पञ्चपादिकाविवरणम्/तृतीयवर्णकम् - प्रथमसूत्रार्थवर्णनम्

← २ द्वितीयवर्णकम् पञ्चपादिकाविवरणम्
श्रीप्रकाशात्मयतिः
४ विषय-प्रयोजनाक्षेपपरिहारनिरूपणम् →



                                                                 अथ तृतीयं वर्णकम्

                "अथातो ब्रह्मजिज्ञासेती"ति।।

                तत्र लोकेऽथशब्दस्य चत्ववारोऽर्था वृद्धव्यवहारे प्रयोगसामर्थ्यात् प्रसिद्धाः--आनन्तर्यम्, अधिकारः, मङ्गलाचरणम्, प्रकृतादर्थादर्थान्तरत्वं च। तत्रेतरपर्युदासेनानन्तर्यमथशब्देनोपादीयत इत्यस्मिन्नर्थे "सति चानन्तर्यार्थत्वे" इत्यतः प्राक्तनभाष्यस्य तात्पर्यमाह--तत्राथशब्द आनन्तर्यार्थत्वे इत्यादिना।। कथम् जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वे सतीच्छायाः कर्तव्यतया प्रारम्भानुपपत्तेः, प्रत्यधिकरणं चाप्रतिपाद्यत्वान्नाधिकारार्थोऽथशब्दः। ब्रह्मज्ञानेच्छाया मङ्गलाचरणार्थत्वस्य प्रसिद्धतरत्वात्, अप्रसिद्धत्वेऽपि प्रशंसापरतयाऽर्थवादत्वप्रसङ्गात् सूत्रस्य न मङ्गलाचरणार्थता। इच्छायाश्च कुतश्चित्प्रकृतादर्थादर्थान्तरभावस्य प्रसिद्धतरत्वान्नाभिधानेन कृत्यम्, इत्यथशब्दस्य न तदर्थतेति। ननु इच्छायाः कुतश्चिदानन्तर्यमपि प्रसिद्धम्, सत्यम्; हेतु-फलभावेनानन्तर्यस्य विवक्षितत्वादानन्तर्याभिधानमुखेन पूर्वप्रकृतपुष्कलकारणमथशब्देनावद्योत्यते। ननु ब्रह्मज्ञाने प्रवृत्तिपर्यन्तेच्छोदयसामर्थ्यादेव पुष्कलकारणमनुमीयते किमथशब्देन सत्यम्; इच्छोदयप्रभृतीष्यमाणज्ञानोदयपर्यन्तस्य कार्यस्य पुष्कलकारणतया पूर्वप्रवृत्तस्य शास्त्रीयस्याधिकारिविशेषणस्य प्रतिपत्तिपरत्वादथशब्दस्य न दोषः। तत्प्रतिपत्तिश्चेष्यमाणज्ञाने प्रवृत्तिपर्यन्तेच्छोदयद्वारेण प्रवृत्त्यङ्गभावं भजते, इति तेनानन्तर्याभिधानमुखेन प्रवृत्तिनिमित्तविशिष्टेच्छोदयप्रभृतेर्ज्ञानोदयपर्यन्तस्य कार्यस्य पुष्कलकारणतया पूर्वनिर्वृत्तसाधनचतुष्टयावद्योतनायानन्तर्यार्थोऽथशब्द इति सूक्तम्।।

                ननु जिज्ञासाशब्दस्य विचारे रूढस्य कथमवयवार्थेनार्थवत्त्वमादीयते "रूढिर्हि योगमपहरती"ति न्यायात्, इत्याक्षिपति--अयं तु जिज्ञासाशब्दो विचारवचन इत्यारभ्योच्यत इत्यतः प्राक्तनेन।। ग्रन्थः स्पष्टार्थः। उच्यते नायं जिज्ञासाशब्द इत्यादिः परिहारः। अयमाशयः--चत्वारः शब्दप्रवृत्तिप्रकाराः।

तत्र रूढिः--यथा वृद्धव्यवहारेऽभिधानाभिधेयव्यतिरिक्तमनपेक्ष्यैव प्रयोगसामर्थ्याद् अखण्डाभिधानसम्बन्धः, योगः--समासादिनैकपद्यमापन्नस्य शब्दस्य स्वावयवगतानेकाभिधानशक्तिद्वारेण विशिष्टार्थाभिधानम्; एतच्चोभयं मुख्यं वृत्तिरित्युच्यते। गौणः--स्वाभिधेयादर्थादर्थान्तरे गुणयोगाद् लक्षणया वृत्तिरिति। तत्रैकस्यैव शब्दस्यार्थान्तरे रूढस्यार्थान्तरे च योगवृत्तिसम्भवे "रूढिर्योगमहरती"ति न्यायेन योगं परित्यज्य रूढिरूपादीयते। रूढि-योग-मुख्यवृत्तिसम्भवे गौणः परित्यज्यते; तत्रैकस्मिन्नर्थे क्लृप्तसामर्थ्येन शब्दस्य योगवृत्तिसम्भवे तत्रैव तस्यैव शब्दस्य शक्त्यन्तकल्पनानिमित्तकार्यान्तराभावात्। ननु पङ्कजशब्दादिषु योगरूढिरिति वृत्त्यन्तरं कल्प्यत इति, न; तत्रापि योगवृत्त्यैवार्थप्रतिपत्तेः. ननु उत्पलादिवस्त्वन्तरं विहाय पङ्कजशब्दाझटिति तामरसे प्रतिपत्तिदर्शनाच्छक्तिद्वयमेव कल्पनीयम्, न; प्रयोगबाहुल्यादपि सामर्थ्याविशेषे प्रथमप्रतिपत्तिदर्शनात्। यथा नवस्वर्थेषु शक्त्यविशेषेऽपि गोशब्दात् सास्नादिमदाकृतौ प्रयोगबाहुल्यादेव प्रथमप्रतिपत्तिः। तस्मात् क्लृप्तसामर्थ्यादेव प्रयोगप्रतिपत्तिसम्भवे न शक्त्यन्तरकल्पनेत्याह--नायं जिज्ञासाशब्द इति।। कथमित्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।।

                ननु अवयवार्थसंसर्ग एव योगवृत्त्याऽपि शब्देन प्रतिपाद्यते, विचारस्तु न जिज्ञासाशब्दावयवार्थः, कथं तदवगमस्य क्लृप्तसामर्थ्येनैवान्यथा सिद्धिरिति चोदयति--कथमन्यथासिद्धत्वमिति।। स्वयमवयवार्थत्वाभावेऽप्यवयवार्थसंसर्गाविनाभावादपि तल्लक्षणया प्रयोग-प्रत्ययोपपत्तौ न शक्त्यन्तकल्पना, अनन्यथासिद्धकार्याभावादिति परिहरति--अन्तर्णीतविचारार्थत्वादिति।। ननु ज्ञानमात्रमिष्यमाणं कथं विचारेणाविनाभूतमिति तदाह--एवं प्रयोग-प्रत्ययोरिति।। ज्ञानं खल्विष्यमाणं विषयेण सहावगतमिष्यते, अनवगतविषयेच्छायोगात्। ततश्च प्रतिपन्ने वस्तुनि ज्ञानमिष्यमाणं संदिग्धे निश्चयफलं वा परोक्षेऽपरोक्षफलं वेष्यते। तच्चोभयं प्रमाणादिविचारप्रयत्नसाध्यम्, इति प्रतिपन्ने वस्तुनि विशिष्टज्ञानमिष्यमाणं प्रमाणादिविचारमविनाभावेन गमयति, इति विचारसाध्यज्ञाने प्रयोग प्रत्ययावित्यर्थः। ननु नेच्छामात्रं सूत्रेण प्रतिपाद्यते, प्रयोजनाभावात्, किंत्विष्यमाणज्ञानप्रदर्शनमुखेन तत्साधनं विचारमन्तर्णीतमुपलक्ष्य स एव तातपर्येण प्रतिपाद्यते, अतो विचार-ज्ञान-ब्रह्मणामन्यतमस्य तात्पर्येण प्रतिपाद्यस्यारम्भायाथशब्द इति चोदयति--नन्वेमपि  कुत एतदिति।। तदेव प्रपञ्चयति--अन्तर्णीतं विचारमाश्रित्येति।। अर्थलक्षणेन प्राधान्येनान्तर्णीतं विचारमाश्रित्येति सम्बन्धः। अतस्त्रयाणामन्यतमस्याधिक्रियमाणत्वमङ्गीकृत्येति योजना। तत्राथशब्देनानन्तर्याभिधानमुखेन शास्त्रीयसाधनचतुष्टयसंपन्नाधिकारिविशेषस्य न्यायतः समर्पणाभावे विचारारम्भार्थत्वे च कर्तव्यतया विधीयमानो विचारो निरधिकारोऽननुष्ठेयः स्यादिति परिहरति--उच्यते शास्त्रस्यानारम्भप्रसङ्गादिति।। ननु विचारविधिरेव विश्वजिन्न्यायेनाधिकारिविशेषं कल्पयित्वा प्रवृत्तिपर्यन्तो भविष्यति, किमथशब्देनेति ननु कर्तव्यतयाऽवगतो विचारोऽपि प्रारम्भमर्थाद् गमयति, किं विचारप्रारम्भार्थेनाथशब्देन ननु विधिसामर्थ्यादुभयप्राप्तौ कस्तत्र निर्णयः विध्यपेक्षितोपाधित्वादानन्तर्याभिधानमुखेनाधिकारिसमर्पणमेव युक्तमित्याह--अधिकारार्थत्वे ह्यप्रयोजनमिति।। प्रवृत्तिद्वारेण प्रयोजनपर्यन्तताशून्यमित्यर्थः। ननु मोक्षकामः कल्प्यते, न; प्रसज्ज्यप्रतिषेधप्रसङ्गात्। तथाहि--कर्तव्य इत्युक्तेऽविशेषात् सर्वाधिकारप्रतिपत्तौ तदनुपपत्त्या विशिष्टाधिकारः कल्पनीयः। ततो वरं शब्देनैव विशिष्टाधिकारिसमर्पणमिति भावः। ननु रात्रिसत्रन्यायेनार्थवादगतमेव मोक्षं ब्रह्मज्ञानं वा प्रयोजनं साध्यत्वेन परिणमथ्य मोक्षकामो ब्रह्मज्ञानकामो वा विचारयेदिति विधिप्रतिपत्तिसमयेऽधिकारिविशिष्टविधिप्रतिषेध इति चोदयति--ननु ब्रह्मज्ञानं प्रयोजनमिति।। तत्रेदं वक्तव्यम्--किं सर्वेषां फलकामितया सर्वाधिकारं शास्त्रमुच्यते किं वा विशिष्टाधिकारमिति विशिष्टाधिकारत्वे विधिप्रतिपत्त्यधीनत्वादसामर्थ्यलभ्याधिकारिकल्पनायाः प्रसज्ज्यप्रतिषेधव्यापारगौरवं तदवस्थमेव। अतोऽथशब्देन श्रोतव्यादिविधिप्रकरणपठितसाधनचतुष्टयसम्पन्नाधिकारिप्रतिपत्तिपूर्वके विचारविध्यवगमे नासौ दोषः, इत्यथशब्देन श्रौतविशेषाधिकारिसमर्पणमेव युक्तमिति। अथ सर्वाधिकारं शास्त्रमिति, न प्रसज्ज्यप्रतिषेधः, नापि विशेषाधिकार समर्पणे शब्दापेक्षेति, तत्र वक्तव्यम्--किं फलतः सर्वाधिकारं शास्त्रम् किं वा विधितः न तावत्फलतः; सर्वेषां फलार्थिताऽभावादित्याह--न ब्रह्मज्ञानेऽर्थत्वानुपपत्तेरिति।। मा भूद् ब्रह्मज्ञानार्थतेत्यतः प्राक्तनो ग्रन्थः

