्यते, तदा नैयोगिकफलस्य कालान्तरभावित्वान्न युक्तः समानकालता निर्देशः। अतः शब्दादपि विदितस्य ब्रह्मणः स्वयमेवापरोक्षज्ञानाय प्रवृत्तेः फलजननात्प्राक् न कार्यानुप्रवेश इति। "तथा तद्धैतत्पश्यनृषिर्वामदेवः" इत्यादिः "किञ्चे"त्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।।
अपि च ब्रह्मविद्याफलमविद्यानिवृत्तिं दर्शयति। स चापरोक्षाध्यासलक्षणतत्त्वापरोक्षज्ञानमन्तरेण न निवर्तते। यदा पुनरुपासनैवारोपितरूपा तत्त्वज्ञानं स्यात्, न तेनाविद्या निवर्तेत। अतस्तत्त्वज्ञानमेव प्रमाणजनितमविद्यानिवर्तकम्, इत्यविद्यानिवृत्तिफलश्रवणाद् ब्रह्मात्मनि वेदान्ताः प्रमाणमित्याह--किंच तस्मै मृदितकषायायेत्यादि।। ननु अविद्यानिवृत्तिरिह न श्रूयते, नैष दोषः ; "तरति शोकमात्मविदि"ति शोकतरणनिमित्तमात्मज्ञानं प्रक्रम्य "तमसः पारं दर्शयती"त्युपसंहरन् यदि तमोनिवृत्तिमेव न ब्रवीति, तदा शोकाद्यध्यासनिवृत्त्युपक्रमो न स्यात्। अतः शोकाद्युपादानानाद्यविद्यानिवृत्तिरेव "तमसः पारं दर्शयती"त्युक्तेति गम्यते। तथा "अविद्यायाः परं पारं तारयसी"त्यविद्यातिक्रमेण ब्रह्मप्राप्तिं ब्रुवन्नतिक्रमानुपपत्तेर्निवृत्तिमेव दर्शयतीति श्रुत्यनुसारेणाविद्यानिवृत्तिफलसिद्धये तत्त्वज्ञाननिष्ठं वेदान्तप्रमाणमित्युक्तम्।।
इदानीं तर्कशास्त्रानुसारेणापि मिथ्याज्ञाननिवृत्तिफलं तत्त्वज्ञानमिति दर्शयति--इतश्चैतदेवमिति।। अयमर्थः--दुःखजन्म-प्रवृत्तिदोष-मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति। आत्म-शरीरिन्द्रियार्थ-बुद्धिमनःप्रवृति-दोष-प्रेत्यभाव-फल-दुःखापवर्गेषु द्वादशसु-पदार्थेषु यदिदमनादिप्रवृत्तं मिथ्याज्ञानम्, तस्यात्मपरमात्मशरीरेन्द्रियादिद्वादशपदार्थतत्त्वदर्शनवैमल्यादपाये तेषु राग-द्वेष-मोहा नोत्पद्यन्ते। ततः प्रवर्तकाभावात्सुख-दुःख-फले प्रवृत्ति-निवृत्ती नोपजायेते। ततः प्रवृति-निवृत्तिद्वारोपचितशुभाशुभव्यामिश्रकर्मशून्यतया ब्रह्मादिस्थावरान्तेषु योनिभेदेषु न जायते; शरीरसम्बन्धं न प्रतिपद्यत इत्यर्थः। ततः शरीराभावे सुख-दुःखे नोत्पद्येते, इति मिथ्याज्ञानापायमेव मोक्षं दर्शयति। तथा वैशेषिकेरपि द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायेषु सालक्षण्यवैलक्षण्याभ्यां तत्त्वापरिज्ञानादनादिप्रवृत्तं मिथ्याज्ञानं तत्त्वपरिभावनया निवर्त्यते; ततश्चोत्तराभावादपवर्ग इत्युक्तम्। तथा सांख्ययोगैरपि दर्शितम्--द्रष्टृ-दृश्याविवेकलक्षणाऽविद्याऽनादिप्रवृत्ता तत्त्वज्ञानेन निवर्त्यते। ततश्चाविद्याऽस्मिता-राग-द्वेषाभिनिवेशाः क्लेशाः प्रहीयन्ते। ततः प्रक्षीणक्लेशस्य प्रवृत्त्यनुदयादपवर्ग इति। सुगतैरप्युक्तम्--अनुसन्धानकल्पनया राग-द्वेषादिदोषैः प्रवृत्तितत्फलोदयपर्यन्तैर्विषयविभ्रमैश्च दूषितानि विज्ञानानि। तैषु च तत्त्वपरिभावनया निवृत्तेषु विभ्रमेषु, विशुद्धविज्ञानचरमक्षणोदयो मोक्ष इति। तदेवमविद्यानिवृत्तौ मोक्षे प्रमाणजनितं तत्त्वज्ञानं विहाय कथमुपास्तिक्रिया मोक्षसाधनं कल्प्यत इति
ननु प्रदर्शितमन्यदेव मिथ्याज्ञाननिवर्तकं तत्त्वज्ञानम्। तथाहि--द्वादशपदार्थेषु तत्त्वपरिभावनाजनितेन सम्यग्ज्ञानेनाविद्या निवर्त्यते। पूर्वोपचितानि च कर्माणि तत्त्वपरिभावनाजनितसंक्लेशेन तत्प्रकर्षजनितेनान्देन वर्तमानस्य चोपभोगेन निवर्त्यन्ते। ततश्च कैवल्यमिति नैयायिकैरुक्तम्। वैशेषिकैरपि पदार्थषट्कपरिभावनाजनितेन तत्त्वज्ञानेनेश्वराभिध्यानानुगृहीतेन मिथ्याज्ञानं निवर्त्यते, ततो रागादयः क्रमेण परिहीयन्ते, ततश्च पूर्वोपचितदुरितानां पदार्थपरिभावनापरिक्लेशफलानामत्यन्तोच्छेदः, सुकृतानां च तत्त्वदर्शनवैमल्यानन्देन निवृत्तिः, ततः कैवल्यमिति दर्शितम्। योगास्तु प्रतिपेदिरे--असंप्रज्ञातसमाधिजनितेन प्रकृति-पुरुषविवेकज्ञानेन पुरुषाकारमात्रपर्यवसितेनाविद्याऽस्मिता राग-द्वेषाभिनिवेशेषु क्षीयमाणेषु पूर्वोपचितकर्मसु चैकभविकन्यायेन क्षीयमाणेष्वपवृज्यत इति। सुगतैः प्रतिपन्नम्-क्षणिक-स्वलक्षण-दुःखमार्गासत्यभावनाजनितविशुद्धज्ञानलक्षणचरमक्षणोदयेन हीयमानेषु स्थायित्वाकार्यस्य प्रवृत्ति-विषयविभ्रमेषु सन्तानोच्छेदो मोक्ष इति; तदेवं भिन्नविज्ञानसाध्यो मोक्ष इति, तत्राह--मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानादिति।। ननु प्रदर्शिततत्त्वदर्शिनेष्वपि मिथ्याज्ञाने प्रतिपक्षेषु ब्रह्मविज्ञानमेव किमिति निवर्तक गृह्यते इति चोदयति--कथं गम्यत इति ।। भेददर्शनस्या मिथ्याज्ञानविलसितत्वेन तत्प्रतिपक्षेणाद्वितीयब्रह्मात्मदर्शनेनैव तन्निवृत्तिः, न यथोक्तभेददर्शनैरिति परिहरति--इन्द्रो मायाभिरित्यादिना।। ननु अद्वितीयब्रह्मात्मैकत्वपरं न शास्त्रम्; तत्र तात्पर्याभावात्, किन्तु जीवविलक्षणे
प्रमाणान्तराविरुद्धे ब्रह्मणि शास्त्रप्रतिपन्ने संपदादिविषयाणि तादात्म्यवाक्यानीति पूर्वपक्षयति--अथापि स्यादित्यारभ्यात्रोत्तरमित्यतः प्राक्तनेन ग्रन्थेन। ग्रन्थस्तु स्पष्टार्थः। तत्रेदं वक्तव्यम्--किं प्रमाणान्तरविरोधात्संपदादिपरः पदसमन्वयः किं वाऽर्थे तात्पर्याभावादिति न तावत्प्रमाणान्तरविरोधः; तयोस्तदगोचरत्वात्। भेदावभासेऽपि बिम्ब-प्रतिबिम्बन्यायावतारात्। नच तात्पर्याभावादर्थपरत्वाभाव इत्याह--संपदादिरूपे हीत्यादिना।।
तथाहि--"तत्त्वमसी"ति नवकृत्वोऽभ्यस्तस्य "अनेन जीवेनात्मनानुप्रविश्ये"त्येकात्म्यसिद्धयेऽर्थवादौ गृह्यते। "अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षयलोका भवन्ती"ति भेददर्शनं निन्द्यते। तथा--"अहं ब्रह्मास्मी"त्यस्य "स एष इह प्रविष्टः" इत्याद्यर्थवादः। "अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमि"त्यादिभेदप्रतिषेधश्च तात्पर्यहेतुरुपादीयते। तथा--"एष त आत्मे"ति बहुकृत्वोऽभ्यस्तस्य "नान्योऽतोऽस्ति द्रष्टे"त्यादिभेदापवादेन तात्पर्यं ज्ञायते। तथा "स यश्चायं पुरुषे यश्चासावादित्ये स एकः" इत्यस्य तत् सृष्ट्वा तदेवानुप्राविशदित्यर्थवादः। तथा--"उदरमन्तरं कुरुतेऽथ तस्य भयं भवती"ति भेददर्शनापवादः। तथा "एतदेव पुरुषं ब्रह्म ततममपश्यदि"त्यस्य "स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यते"त्यर्थवादः। तदेवं सर्ववेदान्तेषु तत्र तत्रावस्थात्रयपर्युदासेन ब्रह्मात्मैकत्वं प्रतिपाद्यमानं द्रष्टव्यम्। न हि भेददर्शनापवादेन ब्रह्मण एव जीवात्मना प्रवेशार्थवादेन च ब्रह्मात्मैकत्वं तत्र तत्राभ्यस्यावस्थात्रयसंबन्धविरोधनिराकरणेन च। प्रतिपाद्यमानं तात्पर्यहीनमिति युक्तं वक्तुमिति। किंच अविद्यानिवृत्तिर्ब्रह्मात्मभावश्च विद्याफलं श्रूयते। नच संपदादिपरत्वे तदुपपद्यते; अन्यस्यान्यात्मताविरोधात्, अप्रमाणत्वाच्च। अतः फलवचनसामर्थ्यादपि ब्रह्मात्मैकत्वपरः पदसमन्वय इत्याह--तदवगमनिमित्तं चेति।। उपसंहरति--तस्मान्न संपदादिवदिति।।
अत्र कश्चिदाह--ब्रह्मणो भिन्नाभिन्नोऽयं जीवः। ततश्च ब्रह्मणो नित्यमुक्तता जीवस्य च नित्यबद्धता व्यवस्थामश्नुते, अत्यन्ताभेदे तु ब्रह्मैव स्वसंसाराय कथं जगदुत्पादयेत् विरुद्धा च विशुद्धस्याशुद्धताप्रतिपत्तिरिति, अत्रोच्यते; किमात्मिकेयं भिन्नाभिन्नता न तावज्जातिव्यक्तिगुणगुणिकार्यकारणविशिष्टस्वरूपांशांशिभावनिबन्धना; जीवब्रह्मणोस्तेषामभावात्प्रकारान्तरेण भेदाभेददर्शनात्। "ममैवांशो जीवलोकः" इति स्मृतेरंशांशितेति चेत्, न; "निष्कलं निष्क्रियमि"तिश्रुतिविरोधात्। "पादोऽस्य सर्वा भूतानी"ति चाल्पतामात्रविवक्षयोक्तम्; वाक्यस्य ब्रह्मानन्त्यप्रतिपादनपरत्वात्, सांशत्वे च पटादिवदवयवारभ्यत्वप्रसङ्गात्। ननु स्वाभाविकी निरवयवता, बुध्याद्युपाधिनिमित्तं सांशत्वमिति चेत्, न तावदुपाधिना विदार्य पृथत्क्रियते जीवः; खङ्गधारासमाविद्धेऽप्याकाशे निरवयवे भेदनादर्शनात्। उपाधिभिश्च स्वात्मानं विदार्य संसारमनुभावयता ब्रह्मणा स्वात्मनि व्यामोह एव प्रकटितः स्यात्। नचोपाधीनामन्यार्थतया सृष्टिः; अन्याभावात्, प्रागभिन्नानां जीवानामन्यत्वाभावात्, द्रव्येणैव द्रव्यविदारणात्कर्माविद्यासंस्काराणां सतामप्यनुपाधित्वात्।।
अथ भेदोऽनिष्पन्नोऽप्यौपाधिको व्यज्यत इति, तर्ह्यनादिरेव भेदः। स च जाति-व्यक्तिभावादिनिबन्धनो ब्रह्मणि जीवे च न स्यात्। नील-पीतादिवत्स्वाभाविको भेदो द्रव्यत्वादिजातिनिबन्धनश्चाभेद इति चेत्, तर्हि तद्वदेव--"अयमात्मा ब्रह्मे"ति सामानाधिकरण्यं न स्यात्, तस्यैव प्रवेशश्रुतयश्च बाध्येरन्। एकत्वानुमानं च दर्शितम्। न निष्पन्नः, नाप्यनादिः, किंतूपाधिनिबन्धनस्तत्र प्रकाशते भेद इति चेत्, स तर्ह्यतस्मिंस्तदारोपो विभ्रम एव स्यात्। नच प्रत्यक्षादिभिर्जीवब्रह्मभेदो गृह्यत इत्युक्तम्। आगमश्च "नान्योऽतोऽस्ति द्रष्टे"ति भेदं प्रतिषेधति। अभेदवचनानि तानीति चेत्, मैवम्; "एष त आत्मे"त्यादिनाऽभेदं प्रतिपाद्यैव पुनर्भेदस्य तत्रैव प्रतिषेधात्, कथं वा सत्यप्यभेदेऽविद्या-काम-कर्मव्यवस्था न ह्याकाशं घटेनावच्छिद्य तदन्तर्धूमादिसमावेशने सत्याकाशस्य धूमादियोगः परिहर्तुं शक्यते। ननु भेदाद् व्यवस्थाऽपि विद्यते, तर्हि ब्रह्मण्यविद्यादिसंसर्गोऽसंसर्गश्चेत्युभयमपि स्यात्। ननु विरुद्धमिदमापाद्यते, कोऽयं भेदाभेदवादिनो विरोधो नाम एकोपाधावेकस्यैव भावाभावोपगमादभेदो नाभावः, किन्त्वैक्यमेव धर्मान्तरमिति चेत्, तथाऽपि--"अहं मनुष्यो" ठद्वौ चन्द्रावि"त्यादावैक्यभेदयोर्भेदैक्यज्ञानाभ्यां बाधदर्शनाद्भेदाभेदौ विरुद्धावेकत्राभ्युपगच्छता किमिति भावाभावाविदानीं ब्रह्मणि नाभ्युपगम्येयाताम् किंच प्रत्येकं देहपटावयवेषु मलसंसृष्टेषु मलिनः पटोऽहं मलिन इति
वाऽवयविनि मलसंसर्गनिश्चयात् फलवचनानां च वर्तमानापदेशिनां प्रत्यक्षविरुद्धतयाऽर्थवादत्वात्, सत्यपि भेदे जीवसमवायिभिर्मलैरवयवि ब्रह्म मलभूयिष्ठमेवेति निश्चीयेत। किंच ब्रह्मण्यविद्यादिमलसंसर्गमप्यसहमानोऽतिभक्तिविलसितान्तःकरणः कथं तैरेव मलैरभेदं सहते!!! निरवद्यश्रुतिविरोधान्नाभेद इति चेत्, न; सर्वात्मत्वश्रुतेः। अत एव पापीयानयं पक्ष इत्युक्तम्। ननु उपाधिभेदेन व्यवस्थाप्यते, न; अर्थतो भेदनाभावे परमार्थसत्यस्य संसारसम्बन्धस्याभेदे सति व्यवस्थानुपपत्तेः। मिथ्याभेदेन तु मिथ्यासंसारव्यवस्था युज्यते, बिम्ब-प्रतिबिम्बयोस्तथा दर्शनात्। किंच ब्रह्म सर्वान् जीवानात्मत्वेन पश्यति वा न वा न चेत्, सर्वज्ञताहानिः। पश्यति चेत्, स्वात्मन्येव संसारं पश्येत्। ननु भेदमपि पश्यति, तर्हि ब्रह्माऽऽत्मनि संसारं पश्यति, न पश्यतीति स्यात्। किंच सत्यपि भेददर्शने मिथ्यातादात्म्याभिमानाद् देहधर्मानात्मनि पश्यति, किमु वक्तव्यं सत्येनाभेदाभिमानेनेति न ह्यभेदापरोक्ष्ये सति भेदोऽप्यपरोक्षोऽवभासमानो दृष्टः।।
किंच सर्वं च सत्यतयैवात्मन्यपरोक्षतया सर्वाधारस्य सर्वज्ञस्य पश्यतो ब्रह्मणः सर्वसंसारसम्बन्धः स्यात्। किंच ज्ञान-ध्यान-समाधिभेरेकस्मिन्नुपाधावेकस्य जीवस्य-प्रलीयमानेऽपि न किंचित्प्रयोजनमस्ति; परिशिष्टसर्वोपाधितद्धर्मसंबन्धप्रतिभासनात्। नच सर्वोपाधिविनिर्मोक्ष केनचिदपि कर्तुं शक्यते। मम पुनरेकोपाधिपरित्यागेन बिम्बभूतब्रह्मात्मतापरोक्षावभासिनोऽपि प्रतिबिम्बश्यामत्वादिभिरिव जीवसंसारैर्न संबन्धः; मिथ्यात्वेन तत्त्वज्ञानप्रतिहतत्वात्। स्वप्नादिवच्च तत्त्वज्ञानेन सर्वोपाधिविनिर्मोक्षश्च युज्यते; वामदेवादिमुक्त्येदानीं संसारानुपलब्धिः स्यादिति चेत्, एकैकमुक्तावप्यनन्तैरेव युगैरनन्तानां जीवानां मुक्तत्वात्तुल्येदानीं संसारानुपलब्धिः। इदानीं संसारदर्शनं तु परस्यापि तुल्यम्। अनुपपत्तिश्चावयोः समाना। अतो निरुपाधिकचैतन्ये त्वयि ब्रह्मणि प्रत्यक्षे बन्धावभासे सोपाधिकचैतन्येषु तव मुक्ततावभासो विभ्रमः। तद्विषयश्रुत्यादीनां प्रत्यक्षाविरुद्धतयाऽर्थवादत्वाद् निरुपाधिकचैतन्यप्रतिभासे त्वयि सोपाधिकचैतन्यभेदानां कल्पितत्वात् कस्यैकस्य बन्ध-मोक्षाविति तव तावत्संदेहो न जायते; सोपाधिकचैतन्येषु मुक्तताभ्रमात्, तद्वचनानां चार्थवादत्वात्। एवं प्रत्येकमात्मनो न संदेहः। तस्मात्सर्वसङ्करवादिनो विभ्रमोऽयमस्मत्पक्षे व्यवस्थेति।
तदेवं ब्रह्मावगमे विधिमन्तरेणैवापरोक्षफलपर्यन्ते साध्यान्तराभावान्न विधिसम्बन्ध इत्याह--तत्रैवं सतीति ।। किं तर्हि प्रमाणफलमिति तदाह--अतो मिथ्यैवेति।। ननु प्रयोजनाभावाद् ब्रह्म न विधिकर्म भवति आहोस्वित् कारकत्वाभावादिति प्रयोजनं तु साध्यो मोक्षो वक्ष्यते, न कर्मकारकत्वाभावात्, विदिक्रियाकारकत्वादित्याह--ननु विदिक्रियाकर्मेति।। न चेति भाष्यमेव परिहारः। ननु विदिक्रियाकर्मत्वाभावे शास्त्रजन्यज्ञानं व्यावर्तकत्वाभावान्न शास्त्रगम्यं ब्रह्मैति चोदयति--सोऽयं शान्तिकर्मणीति।। स्वयंप्रकाशमानतया स्वविषयप्रकाशजननानपेक्षस्यापि ब्रह्मणः शास्त्रजन्यज्ञानाकारतया तद्व्यावर्तकस्याविद्यादिदोषनिवृत्तिफलवत्तया शास्त्रप्रमेयं ब्रह्मेति प्रतिपादयति।।
अत्रोत्तरम्--नाविद्याकल्पितेत्यादि।। ननु अनधिगतार्थप्रकाशमन्तरेण न प्रमाणव्यापारस्य फलवत्तेत्यत्राह-- शास्त्रं हि सोऽयमित्यादीति।। ननु तत्र वा विषयाधिगममन्तरेण कथं निवर्त्यमात्रे प्रमाणव्यापार इति अत आह--तथाहीति।। उक्तमेतद् देवदत्तैक्यस्याभिज्ञायामेव सिद्धत्वात्तदाकेण प्रत्यभिज्ञावाक्याभ्यामुपजनितेन ज्ञानेनोपाधिपरिकल्पितभेदनिरासेन प्रत्यभिज्ञावाक्ययोः प्रामाण्यमिति। ननु ब्रह्मत्मनि विपर्ययाभावान्न तन्निरासेनापि प्रामाण्यमित्यत आह--तथा त्वंपदार्थोऽपीति।। केन तर्हि प्रमाणाकारेण विपर्यासनिरास इति तदाह--तत्पदार्थैकतामुपगच्छन्निति।। तत्त्वंपदाभ्यां लक्ष्यमाणं ब्रह्मात्मैकत्वं विज्ञानाकार इत्यर्थः। किं तर्हि तदाकारज्ञानेन निवर्त्यत इति तदाह--अहमात्मकेदमंशोपाधिकृतेति।। प्रमाणव्यापारो विषयाकारोदय एव प्रमीयमाणवस्तुमार्थ्याद्विपर्यासनिरास इत्याह--अर्थादिति।।
ननु ज्ञातृसमवायिनी ज्ञेयाकारा संवित्प्रमाणफलम्, अनेन च विपर्यासो निरस्यते; प्रकाशस्यैवाप्रकाशविरोधित्वात्, नित्ये च चैतन्यप्रकाशे न प्रमाणफलमस्तीत्यत आह--अवच्छिद्यमानानिदंप्रकाशः प्रमाणफलमिति।। प्रमाणेन विषयीकृतार्थगतं चैतन्यं प्रमाणफलमुच्यते, न प्रमाणजन्यम् ; लोकेऽप्यजन्यत्वात्। अतः प्रमातृ-प्रमाण-प्रमेयावच्छिन्नं चैतन्यं प्रमात्रादि निवर्तयति; अवच्छेद निवृत्त्योः पूर्वोत्तरक्षणतया
विरोधाभावादिति। ननु फलं चेन्निवर्तकम्, निवर्त्त्यानन्तरभूतत्वात्। तर्हि फलं यावत्कालमेव स्थास्यतीति, नेत्याह--तदप्यवच्छेदकविनाश इति।। ननुशास्त्रजन्यज्ञानेन न प्रकाश्यते चेद् ब्रह्म, न शास्त्रगम्यं स्यादित्यत आह--तेन प्रमाणादिचतुष्टयस्येति।। ननु किमित्यविद्यानिवृत्तिरेव प्रमाणफलमुच्यते विषयप्रकाशोऽपि प्रमाणफलमुच्यतामिति, तत्राह--तथा चैवंविधस्येति।।
"अविज्ञातं विजानताम्" यतो वाचो निवर्तन्त इत्यादि।। ननु "मनसैवानुद्रष्टव्यम्""तन्त्वौपनिषदं पुरुषमिति" ज्ञानक्रियाकर्मत्वमपि श्रूयते, नैष दोषः वेदान्तजनितापरोक्षज्ञानस्याकारसमर्पकतया व्यावर्तकत्वं शास्त्रप्रमेयत्वं नाम, ज्ञानजन्यप्रकाशातिश्यशून्यत्वमविषयता नामेति व्यवस्थोपपत्तेः। नहि प्रकाशगुणे पुनः प्रकाशगुणान्तरोदय इति। ननु अविद्यानिवृत्तिरपि ज्ञानसाध्यत्वाद् मोक्षस्यानित्यतेति, नेत्याह--एवं च नित्यमुक्तेति।।