स्पष्टार्थः।।

                ननु अध्ययनविधैस्त्रैवर्णिकाधिकारत्वात् तत्प्रयुक्तत्वाच्च विचारस्य विधित एव सर्वाधिकारं शास्त्रमिति चोदयति--मा भूद् ब्रह्मज्ञानार्थतेति।। ननु विधिर्नाम स्वविषयस्य तदुपकारकस्य वाऽनुष्ठाननिमित्तं भवति, नच विचारोऽध्ययनविधेयावदर्थावबोधफलं व्यापाराद्विचारमपि फलनिष्पत्तयेऽध्ययनविधिरनुष्ठापयतीति। ननु विषय-तदुपकारिव्यतिरिक्तस्य व्यापारस्य फलनिष्पत्त्यपेक्षया विधिप्रयुक्तानुष्ठेत्वं क्व दृश्यते अवघातादिष्विति चेत्, न; विधेयावघातस्यैव फलपर्यन्तमावर्त्यमानत्वात्, विचारस्तु स्वतन्त्रमेव भावार्थान्तरं कथं विधीयते, इति वक्तव्यम्, नैष दोषः; आवृत्तिगुणस्याविहितस्य विहितानुपकारकस्य च विधेः फलपर्यन्ततानुपपत्त्या विधेयत्वकल्पनवद् विचारस्यापि तदुपपत्तिरिति। तत्र किं विचारसाध्यज्ञानमर्थनिश्चयफलमध्ययनस्यान्वय-व्यतिरेकसिद्धं दृष्टफलम् किं वा तदुद्देशेन विधानादधिकारिविशेषणतया शास्त्रीयं फलम् किं वा विधेः प्रयोजनपर्यन्ततासामर्थ्यलभ्यं फलमिति न तावद् दृष्टं फलम्; अध्ययनमात्रादावृत्तिगुणकादप्यर्थनिश्चयानुदयात्, आपातदर्शनस्य च विचारानपेक्षत्वात्। अतो नार्थनिश्चयदृष्टफलाध्ययनक्रिया स्यादिति। ननु तव्यप्रत्ययेन स्वव्यापारः शब्दभावना विधिरूपतयाऽभिधीयते, सा च शब्दभावनाऽध्ययनकरणिकामर्थभावनां निष्पादयन्ती फलवदर्थावबोधं पुरुषार्थमर्थभावनाभाव्यत्वेन कल्पयति; अपुरुषार्थे पुरुषप्रवृत्त्ययोगात्, ततश्च भाव्यान्तरलाभात् समानपदोषात्तमध्ययनं भावनायाः करणतामापन्नं भाव्यस्यार्थावबोधस्य निर्वर्तकतया करणं भवति; कुठारादीनामपि क्रियाभाव्यद्वैधीभावनिर्वर्तनद्वारेण छिदिभावनाकरणत्वदर्शनात्, अतोऽध्ययनविधेः प्रवर्तकत्वान्यथानुपपत्त्यैवार्थभावनाकरणस्याध्ययनस्यार्थावबोधः फलमिति सिद्धम्; अन्यथा समानपदोपात्तत्याध्ययनस्यैव भाव्यतया स्वाध्यायावाप्तेरपि विधिफलत्वाभावप्रसङ्गात्, इत्यत आह--सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्तेति।। अयमाशयः--तव्यप्रत्ययेन भावनाकर्मकारकेऽभिधीयमाने स्वाध्याये स्वावाप्तिफले च न भाव्यान्तरं कल्पनीयम्; भावनाकर्माभिधायिशब्दविरोधादिति। ननु न भाव्यमात्रेण पुरुषप्रवृत्तिर्विधिना जन्यते, किन्तु पुरुषार्थभाव्यापेक्षयैव; ततश्च शब्दविरोधेऽपि भावनानिष्पत्तयेऽर्थावबोधे भाव्य इति शङ्कते--अथाक्षरग्रहणं निष्प्रयोजनमिति।। परिहरति--भवतु तर्हि सक्तूनां गतिरिति।। अयमाशयः--अर्थनिर्णयस्याध्ययनमात्रादनिष्पत्तेः, श्रूयमाणस्य स्वाध्यायस्य चाफलत्वाद् अध्ययनमात्रस्य चाप्रयोजनतया भाव्यत्वायोगात् स्वाध्यायाध्ययनेन स्वर्गं भावयेदिति कल्प्यत इति।

                ननु व्याकरणस्याप्यङ्गत्वात् साङ्गादध्ययनाद् विधीयमानादर्थनिश्चयो दृष्टफलतया जायते, तस्य च विरोधपरिहाराय विचारः प्रयुज्यते; अतो दृष्टे सत्यदृष्टकल्पना न न्याय्येति चोदयति--तदपि न; अक्षरेभ्यः प्रयोजनवदिति।। परिहरति--न तर्हि निष्प्रयोजनानीति।। श्रूयमाणस्याध्यायलक्षणात् कर्मण एवाध्ययनभावनया भाव्यमानात् फलवदर्थावबोधसिद्धेः पश्वन्नादीनां प्रयोजनं प्रति परम्परया साधनानामपि भाव्यत्वदर्शनात् श्रूयमाणस्वाध्यायवाप्तिपर्यन्त एव विधिव्यापार इति भावः। ननु अक्षरग्रहणपर्यन्ते विधिव्यापारे फलवदर्थावबोधस्य निर्निमित्तता स्यादिति, तत्राह--फलप्रयुक्त एवार्थावबोध इति।। अयमाशयः--लौकिकाप्तवाक्यानां विधिमन्तरेणापि फलवदर्थावबोधकत्वदर्शनात् सङ्गाच्च कर्मणो विधीयमानादवघातादिष्विवादृष्टजन्मनियमाद् न विधिफलमर्थावबोधः, किन्तु स्वीकृतस्वाध्यायमात्रजन्यं फलमिति। विधेस्तु दृष्टसमवाय्यदृष्टमेव किंचित्फलम्, इति दृष्टफलाविरोधेनादृष्टसिद्धौ न तद्विरोधिस्वतन्त्रादृष्टं कल्पयितुं युक्तमिति। किंच फलवदर्थावबोधफलेऽध्ययनविधौ, यस्य यस्मिन् कर्मण्यधिकारः, तस्य तद्वाक्याध्ययनमेव स्यात्, न वाक्यान्तराध्ययनम्; तत्र प्रवृत्त्यादिफलाभावात्, इति न कृत्स्नवेदाध्ययनसिद्धिरित्याह--अपिचाक्षरग्रहणान्तो विधिरिति।। ननु कृत्स्नस्वाध्यायाध्ययनस्य नित्यतया विधेयत्वेऽपि सकलस्वाध्यायावाप्तिसमवेतस्यादृष्टस्यानधिकृतकर्मवाक्यगतस्यार्थावबोधानुष्ठानादिद्वारेऽपि कथमपूर्वसिद्धिहेतुतेति नैष दोषः; प्रायश्चित्तजपाद्यपूर्वोपकारित्वोपपत्तेः। ननु अध्ययनादक्षरावाप्तेः। ननु अध्ययनादक्षरावाप्तेः को विशेषः अस्त्यत्र विशेषः; स्वाधीनोच्चारणक्षमत्वं नामाक्षरधर्मोऽवाप्तिः तदर्थो वाङ्-मनसव्यापारोऽध्ययनमिति।।

                ननु अधिकारिविशेषणमर्थावबोधमुद्दिश्याध्ययनं विधातव्यम्; निरधिकारविधानायोगात्, अर्थावबोधमुद्दिश्यैव च विहितशब्दोच्चारणे सति वाक्यतात्पर्यसिद्धेः, अर्थावबोधमुद्दिश्य रागप्रयुक्तशब्दोच्चारणे लोके तात्पर्यदर्शनादिति चोदयति--ननु चाश्रूयमाणाधिकारोऽध्ययनविधिरिति।। अधिक्रियतेऽस्मिन् कर्मण्यनेनेत्यधिकारो विधि-पुरुषसंबन्धनिमित्तं जीवन-कामादिरुच्यते। ननु विश्वजिन्न्यायेनाधिकारि कल्प्यताम्, अथवा वाजसनेयिनां"ब्रह्मचर्यमागामि"त्यादिनोपनयनस्य प्रकृतत्वादुपनीतोऽधिकारीति प्रकरणप्रमाणेन कल्प्यतामिति, नेत्याह--दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, स कल्पनामधिकारस्य निरुन्धन्नित्यादिना।। भवतु नाम "अध्ययनेनार्थावबोधं भावयेदर्थावबोधकामः" इति विधिः, तथाऽपि "विचारेणार्थावबोधं भावयेदि"ति विचारे प्रवृत्तिरध्ययनविधिना न विधीयत इति, तत्राह--दृष्टाधिकारेषु प्रत्यक्षत इति।। तत्र किमर्थसामर्थ्यादेवाध्ययनस्यार्थावबोधः साक्षाद्वा परम्परया वा फलमित्युच्यते किं वाऽर्थावबोधकाममुद्दिश्य विधानतः इत्यभिप्रेत्याह--अत्रोच्यत इति।। प्रथमः कल्पोऽङ्गीकृत्य इत्याह--भवेदध्ययनविधेरिति।। द्वितीयः पक्षोऽनुपपन्न इत्याह--नाधिकारहेतुतेति।। अध्ययनात् प्रागर्थावबोधस्याप्रतिपन्नस्य कामनायोगान्नार्थावबोधकाममुद्दिश्य विधानमित्यर्थः। ननु कथमर्थावबोधस्याप्रतिपत्तिः अध्ययनात् प्राग्वेदार्थस्याप्रतिपत्तेः, विशेषणापरिज्ञाने तद्विशिष्टावबोधानवगमात्। ननु वेदस्य वाक्यप्रमाणत्वादाप्तवचनवदर्थो विद्यते, इत्यर्थसद्भावमात्रमनुमानेनावगम्यते, न; अर्थवत्त्वज्ञानमात्रस्यानुमानसिद्धत्वात् तज्ज्ञानकामनाऽयोगात्, अग्निहोत्रादिविशिष्टवाक्यार्थानामप्रतिपन्नतया तद्विशिष्टज्ञानकामनाऽयोगात्; उपदेशत एवाग्निहोत्रादिवाक्यार्थविशेषाः प्रतिपन्ना इति चेत्, तर्हि वाक्यार्थविशेषज्ञानानामपि सिद्धत्वान्न तत्र कामना सम्भवेत्। अर्थपदेशिकज्ञानस्याप्रमाणत्वान्निर्णयज्ञानं काम्यत इति चेत्, अप्रामाण्ये निश्चिते न तत्र निर्णयज्ञानकामना, अर्थस्य विभ्रममात्रत्वादौपदेशिकज्ञानस्य; सन्दिग्धे प्रमाण्यविचारस्यैवावसरो नाध्ययनस्य। किंच--सर्ववाक्यार्थज्ञानानां युगपदेकबुद्ध्योद्देशनासम्भवात्, सामान्येनोद्दिश्य शब्दोच्चारणायामर्थमात्रज्ञाने शब्दस्य तात्पर्यप्रसङ्गात्, अग्निहोत्रादिविशेषज्ञाने तात्पर्याभावात्, वाक्यशक्त्यनुसारेण विशिष्टार्थे तात्पर्यकल्पनयाऽर्थज्ञानमुद्दिश्याध्ययनविधेस्तात्पर्यानिमित्तत्वप्रसङ्गात्। तस्माद् विशेषज्ञानानां प्रागसिद्धत्वान्न तत्काममुद्दिश्य निधानमित्याह--प्राक् चाधिकारज्ञानेन प्रयोजनमिति।। किंचोद्दिश्यविधानेऽपि नाध्ययनमात्रात् दृष्टफलतयाऽर्थावबोधसिद्धिः; अदर्शनादित्याह--अतो न विधेरिति।। ननु अर्थावबोधमुद्दिश्य शब्दोच्चारणायां तात्पर्यं लोके दृश्यते, न तावच्छ्रोतुरुच्चारणा तात्पर्यनिमित्तम्; लोके तदभावात्, न वक्तुरुच्चाकणा, वेदेऽपौरुषेये तात्पर्याभावप्रसङ्गात्। तस्मात् स्वभावत एवार्थप्रतिपादनसमर्थस्य शब्दस्य पुरुषसम्बन्धकृतदोषपरिहारायार्थज्ञानमुद्दिश्य शब्दोच्चारणाऽपेक्ष्यते, तात्पर्यमपि शब्दधर्म एव षड्विधलिङ्गगम्यो न पुरुषधर्म इति वक्ष्यते।।