ननु कोऽयं जीवो नाम यस्य स्वरूपं त्वंपदंन लक्ष्यमाणं ब्रह्मैव वाक्यार्थः संपद्यते। ब्रह्मैवाविद्याप्रतिबिम्बितमिति वदामः। ततश्च त्वंपदेनाशेषोपाधिनिराकरणेनाऽऽत्मस्वरूपमेव लक्ष्यमाणं तत्पदोपलक्ष्यं ब्रह्मैव पदद्वयसामर्थ्यात्संपद्यते। नचैतदुपाधिद्वयनिराकरणेन विशुद्धब्रह्मात्मज्ञानमेकेनैव पदेन लभ्यते; विरोधानुत्पत्तेः। ननु भिन्नाभिन्नता वाक्यार्थः किन्न स्यात् न; तथा सति शरीरेन्द्रियविशिष्टस्यैव त्वंपदार्थस्य ब्रह्मणो भिन्नाभिन्नत्वात्तथैव वाक्यार्थसिद्धेर्लक्षणया ब्रह्मात्मज्ञानेनाध्यासबाधो न स्यात्, वर्तमानापदेशिनां फलवचनानां योग्यानुपलब्धिबाधात्, सत्यपि तत्त्वज्ञाने न शास्त्रद्वन्धनिवृत्त्यवगमः। भिन्नाभिन्ने च वाक्यार्थे न तत्त्वज्ञानाद् भेदांशनिवृत्तिः; तस्य स्वविषयानाशकत्वात्कर्मोपासनापरोक्षानुभवान्निवृत्तिकल्पना भिन्नभिन्नविषयागमविरुद्धा, आगमस्य सर्वकालं भेदाभेदविषयत्वात्। यत्त्वभेदांशेन ज्ञानमोक्षादिव्यवहारो भेदांशेन कर्मविद्यादिव्यवहार इति व्यवस्था कल्प्यते; तन्मन्दचेतनोपच्छन्दनमात्रम्। तथाहि-यदि भेदाभेदाभ्यामंशी जीवोऽभेदांशश्च ब्रह्मैव स्यात्, तदा सावयवो जीवांशश्च ब्रह्मेति पण्डितम्मन्यस्य हि परीतोऽर्थः संपद्येत। भेदांशस्याब्रह्मत्वेऽत्यन्तभेद एव स्यात्। नचांशद्वयसमुदायो जीवः ; अवस्तुत्वप्रसङ्गात्। न चाभेदांश एव जीवः; ब्रह्मण एव जीवत्वप्रसङ्गात्। नचोभावंशौ; जीवद्वयप्रसङ्गात्। न च भेदांश एव जीवः; अत्यन्तभेदप्रसङ्गात्। तत्र तत्त्वज्ञानमोक्षादिव्यवहाराऽसिद्धिः। भेदाभेदांशावभिन्नौ जीव इति चेत्, यद्यभिन्नावेव। जीवः; तर्हि ब्रह्मैव जीव इति कुतो बन्ध-मोक्षव्यवहारव्यवस्था अथ भेदाभेदांशौ परस्परं भिन्नाभिन्नाविति मतम्, नैवम्; भेदाद्यनवस्थाप्रसङ्गात्। किंचांशिनो वांशद्वयसमुदायस्य वा परस्पराभिन्नांशद्वयस्य वा जीवत्वे ब्रह्मणो जीवांशत्वं परिहर्तुं न शक्यते। किंच कस्यायं शास्त्रोपदेशः न तावदभेदांशस्य; तस्य ब्रह्मस्वरूपतयोपदेशानपेक्षत्वात्, नापि भेदांशत्वोपदेशः; "अहं ब्रह्मास्नी"तिप्रतिपत्त्ययोगात्। नच भेदांशस्य पुनरभेदः सम्भवति; विरोधात्, ब्रह्मण्येव संसारप्रसङ्गाच्च। कस्ययाचमविद्यादोषः न तावदभेदांशस्य; ब्रह्मण्येव प्रसङ्गात्। नापि भेदांशस्य; उपाधिजनात् प्राग् भेदाभावात्। स्वत एव भेदांशेऽशिनि वा जीवे बन्धदोष इति चेत्, तद्विनाशे जीवनाशः स्यात्; मोक्षे भेदांशविनाशात्, अभेदांशस्य नित्यमुक्तत्वात्।। कस्यायं मोक्ष उपदिश्यते। तत्रापि भिन्नाभिन्नं चेत्, "ब्रह्म वेद ब्रह्मैव भवती"त्येवकारविरोधः संसारादविशेषश्च स्यात्।
किंचायं सर्वत्र संकीर्णं वस्तु प्रतिपद्यमानः स्वर्ग-नरक-बन्ध-मोक्षादीन् सांकर्येण व्यवस्थापयितुं प्रवृत्तः कथं व्युत्पन्नमतिषु नापत्रपेत। भेदेनैव सर्वं व्यवस्थाप्यते चेत्, किमनेन भेदेन बन्ध्यायमानेन स्वप्रयुक्तकार्यानिमित्तेन कल्पितेन धर्मिप्रतियोरिव्यतिरेकेण भेदोपाधेरभावात्। उपाधिभेदेन भेदाभेदव्यवस्था त्वेकस्य भेदाभेदौ निवारयति धर्मि-प्रतियोगिभेदात्। शास्त्रं पुनः--"नान्योऽतोऽस्ति द्रष्टे"ति भेदोपमर्देनैवाभेदं प्रतिपादयति--"एष त आत्मे"ति च। नच सत्त्वादिसामान्यद्वारेण जीवब्रह्मणोरभेदः; अनुमानेनैव तत्सिद्धेः शास्त्रानपेक्षणात्। ननु अत्यन्ताभेदावादिनस्तवैव सर्वं संकीर्येत, न मम; भेदस्याभ्युपगमात्, नैवम्; कार्यप्रपञ्चस्यानिरूपितस्वभावतया यथावभासं भेदादिव्यवस्थोपगमात्, अत्मन एवाभेदोपगमात्। तस्मान्मन्दमतिसन्तोषमात्रप्रयोजनतया बहुवेणुभारपीडितचेतसाऽयं भेदाभेदपक्षः समादीयत इति। तस्मादिदमेव ब्रह्म देवदत्तवदुपाधिभेदनिमित्तविभादपरामर्शेन प्रत्यस्तमितविभागं वाक्येन प्रतिपाद्यत इति शोभनम्।।
"यस्य तूत्पाद्यो मोक्षः" इत्यादिनोत्तरस्य भाष्यसमुदायस्य तात्पर्यमाह--ननु ब्रह्मणोऽपि
कारकत्वसम्भवात् कथं न सम्भवति क्रियेत्याह--कथमिति।। तत्रेदं वक्तव्यम्--किं यागादिवत्कर्तृसमवेतापूर्वादिफलदानाय ज्ञानं विधीयते किं वा कर्माकरकातिशयफलायेति न तावत् पूर्वः कल्पः; "न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि"त्यारभ्य निरस्तत्वात्; नाप्युत्तरः कल्प इत्याह--यदि तावदुत्पाद्य इत्यादिना।।
अत्र केचिदाहुः--उत्पाद्यत्वेऽपि मोक्षस्य नानित्यतादोषः; क्रियासाध्यस्यैवानित्यत्वात्, मोक्षस्य ज्ञानमात्रसाध्यत्वात्, नच ज्ञानमात्रसाध्यस्यानित्यत्वं दृष्टम्; नचाविद्यानिवृत्तिमात्रमेव ज्ञानसाध्यम्; ब्रह्मभावस्यापि साध्यत्वात्। ननु जीवस्य ब्रह्मभावः स्वाभाविको न साधनीयः, न; तादात्म्यस्यैव स्वाभाविकत्वात्। भेदतावन्मात्रविरोधस्तादात्म्यं नाम। तद्भावस्तु ब्रह्मतावन्मात्रताजीवस्य ज्ञानेन साध्यते; "तरति शोकमात्मवित्" "ब्रह्म वेद ब्रह्मैव भवती"त्युभयविधश्रुतिसामर्थ्यादिति, अत्रोच्यते--किं शास्त्रजनितसम्यग्ज्ञानेन तादात्म्यविषयेण मोक्षः साध्यते किं वा तद्भावविषयेणेति न तावत्तद्भावविषयेण; तस्य नित्यसिद्धताप्रसङ्गात्। यदि तादात्म्यविषयेण तत्रापि निवृत्ते तादात्म्ये तद्भावः साध्यते वा न इति वक्तव्यम्। निवृत्ते चेत्, ज्ञानस्य स्वविषयविनाशकत्वं दर्शितं स्यात्। ज्ञाननिवर्त्यत्वे चाज्ञानमेव तादात्म्यमापद्येत, अनिवृत्ते तु तादात्म्ये तद्भावो नोपपद्यते। न हि तावन्मात्रता तद्विरोधिता च युगपत् स्यातामिति।। किंच तादात्म्यनिवृत्तिरेव तद्भावः किंवान्य इति वक्तव्यम्। निवृत्तिरेव चेत्, अविद्यानिवृत्तिरेव मोक्ष इत्युक्तं स्यात्, अन्यश्चेत्, तर्हि तादात्म्यं तद्भावं चान्तरेण रूपान्तरं वक्तव्यम्। न हि जीव-ब्रह्मणोस्तादात्म्य-तद्भावव्यतिरेकेणात्यन्तभेदादन्यद् रूपान्तरं शक्यते निरूपयितुम्। कश्चायं तद्भावो नाम न तावद् ब्रह्मैव; असाध्यत्वात्। अत एव न जीवोऽपि; नच तृतीयश्चेतनोऽचेतनो वा तद्भवो निरूपयितुं शक्यः। किंच यदि तादात्म्यलक्षणातिरेकविशिष्टश्चेज्जीवः, तद्विनाशे विनाशमियात्। निष्कृष्टतादात्म्यश्चेज्जीवः, ब्रह्ममात्रमेव स्यात्; अत्यन्तभेदानङ्गीकारात्। तस्मात्तत्तादात्म्यस्य तद्भावः शास्त्रयुक्तिहीनः। नच तत्त्वंपदाभ्यां लक्ष्यमाणयोर्जीव-ब्रह्मणोस्तादात्म्यं प्रतीयते; भिन्नोपाधिपरामर्शेनैकस्य वस्तुनो लक्ष्यमाणत्वात्। नचैकेनैव पदेन तस्य लक्षणायां भेदावभासो निवर्तते। फलश्रुतयश्चाविद्यानिवृत्तौ योजयितुं शक्यन्ते। नच ज्ञानसाध्यस्य नित्यतालाभः; संस्कारस्य तज्जन्यस्यानित्यतादर्शनात्। नच संस्कारस्यापि क्रियाजन्यता; संस्कारान्तरवत्स्मृतिहेतुत्वायोगात्, अन्वय-व्यतिरेकविरोधाच्च। अब्रह्मज्ञानस्य साध्यत्वात् क्रियाजन्यतेति चेत्, न; क्रियायामनैकान्तिकत्वात्। तस्मादभूत्वा भवनमेवानित्यताहेतुरिति। तर्हि तृतीयं फलं क्रियासाध्यमिष्यतामिति शङ्कते--अथानित्यत्वपरिहारायेति।। तत्रेदं वक्तव्यम्--किं ब्रह्मप्रत्यगात्मभूतम् व्यतिरिक्तं वा व्यतिरेकेऽपि सर्वगतं वा प्रदेशान्तरवर्ति वा ब्रह्मेति तादात्म्ये दूषणमाह--तदपि नेति।। व्यतिरेके सर्वगतं चेत्, संयोगव्यतिरिक्तप्राप्त्यभावात्संयोगो नित्यसिद्ध इत्याह--व्यतिरेकेऽपीति।। प्रदेशवर्तित्वं शङ्कते--अथ विकारवर्तिन इति।। तत्र वक्तव्यम्--किं विकारसंस्पर्शपरिहाराय प्रदेशवर्तित्वमुच्यते किं वा शास्त्रसामर्थ्यादिति। शास्त्रं पुनः सर्वगतत्वमेव दर्शयति, नच सर्वगतत्वेऽपि विकारसंस्पर्श इत्याह--न वाकीरदेशेऽपीति।। अथ सर्वगतत्वस्यौपचारिकत्वात्प्रदेशविशेषवर्त्येव ब्रह्मेति शङ्कते--अथ विकारावर्त्येवेति।। न; मध्यमपरिमाणस्य वस्तुनः पृथिव्यादिवदत्सावयवत्वात्। दूषणविभागज्ञानाय विकल्पयति--सा