                इदानीमध्ययनविधेर्नित्याधिकारतां प्रतिपादयितुमधिकारिविशेषणाभावादनध्ययनमेवेत्यध्ययनप्रवृत्तिमाक्षिपति--यद्येवमधिकाराश्रवणादिति।। तत्र विधिर्हि स्वविषये प्रवर्तकतया प्रतिपन्नस्तदन्यथानुपपत्त्या "ममायं नियोग" इति प्रतिपद्य प्रवृत्तिसमर्थमधिकारिणं कल्पयति, यदा तु पुनर्विधिविषयस्य निमित्तान्तरादनुष्ठानं सम्पद्यते, तदा विधेः प्रवर्तकत्वं प्रतिबध्यते। प्रतिबद्धप्रवर्तकभावश्च विधिः प्रवृत्तिसिद्धये न स्वामिनमधिकारिणं कल्पयित्वा प्रवर्तयति। तत्राध्ययनविधिरपि स्वविषयस्याध्यापनविधिप्रयुक्तानुष्ठानत्वात् स्वयं प्रतिबद्धप्रवर्तकभावो नाधिकारं कल्पयित्वा प्रवर्तयतीति प्राभाकराः प्रत्यवतिष्ठन्त इत्याह--अत्र केचिदाहुरिति।। ननु--"अष्टवर्ष ब्राह्मणमुपनयीत" "तमध्यापयीते"तिश्रुतावध्यापनविधिरश्रूयमाणाधिकारः कथमध्ययनं प्रयोजयेत्; कल्प्यतेऽत्राधिकार इति चेत्, न अध्ययनेप्यधिकारं कल्पयित्वा स्वविधिप्रयुक्तिरेवाध्ययनस्य गृह्यताम्; सन्निधानात्, ननु--कल्पिताधिकारेऽध्यापनविधौ तत्प्रयुक्तानुष्ठानत्वादध्ययनस्य न तत्राधिकारः कल्प्यत इति चेत्, विपरीत् किं न स्यात् अध्ययने कल्पिताधिकारे तत्प्रयुक्तानुष्ठानत्वादध्यापनस्य न तत्राधिकारः कल्प्यत इति; ननु लिखितपाठादध्ययनसिद्धेनाध्ययनविधिरध्यापनं प्रयोजयति, तर्हि अविहिताध्ययनेनाप्यध्यापनविधिसिद्धेर्न विहितमध्ययनमध्यापनविधिः प्रयोजयेत्, अथाप्यध्ययनाध्यापनयोर्माणवकस्य

प्राङ्मुखत्वपवित्रपाणित्वाद्यङ्गसाम्याद्विहितमेवाध्ययनमध्यापनविधिः प्रयुङ्क्त इति, अध्यापनस्याध्ययनविधिप्रयुक्तादि समानमेतत्। किंच "आचार्याधीनो वेदमधीष्वे"ति नियमविधानाल्लिखितपाठो न युक्ताः अध्यापनादुत्तरभावित्वादाचार्यकरणविधिप्रयुक्तः--"अधीष्वे"तिवाक्यार्थ इति चेत्, "तद् द्वितीयं जन्म तद् यस्मात्स आचार्य" इत्युपनयनमात्रादाचार्यत्वश्रवणात् "आचारान् ग्राहयती"ति व्युत्पत्त्याऽऽचार्यत्वस्य प्रागेव सिद्धेः, आचार्यकरणविधिप्रयुक्त इत्यध्याहारात् शब्दस्य भाविवृत्त्याश्रयणस्यैव लघीयस्त्वात्। तस्मादधिकारकल्पनासाम्यादितरेतरप्रयुक्तिसाम्याच्च स्वविधिप्रयुक्तिसम्भवेऽध्ययनस्य कथमध्यापनविधिप्रयुक्तिरिति तत्राह--आचार्यकरणविधिप्रयुक्तस्यानुष्ठानमिति।। अयमाशयः-- "संमाननोत्सञ्जनाचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः" इति संमाननादिषु साध्येषु नयतेर्धातोरात्मनेपदं विधीयते; तत्र "उपनयीत, तमध्यापयीते"त्येकप्रयोगतावगमादुपनयनाध्यापनयोर्माणवकस्याध्यापनं प्रति कर्मकारकांशेन गुणभूतत्वाद् माणवकः केनोपकारेणाध्यापनविधि निर्वर्तयेदिति वीक्षायामुपगमेनाध्ययनं कुर्वन्नध्यापनविधेरुपकरोतीति गम्यते। तत्रो"पनीयाध्यापयेदि"ति प्रयोगैक्यकल्पनायां नयत्यर्थसाध्यमेवाचार्यकरणमध्यापनस्यापि फलं गम्यते। ततश्चो"पनीयाध्यापयेदाचार्यकरणकामः" इति श्रुतस्यैवाचार्यत्वस्य फलस्य कामोपबन्धमात्रकल्पनात् साधिकारोऽध्यापनविधिः सम्पद्यते। अथवा "उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः। सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते" इत्युपनयनाध्यापनयोः प्रयोगैक्यादध्यापने विधिश्रवणादाचार्यत्वफलश्रवणाच्चार्यत्वकामो माणवकमुपनीयाध्यापयेदिति विधिर्निष्पद्यते, अध्ययने तु नाधिकारनिमित्तं किञ्चित् श्रुतमस्तीति विशेषः। ननु अध्यापनविधिविषयतदङ्गताभावेऽध्ययनस्य स्वतन्त्रविध्यन्तरविहितस्य कथं स्वतन्त्रविध्यन्तरप्रयुक्तानुष्ठानतेति तत्राह--आधानस्येव कामश्रुतिप्रयुक्तस्येति।। अयमाशयः--"ब्राह्मणोऽग्नीनादधीते"ति श्रूयते। तत्र न तावत्पुरुषमुद्दिश्य स्वातन्त्र्येण नित्यमाधानं विधीयते; द्रव्यपरतया प्रोक्षणादिवत् कर्मकारकसंस्कारकर्मताप्रतीतेः, अश्रूयमाणफलत्वादेव न स्वतन्त्रकाम्याधिकारता। नच सक्तुन्यायेन गुण-प्रधानवैपरीत्यान्नित्यकाम्याधिकारता; "यदाहवनीये जुहोती"ति संस्कृताग्नीनां क्रत्वन्तरे विनियोगात्; तस्मादुभयविधायिकारशून्यो नाधानविधिराधाने प्रवर्तयितुं क्षमः। तर्ह्युत्तरक्रतुविधिप्रयुक्तानुष्ठानमाधानं स्यात्, उच्यते; न तावन्नित्यदर्श-पूर्णमासादिविधिप्रयुक्तानुष्ठानकमाधानम्; आहवनीयस्योद्देश्यतयाऽनुपादेयत्वात्, क्रतुविधिप्रयुक्तानुष्ठेयत्वायोगात्। उपादेयमेव हि विधिरनुष्ठापयति; अन्यथा स्वर्गकामादीनामप्यनुष्ठेयत्वप्रसङ्गात्। तस्मादुत्तरकाम्यविधिप्रयुक्तमेवाधानस्यानुष्ठानमिति। नहि विधिरिव कामोऽप्युपादेयमेवानुष्ठापयति; किन्तु यद्यदुद्देश्यमुपादेयं वा विना काम्यमानं न सिध्यति तत् सर्वे विधिः सहकारितयाऽनुष्ठापयति; एवं विधि-रागयोर्विभागदर्शनात्। यथा "सौवर्णे पीठे समुपविशेदि"ति विधौ तथाविधपीठाभावे विधिर्नानुष्ठापयति, रागस्तु तथाविधं पीठमुत्पाद्यापि तत्र निवेशयति; एवमाचार्यकरणकामनैवाध्ययनमाचार्यप्रेरणाद्वारेण माणवकेन निर्वर्तयत्यध्यापनसिद्ध्यर्थमिति। अत्राध्ययनविधिरेव नित्याधिकारेण साधिकारोऽध्ययने प्रवर्तयतीति प्रतिपादयितुमध्यापनविधिप्रयुक्तिं निराकरोति--तदुयुक्तमित्यपर इति।। अयमाशयः--न तावदाचार्यत्वं स्वयमेव विधेयमिति युक्तम्; उपनयनाध्यापनभावार्थविषयत्वाद् विधेः। नापि विधिपदाभिधेयतया विधिरूपमायर्यत्वम्; आत्मनेपदमात्राभिधेयत्वात्। नापि नैयोगिकफलमाचार्यत्वम्; "आचारान् ग्राहयती"ति प्रयोजककर्तृत्वनिबन्धनस्याचार्यत्वस्य लौकिकत्वात्। अथ माणवकविषयनयत्यर्थजन्यमाचार्यत्वमलौकिकमिति, न तत्; "यस्मात् स आचार्यः" इति स्मृतौ माणवकसंस्कारं प्रति हेतुकर्तृत्वस्यैव लौकिकस्याचार्यशब्दनिमित्तत्वावगमात्, सहपठितानां च संमाननादीनामलौकिकत्वाभावात्। आचार्यत्वस्यालौकिकत्वेऽप्युपनयननियोगफलं भविष्यति। तेनाध्यापनविधेः कुतः साधिकारता अथ "तमध्यापयीतेत्ये"कप्रयोगताऽवगमादुपनीयाध्यापयीतेति विधिः परिणमति इति, तथाऽप्यङ्गफलस्यार्थवादस्य न प्रधानविध्यधिकारनिमित्तता कल्पनीया-आचार्यकरणकामो माणवकमुपनीयाध्यापयेदिति। तदेवमध्ययनविधेरप्युपनयनप्रकरणत्वाद्वाजसनेयिनाम्, सर्वस्मृतिषु चोपनीतोऽधीयीतेति प्रकरणप्रमाणात् साधिकारत्वसिद्धेः स्वविधिप्रयुक्तमेवाध्ययनमिति युक्तम्। यत्तु मानवं वचनमुक्तम्, तत् स्वयमेव वा मूलश्रुत्यनुमानेन वा नाचार्यकरणकामस्य किंचिद्विदधाति, किन्तु यच्छब्दोपबन्धादुपनयनाध्यापनानुवादेन कर्तृराचार्यसंज्ञामेव

विदधाति, "तमाचार्यं प्रचक्षते" इति वचनात्, संज्ञायाश्च वक्ष्यमाणनमस्कारपूजादिविधानाङ्गत्वात्। तस्मादाचार्यकरणविधिप्रयुक्तिरयुक्ता--इति।। ननु एवमप्युभयत्राधिकारकल्पना न युक्ता; अन्यतरेणैवान्यतरस्य प्रयुक्तिसिद्धेः, अतः कस्यान्यतरस्य कल्प्यते इति वीक्षायां माणवकस्याप्रबुद्धत्वात् स्वाधिकारं प्रतिपद्यानुष्ठानुमशक्तत्वादध्यापनविधिरेव साधिकारोऽध्ययनं प्रयुङ्क्त इति चोदयति--कथमिति।। तत्रोत्तरमाह--अष्टवर्षं ब्राह्मणमुपनयीतेति।। यद्ययमाचार्यस्य नियोग इति।। आचार्यकरणकामस्य नियोग इत्यर्थः। अयमभिसन्धिः--आचार्यकरणविधिस्तावन्नाविहितमध्ययनं प्रयुङ्क्ते; अध्ययनानधिकारिणां तत्र प्रयोजनशून्यतयाऽऽचार्यगुणभावेन प्रवृत्त्ययोगात्। अथ विहितमेवाध्ययनं प्रयोदयति, तत्र वक्तव्यम्--किं विधिः स्वरूपनिर्धारणोपाधित्वेनाधिकारिणं विषयं चापेक्षते न वेति स्वरूपोपाधितया विषयमपेक्षते, नाधिकारिणम्; प्रवर्तकत्वोपाधित्वादधिकारिण इति चेत्, तर्ह्यस्यायं विधिरिति विहितस्याध्येतृविशेषस्यापरिज्ञानाद् यं कश्चिदध्यापयेत्, तदेतदाह--माणवको न नियुक्तो भवतीती।। अथ स्वरूपोपाधित्वेनैवाधिकारिणमपेक्षते विधिः, तर्हि सिद्धमध्ययनविधेः साधिकारत्वम्। तत्र प्रकरणादुपनीतोऽधिकारी सम्पद्यते। साधिकारत्वे चाध्ययनविधेः प्रयोजयितृत्वमपि सिध्यति। परप्रयुक्तानुष्टानसम्भवे साधिकारोऽपि विधिर्न प्रयोजयतीति चेत्, तत्राह--अनियुक्तस्य च स्वाध्यायाध्ययन इति।। अनियुक्तस्येति। स्वाधिकारविधिनैवाप्रवर्तितस्येत्यर्थः। ननु एकस्मिन्नप्रवर्तमानेऽप्यन्यः प्रवर्तिष्यत इति स्रोतोरूपेणाध्यापनस्य सिद्धिरिति, न; उपनेतृत्वस्यापि तदङ्गत्वात्। स्वात्मनैवोपनयीत तमध्यापयीत नान्येनोपनीतम्; अन्यथाऽङ्गवैकल्यादधिकारानिष्पत्तेराचार्यत्वफलसिद्धेः। तर्ह्यन्यानप्युपनीयाध्यापयेत्, तन्न; सर्वे च माणवका न प्रवर्तन्ते निष्प्रयोजनव्यापारे, इति नाध्यापनं सिध्यति। ननु बालकस्य कथं स्वाधिकारप्रतिपत्तिः संध्योपासनसमिदाहरणादिकर्तव्यताप्रतिपत्तिवदुपदेशसामर्थ्यादध्ययनकर्तव्यताप्रतिपत्तिरिति न विरोधः। किंञ्च अनित्येन विधिना नित्यस्वाध्ययनस्यानुष्ठाने तदुपरमे नित्यमध्ययनं सम्पादयितुं न शक्यत इत्याह--किञ्चान्यद् आचार्यकरणविधिरिति।।

                अयमाशयः--काम्यमानमाचार्यस्य न तावत् स्वयमेव पुरुषार्थः; परम्परया च सुखदुःखप्राप्तिनिवृत्त्योरेव पुरुषार्थत्वात्। तत्राचार्यत्वस्याध्यापनमात्रस्य वा प्रयोजनाकाङ्क्षायां दृष्टे सत्यदृष्टकल्पनानुपपत्तेर्द्रव्यार्जननोपायत्वेन "2षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका। याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः2"।। इति स्मरणात्, माणवकस्य चाध्ययनाङ्गत्वेन गुरुदक्षिणादिविधानात्, अङ्गिन्यध्ययनेऽनुष्ठापकस्याध्यापनविधेर्दक्षिणा-शुश्रूषाद्यङ्गेष्वनुष्ठापकत्वाद् द्रव्यार्जनमेव प्रयोजनम्। तत्र प्रयोजनवत्तया काम्यत्वान्न नित्यवत् प्रयोक्तृत्वसिद्धिरिति। उपगमनाध्ययने तर्ह्यनित्ये इति, नेत्याह--उपनयनाख्यस्तु संस्कारो नित्य इति।। ननु प्रायश्चित्तस्याप्यकरणे दोषः श्रूयते--"अतीते चिरकाले तु द्विगुणं व्रतमर्हती"ति, तत्र कथं प्रत्यवायश्रवणादुपनयनस्य नित्यतेत् उच्यते; न प्रायश्चित्ताकरणनिमित्तदोषनिरासाय द्विगुणं व्रतमुच्यते, किन्तु प्रायश्चित्तेन निराकर्तव्यस्य पूर्वदोषस्यैवातीतचिरकाले द्विगुणव्रतापेक्षयैव निरास इत्युच्यते; अन्यथा प्रायश्चित्तानवस्थाप्रसङ्गात्। ननु उपनयनसंस्कारस्य नित्यत्वेऽप्यध्ययनस्य कथं नित्यासिद्धिरिति तत्राह--संस्कारश्चेति अङ्ग्युपाधिविहितत्वादङ्गस्योपहिताङ्गनित्यता स्वोपाधेरध्ययनस्यापि नित्यत्वं कल्पयतीति। ननु--अध्ययनमनारभ्याधीयमानमुपनयनफलं कथमध्ययनाङ्गं स्यात् नचोपनयनसंस्कारविधिमात्रमेवावुपपत्त्या शेषित्वेनाध्ययनं कल्पयति; श्रुत्यादिविशेषसम्बन्धनिमित्तप्रमाणाभावेऽध्ययनविशेषेण सम्बन्धासिद्धेः, यथा "हिरण्यं धार्यमि"ति विधिः प्रतीतितो हिरण्यसंस्कारार्थोऽपि श्रुत्यादिविशेषसम्बन्धप्रमाणाभावात् संस्कार्यहिरण्यपदार्थसामर्थ्यात् क्रतुसम्बन्धे सर्वक्रतुसम्बन्धप्रसङ्गाद् एकस्य संस्कारस्य सर्वक्रतूपकारित्वानुपपत्तेश्चचान्याङ्गतामनश्नुवानः संस्कारकर्मत्वं परित्यज्याभ्युदयफलः स्वतन्त्रो विधिरभ्युपगतः, एवमुपनयनविधिरपि श्रुत्यादिप्रमाणविरहात् संस्कार्यमाणवकसामर्थ्यात् क्रतुसम्बन्धप्रसङ्गादन्याङ्गतामनश्नुवानः संस्कारकर्मत्वं परित्यज्य स्वतन्त्र एवाभ्युदयफलः स्यात्। कर्मस्वरूपविधिर्हि सर्वः स्वभावसामर्थ्यादेवाङ्गाङ्गिभावं सामान्येन प्रमिमाणः

श्रुत्यादिसहकृत एव विशेषसम्बन्धं प्रमिमीते, इति नोपनयनस्य संस्कारकर्मता सिध्यति--इति।।

                अत्रोच्यते--अध्ययनविधिरेव श्रुत्यादिप्रमाणानपेक्षतया चातुर्थिकेन प्रमाणेनोपगमनमात्मीयाङ्गत्वेन स्वीकरोति; "आचार्याधीनो वेदमधीष्वे"त्यादिनियमविधानाल्लिखितपाठादिप्रतिषेधे सत्याचार्योपगमनमन्तरेण माणवकाध्ययननिर्वृत्त्ययोगात्। ननु दृष्टमाचार्योपगमनमध्ययनविधिसामर्थ्यादुपादीयताम्, अदृष्टस्पूपनयनसंस्कारः कथमङ्गतयोपादीयत इति उच्यते--आचार्योपगमनविधिरेव नानाविधेतिकर्तव्यकलापानुगृहीतोऽदृष्टं संस्कारमुत्पादयति। स च विधिर्विधिप्रयुक्तप्रयोजनमीक्षमाणो दृष्टोपगमनद्वारेणाध्ययनविध्युपकारे सम्भवति नादृष्टं कल्पयति; दृष्टे सत्यदृष्टकल्पनानुपपत्तेः। दृष्टफलातिशयेऽदृष्टे संभवति, स्वतन्त्रादृष्टकल्पनानुपपत्तेरित्यर्थः। तदेवमध्ययनविधिसामर्थ्यादुपादीयमाने सत्याचार्योपगमने तदाश्रितोपनयनविधिजन्यसंस्कारस्यापि तद्द्वारेणाध्ययनविधिसम्बन्धस्योपनयनविधिसामर्थ्यादेव सिद्धेरुभयविध्युपादानसामर्थ्यादध्ययनाङ्गमुपनयनमिति सिद्धम्। ननु उपनयनस्य संस्कारकर्मताया सिद्धायां संस्कारविधेः प्रयोजनाकाङ्क्षा, ततश्चाध्ययनविध्याक्षिप्ताचार्योपगमनदृष्टद्वारेणोपनयनविधिरध्ययनाङ्गतामात्मनः सामर्थ्यात् प्रमिमीते। नचोपनयनस्य संस्कारकर्मत्वे प्रमाणमिति, अत्रोच्यते--परस्परोपादानसामर्थ्यादेवोपनयनाध्ययनयोरङ्गाङ्गिभावे सिद्धे किमुपनयनं प्रोक्षणादिवत् संस्कारकर्मतयाऽङ्गम् किं वा प्रयाजादिवदध्ययनफलोपकार्यङ्गम् इति विशये संस्कारकर्मतयाऽङ्गत्वमुपादीयते; अङ्गिस्वरूपोपकारलाभात् सन्निपत्याङ्गत्वात्, फलोपकार्यङ्गानां विप्रकृष्टतयाऽभावात्, विप्रकर्षात् सन्निकर्षग्रहणस्य युक्तत्वात्। अतो माणवकसंस्कारतयोपनयनमध्ययनस्वरूपोपकार्यङ्गमुभयविध्युपादानसामर्थ्यात् सिद्धम्। किंच "अष्टवर्षो ब्राह्मण उपगच्छेत्" "सोऽधीयीते"ति वाक्यविपरिणामस्य वक्ष्यमाणत्वात् तच्छब्दश्रुतिरेवोपनयनसंस्कृत माणवकमादाय स्वाध्यायाध्ययने नियुङ्क्ते, इति श्रुत्यनुगृहीत एवोपनयनविधिरध्ययनाङ्गतामात्मनः प्रतिपादयति। तच्छब्देन संस्कारो न परामृश्यते, किंतु माणवक एवेति न युक्तं वक्तुम्; अनन्तरप्रकृतत्वात् संस्कारस्य, उपनयनाध्ययनयोः परस्परसाकाङ्क्षत्वस्य दर्शितत्वात्, आकाङ्क्षितसमर्पणत्वाच्च श्रुतेः, अविभक्तेरपि प्रातिपदिकस्यान्विताभिधायितया सम्बन्धप्रतिपादकत्वात्। तस्मात् श्रुत्यनुगृहीत एव विधिरङ्गाङ्गिभावं प्रमिमीत इति। किञ्च वाजसनेयिनां सर्वस्मृत्यनुमितश्रुतिषु चोपनयनं प्रकृत्याध्ययनविधानात् फलवदध्ययनप्रकरणानुगृहीत एवोपनयनविधिरध्ययनाह्गतामात्मनः प्रतिपादयति। तस्माद् युक्तम्--संस्कारश्च स्वाध्यायाध्ययननार्थ इति। ननु काम्यत्वे़प्याचार्यकरणविधिर्नित्यसमीहितफलत्वान्नित्य एव। ततश्च न नित्यानित्यसंयोगविरोध इति चोदयति--ननु कथमाचार्यकरणेत्यादिना।। फलस्य नित्यसमीहितत्वमङ्गीकृत्य परिहरति--भवेदेवं नित्यता फलवशेन, न शब्दादिति।। ननु फलसामर्थ्याद्वा शब्दसामर्थ्याद्वाऽनुष्ठेयं नित्यकर्तव्यं चेत्, किं प्रमाणविशेषेण हीयत इति तत्राह--तथापि फलस्य नित्यसमीहितत्वादिति।। वास्तवी=फलवस्तुसामर्थ्यनिबन्धनेत्यर्थः। ननु अध्यापने क्वचित् फलसाधनकामनाधीनाकर्तव्यताप्रतिपत्तिः, अन्यत्र तु शाब्दकर्तव्यताप्रतिपत्त्यधीनाऽध्यापने फलसाधनेच्छा, किमत्राध्यायपनस्य नित्यकर्तव्यताप्रतिपत्तेरायातमिति तत्राह--शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्ताविति अस्त्यत्र विशेषः, कथम् अध्यापनविधिर्हि शब्दान्नित्यतया प्रतिपन्नो विशेषेण स्वाधिकारोपाधौ सर्वदा सर्वान् प्रत्यनुष्ठेयेच्छामुत्पाद्य प्रवर्तयति; प्रामाणिककर्तव्यताप्रतिपत्तेः स्वोपाधौ संकोचाभावात्, इच्छाधीने तु कर्तव्यतावगमे तत्सङ्कोचादेव कर्तव्यतावगमसङ्कोचाद् न नित्यवदध्यापनसिद्धिरिति। ननु प्रामाणिकनित्यकर्तव्यताधीनाऽपीच्छा क्वचिद्देशे काले वस्तुनि च कारकसामर्थ्याभावादिवशेनौचित्यात् प्रतिहन्यते, तत्र कथं नित्यकर्तव्यताधीननित्येच्छाद्वारेण नित्यवदनुष्ठानमिति तत्राह--औचित्यादिभावेऽपीति।। प्रमाणतस्तावन्नित्योऽध्यापनविधिः प्रत्यवायभयादिव यावच्छक्यमिच्छादिद्वारेणाधिकारिणमनुष्ठापयतीत्यर्थः। तेनेति स्पष्टार्थः। ननु प्रमाणतो विधिनित्यत्ववतदिच्छातोऽपि कर्तव्यतानित्यत्वं किं न स्यादिति नेत्याह--फलवशात्तु कर्तव्यताप्रतिपत्ताविति अनित्यैव सा स्यादित्यध्याहारः।। ननु अर्थस्य नित्यसमीहितत्वात् कर्तव्यताप्रतिपत्तिनिमित्तकामोऽपि नित्य एवेत्यत आह--यद्यपीति।। उपेयनित्यत्वेऽप्युपायभेदादध्यापनकर्तव्यताऽप्यनित्यैवेत्यर्थः। ननु