तर्हि तत्प्राप्तिरिति प्रथमे कल्पे दूषणमाह--तदा स्वरूपनाश इति।। कथं तत्र तावज्जीवस्य ब्रह्मभावः ब्रह्मैव वा जीवो वा न संभवति; असाध्यत्वात्। नापि जीव-ब्रह्मभ्यामारभ्यमाणं द्रव्यान्तरम्; विनाशित्वप्रसङ्गात्, सर्वगतस्य ब्रह्मणोऽवयवित्वायोगात्। नापि जीव-ब्रह्मणोस्तादात्म्यं नाम कश्चित्संबन्धः; भिन्नद्रव्ययोः संयोगातिरिक्तसंबन्धाभावात्। नापि जीवेऽणुपरिमाणेऽवस्थिते ब्रह्मस्वरूपापत्तिः; विरोधात्, अनवस्थिते च परिमाणे द्रव्यस्वरूपनाश इति। द्वितीयेऽपि कल्पे दूषणमाह--संयोगस्येति।। ननु शास्त्रसामर्थ्यादपुनरावृत्तौ कथं तर्केण पुनरावृत्तिः साध्यते तत्राह--नचापुनरावृत्तिश्रुतिरिति।। यथाश्रुतार्थेऽप्राप्तप्रतिषेधात्, नावर्तिष्यत इति कल्पनायाः कृतकत्वानुमानविरोधात्, तस्यैव स्वरूपेणावस्थाने "स स्वराट् भवती"तिश्रुतेरनेकेश्वरप्रसङ्गात्। तस्मान्न प्रदेशान्तरवर्तिब्रह्मप्राप्तिरिति।। ननु "तयोर्ध्वमायन्नमृतत्वमेती"ति श्रूयते। तर्हि प्रतीकालम्बनानामपि मूर्द्धन्यनाड्यैवाऽऽमानवपुरुषाद् गच्छताममृतत्वं स्यात्; अविशेषश्रवणात्। ननु "स एनान् ब्रह्म गमयती"त्यर्चिरादिना गच्छतां ब्रह्मप्राप्तिः श्रूयते, न;
कार्यब्रह्मविषयत्वात्। ननु ब्रह्मशब्दार्थस्य मुख्यत्वात्परमेव ब्रह्म गम्यते, न; यदि तावद् वृद्धव्यवहारे प्रयोगान्मुख्यताऽभिधीयते, तर्हि कार्यब्रह्मण्यपि रूढ एवायं शब्दो भवति। अथावयवार्थानुगमेनार्थमुख्यताऽभिधीयते, नैवम्; एकस्य शब्दस्य युगपद्रूढि-योगवृत्तिद्वयोपादानायोगात्। प्रयोगमुख्यत्वे कार्यब्रह्मैव गम्यते। किंच "स एनान् ब्रह्मालोकान् गमयती"ति ब्रह्मलोकशब्दाद् बहुवचनात्, "तेषु परावतो वसन्ती"त्यधिकरणधिकर्तव्यताश्रवणात्, "तस्मिन् वसन्ति शाश्वतीः समाः" इति कालपरिच्छेदश्रवणात्, "तृतीयस्याभितो दिवी"ति संख्या-द्युशब्दयोः श्रवणात्, "तथैरंमदीयस्य सरसोऽश्वत्थस्य सोमसवनस्य, अपराजितायाश्च पुरो हिरण्मयस्य च वेश्मनोऽरस्य ण्यस्य चार्णवस्य पर्यङ्कादेश्च भोग्यवस्तुभेदस्य श्रवणाद्, प्रजापतेः सभां वेश्म प्रपद्ये" इति प्रजापतिसभावेश्मनां कार्यब्रह्मैवार्चिरादिना गम्यत इति प्रतीयते। नच ब्रह्मैव लोक इति समासः; ब्रह्मलोकशब्दस्य सत्यलोके रूढत्वात्, यौगिकत्वेऽपि तत्र प्रथमतरबुद्धिहेतुत्वाद् ब्रह्मणि लोकशब्दविरोधात्। नचैतेषां कार्यब्रह्मलिङ्गानामपबाधया ब्रह्मशब्दस्यैकस्य प्रयोगमुख्यत्वातिरिक्तमर्थमुख्यत्वमप्युपादातुं युक्तम्; प्रजापतिशब्दस्य कार्यब्रह्मणि रूढत्वात्, लोकशब्दस्य च भोगभूमिविशेषवाचित्वात्।।
किंच पञ्चाग्निविदामपि परब्रह्मप्राप्तिरस्मिन् पक्षे स्यात्। नच--"स एनान् ब्रह्म गमयती"त्येतच्छब्दः पञ्चाग्निविदतिरिक्तान् परामृशतीति--युक्तम्; पञ्चाग्निविदामेव प्राधान्येन प्रकृतत्वात्, तेषामनिर्दिष्टफलत्वप्रसङ्गात्। किञ्च गायत्री शाण्डिल्य-षोडशकलोपकोसल-वैश्वानर-भूम-दहर-पर्यङ्कविद्यानामेकरूपैव ब्रह्मप्राप्तिः फलम् आहोस्विदुपचयापचयरूपम् इति वक्तव्यम्। एकरूपफलत्वे गुणोपचयापचादुपासनोपचयापचयौ व्यर्थौ स्याताम्। न ह्यग्निहोत्राद्यनुष्ठानोपचयात् फलोपचयो न जायते। अथ फलोपचयापचयावपीष्येयाताम्, तर्हि न विकारासंस्पर्शब्रह्मप्राप्तिः; तत्र तदभावात्। किंच वैश्वानरोपासनाफलं त्रैलोक्यापत्तिरिष्यते वा न वा इति वक्तव्यम्। इष्यते चेत्, विकारासंसृष्टे ब्रह्मणि कथं त्रिलोक्यात्मताफलप्राप्तिः न चेदिष्यते, "तं यथा यथोपासते" इति श्रुतिविरोधः स्यात्। किंच पित्रादिसंकल्पैर्विकारासंसृष्टे ब्रह्मण्युपभोगः स्यात् न वा इति वक्तव्यम्। न चेत्, पित्रादिसंकल्पश्रुतिविरोधः। स्याच्चेत्, विकारावर्ति ब्रह्म पित्रादियुक्तं स्यात्। किंच विकारवर्ति ब्रह्म प्राप्तोऽपि ब्रह्मैवेति "मनसैतान् कामान् पश्यन् रमते तेन पितृलोकेन सम्पन्नो महीयते" इति ब्रह्मण एव साधनभोगो दर्शितः स्यात्। ततश्चाप्तकामताविरोधः स्वार्थप्रयुक्ता च सृष्टिः स्यात्।
किंच विकारवर्ति ब्रह्म प्राप्तस्य लिङ्गशरीरमस्ति वा न वा इति वक्तव्यम्। अस्ति चेत्, कलाप्रविलयश्रुतिर्बाध्येत। न चेल्लिङ्गशरीरम्, "मनसैतान् कामानि" ति श्रुतिर्बाध्येत। किंच तत्र लिङ्गशरीरविलये निमित्तं वक्तव्यम्। विद्यैव चेत्, उक्रान्तिकाले स्यात्; तदारम्भककर्मक्षयात्। अमानवकरस्पर्शश्चेत्, विद्युत्स्थाने स्यात्। नचोपरिष्ठात्कालाविलयननिमित्तं श्रूयते। किंच औपाधिकजीवपक्षे न जीवस्य विकारावर्तिब्रह्मगमनं सम्भवति; निरवयवावच्छेदस्य घटाकाशस्योवोद्धृत्य नयनायोगात्। उद्धरणे च ब्रह्मशून्योऽयं प्रदेशः स्यात्। उपरिष्टाच्च ब्रह्मोपचयं प्राप्नुयात्। तस्मादुपाधिगमनादात्मनि गमनविभ्रमः। ननु उपाधेरपि गमनं न सम्भवति; तदुपादानस्य ब्रह्मणश्चलनशून्यत्वात्, न हि मृदि निश्चलायां घटस्य गमनमस्तीति, एवं तर्हि स्वप्नगमनवन्मायाविजृम्भितो गमनादिप्रतिभासः। ननु न पित्रादिसंकल्पैर्ब्रह्मणि भोगोऽभिधीयते, किन्तु यावांस्तत्र भोगः, तस्य नित्यानन्दप्राप्तावन्तर्भावादैश्वर्यभेदः कथ्यतइति, न; एकस्य ब्रह्मशब्दस्य यौगिकार्थभङ्गभयाद् बह्वीनां फलश्रुतीनामुपचारकल्पनायोगात्, शास्त्रान्त्यपादवैफल्यप्रसङ्गाच्च। तस्मात् प्रदेशान्तरवर्तिब्रह्मप्राप्तये क्रियाविधानमित्यनुपपन्नम्।।
संस्कारपक्षे दूषणमाह--संस्कार्यत्वमपीति।। दोषापनयनेन विद्यमानस्य ब्रह्मभावस्याभिव्यक्तिः संस्कार इत्याशङ्कते--अथ विद्यमानस्येति।। तत्र वक्तव्यम्--किमात्माश्रयक्रियया दोषापनयः किं वाऽन्याश्रययेति न तावदात्मनो निरवयवस्य परिस्पन्दपरिणामावित्याह--नात्मनः क्रियारहितत्वादिति।। नचान्याश्रयक्रियया; क्रियावद्द्रव्यसंयोगाभावात्तत्रातिशयायोगादित्याह--प्रत्यग्रूपत्वादिति ननुमन्त्रदेवताभिध्यानाद् विषनिरासवदीश्वराभिध्यानाद्दोषापनयः स्यादिति चोदयति--नन्वीश्वराभिध्यानादिति।। "उच्यते" इत्यादि परिहारः स्पष्टार्थः।। ननु शास्त्रीयकर्मभिरात्मनो गुणाधानलक्षणः संस्कारः श्रूयत इति, नेत्याह--नच
स्नानादिक्रिययेवेति।। अयमर्थः--यः साधनानि शरीरेन्द्रिय-मनांसि प्रेरयति, स कर्ता, भोक्ता, संस्कार्यश्च। स च चैतन्यसंवलितोऽहङ्कारः; "विज्ञानं यज्ञं तनुते" इति श्रुतेः। स चाऽऽसंसारसमाप्तेरविच्छिन्नो वर्तत इति भोगश्च संभवति। तत्र च धर्माधर्मातिशय उत्पद्यते न निर्विकारात्मनि। ततस्तस्य न संस्कार्यत्वमुपपद्यत इति। तस्मान्न संस्कार्य इत्यादि--ननु इत्यतः प्राक्तनः स्पष्टार्थः। "ननु ज्ञानस्यापी"त्यारभ्येदमपरमित्यतः प्राक्तनौ चोद्यपरिहारौ पूर्वोक्तवप्यवसरप्राप्तत्वात्पुनरिहानीतौ स्पष्टार्थौ।। जन्याजन्यफलत्वेन क्रिया-ज्ञानयोर्वैलक्षण्यमुक्तम्, इदानीं पुरुषेच्छाप्रयत्नसाध्या हि क्रिया, तदनपेक्षमात्मज्ञानमिति कारणतो वैलक्षण्यमाह--इदमपरं वैलक्षण्यमिति।। चोदनाजन्यं पुरषेच्छाप्रयत्नजन्यं न भवति, ज्ञानमनिच्छतोऽपि दुर्गन्धादिज्ञानदर्शनादित्यर्थः। ननु शब्दजन्यस्य ज्ञानस्य विषयजन्यत्वाभावान्न वस्तुपरतन्त्रता, ततश्चोदनाजन्यत्वमिति शङ्कते--अथापीति।। तत्रापि विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव लिङ्गादिजन्यमेवेति परिहरति--तत्रापीति।।