कस्यचिदुपायान्तरासमर्थस्य तदेकोपायत्वान्नित्यकर्तव्यतेति, तत्राह--तदेकोपायत्वेऽपीति।। अतो नित्यानित्यसंयोगविरोध इति। इदानीं स्वतो नित्यत्वाभावेऽपि नित्यपुत्रोत्पादनविधिशेषतयोपनयनाध्यापनयोर्नित्यत्वान्न नित्यानित्यसंयोगविरोध इति चोदयति--ननु पितुः पुत्रोत्पादनविधिरिति।। तत्र पुत्रोत्पादनविधेः पितृणां परलोकगतानामस्मिन् लोके पिण्डपितृयज्ञाद्यनुष्ठानद्वारेण तृप्तिसम्पादनं प्रयोजनम्। नचोपनयनाध्यापनार्थज्ञानादिव्यतिरेणानुष्ठानं सम्भवति। ततश्च नित्यस्य पुत्रोत्पादनविधेः फलपर्यन्ततापेक्षितमनुशासनं तच्छेषतया विदधाति "तस्मात्पुत्रमि"ति वाक्यम्। ततश्च नित्यपुत्रोत्पादनविधिसामर्थ्यादुपनयनादिविधीनां नित्यत्वं प्राप्तम्। ततश्चार्थज्ञानपर्यन्तत्वादनुशासनस्याध्ययनमप्यर्थज्ञानफलमित्याह--कथं वाऽध्ययनस्येति।। परिहरति--नानेन पुत्रानुशासनं विधीयत इति।। "अथातः संपत्तिर्यदा प्रौष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञत्वं लोकः" इति वेद-तदर्थ तत्फलानां स्वानुष्ठेयानां पुत्रे समर्प्यमाणानां "स पुत्रः प्रत्याह अह ब्रह्माहं यज्ञोऽहं लोकः" इति पुत्रेणानुष्ठेयतया स्वीकरणं संपत्तिकर्म। तत्र च पूर्वानुशासनमन्तरेणाकस्मादेव सकलकर्तव्यसंग्रहानुपपत्तेः फलपर्यन्तपुत्रोत्पादनविधिनाक्षिप्तमनुशासनं पूर्वनिवृत्तमेवार्थवादतयाऽनुवदत्येतद्वाक्यमिति भावः। मा भूत् तदेतद्वाक्यमनुशासनाविधायकम्; तथाऽपि नित्यपुत्रोत्पादनविधिसामर्थ्यादेव पितुरुपनयनाद्यनुशासनविधिर्नित्य एव प्राप्त इति, तत्राह--गर्भाष्टवर्षेणेत्यादिना।। अयमर्थः--नित्यपुत्रोत्पादनविध्यधिकारिणः पितुरायुर्नियमाभावादनुशासनपर्यन्तमवस्थानानुपपत्तेः कर्तव्यर्थोपदेशनमेवानुशासनम्, नानुष्ठापनम्। अतो नित्यपुत्रोत्पादनविध्याक्षिप्ततयाऽपि नोपनयनादिविधेर्नित्यतेति। ननु पितुः कर्तव्योपदेशनमेवानुशासनम्, नोपनयनाद्यनुष्ठापनमिति कथमवगम्यते तदाह--तथाच लिङ्गं श्वेतकेतुरिति।। ततश्च नित्यानित्यसंयोगविरोधस्तदवस्थ एवेत्याह--तदेवनित्येनेति।। ननु माणवक एव एकस्मिन्नाचार्ये मरणादीनां निवृत्ते पुनराचार्यान्तरमाहूय नित्यमध्ययनं सम्पादयिष्यतीति, नेत्याह--किं चाचार्ये प्रेत इति।। न तावन्माणवक एव स्वनियोगेन प्रेर्यमाणः स्वाधिकारं निर्वर्तयितुमाचार्यान्तरं सम्पादयति; अनङ्गीकरणात्, नाप्याचार्यनियोगेन; अधिकारिणोऽभावे नियोगस्य कर्तव्यताप्रतिपत्त्यभावात्, अकर्तव्यानुष्ठानेन साधनसंपादनायोगादिति। ननु--साधनान्तरप्रतिनिध्युपादानवदधिकारिणोऽपि प्रतिनिध्युपादानेन कर्तव्यं माणवकः सम्पादयेदिति, नेत्याह--नचाधिकारी प्रतिनिधीयत इति।। अवश्यकर्तव्यस्य ह्यननुष्ठाने प्रत्यवायात् तदनुष्ठानाय हि मुख्याभावे प्रतिनिधिरादीयते; अधिकार्यभावे "ममेदमि"ति सम्बन्धानवगमादकर्तव्ये नियोगे कस्यावश्यानुष्ठानाय प्रतिनिधिरादीयते न तावन्मृतस्य; तस्य विधिसम्बन्धनिमित्तनिवृत्तेः कर्तव्यत्वाभावात्, नापि प्रतिनिधेः; आचार्यस्येदं कर्तव्यम्, तस्य कर्तव्यसिध्युत्तरकालत्वात्। तस्मान्नाधिकारिणः प्रतिनिधिसम्बन्धः। न तर्हि सर्वत्र प्रतिनिधिवार्तावकाश इति, तदाह--अधिकारी स्वाधिकारसिध्यर्थमिति।। ननु आचार्ये प्रेतेऽन्यः कश्चिदाचार्यः स्वाधिकारं निर्वर्तयितुं माणवकं स्वीकरिष्यति, किं माणवकस्याचार्यान्तरकरणव्यापारेणेति न; पुनरुपनयनाभावात्, उपनेतृत्वाङ्गस्यापि सिद्धेर्न माणवकान्तरस्वीकारः, अनुपनीतं वाऽध्यापयीत; अङ्गस्य निर्वृत्तत्वात्। वृत्त्युपचयार्थः संग्रह इति चेत्, न; दरिद्रस्य माणवकस्याग्रहणप्रसङ्गात्, अल्पव्यवहितग्रामवासिनां च माणवकानामाचार्यसंपादनार्थं ग्रामान्तरगमनं न स्यात्। न हि तत्र तत्राध्यापयितारः श्रोत्रियाश्च दृश्यन्ते। तथाच माणवकस्योपनयादि सिध्यर्थं स्वयमेवाचार्यगमनं श्रूयते--सत्यकामो हि वै जाबालो ब्रह्मचर्यं भगवति वत्स्याभ्युपेयां भगवन्तमित्यादिश्रुतौ। उपसंहरति--एवमेषा बहुदोषेति।।

                ननु स्वविधिप्रयुक्तत्वे सत्युपगमनाध्ययनयोस्तत्प्रयुक्ततयोपनयनाध्यापनसिद्धेस्तत्र विधानमनर्थकमिति, नायं प्रयोजकव्यापारयोर्विधिः, किंतूपगमनाध्ययनयोः कर्तृव्यापारयोर्विधिरित्याह--तस्मान्माणवकस्यैव नियोग इति।। ननु णिजर्थसंसृष्टत्वार्थाभिधायिनि विधिपदे कर्तृव्यापाके विधिसंसर्गो वाक्यप्रमाणविरुद्ध इति चोदयति--कथं गुणकर्तृव्यापारसम्बन्ध इति।।

                किं न्यायविरोध उच्यते किंवा शब्दविरोधः न तावच्छब्दविरोधः, अन्यत्रापि दर्शनात्, इत्याह--यथैतया ग्रामकाममिति।। नापि न्यायविरोधः; ग्रामानुवादेनाप्राप्तविधानात्, इत्याह--ग्रामकामस्य

यागो विधीयत इत्यादिना।। ननु अध्यापन-याजनयोः कर्तृप्रयोजकव्यापारद्वयावगमादन्यतरानुवादेनान्यतरो विधीयत इति युक्तम्, उपनयने तु धात्वर्थस्य प्रयोजकव्यापारत्वादनभिधीयमानः कर्तृव्यापारः कथं विधीयते इति चोदयति--युक्तं वाजयेदित्यादिना।। ननु उपनयने मा भून्माणवकव्यापारविधिः, अध्ययने तु भविष्यति, तन्न; वाक्यसारूप्यादित्याह--तदेवमाचार्यकरणविधिप्रयुक्तत्वादिति।। तत्र प्रयोजकव्यापाराभिधायिनाऽपि नयतिधातुना माणवकव्यापारस्यानभिधीयमानस्यापि गम्यमानत्वात् स एव धातुना लक्षणयोपादाय विधीयते, न प्रयोजकव्यापारः ; स्वयं प्राप्तेरिति परिहरति--उच्यते माणवकस्यैवायमिति।। ननु माणवकव्यापारो गम्यमानतया वा कथं प्रतीयते कथं वा प्रयोजकव्यापारः प्राप्तानुवाद इति चोदयति--कथं यत्तावदिति।। माणवकव्यापारस्य गम्यमानतामुपपादयितुं प्रथममाचार्य व्यापारस्याविधेयतामुपपादयति--उपनयीतेत्यस्याभिधानतो न्यायतश्चेति।। "माणवकमुपनयीते"त्युक्ते माणवकस्य स्वात्मसमीपगमनमभिधानतः प्रतीयते, न स्वस्य माणवकसमीपगमनम्; अन्यथा मामवकमुपगच्छेदिति वचनं स्यात्। न्यायतश्च प्रतीयते--यथा बालानक्षराणि शिक्षयलंलौकिकः पुरुषो न बालगुणभावं गच्छति, किंतु बालानेव स्वयमात्मगुणभावं नयति। ननु एवमप्याचार्यव्यापारो न प्राप्तानुवादः, कथम् शुश्रूषाद्यङ्गसहितेऽध्ययने माणवकस्य विहिते स्वविधिप्रयुक्ते  चाध्ययने वृत्तयर्थतयाऽऽचार्यप्रवृत्तिः प्राप्नोति, वृत्त्यर्थप्रवृत्तौ च प्राप्तायां तदनुवादेन माणवकव्यापारोऽध्ययनादिर्विधातुं शक्यते, इतीतरेतराश्रयप्रसङ्गात्। ननु--"ग्रामकामं याजयेदि"त्यत्रापि समानोऽयं दोषः, अथ स्वविधिप्रयुक्तेषु यागान्तरेषु सामान्येन वृत्यर्थतया प्राप्तं प्रयोजकव्यापारमनूद्य ग्रामकामस्य यागविशेषो विधीयत इति, तर्हीहाप्यध्ययनान्तरेषु सामान्यप्राप्तप्रयोजकव्यापारनुवादेन माणवकव्यापार उपगमनाध्ययनादिर्विधीयताम्। अथवा--माणवकव्यापारविधिसामर्थ्यादेव प्रयोजकव्यापार प्राप्स्यते, न प्रयोजकव्यापारविधानादेव भाविनीं प्राप्तिमनूद्य माणवकव्यापारः कदाचिदप्यप्राप्तो विधीयत इति, तदेतदाह--एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तमिति।। ननु प्रयोजकव्यापारं प्राप्तमेवानूद्य गुणाधिकारादिविशेषविधिपरं वाक्यं किं न स्यादिति न तावदधिकारविधिपरं वाक्यम् ; जीवनादिनित्यकाम्याधिकारश्रवणात्, अतो गुणविधिरेव "दध्ना जुहोती"त्यादिवत् परिशिष्यत इत्याह--तत्र कमध्यापयेदिति।। भवतु तर्हि गुणविधिरिति, नेत्याह--तत्र प्राप्ते व्यापार इति।। अयमाशयः      यदा विशेष्योऽपि पदार्थः प्रमीयते, तदा नानाविधगुण विशिष्टतया स एको विशिष्टः पदार्थः प्रमीयते, इति न वाक्यभेदः स्यात् ; यदा तु विशेष्यमनूद्य विशेषणानि प्रमीयन्ते, तदा विशेषणानामन्योन्यविशिष्टतयैकत्वापत्त्यभावादन्योन्यानपेक्षतया प्रत्येकं प्रमेयत्वे प्रमेयभेदात् वाक्यं भिद्यत इति। ननु सर्वत्र विशेष्यं सामान्यद्वारेणानुवाद्यमेव, सत्यम्; विशेषणान्यपि तथा, किन्तु विशेषाकारेणान्योन्यविशिष्टतया पदार्थाः प्रमीयन्त इति। तस्मादुत्पत्त्यधिकारगुणविधयः प्रयोजकव्यापारे न सम्भवन्तीत्युपसंहरति--अतो नाचार्यस्येति।। तत्र माणवकव्यापारस्य गम्यमानस्यैव धातुना लक्षणयोपादाय विधेयत्वं दर्शयितुं चोदयति--ननु माणवकस्यापीति।। परिहरति--अस्तीति ब्रूम इत्यादिना।। ननु कर्तुरेव व्यापारो गमनादिषु दृश्यते, न कर्मकारकस्य ग्रामादेः; माणवकश्च नयत्यर्थकर्मभूतः कथं गम्यमानव्यापारः इति चोदयति--कथमिति।। परिहरति--यदैवोपनयीतेति।। उपनयनसंस्कार्योऽपीति=उपगन्ताऽपीत्यर्थः। नयत्यर्थकर्मणो नीयमानस्य गमनव्यापारः सुप्रसिद्ध इति भावः। ननु तर्हि माणवकस्य गमनं प्रयोजकव्यापारादेव सिध्यति, किमिति तद् विधीयत इति न; विधानमन्तरेणासिद्धेरित्याह--तस्य च प्रेक्षावत इति।। ननु विधानेऽपि काम्यविधिः स्यादिति, नेत्याह--विद्यमानस्यापीति कथं तर्हि विधिरिति परिशेषान्नित्यविधिरित्याह--विधितोऽवश्यकर्तव्यतामिति।। कथं तर्हि वाक्यं परिणम्यत इति तदाह--तेनाष्टवर्षं ब्राह्मणमिति।।