ननु संयोग-विभागप्रचयातिरेकिणी केयं क्रिया नाम ननु चलतीति प्रत्यक्षमेवैतच्चलनम्। सत्यम्; तदपि संयोगविभागालम्बनमेव चलनम्। ननु स्थाणावपि श्येनसंयोगविभागवति चलतीति प्रसङ्गः, न; स्वदेशसंयोगविभागालम्बनत्वात्प्रत्ययस्य, स्थाणोश्च श्येनदेशत्वाभावात्। सर्वस्य चाकाशदेशत्वादिति चेत्, न; बहलान्धकारावृते तमस्यप्रतीयमानेऽपि खद्योते चलनबुद्धिदर्शनात्। नच देशमप्रतीत्य तत्संयोगविभागाः प्रतीयन्त इति। तस्मात्संयोगविभागातिरिक्तक्रियालम्बनश्चलतीति प्रत्ययः। यस्तु स्वदेशसंयोगविभागाभ्यां क्रियामनुमिमीते; कथम् द्रव्यजनितौ संयोग-विभागौ, स्वाश्रये कादाचित्कातिशयपुरस्सरौ; व्यवस्थितद्रव्ये कादाचित्कत्वात्, संयोगविभागजन्यकार्यवदिति। तस्य मकरादिषु जलप्रवाहाधारेषु स्थिराचलावयवेषु स्वदेशजलसंयोगविभागयोः सतोरपि तेषु क्रियाज्ञानाभावादनैकान्तिकता हेतोरिति। किंच संयोगविभागहेतुरतिशयः क्रियाभिधानीयः स्थिरादेव द्रव्यादुत्पद्यते अतिशयान्तरवतो वा पूर्वस्मिन्नव्यवस्थितद्रव्यादेव क्रियाजन्मवत्तत एव संयोगविभागजन्म स्यादित्यनैकान्तिकः। अतिशयान्तरकल्पनायामनवस्थापातः। पादाश्रयस्य कर्मणो हि स्वाश्रयासम्बन्धिभूतसमवायिपादसंयोगारम्भवत् प्रयत्नवदात्मपादसंयोगस्यापि भूपादसंयोगारम्भसिद्धेर्न पादाश्रयकर्मातिशयावकाशः। तस्मात्प्रत्यक्षः क्रियाप्रत्ययः।।
ननु क्षणिकस्य कर्मणः कथमिन्द्रियसंयोगज्ञानलक्षणक्षणद्वयावस्थानम् शब्द-विद्युदादिवदित्यविरोधः।। तस्मादस्ति क्रियाज्ञानविलक्षणेति। किंचेति स्पष्टार्थः।। किंच "वेदान्तविज्ञानसुनिश्चितार्थाः" इति निश्चितार्थविषयतत्त्वज्ञानमेव मोक्षसाधनमुक्तम्, तच्च प्रमाणजन्यत्वे संभवतीत्याह--एवं सम्यग्ज्ञानत्वोपपत्तेरिति।। दार्ष्टान्तिकमाह--एवं सतीति।।
ननु ब्रह्मज्ञाने विधयः श्रूयन्ते, तत्कथं तर्केण निरस्यन्त इति अत्राह--अतः श्रूयमाणा अपीति।। ननु अनुष्ठेयाभावाद्विधेरभावे शब्दस्य वैयर्थ्यं स्यादिति, नेत्याह--अतोऽर्थवादतयैवेति।। ननु अर्थवादान्तरवत्स्तावकत्वे विधिपदमर्थशून्यं स्यादिति, नेत्याह--तदुन्मुखीकरणादिति।। "तथात श्रवणं नामे"त्यादिना यैः श्रवणादिभिरात्मा संस्तूयते। तान् विभज्य दर्शयति। ननु श्रवणादिभिः किं श्रेयः क्रियते येनोत्कर्षवद्भिरेतेर्विषयीकरणादात्मा स्तुतः स्यादिति, तदाह--अतो वाक्यार्थे स्थैर्यादिति।। ननु विधेयस्यैवार्थवादसंबन्धः; स्तुते प्रवृत्तिफलत्वात्, न सिद्धवस्तुनः, इत्याक्षिपति--कः पुनरिति।। फलप्रशंसाया अपि प्रवृत्त्युपयोगित्वात् फलभूतात्मप्रशंसाया अपि श्रवणादिप्रवृत्त्युपयोगित्वमुपपद्यत इत्यभिप्रेत्याह--इदमत्र प्रस्तुतमित्यादि।। ग्रन्थस्तु स्पष्टार्थः।। ननु सम्यग्दर्शनस्य फलरूपत्वात् प्रमाणाधीनत्वाच्चाविधेयतेति युक्ता तस्यार्थवादता, श्रवणादयस्तु क्रियारूपत्वात्सम्यग्दर्शनस्य दृष्टदृष्टोपकारितया विधेया एवेति, तदाह--एतच्च सर्वे प्रथमसूत्रेणैवेति।। मनन-निदिध्यासनोपबृंहितस्य श्रवणस्य सम्यग्दर्शनाय विधेयत्वमङ्गीकृत्य प्रथमसूत्रं प्रवृत्तमित्यर्थः। विधीनामपि सतां स्तावकत्वमुक्तम्, इदानीं शब्दस्यार्थान्तरमाह--अपिच नैवायमिति।। ननु मा भूवन् ज्ञानविधयः, उपासनाविधिस्तु श्रूयत इति, नेत्याह--तेनात्मेत्येवोपासीतेत्यादि।। सर्वत्रैवकारविशेषणश्रवणात्, अहमितिस्वभावप्राप्तप्रत्ययावृत्त्यनुवादेन विषयविशेषः प्रतिपाद्य इति--अतो हानोपादानशून्येत्युपसंहरति।।
भाष्यं विवृणोति--तस्यायमर्थ इति।। उक्तमेतन्मोक्षफलविधेयज्ञानब्रह्मरूपनिरूपणायां विधिनिरपेक्षमेव ब्रह्मणि वेदान्ताः प्रमाणमिति द्वितीयेन वर्णकेन प्रथमेन च वर्णकेन प्रमाणान्तरानपेक्षं ब्रह्मणि प्रामाण्यमुक्तम्, इदानीं तदुभयवर्णकार्थमाक्षिप्य समाधत्ते---यदपि केचिदाहुरित्यादिना।। कथम् किमहंप्रत्ययावसेय एवात्मा वेदान्तैः प्रतिपाद्यते किं वा तद्व्यतिरिक्तः यद्याद्यः, तदा तस्य क्रियायामङ्गत्वाद्विधिवाक्यैर्वेदान्तानामेकवाक्यता स्यात्। अथ तद्व्यतिरिक्तः प्रतिपाद्यते, तदा किंचिदुद्दिश्य किंचित्प्रतिपाद्यमित्युद्देशताऽभावात्प्रतिपादनं न स्यात्। तस्यापि चेतनत्वे कर्मानङ्गतैव स्यात्। तस्मात्क्रियायामेव वेदान्ताः प्रमाणम्। तथाच कर्मण्येव कृत्स्नस्य वेदस्य प्रामाण्यमापस्तम्भो दर्शयति--त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा। तत्र यानि श्रूयन्ते व्रीहि-यव-पश्वाज्यपयः कपाल-पत्नी-संबन्धान्युच्चैर्न्नीचैः कार्यमिति, तैर्विरुद्ध आचारोऽप्रमाणमिति मन्यत इति। तथा "चाग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतमि"ति।। तत्रोत्तरमाह--तन्नोपनिषदस्येत्यादिना।। अहंप्रत्ययावसेयाद्विशिष्टात्मनोऽन्य एव क्रिया-कारकसंसर्गशून्यः, न स कर्माङ्गतया वेदान्तानां विधिशेषतां नयतीत्यर्थः।
ननु असावपि चेतनश्चेदहंप्रत्ययगम्यतया कर्माङ्गमिति, नेत्याह--न स केनचिदिति।। ननु शास्त्रगम्यस्यापि कर्माङ्गता किं न स्यादिति अत आह--न हि प्रमाणान्तरासिद्ध इति।। अधिकारिणं कर्तारं च प्रमाणान्तरसिद्धावनूद्य विधिमात्रप्रतिपादनान्यथा वाक्यभेदादिति। ननु चेतनः प्रमाणान्तरागम्यत्वाच्छास्त्रेणापि न गम्यत इति, नेत्याह--नच स न प्रतीयत इति।। ननु सर्वो वेदो धर्मे विनियुक्तः स्मृतिकारैरित्युक्तम्, अत आह--अत एवौपनिषदत्वेति।। औपनिषद इति तद्धितप्रत्ययो ब्रह्मणि वेदान्तान्विनियुङ्क्ते। तथा "सर्वे वेदा यत्पदमामनन्ति" "वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृदि"तिश्रुति-स्मृतिभ्यां ब्रह्मपरा वेदान्ता इति गम्यते। ननु पदसमन्वयाद् ब्रह्मणि प्रतीयमानेऽपि प्रत्यक्षादिभिर्बाधान्मिथ्याज्ञानमिति, नेत्याह--नैष प्रतीयमानोऽपीति।। ननु उद्देशाभावादुपादेयं प्रमातुं न शक्यत इत्यत आह--इतश्च न शक्यत इति।। ननु अहंप्रत्ययगम्यमात्मानमुद्दिश्य तस्याद्वितीय-निरतिशय-ज्ञानानन्द-ब्रह्मात्मप्रतिपादनेऽप्यात्मनोऽवस्तुत्वान्निरालम्बनत्वमिति, नेत्याह--आत्मानश्चानिराकार्यत्वादित्यादिना।।
प्रकरणार्थमुपसंहरति--अतोऽवच्छेदत्रयशून्य इत्यादिना।। ननु सूत्रकारवचनसामर्थ्यात्कृत्स्नो वेदः क्रियायामेव विनियुक्त इति चोदयति--नन्वाम्नायस्येति।। ननु पौरुषेयवचनात्कथमनादेर्वैदिकपदसमन्वयस्यार्थनिर्णयः उच्यते; अनादिप्रवृत्तात् क्रियार्थतयैव प्रयोगप्रत्ययव्यवहारादेतदवगम्यत इत्याह--तस्मात्प्रवृत्ति-निवृत्तीति।। ननु शब्दश्रवणानन्तरं भूतेऽप्यर्थे प्रतीतिरुपजायत इति, नेत्याह--न ततो वस्त्ववगम इति।। ननु अज्ञातब्रह्मावगमः कथं विभ्रमः स्यादिति तत्राह--अत एव तन्मिथ्येति।। शब्दसामर्थ्याभावात्संवादाभावाच्चेत्यर्थः। ननु भूतेऽप्यर्थे प्रमितिरुपजायते चेत्, नैव तत्र शब्दसामर्थ्यं कल्प्यतामिति चोदयति--कथं पुनरिति।। परिहरति--शब्दस्य तत्रेति।। ननु धूमस्य सामान्येन गृहीतसंबन्धस्य विशेषबोधकत्ववत्क्रियार्थे गृहीतसंबन्धोऽपि भूतमर्थं गमयेदिति, नेत्याह--नचागृहीतसामर्थ्य इति।। तर्हि भूतेऽप्यर्थे संबन्धो गृह्यतामिति, नेत्याह--सामर्थ्यग्रहणं चेति।। ननु भूतेऽप्यर्थे प्रवृत्त्या ज्ञानानुमानेन सामर्थ्यं गृह्यतामिति, नेत्याह--तदभावे कुत इति।। साध्ये प्रवृत्तिर्न भूतार्थ इति। उच्यते नैव सूत्रकारेत्यादिः परिहारः।। कथम् लौकिकन्यायमनुसरता वार्तिककारेणेदं प्रतिपादितम्--"अभिहितान्वय इति"।। पदेभ्यः प्रतिपन्नानां पदार्थानां संसृष्टपरस्परार्थावबोधनमभिहितान्वयो नाम। तत्र श्रोतुः प्रवृत्त्या विशिष्टसंसर्गज्ञानं शब्दकार्यत्वेनानुमाय शब्दसमुदायस्यार्थसमुदाये सामर्थ्ये प्रतिपद्यते। तत्र "गामानय" "गां बधाने"त्यादिप्रयोगभेदेष्वावापोद्धाराभ्यामानयन-तत्संसर्गव्यभिचारेऽपि गोमात्रान्वयाद् बन्धनेऽपि गोशब्दस्य गोमात्रे संबन्धः प्रतिपद्यते, नानयन-तत्संसर्गयोः; व्यभिचारात्। एवं सर्वपदानां पदार्थस्वरूपमात्रेषु सामर्थ्यप्रतिपत्तेः संसर्गबोधः किंनिबन्धनः इति वीक्षायामनन्यथासिद्धान्वय-व्यतिरेकाभ्यां शब्दावगतपदार्थनिबन्धन इति कल्प्यते। ततः पदेभ्यः पदार्थाः, पदार्थेभ्यः संसर्ग इत्यभिहितान्वयवादिना मतम्।
तत्र यद्यक्रियाभिधायिनां पदानामालम्बनाभाव उच्यते किं वा प्रयोजनाभाव इति यद्यालम्बनाभावः, तत्राह--पश्यति भवान् देवदत्त गामभ्याजेति।। अथ नालम्बनाभावः, किं तु प्रयोजनाभाव इति वक्तव्यमित्याह--प्रतीयते चेदिति।। अथाक्रियार्थानां प्रयोजनाभाव इति, न; क्रियायाः प्रयोजनत्वाभावादित्याह--प्रयोजनं चानन्तरमिति।। अथ क्रियाद्वारमेव प्रयोजनमिति, सत्यं केषाञ्चिदित्याह--अतस्तदर्थक्रियानुपयोग्यर्थवाचिनामिति।। ननु सर्वं क्रियाद्वारमेव प्रयोजनमिति नेत्याह--ब्रह्मात्मत्वावगतीति।। अतोऽभिहितानां पदार्थानां प्रयोजनवदर्थसंसृष्टस्वार्थप्रतिपादनेऽपि भूतवस्तुप्रतिपादनं संभवतीति। अत्र प्राभाकरः प्रत्यवतिष्ठते--कार्यसंसृष्टस्वार्थे पदसामर्थ्यं न पदार्थमात्र इत्याह--स्यादेतद्यद्यपीति।। ननु भूतार्थे सामर्थ्यं प्रतीयते चेद् भूतसंसर्गोऽपि प्रमीयतामिति, नेत्याह--तथापि नाप्रतिपन्न इति।। भूतार्थविशिष्टं कार्यमेव प्रमीयत इत्यर्थः। ननु संसृष्टस्वार्थे शब्दसामर्थ्यं चेद् भूते संसर्गः प्रमीयतामिति, नेत्याह--क्रियार्थतयैवेति।। नियोगसंसृष्टतयैवेत्यर्थः। ननु कार्यसंसृष्टस्वार्थसामर्थ्येऽप्यन्वितस्वार्थस्य तत्रान्तर्भावात्तेनैव प्रयोजकेन भूतेऽपि संसर्गः प्रतीयतामिति, नेत्याह--न हि गोपदात्तदर्थ इति।।
अयमाशयः--"गामानय शुक्लां दण्डेने"ति शब्दश्रणानन्तरं श्रोतुर्गवानयने प्रवृत्तिमुपलभ्य गवानयनकर्तव्यताऽनेन शब्दात्प्रतिपन्नेति भूतार्थसंसृष्टे कार्ये शब्दसमुदायस्य सामर्थ्यं प्रतिपद्यते। पुनश्च "गां बधानाश्वमानये"ति प्रयोगान्तरेषु गोशब्दस्यान्वये कार्यसंसृष्टगवाकृतेरन्वयात्तदुद्धारे च कार्यसंसृष्टगवाकृतेरेवोद्धारात् कार्यसंसृष्टायां गवि पदसामर्थ्ये कल्प्यते; आनयन-तत्संसर्गव्यभिचारेऽपि कार्यसंसर्गाव्यभिचारात्। एवं च प्रथमावगतसंसर्गबुद्धिहेतुत्वानपवादाच्छब्दानां मध्ये च पदार्थ-तच्छक्तिव्यवधानकल्पनागौरवपरिहारात् पदानामेव संसर्गप्रतिपादनसामर्थ्यकल्पना; लाघवाच्च। तस्मात्कार्यसंसृष्टस्वार्थेषु शब्दसामर्थ्यमिति। तदेतन्निराचष्टे--विषम उपन्यास इति।। न हि प्रयोगभेदेषु कार्यसंसर्ग एव गवाकृतेर्नियमेन प्रतीयते, किन्तु गुण-व्यक्तिक्रियाकारकसंसर्गश्च। तथाहि "शुक्लां गामानये"त्युक्तेः गुण-कारक-क्रियासम्बन्धाः प्रतीयन्ते क्रियाद्वारश्च कार्यसम्बन्धः। तत्राव्यवहितसम्बन्धोपादानसिद्धयेऽन्यान्वितस्यार्थे सामर्थ्यं गृह्यते। क्रमेण च गुणक्रियादिसंसर्गो यथायोगमवभासमानो यावदन्त्यपदोच्चारणसमाप्ति, पश्चात्संभूय सर्वैरेव पदैरेकप्रयोजनावच्छिन्नो महावाक्यार्थः प्रमीयत इति नान्योन्यसंसर्गविरोधः। प्रमाणान्तरग्राह्यत्ववतकार्यमपि प्रवृत्तिलिङ्गहेतुतया नियमेनान्वेति, न सर्वशब्दसामर्थ्यविषयतया। तस्माल्लाघवादन्वितस्वार्थे सामर्थ्यमित्यन्यथानुवादप्रसङ्गात्कार्यान्वितस्वार्थेषु प्रमाणान्तरेण शब्दसामर्थ्यप्रतिपत्तौ शब्दादपि तावन्मात्रबोधेऽनुवादः स्यात्। नच कार्येण सर्वपदार्थनामव्यवहितः सम्बन्धः, येन तत्संसृष्टे सामर्थ्यं स्यात्। अस्ति शेषशेषितालक्षणसम्बन्ध इति, केयं शेषशेषिता नाम न तावत्स्वामिता; चेतनविषयत्वात् तस्याः, नापि देवदत्तवदङ्गाङ्गिता; तदवयवत्वाभावादितरेषाम्। अथ साध्यतैव शेषिता; क्रियैव तर्हि गुणकारकसाध्येति सैव शेषिणि स्यात्। अथ परमसाध्यता स्वर्ग एव, तर्हि शेषीति किमनेन कार्येणान्तर्गडुना। तस्माद् गुणानां द्रव्यैरन्वयो द्रव्याणां विभक्त्यर्थसंसृष्टानां क्रिययान्वयः, तस्याश्च कार्येणेति व्यवधानादन्यान्वितस्वार्थे सामर्थ्यं समञ्जसम्। किंच कार्यस्य कार्यान्तरान्वयाभावादन्यान्वयो वक्तव्यः। धात्वर्थेन कार्येण कार्यस्यान्वय इति चेत्, न; नियोगान्वयनिमित्तत्वाद्धात्वर्थेकार्यतायाः। नियोगस्य तु धात्वर्थेन केवलेनान्वयो न कार्येण; उत्तरकालत्वात् तत्कार्यत्वस्य। अतोऽप्यन्यान्विते शब्दसामर्थ्यमिति।।
किंच प्रमाणान्तरग्राह्यत्वमप्यर्थस्य शब्दसामर्थ्यविषयः स्यात्; अव्यभिचारात्। प्रयोगनिमित्ततयाऽन्यथासिद्धिरन्वयस्येति चेत्, कार्यत्वस्यापि प्रवृत्तिलिङ्गहेतुतयैवान्वयनियमः, न सर्वपदसामर्थ्यविषयतयैवेति। किंच भूतसंसर्गेऽपि शाब्दी प्रमितिरनुभूयते लोके--देवदत्तो भुक्त्वा निर्गत इत्यादौ। तत्र किं प्रतिवाक्यं कार्यपदमध्याह्रियताम् शब्दव्यतिरिक्तप्रमाणान्तरं वा कल्प्यताम् भ्रान्तित्वं वोपेयताम् आहोस्विदन्यान्विते शब्दसामर्थ्यं प्रतिपद्य प्रामाण्यं वा व्यवस्थाप्यतामिति अबाधितभूतार्थव्यवहाराकल्पनालाघवाच्चागृहीतप्रयोजनानां विप्रतिपन्नप्रयोजनानां च सम्बन्धग्रहणादेवार्थप्रतिपत्तेर्निरूपणीयमेतत्। किंच निघण्डु-व्याकरणोपदेशैः
कार्यपदार्थमप्रतिपद्यैवार्थान्तरसंसृष्टस्यार्थेष्वव्यभिचाराच्छब्दसामर्थ्यं प्रतीयते, क्वचित्कार्यसंसर्गदर्शनादन्यत्रापि तदनुमीयत इति चेत्, न; अन्यत्रान्यसंसर्गमात्रदर्शनेन कार्यसंसृष्टेऽप्यन्यसंसर्गमात्रप्रयौजककल्पनोपपत्तेरदृष्टाप्रयोजकोपसंहराद् दृष्टप्रयोजनस्यैव युक्तत्वात्। तस्मादन्यसंसृष्यस्वार्थे शब्दसामर्थ्यमिति सिद्धम्।।
ननु गोपदस्याप्यानयनसंसर्गादिबह्वर्थप्रतिपादकत्वादानयनपदस्यापि गोससंसर्गाद्यनेककार्याभिधायित्वात् पदाभ्यां प्रतिपाद्यसंसर्गनियमो न स्यात्, नैष दोषः; एकैकपदोच्चारणे यावानर्थः प्रतीयते, तावतामेव संसर्गः संभूयोच्चारणे प्रतीयत इति नियमोपपत्तेः। नह्येकैकपदोच्चारणात्सर्वे संसर्गाः प्रतीयन्ते; सहकारिपदान्तरनिमित्तत्वात्संसर्गप्रतीतेः। ननु एवं पर्यायता स्यात्, तथाहि--गोपदस्याप्यानयनसंसृष्टं गोत्वमर्थः, आनयेतिपदस्यापि गोसंसृष्टमानयनमर्थं इति, नैतत्सारम्; एकस्मात्पदाद्यावानर्थः प्रतीयते, तावानेव चेत् पदान्तरादपि प्रतीयात्, स्यादेव पर्यायत्वम्। यदा पुनरितरेतरसंसृष्टौ पदार्थौ पदाभ्यां संभूय प्रतीयेते, तदा कुतः पर्यायतेति ननु गोपदोच्चारणे गवाकृतिरेव किमिति प्रतीयते न सामर्थ्यविषयभूतं सर्वमिति अन्वयव्यभिचारात् संस्कारभूयस्त्वाद्भवाकृतेः इतरेषां व्यभिचारादित्यनवद्यम्।।
ननु अभिहितेन पदार्थान्तरेण संसृष्टं गोत्वं प्रतिपादयति चेत्, गोपदमानयतिपदमप्यभिहितेनैव गोपदेन संसृष्टं स्वार्थं प्रतिपादयतीतीतरेतराश्रयता स्यात्--गोत्वेऽभिहिते तत्संसृष्टानयनाभिधानम्, तस्मिन्नभिहिते तत्संसृष्टगोत्वाभिधानमिति, नैष दोषः; क्रमेण पदेषूच्चार्यमाणेषु क्रमेणैव पदार्था अव्यभिचारिणः प्रतीयन्ते; अन्त्यपदोच्चारणानन्तरं च संभूयैकस्मृतिगम्यानि पदान्यभिहितानेव पदार्थान् संसृष्टतया प्रतिपादयन्तीत्यभिहितेनैवान्वयोपपत्तेः। पदार्थेष्वपि संसर्गप्रतिपादकेषु तुल्यौ चोद्य-परिहारौ। पदानामेव संसृष्टस्वार्थप्रतिपादनमन्विताभिधानं नाम। तदेवं कार्यमनपेक्ष्यैव भूतेऽप्यर्थे शब्दसामर्थ्यं सिद्धम्। तदेतत्सर्वमभिप्रेत्याह--गोपदस्याभिधेयसम्बन्धेनेत्यादिना।।
वेदेऽपि कार्यमनपेक्ष्यैव संसर्गप्रमितिरङ्गीकृतेत्याह--तथा च वषट्कर्तुरित्यादिना।। ननु कर्तव्य इति पदं तत्राप्यध्याहृत्य तेनैकवाक्यत्वोपगमेन वाक्यार्थः प्रमीयत इति--तत्राह यस्तु कर्तव्य इति।। ननु सूत्रकारेणैव वृद्धव्यवहारानुसारिणा कार्यान्वितस्वार्थे शब्दसामर्थ्यं दर्शितम्, "तद्भूतानां क्रियार्थेने"ति, तत्राह--यत्तु तद्भूतानामित्यादि।। भाष्यकारेणैव गुण-गुण्यादीनां विशेषण-विशेष्यादिभावेन समन्वयो दर्शित इत्यर्थः। ननु क्रियार्थेनेतिवचने कथं गुण-गुण्यादिसामानाधिकरण्यसम्बन्ध इति अत आह--क्रियार्थेनेति।। तथाच भष्यकारोऽपीत्यारभ्यात एवेत्यतः प्राक्तनः स्पष्टार्थः।। किंच किमिति जैमिनीयसूत्रवचनाद् वेदान्तानां कार्यनिष्ठत्वमिष्यते बादरायणसूत्रैर्ब्रह्मनिष्ठत्वमिष्यतान्, इत्याह--अत एव पूर्वेण तन्त्रेणेति।। ननु अर्थभेदाभावे कथं पृथगारम्भ इति तत्र विभागमाह--तत्र हि वेदस्येत्यारभ्य मुख्यः प्रदर्शित इत्यन्तेन ग्रन्थेन।।