                ननु नित्यतया विधेयत्वेऽपि विधि-पुरुषसंबन्धो वा विधि-पुरुषसम्बन्धनिमित्तं वा प्रवृत्तिर्वाऽधिकारशब्दार्थो न लभ्यत इति चोदयति--ननु एवामप्यधिकारो न लभ्यत इति।। अयमाशयः--ननु सामान्येन गम्यमानस्योपगन्तुः "अष्टवर्षं ब्राह्मणमि"ति

विशेषणश्रवणादिदमेवाधिकारनिमित्तं संपत्स्यते, नैवम्; एकैकस्य विशेषणस्याधिकारनिमित्तत्वानुपपत्तेः, विशेषणयोश्च परस्परविशिष्टताऽभावात्। एकैकस्य विशेषणस्याभिधानिके क्रियासंबन्धेऽप्यरुणयैकहायन्यादिवदर्थात् परस्परविशिष्टतयाऽधिकारनिमित्ततेति चेत्, न; विधि पुरुषसंबन्धनिमित्तस्याशाब्दत्वप्रसङ्गात्--इति। परिहरति अस्त्यत्राधिकारहेतुर्नित्यं निमित्तमिति।। विधि-पुरुषसंबन्धस्य प्रवृत्तेर्न हेतुरित्यर्थः। नित्यमिति।। जीवतः पुरुषविशेषस्य नियतभावीत्यर्थः। नच शाब्दमेव सर्वत्राधिकारनिमित्तम्; साङ्गकर्मानुष्ठानसामर्थ्यस्याप्यशाब्दस्याधिकारनिमित्तत्वात्, शक्तस्याधिकारादिति। अथवा--क्रियासंबन्धाभिधानमुखेन विशिष्टसमर्पणे शब्दद्वयतात्पर्यकल्पनादधिकारनिमित्तस्य शाब्दत्वं न हन्यते। एवमपि विशिष्टस्य नाधिकारनिमित्ततेति चोदयति--ननु जाति-वयसी विशेषणमुपादेयस्येति।। अयमभिसन्धिः--उपादेयं नाम साक्षाद्वा परम्परया वा विधिविषयतयाऽनुष्ठेयं तद्विशेषणं च क्रिया-कारक-तद्गुणसमुदाय इत्यर्थः। तत्रोपादेयविशेषणानि "दण्डी प्रैषानन्वाह" "लोहितोष्णीषा ऋत्विजः प्रचरन्ती"ति कर्तृविशेषणानि, "व्रीहिभिर्यजेते"त्यादौ बहुत्वादीनि करणविशेषणानि, "इन्द्राय स्वाराज्ञे" इत्यादीनि संप्रदानविशेषणानि। नचोपादेवविशेषणमधिकारसंबन्धनिमित्तम्; अनुष्ठेयकारकविशेषणतया विधिं प्रति गुणभूतत्वात्, अधिकारिणस्तु विधिं प्रति स्वामितया प्राधान्येनान्वयात्। कथं पुनरत्र माणवकस्योपादेयत्वमवगम्यते उच्यते;--प्रयोजकव्यापारं प्रति माणवकस्य कर्मताभिधायिनी द्वितीया विभक्तिः स्वव्यापारं प्रति कर्तृत्वं गमयति; कर्तृविषयत्वात् प्रयोजकव्यापारस्य। तत्र प्राप्तप्रयोजकव्यापारानुवादेन कर्तृव्यापारे विधिसंबन्धमात्रं परिणम्यते, न शब्दप्राप्तमाणवककर्तृत्वं पराक्रियते, इत्युपादेयमाणकविशेषणस्य जातिविशिष्टस्य वयसो नाधिकारनिमित्ततेति। कस्य पुनरधिकारनिमित्ततेति अत आह--अनुपादेयविशेषणमधिकारहेतुरिति।। विधिप्रयुक्तानुष्ठेय-तद्विशेषणव्यतिरेकेण विधिसंबन्ध्यनुपादेयः; यथा जीवन् गृहदाहवान् स्वर्गकाम इति। अपसिद्धान्तेन परिहर्तुं नियोगपक्षमङ्गीकरोति--सत्यम्; अस्तीयं स्थितिरिति।। अयं भावः--यत्र लिङादिपदेन नियोगो वाक्यार्थतया प्रतिपाद्यते, तत्र वाक्यार्थभूतनियोगाकाङ्क्षानिमित्तत्वात् पदार्थान्तरसंबन्धानां नियोगस्य च, कस्य कस्मिन् इति स्वरूपोपाधित्वेनैवाधिकारिविषयसापेक्षत्वात् स्वर्गकामादिनियोगाकाङ्क्षयाऽधिकारित्वेन संबध्यते--ममायं नियोग इति।। स्वामितयाऽन्वयित्वं नियोज्यत्वमधिकारित्वं नाम। तत्र प्रथमं "ममायं नियोगः" इति प्रतिपद्य नियोगस्य कार्यतावगमादनुष्ठानाय धात्वर्थविषये पश्चात् कर्तृतयाऽन्वेति। नियोगो हि साध्यतयाऽवगम्यमानः प्रथमान्वयिनोऽधिकारिणो "ममायं नियोगः" इति प्रतिपत्तुर्नियोगनिर्वृत्तिसमर्थे धात्वर्थे कर्त्रन्वयमन्तरेणानुपपद्यमानस्तदन्वयमर्थापत्त्या प्रतिपादयति, इत्यधिकारान्वयपुरःसरः कर्त्रन्वय इति प्राभाकरा मन्यन्ते। तत्र भवत्वनुपादेयविशेषणमधिकारहेतुः, भावनावादे तु पुनरुपादेयविशेषणमप्यधिकारहेतुरित्याह--किं तु कर्तुरधिकार इत्यपि स्थिता न्यायविद इति।। अयमाशयः--लिङादिप्रत्ययैर्यदा पुरुषप्रवृत्तिर्भावना वाक्यार्थतया प्रतिपाद्यते, तदा प्रधानाकाङ्क्षानिमित्तत्वात् संबन्धस्य, क्रियायाश्च स्वरूपोपाधित्वेन कर्तृ-करण-कर्मापेक्षणीयत्वात्, पुरुषार्थ-धात्वर्थयोश्च भाव्य-तत्करणत्वेनान्वयात्  परिशेषात् स्वर्गकामादयः कर्तृत्वेनान्वीयन्ते। ततश्च कर्तृविशेषणतया तन्नियमार्थानि जीवन-गृहदाहत्वेनान्वयात् परिशेषात् स्वर्गकामादयः कर्तृत्वेनान्वयं प्रतिपाद्य कर्तृरेव फलसम्बन्धाद् "मदीयमिदं फलसाधनं कर्मे"ति कर्मस्वामित्वलक्षणमधिकारान्वयं पश्चादनुभवति। कर्मफलभोक्तृत्वमेव हि कर्मणि स्वाम्यन्वय इति। ततश्च कर्तृविशेषणान्येव तस्यैव फलभोक्तृतया कर्मणि स्वाम्यन्वयं नियमयन्तीति कर्तृरधिकारस्थितिः। एवं भावना वाक्यार्थोपादानेनापि माणवकस्याधिकारसिद्धिरिति भावः। अथवा यथा राजसूये राजत्वं कर्तृविशेषणमन्येनाधिकारिणा राजत्वस्य कर्तृविशेषणतया सम्पादयितुमशक्यत्वादधिकारिविशेषणमपि सम्पद्यते, तद्वदिहापि स्यादिति। ननु--नायं परिहार उपपद्यते; श्रेयःसाधनस्य लिङ्गादिप्रत्ययैर्वाक्यार्थत्वेनाभिधीयमानत्वात्, तस्य च प्रथममधिकारान्वयापेक्षत्वात्, कथम् श्रेयो हि भोक्तारमपेक्षते, अतस्तत्साधनमपि भोक्त्रन्वयि भवति; "कस्येदं श्रेयःसाधनम् ममेदमभिलाषितसाधनमि"ति च स्वाम्यन्वयाकाङ्क्षादर्शनात्, "कस्यायं नियोगः", ममायमितिवत्, भावना तु क्रिया कर्त्रा-श्रयतयाऽवगम्यमाना तमपेक्षते। ननु कृतियोग्यमेव श्रेयःसाधनं विधिः; कर्तुरिष्टाभ्युपायो

विधिरित्यभ्युपगमात्, ततश्च कृतिः कर्तारमपेक्षत इति, तर्हि नियोगस्यापि कार्यतयाऽवगमात् कृतिनिमित्तकर्त्रन्वय एव स्यात्। ननु--कृतिर्नियोगोपसर्जनतयैव शब्देनाभिधीयते; नचोपसर्जनाकाङ्क्षया पदार्थान्वयः, किन्तु प्रधानकाङ्क्षया; ततश्च प्रधाननियोगाकाङ्क्षया प्रथममधिकारान्वयः--इति, समानमेतदिष्टसाधनेऽपि; कृतेरुपसर्जनतयाऽभिधानात्। ननु श्रेयसोऽप्युपसर्जनत्वात् तत्सामर्थ्यलभ्यभोक्त्रन्वयः कथं साधनस्य स्यात् नैष दोषः; साधनत्वस्वरूपोपाधित्वाञ्छ्रेयसः, तस्य च नियमेन भोक्त्रन्वयात् कर्तृ-भोक्तृ-साधारणश्य साधनस्य स्वोपाधिश्रेयोऽनुसारेण भोक्त्रन्वयनियमसिद्धेः। तस्माद् ममाभिलषितसाधनमिति प्रथममधिकारान्वयो वाक्यार्थभूतेन विधिना श्रेयःसाधनेनापेक्ष्यते पश्चादभिलषितसाधनत्वस्याश्रये धात्वर्थविषये विधिसामर्थ्यादेव कर्त्रन्वयं प्रतिपद्यत इति।