ननु प्रातिपदिकार्थानामेकरसब्रह्मपरतयाऽन्वयेऽपि प्रथमाविभक्तेरव्यभिचारात् तदर्थकारकत्वान्वय इति, नेत्याह--तथाच भगवान् पाणिनिरव्यतिरिक्त इति।। तत्र लिङ्ग-संख्यादयस्त्वर्थात्प्रतीयनामा अपि प्रज्ञानघन एवाद्वितीयमित्यादिशब्दविरोधादनिर्वचनीया भविष्यन्तीत्यर्थः। ननु क्रियान्तरविरहेऽपि प्रातिपदकार्थान्वये--"अस्तिर्भवन्तीपरः प्रयोक्तव्यः प्रथमपुरुषेऽगम्यमाने" इति कात्यायनस्मरणादस्त्यर्थनिष्ठः समन्वय इति, नेत्याह--नास्तिक्रियाकर्तर्येवेति।। ननु अस्तिक्रियामप्यपहाय समन्वयो न दृश्यत इति, तत्राह--दृश्यते च फलिता इति।। ननु तत्राप्यस्तिक्रियान्वयः कल्प्यतामिति, नेत्याह--नात्रापि ये फलिता इति।। कुत्र तर्हि वाक्यं पर्यवसितमिति, तदाह--एवं सामान्यतः सिद्धस्येति।। उक्तं तावत्पदानामर्थान्तरसंसर्गमात्रे सम्बन्धग्रहणात् क्रियामपहायाव्यतिरिक्तैकरसप्रातिपदिकार्थान्वयो युक्त इति, इदानीं क्रियान्वयाभिधानवादिनामपि भूतेऽर्थे निषेधवाक्यसमन्वयो वक्तव्य इत्याह--किंच ब्राह्मणो न हन्तव्य इति।। ननु ब्राह्मणहननाभावोऽपि स्वयं क्रिया क्रियार्थो वेति नेत्याह--न क्रिया क्रियार्थो वेति।। प्राप्तक्रियानिवृत्तिलक्षणत्वादित्यर्थः। ननु "नेक्षेतोद्यन्तमादित्यमि"त्यादावीक्षणविरोधिनी "नेक्षे" इति
संकल्पक्रिया विधीयते, एवं "न हन्यामि"ति हननविरोधिनी संकल्पक्रियैव विधीयतामिति नेत्याह--व्रतशब्दसमन्वयादिति।। अयमर्थः संसृज्यमाना़ऽभावमेव मुख्यया वृत्त्या नञ्शब्दः प्रतिपादयति। अनुष्ठेयाभिधायिव्रतशब्दोपक्रमात्संसृज्यमानविरोधिनि क्रियान्तरे लक्षणया वर्तते, न तथेहापवादकं किंचिदस्ति, येन नञ्शब्दस्य संसृज्यमानविरोधिसंकल्पक्रियायां लक्षणा स्यादिति। ननु संसृज्यमानात्तदन्यतद्विरोधिनोरपि मुख्य एव नञ्शब्द इति, नेत्याह--न नञः समन्वयमात्रादिति।।
अत्र प्राभाकरः प्रत्यवतिष्ठते--अत्र त्रयोऽर्थाः प्रतीयन्ते--ब्राह्मणः, हननम्, प्रत्ययार्थश्चेति। तत्र न ब्राह्मणेन प्रतिषेधान्वयः; प्रत्यक्षविरोधात्। नच हननाभावं प्रतिपादयति; तस्य प्रवृत्तत्वात्। नापि प्रत्ययार्थाभावम्; फलप्रार्थनायाः प्रवृत्तिहेतोः कार्यबुद्धेर्वा प्रत्यक्षत्वात्; ततः स्वभावप्राप्तहन्त्यर्थानुरागेण तद्विरोधिनी संकल्पक्रियैव नञा प्रतिपाद्यते। सा च प्रत्ययेन विधीयते। नचाभावो नाम भावान्तरव्यतिरेकेण कश्चिदस्ति, येन तत्पर्यवसितं वाक्यं स्यात्। अतो भावान्तरविधिपरं वाक्यमिति, तदेतदाह--स्वभावत एव रागादिनिमित्तादित्यादिना।।
परिहरति--नचैतद्युक्तमिति।। नचाभावस्तद्बुद्धिगोचरो निवर्तयितुं शक्यः। नच भावान्तरमेवाभावः; तस्य सप्रतियोगिकत्वात्। अभाव एव च नञो मुख्योऽर्थः; अर्थान्तर-विरोधिनोरभावसम्बन्धिनोर्लक्षणयाऽपि प्रवृत्तिसंभवे रूढिकल्पनायोगात्। ननु--"नाम-धात्वर्थयोगे तु नैव नञ् प्रतिषेधकः। वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ"।। इत्यर्थान्तरेऽपि नञ्शब्दो दर्शितः, सत्यम्; तत्रापि मुख्यार्थान्वयेन लक्षणयाऽर्थान्तरेऽपि बुद्धिनियमो दर्शित इत्यविरोधः।
आह प्राभाकरः--हननाभावे नियोगः, ततश्च नियोगपर्यवसितं वाक्यमिति, तदाह--ननु नञर्थनियोग इति।। दूषयति--वार्तमेतदिति।। भावार्थो दध्यादिगुणो वा विधिविषयतया तन्निवृत्तिहेतुः, न हननप्रागभावः; अनादिसिद्धतया नियोगस्याननुष्ठेयत्वात्। दूषणान्तरमाह--एवं प्रतिषेधस्येति।। विधिप्रतिषेधविभागव्यवहारो लौकिको न स्यादित्यर्थः। तस्मान्न कार्यपर्यवसितमित्युपसंहरति--तस्मात्संसृज्यमानेति।।
प्रकृत्यर्थस्य हननस्यैव नञ्शब्दान्वयमङ्गीकृत्य भावोऽर्थान्तरं वा न विधेयमित्युक्तम्; इदानीं प्रत्ययार्थ एव नञा सम्बध्यते, प्रकृत्यर्थस्यान्योपसर्जनत्वात्प्रधानेन चेतरेषामन्वयादित्याह--तच्च संसृज्यमानमिति।। प्रत्यक्षादिव्यवहारेषु पुरुषान्तरनिबन्धनत्वाभावाद्विध्यादीनामसंभवे प्रतिपाद्यधर्म इत्यनुष्ठेयता स्वधर्म इत्यर्थः। प्रतिषिध्यमानक्रियाफलेति।। निवर्त्यमानक्रियाफलेत्यर्थः। ततश्च हननस्य यदिष्टसाधनत्वं प्रवर्तकम्, तदेव प्रत्ययेनानूद्य प्रतिषिध्यते ब्राह्मणहननमिष्टसाधनं भवतीति।। ननु प्रत्यक्षमिष्टसाधनत्वं हननस्य नादृष्टाविरोधि दृष्टप्रयोजनस्येष्टशब्दत्वादिदमदृष्टाविरोधि, दृष्ट प्रार्थ्यत इति प्रार्थना; फलसाधनमित्यर्थः। ततश्च हननस्य यदिष्टसाधनत्वं प्रवर्तकम्, तदेव प्रत्ययेनानूद्य प्रतिषिध्यते ब्राह्मणहननमिष्टसाधनं न भवतीति।। ननु प्रत्यक्षमिष्टसाधनत्वं हननस्य नादृष्टविरोधि; दृष्टप्रयोजनस्येष्टशब्दत्वादिदमदृष्टविरोधि, दृष्ट प्रार्थ्यत इति प्रार्थना; फलसाधनमित्यर्थः। ततश्च हननस्य यदिष्टसाधनत्वं प्रवर्तकम्, तदेव प्रत्ययनानूद्य प्रतिषिध्यते--ब्राह्मणहननमिष्टसाधनं न भवतीति।। ननु प्रत्यक्षमिष्टसाधनत्वं हननस्य नादृष्टाविरोधि; दृष्टप्रयोजनस्येष्टशब्दत्वात्, इदमदृष्टविरोधि दृष्टसाधनं न भवतीत्यर्थः। सर्वत्र चार्थानर्थसंयोगादनयादधिकोऽर्थः पुरुषार्थ इत्युच्यते, अर्थाच्चाधिकोऽनर्थोऽपुरुषार्थ इति, तत्र पुरुषार्थसाधनं न भवति हननमित्युक्तेऽनर्थादधिकोऽर्थो नास्तीत्युक्तं भवति। ततश्चार्थादनर्थ स्याधिक्यादर्थादनर्थमित्युक्तम्। तदेवं प्रत्ययार्थप्रतिषेधस्याननुष्ठेयत्वं सिद्धमित्याह--सच प्रागभाव इति। किं तर्ह्यनुष्ठेयमिति पुरुषार्थसाधनविभ्रमाद्रागाद्युद्बोधप्रसक्तौ तन्निमित्तप्रध्वंसोऽनुष्ठेय इत्याह--तत्संस्कारोद्बोध इति।। स एव तर्हि वाक्येन विधीयतामिति, नेत्याह--स च यद्यपि साध्य इति।। हननमिष्टं न भवत्यनिष्टं चेत्यवगतौ हननोद्बोधनिमित्तनिरोधस्यान्वय-व्यतिरेकाभ्यामेवानुष्ठेयत्वाद् न तत्र शब्दापेक्षेति। निमित्तनिरोधकर्तव्यतायां वाक्यस्यासामर्त्याच्चेत्याह--तत्प्रतिपादकेति।। ननुB अनिष्टसाधनविषयशब्दसामर्थ्याच्चेन्निमित्तनिरोधः, सोऽपि तर्हि शब्दार्थ इति, नेत्याह--यश्चार्थादर्थ इति।। अङ्गीकरोति--अथ पुनरिति।। दूषयति--भवतु; तथापीति।। तथाऽप्यनुष्ठेयांशस्यान्वय-व्यतिरेकसिद्धत्वाच्छब्दो नानुष्ठेयनियोगपर्यवसित इत्यर्थः। ननु प्रत्ययेनापूर्वं प्रतिपाद्यते, तत्कथमननुष्ठेयं स्यात् क्वैतद् गृहीतसम्बन्धम् न तावल्लोके;
तस्यादर्शनात्। ननु स्वर्गकामिनो यागकर्तव्यता स्वर्गसाधनमन्तरेणानुपपन्ना। तच्च साधनत्वं क्षणभङ्गिनः कर्मणो मध्यवर्तिकायमन्तरेणानुपपन्नमिति--श्रूतार्थापत्त्याऽपूर्वं गम्यते, तत्र शब्दस्य सामर्थ्यं गृह्यत इति, सोऽयं बकबन्धः। शब्दाल्लौकिकसामर्थ्यानुसारेण क्रियाकर्तव्यताऽभिहिता चेत्पुनस्तत्सामर्थ्यलब्धेऽपूर्वे किमिति सम्बन्धो गृह्यते अथ नाभिहिता क्रियाकर्तव्यता, न तर्ह्यपूर्वमेव लभ्यत इति कुतः सम्बन्धग्रहः ननु यागकर्तव्यताऽभिहिताऽनुपपन्ना साऽपूर्वाभिधानमन्तरेणेति, तर्हि तदप्यनुपपन्नम्; शरीरेन्द्रियविषयसम्बन्धमन्तरेण स्वर्गस्यासिद्धेः। अतः प्रत्ययेन शरीराद्यभिधानं स्यात्, अर्थापत्तिगम्यत्वान्न शब्दापेक्षेति चेत्, अपूर्वेऽपि तुल्यम्। तस्माद्धात्वर्थकर्तव्यतालक्षणमिष्टसाधनमेव प्रत्ययार्थ इति। तदेवं वृद्धव्यवहारानुसारेणेत्यारभ्यात्रोत्तरमित्यतः प्राक्तनः स्पष्टार्थः। प्रथमोत्पन्नं शाब्दज्ञानं तावन्न विधीयते, तत्सन्तानश्च सुखानुभवकामस्य न विधेयः; ताभ्यामेव च स्वयं प्रवृत्ताभ्यामपरोक्षज्ञानमुत्पद्यते। तदेवमुत्पन्नापरोक्षज्ञानमधिकृत्योत्तरमाह--नावगतब्रह्मात्मभावस्येति।। ननु कर्मादिनिमित्तः शरीरसम्बन्धः, ततश्च संसारः, किमपरोक्षज्ञानेन इत आह--न कर्मनिमित्तस्तावदित्यादिना सुखदुःखानुभव इत्यन्तेन ग्रन्थेन।।
उक्तमन्वय-व्यतिरेकाभ्यां तत्त्वज्ञानेनाविद्यानिवृत्तौ संसारनिवृत्तिरिति, अथेदानीं तत्रैवागमप्रमाणमाह--तथा च श्रुतिस्मृतिवादा इति।। ते हि ब्रह्मात्मैकत्वं साक्षादनुभवन्तोऽपि द्वैतदर्शनाभासं दर्शयन्ति।।
ननु अपरोक्षज्ञानान्मिथ्याज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह--वैषयिकस्त्विति।। ननु कर्मणामपि निवृत्तत्वात् कथं तन्निमित्तं द्वैतदर्शनम् नैष दोषः; "तस्य तावदेव चिरमि"ति ज्ञानव्यतिरिक्तावध्यन्तकरणात् कञ्चित्कालं शरीरेन्द्रियाद्यवस्थानकल्पनया तन्निमित्तकर्मावस्थानकल्पनात्। ननु सर्वकर्मक्षयश्रुतेः श्रुत्यर्थापत्तिः कथमेकदेशबाधिका स्यात् अर्थापत्त्यनुदये श्रुतस्यैव बाधप्रसङ्गादिति वदामः । तस्मात् श्रुत्यादेव सामान्य-विशेषभावेन व्यवस्थेति।। ननु अपरोक्षज्ञानेन कृत्स्नविद्यानिवृत्तौ कुतः कर्मणामवस्थानमिति उच्यते; तत्त्वज्ञानमेव स्वकारणेभ्यो जायमानं श्रुत्यवगतारब्धकर्मावस्थानप्रतिबन्धात्तदपेक्षितद्वैतप्रतिभासनिवर्तनपाटवशून्यमितरकर्माविद्यारागादेर्निवर्तकं चोत्पद्यते। ननु ब्रह्मात्मानुभव-द्वैतदर्शनयोः कुतः साहित्यमुच्यते न वयं साहित्यं ब्रूमः; कदाचिदसंप्रज्ञातात्मैकत्वदर्शनं कदाचिदारब्धकर्मोपस्थापितदोषनिमित्तद्वैतदर्शनं चेत्। ननु नास्त्येव सशरीरस्यापरोक्षदर्शनम्, न, आरब्धकर्मव्यतिरिक्तपूर्वोत्तरकर्मविनाशनिमित्तदर्शनाभ्युपगमात्। नचापरोक्षदर्शनमन्तरेण कृत्स्नकर्मविनाशः। प्रारब्धकर्मवतश्च तत्त्वदर्शनं सशरीरस्यैव संभवति। व्यासादीनां च सशरीराणामेवापरोक्षदर्शनं श्रूयते।।
ननु तत्त्वदर्शिनोऽपि द्वैतदर्शनं चेत्, नियोगानुष्ठानमपि स्यात्, न; नियतदेशकालाधिकारकर्तृत्वप्रतिपत्त्यधीनत्वादनुष्ठानस्य। तत्त्वदर्शिनस्त्वारब्धकर्मनिमित्तदोषोद्भवस्य देशकालनियमाभावात्, प्रारब्धानुष्ठानपरिसमाप्तिपर्यन्तमवस्थानायोगात्, पुनःपुनस्तत्वदर्शनेनानुष्ठितकर्मणां बाधादनुष्ठाने प्रयोजनाभावात्, प्रत्यवायस्य च तत्त्वदर्शनेनैव निवृत्तेः। ननु तत्त्वदर्शिनः शास्त्रनियमाभावे यथेष्टाचरणं स्यात्, न; हिताहितप्राप्तिपरिहारप्रार्थनानिमित्तत्वादाचरणस्य स्वात्मन्येव निरतिशयानन्दमशेषानर्थनिवृत्तिं च साक्षादनुभवतः साध्यपुरुषार्थप्रार्थनाभावात्कुतो यथेष्टाचरणप्रसङ्गः कथं तर्हि शरीरयात्रेति चेत्, आरब्धकर्मदोषवशादित्युक्तम्। नचापूर्वकर्मोपचयस्याविद्यारागादिनिमित्तं संभवति; निवृत्तत्वात्, आरब्धकर्मणां च स्वफलमात्रहेतुत्वात्। तस्मात्तत्त्वदर्शिनोऽपि द्वैतदर्शनाभास उपपद्यत इति।।
ननु श्रवणज्ञानव्यतिरेकेण मनन-निदिध्यासनविधानात् साध्यान्तरमस्तीत्युक्तमिति, नेत्याह--मनननिदिध्यासनयोश्चेति।। उक्तं च मनन-निदिध्यासनयोस्तत्त्वंदर्शनहेतुत्वम्, इदानीं वर्णकद्वयोक्तमर्थमनुवदति--तदेवं सिद्धस्य वस्तुन इत्यारभ्य--अतो विधिनिरपेक्षं स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादित्यन्तेन ग्रन्थेन।। अपि च विधिनिरपेक्षभूतवस्तुप्रतिपादने शास्त्रारम्भभेदसिद्धिरित्याह--एवं च सति पदानामिति।। ननु प्रवर्तकविशेष एव पृथक्शास्त्रारम्भनिमित्तमिति, नेत्याह--अन्यथात्रेति।। ननु अन्यदेवभेदकमस्ति, शरीरेन्द्रियनिर्वर्त्या विधिभेदाः कर्मकाण्डे निरूपिताः, इह तु केवलमानससाध्यो विधिर्निरूप्यत इति, तदाह--अथाप्यबहिःसाधन
इति।। दूषयति--तथाप्यथातः परिशिष्टधर्मजिज्ञासेति।। अधिकरणार्थमुपसंहरति--तदेवं ब्रह्मात्मावगमात्प्रागिति।। ब्रह्मात्मापरोक्षदर्शनादुत्तरकालमन्तःकरणसंपिण्डितप्रमातृबाधात्, प्रमेयसन्बन्धासिद्धेर्निवर्तत एव प्रमातृ-प्रमाण-प्रमेय-कर्तृ-कर्म-कार्य-भोक्तृ-भोगलक्षणो व्यवहार इति।।
ननु भेदाभेदरूपत्वान्नाद्वैतदर्शनेन द्वैतदर्शनबाधः, न तर्हि देहात्मभावः; सुखदुःखादिरपि बाध्येत; भेदाभेदरूपत्वात्। भेदाभेद इति च स्ववचनविरोधः; पूर्वपक्ष-सिद्धान्तनियमभावश्च; सर्वसाङ्कर्यात्।ननु तवाप्यद्वैते सर्वसाङ्कर्यं समानम्, न; प्रपञ्चस्य यथादर्शनमेव भेदेन व्यवस्थितत्वात्, ब्रह्मण एवाद्वितीयत्वात्। ननु दृश्यते भिन्नाभिन्नं वस्तु प्रत्यक्षेण, किं तत् प्रत्यक्षम् न तावत् खण्डो गौरिति भिन्नाभिन्नविषयं प्रत्यक्षम्; तथा प्रतिभासाभावात्। ननु इतरेतरात्मनैवाभेदः प्रतिभासते, तर्हीतरेतरानात्मनाभेदोऽप्यवभासेत। ननु रूपभेदेन भेदोऽवभासते तर्हि रूपैक्यादेभेदो वक्तव्यः। अथेतरेतरात्मत्वादभेदः, रूपभेदाद् भेद इति, क्व दृष्टमितरेतरात्मत्वमभेद इति न तावदेको घट इत्यत्र दृश्यते। तस्मात्खण्डो गौरिति न भेदाभेदावभासः।।
स्यादेतत्--खण्डो गौरिति प्रत्ययाभ्यां भेदाभेदावभास इति, न; ज्ञानयोः संभूय प्रमापकत्वाभावात्, प्रत्यभिज्ञामन्तरेणैकस्योभयसम्बन्धासिद्धेः। तर्हि प्रत्ययत्रयेणार्थाद् भेदाभेदसिद्धिरिति, प्रत्यक्षं तावत् पराहतम्। खण्डस्य गोश्च तदुभयालम्बनपिण्डस्य च त्रयाणां प्रत्यक्षेऽवभासनात्समानाधिकरण्यस्य च तदुभयाश्रयपिण्डालम्बनत्वात्। न चार्थापत्तिरपि; "हृस्वोऽकारः" "दीर्घोऽकारः" "स एवायमकारः" इति प्रत्ययत्रयेणापि भेदाभेदासिद्धेर्भ्रान्तिमात्रत्वोपगमात्। तस्मान्न भिन्नाभिन्नं वस्तु। नाप्यात्मनि भेदः प्रमातुं शक्यः; विवादगोचरापन्नाः, स्थावर-जङ्गमशरीरव्यक्तयः, प्रतिवादिशरीरव्यक्त्यात्मनैवात्मवत्यः, शरीरव्यक्तित्वात्; प्रतिवादिशरीरव्यक्तिवदित्येकात्मत्वानुमानात्; युगपज्जनन-मरणादिविरुद्धधर्माश्रयत्वादग्न्युदकादिवद्धर्मिभेदोऽनुमीयत इति चेत्, न; शरीराश्रयतया व्यधिकरणासिद्धत्वात्। प्रतिशरीरं सुखदुःखाद्यनुभवाननुसन्धानाननुसन्धानैर्द्रष्टृभेदैः कल्प्यत इति चेत्, न; शरीरभेदे सत्येकस्याप्यात्मनो जन्मान्तरीयाननुसन्धानादिदर्शनात्, सत्यप्येकत्वे प्रतिबिम्बभेदेषु वर्णसंकरादर्शनात्। नच जीव-ब्रह्मभेदोऽपि प्रत्यक्षसिद्धः, विरुद्धधर्माश्रयत्वाद् भेदानुमाने बिम्बप्रतिबिम्बयोरनैकान्तिकत्वात्। नियन्तृ-नियन्तव्येशित्रीशितव्य-द्रष्टृदृश्यादीनां भेदलिङ्गत्वाज्जीवब्रह्मभेद इति चेत्, न; "नान्योऽतोऽस्ति द्रष्टे"त्यादिश्रुत्यैव भेदप्रतिषेधे लिङ्गाद् भेदानुमितेरयोगात्, अतुल्यप्रमाणत्वाच्च भेदाभेदकल्पनायोगात्। "द्वा सुपर्णा" इति द्वित्वसंख्या श्रूयत इति चेत्, न; "यश्चायं पुरुषे यश्चासाविदित्ये स एकः" इत्येकत्वंसंख्याश्रवणाद् भ्रान्तिसिद्धद्वित्वानुवादादेकत्वम्; नानात्वे प्रमाणाभावात्। प्रत्यक्षेण भेदग्रहणे भेदस्य धर्मिप्रतियोगिकत्वव्यवस्थापेक्षत्वात् तद्व्यवस्थायाश्च भेदापेक्षत्वादितरेतराश्रयत्वात्। तस्मान्न भेदाभेदौ, इत्यद्वैतदर्शनेन द्वैतदर्शनबाधः। प्रत्यक्षभ्रमस्य चाप्तवचनेन बाधदर्शनात्फलवचनानां च वर्तमानापदेशितया योग्यानुपलब्धिविरोधाद् दृष्टद्वारेण बन्धनिवृत्तिरेव मोक्ष इति।।
अपिचाहुरिति श्लोकत्रयस्य तात्पर्यमाह--गौणमिथ्यात्मन इत्यादिना।। श्लोकं व्याचष्टे--तदेतद्द्रढयन्नाहेति।। द्वितीयश्लोकस्य तात्पर्यमाह--कथमिदानीमस्य प्रामामण्यमित्यादिना।। तृतीयश्लोकं व्याचष्टे--अद्वितीय-निरतिशयानन्द-चैतन्यैकतान-सर्वज्ञ-सर्वेश्वर-सर्वशक्ति-निरवयव-स्वच्छासङ्ग-प्रत्यग्भूत-ब्रह्मात्मन्यपरोक्षानुभवात्प्राग् देहात्मप्रत्ययवत् सर्वो व्यवहारो यथादर्शनमुपपद्यते। तस्मिंश्चापरोक्षेऽवभासमाने प्रमातृत्वादिबाधात् सर्वो व्यवहारो निवर्तत इति श्लोकार्थः।।
इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्य-स्वप्रकाशानुभवभगवतः कृतौ पञ्चपादिकाविवरणे समन्वयाधि2करणं नाम नवमं वर्णकं2 समाप्तम्।।