                एवमपि तत्र न विरोध इत्याह--किचेह न माणवको जाति-वयोविशिष्ट उपादेव इति।। यदैवोपनयनाध्ययनादिमाणवकव्यापारस्य सामान्येनाभिलषितसाधनत्वलक्षणो विधिः शब्देन प्रतिपाद्यते, तदा सामान्यस्य श्रेयोविशेषाकाङ्क्षायां परम्परया पुरुषार्थसाधनमुपनयनसंस्कारं माणवकगतं श्रेयोविशेषं परिकल्प्य तत्साधनत्वलक्षणो विधिर्माणवकव्यापारे प्रतिपादितो भवति; ततः संस्कारफलभोक्तृतया विधौ माणवकः स्वामित्वेनान्वेति; तत्र च स्वामिनियमार्थं ब्राह्मण्यादिविशेषणं तस्यैव पश्चादभिलषितसाधनत्वविषये माणवकव्यापारे कर्त्रन्वयं नियमयतीति ग्रन्थार्थः। ननु प्रयोजकव्यापारविषयतया कर्तृत्वेनैवान्वयो वाक्यात्प्रतिपन्नः, सत्यम्, तत्र विधिसंबन्धसामर्थ्याद् भोक्त्रन्वयं प्रतिपद्य कर्त्रन्वयनियमः कल्प्यते।।

                ननु एवमप्यध्ययनस्य न साधिकारतासिद्धिरिति, तत्राह--तदेवमुपनयनस्याध्ययनार्थत्वादिति।। प्रसिद्धं च सर्वस्मृतिशास्त्रेषूपनयमध्ययनाङ्गमिति। वाजसनेयिनां चोपनयनं प्रकृत्यध्ययनं विधीयते। विधिद्वयसामर्थ्ये चोपादानप्रमाणदर्शितम्। इहापि "तमध्यापयीते"त्युपनीतं तच्छब्देन परामृशति, अङ्गाङ्गिनोश्चैकाधिकारत्वादुपनीतो ब्राह्मणोऽधीयीतेति संपद्यते; अङ्गाधिकारनिमित्तस्य कालस्य सर्वत्राङ्गिन्यन्वयनियमाभावाद् वयसो नाध्ययनाधिकारनिमित्ततेति। ननु नित्याधिकारेणाध्ययनविधिनाऽर्थावबोधो भाव्यतामिति, नेत्याह--अक्षरग्रहणमात्रेण चेति।। ननु सकृदध्ययनादेव नित्याध्ययनविधिसिद्धेरावृत्तिः केन लभ्यते अर्थावबोधफलपक्षे वा कथं लभ्यते फलावसानानुपपत्तेरिति चेत्, इहापि समानम्; अक्षरावाप्तेः फलत्वात्। ननु अदृष्टमेव विधिफलमित्युक्तम्, समानमर्थावबोधपक्षेऽपि।।

                ननु--अदृष्टसमवायिदृष्टं फलमर्थावबोधः, तस्य चाक्षरस्वीकरणविचाराद्यपेक्षत्वात् तदर्थमावृत्तिसिद्धिः--इति, न, शाखान्तरीयपौरूषेयवाक्येभ्योऽप्यभ्यस्तीकृतेभ्योऽर्थावबोधदर्शनाद् न तदर्थमावृत्त्यपेक्षा युक्ता, जप-स्वाध्यायविधिसामर्थ्याच्चाक्षरस्वीकरणायावृत्तिः कल्प्यते, नार्थावबोधसामर्थ्यात्। अध्ययनशब्द एव वाऽधीयमानावाप्तिपर्यन्तव्यापारस्य मुख्यया वृत्त्याऽभिधायकः सकृदुच्चारणादौ, गौण इत्यावृत्तिसिद्धिरिति। ननु वेदस्यैवान्यनिरपेक्षतया विचारहेतुत्वं वदन् भाष्यकारोऽध्ययनविधेरेव विचारहेतुत्वमाहेति चोदयति--ननु चैवमधीतीतो वेद इति।। सत्यम्, विचारस्य प्रयोजकोत्तरविधिप्रदर्शनद्वारेण विचारहेतुः स्वाध्यायः, नाध्ययनविधिविधेयताद्वारेणेति परिहरति--सत्यम्, तथैव तदित्यादिना।। ननु स्वाध्यायादापातप्रतिपन्नोत्तरविधिरनिश्चितः कथं विचारं प्रयुङ्क्त इति तदाह--अधीतवेदो ह्यवश्यकरणीयानीति।। आपातप्रतिपन्नानामुत्तरनित्यविधीनामनुष्ठेयनिर्णयज्ञानसापेक्षत्वात् तन्निर्णयाय विचारप्रयोजकत्वमिति। काम्यवाक्यविचारमप्याधानवत् फलकामनैव प्रयुङ्क्ते। ननु अनेकविधिप्रयुक्तिकल्पनाद् वरमध्ययनविधिप्रयुक्तिकल्पनं विचारस्य, न; विधेय-तदुपकारिव्यतिरिक्तस्य विचारस्याप्रयोजकत्वादध्ययनविधेरित्युक्तत्वाद् अर्थावबोधफलत्वाभावात्, अवघातावृत्तिवत् फलापेक्षयाऽपि न विचारविधिरित्युक्तत्वात्, उत्तरविधिविधेयोपकारित्वाद् विचारस्य तत्प्रयुक्तिः सम्भवति। प्रतिवाक्यं निर्णयज्ञानभेदाच्च विधिभेदो न विरुध्यते; अन्यथा यागाद्यनुष्ठानस्याप्यध्ययनविधिप्रयोज्यत्वं स्यात्, स्वर्गादिसिद्धिपर्यन्तत्वादध्ययनविधिफलस्य। ननु अध्ययनमप्युत्तरविधिप्रयुक्तं स्यात्, अध्ययनमन्तरेण विचारनिर्णायकत्वानुष्ठानाद्यसिद्धिरिति, तत्राह--अतः प्रागध्ययनादप्रतिपत्तेरिति।।

प्रागध्ययनादुत्तरविधीनामप्रतिपत्तेर्नाध्ययनप्रयोजकत्वमित्यर्थः। अध्ययनविधिश्च सन्ध्योपासनादिविधिवत् पित्रादिभ्यः श्रूयमाणः प्रवर्तयति। नच सकलोत्तरविधीनामध्ययनात् प्राक् श्रवणं सम्भवतीत्युक्तम्। अस्तु तर्हि ब्रह्मज्ञानस्यापि त्रैवर्णिकाधिकृतोत्तरनित्यविधिप्रयुक्त एव विचार इति, नेत्याह--न तथा ब्रह्मज्ञानमिति।। नच धर्म-ब्रह्मविभागसिध्यर्थं नित्याग्निहोत्रादिविधिरेव ब्रह्म विचारयति; आपातदर्शनेनैव विविक्तभूतवस्तुविषयत्वात्। "तस्मादि"त्यवान्तरप्रकरणोपसंहारः। "तदेवमि"ति महाप्रकरणोपसंहारः।।

                ननु--"2ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणो मुखात्2। कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिका2वुभौ।।" इति2 मङ्गलार्थत्वादथशब्दस्य शास्त्रारम्भे च शिष्टाचारपरिपालनाय विघ्नोपशान्तये च मङ्गलाचरणं कर्तव्यम्, इति तदर्थोऽथशब्द इति, नेत्याह--मङ्गलस्यापीति।। न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृ-करण-कर्मभावेन वाक्यार्थेऽन्वेति; कर्त्राद्यन्यतमभावे प्रमाणाभावात्, कारकान्तराणां विद्यमानत्वाच्च। नापि सामानाधिकरण्येनान्वयः--"ब्रह्मजिज्ञासा मङ्गलमि"ति; प्रशंसापरतयाऽर्थवादत्वप्रसङ्गात्। ननु कर्तव्यमेव मङ्गलाचरणमिति, तत्राह--श्रुतिमात्रोपयोगादिति।। ननु प्रकृतादर्थादर्थान्तरविवक्षयाऽप्यथशब्दः प्रयुज्यते, यथाऽर्थान्तरेऽभिहितेऽर्थान्तरेऽभिहितेऽर्थान्तरविवक्षया ब्रवीति--"अथैवं मन्यसे" इति, तदर्थोऽथशब्द इति चोदयति--ननु प्रक्रियमाणादिति।। हेतु-फलभावेनानन्तर्याभिधाने प्रकृतादर्थादर्थान्तरत्वमन्तर्णीततया सिध्यति, इति न पृथग्वक्तव्यमिति परिहरति--नानन्तर्याद् व्यतिरिच्यत इति।। ननु अर्थान्तरत्वमेवाभिधायानन्तर्यमन्तर्णीतं किमिति न गृह्यते इति चोदयति--कथमिति।। तत्र किं नियमेन पूर्ववृत्ततया हेतुभूतो वस्तुविशेषोऽवद्योत्यते किं वा यत्किंचिद्वस्तु पूर्ववृत्तमपेक्ष्यत इति तत्र न तावत् प्रथमः कल्पः; आनन्तर्याभिधानमन्तरेण हेतुतया पूर्ववृत्तवस्तुविशेषनियमासिद्धेरित्याह--एवम् तत्प्रकियमाणस्य नियमेन पूर्ववृत्तमिति।। अथोत्तरः कल्पः तत्राह--अन्यथा यस्मिन् कस्मिंश्चिदिति।। ननु आनन्तर्येऽपि हेतुतया पूर्ववृत्तं नावगम्यते, सत्यम्; पुष्कलकारणात् फलस्यानन्तर्यमेव मुख्यं भवति; अव्यवधानात्, अव्यभिचाराच्च, अहेतु-फलयोस्त्वानन्तर्य कदाचिद् व्यभिचरति कदाचिद् व्यवधीयते च, इति गौणमेव स्यात्। तस्माद् मुख्यानन्तर्याभिधानेन पूर्ववृत्ते पुष्कलकारणेऽवद्योतिते, अर्थान्तरभावोऽप्यन्तर्भवति, नार्थान्तराभिधाने मुख्यमानन्तर्यमन्तर्भवतीत्युपसंहरति--अतो हेतुभूतोऽर्थोऽपेक्षितव्य इति।। उक्तेऽर्थे भाष्यमवतारयति--तदेतदाहेति।। ननु फलं चेद् दृश्यते, किं पुष्कलकारणावगमेन न; अधिकारिविशेषणत्वेन फलपर्यन्तेच्छाया विचारादि प्रवृत्तौ प्रतिपत्त्यपेक्षत्वादित्याह--सति चानन्तर्यार्थत्व इति ।। ननु प्रज्ञातमेव पूर्ववृत्तं धर्मजिज्ञासा इत्याशङ्क्याह--स्वाध्यायाध्ययनानन्तर्यं तु समानमिति।। भाष्यार्थे विवृणोति--येन विना नियमेनेत्यादिना।। योजनान्तरमाह--अथवेति।। न पुष्कलकारणमित्यर्थः।।

                ननु एकाध्ययनविधिप्रयुक्तस्वाध्यायाध्ययनस्यैकमोक्षप्रयोजनत्वे वक्तव्येऽध्ययनविधिप्रयुक्तत्वाभावेऽपि कृत्स्नवेदार्थविचारस्यैकफलप्रयुक्तत्वाद् धर्म-ब्रह्मविचारयोरन्योन्योपकार्योपकारकभावेनैकफलशेषत्वादुपकारकधर्मावबोधानन्तर्यमुपकार्यब्रह्मावबोधस्योच्यत इति चोदयति--2नन्विह कर्मावबोधानन्तर्य विशेष इति2।। धर्म-ब्रह्मविचारयोरुपकार्योपकारकभावं दर्शयति--तथा च वृत्त्यन्तरे वर्णितमिति।। अधिकारः=प्रवृत्तिः। संस्कारः=फलम्। प्रवृत्तिपरम्परया फलपरम्परया चेत्यर्थः। अथवा "संस्कारः" इति कर्मभिः पुरुषसंस्कारोऽभिधीयते। "शब्दतः" इति च तत्र प्रमाणमुच्यत इति। अधिगतानन्तरम्=धर्माधिगत्यनन्तरमित्यर्थः। अस्मिन्नर्थे शास्त्रकारसंवादान्तरमाह--अन्यैरपि स्ववृत्तौ वर्णितमित्यादिना।। एकफलवत्त्वं तावत् तिष्ठतु, न तावद् धर्म-ब्रह्मजिज्ञासयोरुपकार्योपकारकभाव इत्याह--2न; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्येति2।। भाष्यं विवृणोति--।। न वेदान्ताध्ययनं यद्यपीत्यादना।। ननु धर्मजिज्ञासायां व्युत्पन्नवेदप्रमाण्य-पद-पदार्थ-वाक्यार्थ तदपेक्षितन्यायस्यैव ब्रह्म विचारयितुं शक्यम्, इति चोदयति--कथमिति। अनुपकारं दर्शयितुं धर्मजिज्ञासां विभजते--तत्र तावद्धर्मजिज्ञासायां त्रयं वृत्तमिति।। किं तदिति तदाह--द्वादशलक्षण इत्यादिना।। तत्र न्यायसहस्रस्यानुपकारं दर्शयितुं न्यायमपि

विभजते--तत्र यः प्रथमसूत्र इत्यादिना।। अध्ययनविधेर्दृष्टार्थावबोधफलपर्यन्ततापेक्षितो न्यायोऽथशब्दसूचितः, प्रथमेन पादेन च यावान् वेदप्रामाण्यापेक्षितो न्यायः, सूचित एव, कुतः प्रथमपादापेक्षेति सत्यम्; अङ्गीकृत्यैतदुक्तमिति न विरोधः। ननु श्रुति-लिङ्गादिप्रमाणानामिहाप्यपेक्ष्यमाणत्वादितरोऽपि न्यायः पूर्ववृत्ततयाऽपेक्षित इति, नेत्याह--इतरस्य तु पुनरिति।। उत्पत्ति-विनियोग-प्रयोगाधिकारविधिकार्यापेक्षितो हि न्यायस्तत्र प्रतिपादितः। नचाननुष्ठेयभूतवस्तुप्रतिपादनेऽसानुपयुज्यते; कार्यार्थसाम्येऽपि प्रत्यध्यायमवान्तरप्रमेयभेदेन न्यायभेदोऽपेक्ष्यते, किमु वक्तव्यमकार्यभूतवस्तुप्रमेयभेद इति भावः। श्रुत्यादयस्तु लोकप्रसिद्धा एवोपादीयन्ते। ननु कार्यशेषतया ब्रह्मापि तत्र निर्णीतमिति, नेत्याह--यतो न निरस्ताशेषेति।। अप्रतिज्ञातस्याप्यपेक्षितन्यायोऽन्यार्थत्वेन दर्शित इति, नेत्याह--न तत्प्रतिपादन इति।। ननु गुणोपसंहारेण विध्यपेक्षितोऽपि न्याय उपजीव्य इति, तत्राह--यत्पुनः प्रथममन्त्रसिद्धेति।। ननु  सगुणविद्याऽपि ज्ञानमेवेति अत आह--तत्र च मानसी क्रियेति।। तदेवमित्युपसंहारः।।

                मा भूद् धर्मजिज्ञासानन्तर्यमथशब्दार्थः, वेदप्रामाण्यविचारानन्तर्यं स्यादिति, नेत्याह--यत्पुनः स्वाध्यायस्यार्थावबोधोपयोग इति।। न च "वेदाः प्रमाणमि"त्येतावता ब्रह्मविचारेऽनेकायासबहुले कश्चित्प्रवर्तत इत्यर्थः। तर्हि धर्मनिर्णयज्ञानं ब्रह्मजिज्ञासाधिकारहेतुरिति, नेत्याह--यः पुनरिति।। उपभुज्यमानो धर्मनिर्णयो ब्रह्मविचारप्रवृत्तुयपयोगी स्यात् किं वा ब्रह्मनिर्णयोपयोगी इति वक्तव्यम्  न तावत् प्रथमः कल्प इत्याह--न ह्यन्यविषयं ज्ञानमिति।। नापि द्वितीय इत्याह--तदपीह नास्तीति।। कार्य-कारणसंबन्धे प्रपञ्चेनापि ब्रह्मानुमानाद् न धर्मनिर्णयापक्षेति भावः। परिशेषात् कर्मणामुपयोग इत्याह--अतः कर्मणामुपयोगः परिशिष्यत इति।। तदपि न सम्भवति केषु चित्पक्षेष्विति भावः। तत्राधिकारपरम्परा ब्रह्मज्ञानोपकारश्च न सम्भवतीत्याह--केयमधिकारपरम्परेति।। ननु अनुष्ठानपरम्परेयम्, तथाहि--संध्योपासनमारभ्य पूर्वपूर्वाल्पतरकर्मप्रहाणेनोत्तरोत्तरमहत्तरकर्मोपादानात् सहस्रसंवत्सरैर्निरतिशये कर्मण्यवसितः परिशेषाद् ब्रह्मज्ञानेऽवतरतीति, नेत्याह--यथा तावत् प्रासादमारुरुक्षोरिति।। उत्तरकर्मोपादानात् पूर्वकर्मपरित्यागे परिशेषाद् ब्रह्मज्ञानावतारे च प्रामाणाभावादिति। तर्हि परम्परया कृत्स्नकर्मफलावाप्तौ, तत्र कामनाभावान्निवृत्तकामः परमानन्दकामनया तत्रावतरतीत्याशङ्कते--अथ कामोपहतमना इति।। तदेव प्रपञ्चयति--तथाच सार्वभौमत्यादीति।। अधिकारपरम्परया=फलपरम्परयेत्यर्थः। परिहरति--कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यमिति।। कर्मानुष्ठानफलप्राप्त्यनन्तरभावित्वाद् ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादित्यर्थः। किंच कर्माण्यपि ब्रह्मज्ञानस्यान्यथोपकुर्वन्ति, न कामप्रविलयनद्वारेणेत्याह--कथं वा कामावाप्तिः कामोपशमहेतुरिति।। सत्यमित्यतः प्राक्तनः स्पष्टार्थः।।

                हैरण्यगर्भादिभोगानां प्रतिक्षणं क्षीयमाणत्वादनागतभोगनिचयकामनोपपत्तेर्न कामविलयनेन ब्रह्मज्ञानेऽवतार इत्याह--सत्यं युक्तम्; यदि हैरण्यगर्भो भोग इति।। कुतस्तर्हि सर्वेषां कामविलय इति तदाह--अतो विषयस्य क्षयादिदोषदर्शनादिति।। "तस्मात् सर्वत्रे"त्युपसंहरति।।

                किंच निखिलविषयाप्तौ कामोपशमः शास्त्रसामर्थ्यादुच्यते किंवाऽन्वय-व्यतिरेकसामर्थ्यात् नाद्य इत्याह--नचैवंलक्षण आगम इति।। तर्ह्यन्वय-व्यतिरेकसामर्थ्यादिति चोदयति--ननु कामावाप्ताविति।। परिहारग्रन्थस्तु स्पष्टार्थः।। वैदिकशब्दाः सर्वे संभूय देहात्मत्वादिप्रपञ्चप्रविलयप्रमितिपरा इति तृतीयोऽधिकारः। स च प्रतीतिविरोधादेव निरस्त इति।।

                ननु तर्हि कर्माण्यनुष्ठीयमानानि पुरुषसंस्कारतया ब्रह्मज्ञानकार्याणि, अतो धर्मानुष्ठानानन्तरं ब्रह्मजिज्ञासेति चोदयति--भवतु तर्हि संस्कारद्वारेणेति।। ननु--"सर्वं एते पुण्यलोका भवन्ती"ति स्वतन्त्रपुरुषार्थसाधनानां कर्मणां कथं संस्कारकर्मतया प्रोक्षणादिवद् गुणकर्मता स्मृतिसामर्थ्यादिति चेत्, न; श्रुतिविरोधात्। ननु--संस्कारो नाम गुणाधानं मलापकर्षो वा तत्र "धर्मेण पापमपनुदति" "योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये" इति चात्मनि मलापकर्षसंस्कारः सिध्यति, विध्यन्यथानुपपत्त्या वाऽऽत्मन्यपूर्वगुणाधानं गम्यते। अतः श्रुत्यवगतमेव संस्कारकर्मत्वम्; "इदं मेऽनेनाङ्गं संस्क्रियते" इति च श्रुतेः। नच क्रत्वङ्गद्रव्यसंस्कारतया नित्यकर्मणामितिकर्तव्यतोच्यते, येन स्वतन्त्रफलविरोधः स्यात्, किन्तु

द्रव्यार्जनविधिवदुपकारमात्रमिति, सत्यम्; पापक्षयापूर्वलक्षणसंस्कारादभ्युदयफले श्रुत्यवगते न ब्रह्मज्ञानशेषता शक्याऽवधारयितुम्; स्मृतिसामर्थ्यात्--इति, उच्यते; नित्य-नैमित्तिककर्मानुष्ठानैः संस्कृतस्यात्मनो यदि श्रवण-मनन-ध्यानाभ्यासादीनि ज्ञानसाधनानि सम्पद्यन्ते, तदा संस्कारकर्माणि सहकारिविशेषादात्मज्ञानमवतारयन्ति, यदा तु सहकारिकारणविरहः, तदाऽभ्युदयफलमिति व्यवस्थोपपत्तेर्न श्रुति-स्मृत्योः परस्परविरोधः। ननु "यस्यैतेऽष्टाचत्वारिंशत् संस्काराः" इत्यतः "स ब्रह्मणः सायुज्यं सालोक्यं च गच्छती"ति सालोक्यलिङ्गाद् हिरण्यगर्भावाप्तिः संस्कारकर्मणां फलं गम्यते, न परब्रह्मावाप्तिः, येन सहकारिसामर्थ्यात् कर्मणां पुरुषसंस्कारद्वारेण मोक्षफलता स्यात्, उच्यते;--संस्कारशब्दस्तावद् दधि-व्रीहिसंस्कारवत् स्वतन्त्रफलसाधनाङ्गभूतद्रव्यशेषतां कर्मणां प्रतिपादयति। तत्र सर्वकर्मणां संस्कारतयाऽन्वयात् परिशेषार्थपत्त्या तत्त्वज्ञानशेषतया मोक्षफलता कल्प्यते; "ब्रह्मणः सायुज्यं सालोक्यमि"ति च फलद्वयोपादानात्; तथाहि भगवान्--"स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः" "सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे" इति चोक्त्वा, "बुध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।" इति च ब्रुवन् नित्यकर्मभिः संस्कृतस्य सिद्धिशब्दाभिधेयविशुद्धान्तःकरणस्य ध्यानयोगादिसहकारिसम्पत्तौ तत्त्वज्ञानजन्मद्वारेण मोक्षं--दर्शयति। "स्वे स्वे कर्मणी"ति च नित्यकर्माण्युच्यन्ते। संसिद्धिशब्देन चात्मवैमल्यं ब्रह्मज्ञानयोग्यतापत्तिरुच्यते; परमसिद्धेरुत्तरत्राभिधानात्, "योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये" इत्युक्तत्वाच्च। तथा "महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः" "ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः" "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते" इति च। तस्मात् संस्कारशब्दसामर्थ्यात् स्मृत्यन्तराच्च नित्यकर्माणि मलापकर्ष-गुणाधानलक्षणपुरुषसंस्कारद्वारेणात्मज्ञानयोग्यतामापाद्य, तत्त्वज्ञानजनकतया मोक्षे ज्ञानेन सह समुच्चीयन्ते; यथा व्रीहिप्रोक्षणादीनि संस्कारकर्माणि दर्श-पूर्णमासस्वरूपोत्पत्तिहेतुतया स्वर्गे समुच्चीयन्त इति।।

                ननु प्रोक्षणादिवदेकाधिकारितया गुणकर्मतैव नित्यकर्मणां प्राप्ता, न; ब्रह्मज्ञानस्याविधेयत्वात्, आत्मनः संस्क्रियमाणस्य विधेयकर्मगुणत्वाभावात्। न तर्हि संस्कारकर्मता; विहिताङ्गद्रव्यसंस्कारकर्मसु तत्प्रसिद्धेः; न; अविहितभोजनाङ्गदधिसंस्कारप्रसिद्धेः। ननु विध्युपद्देशे करणतया विहितानां नित्यकर्मणां करणताविरोधिना दध्यादिसंस्कारवदात्मज्ञानेतिकर्तव्यतया प्राप्ता, नैष दोषः; अग्निं चित्वा सौत्रामण्या यजेत" "वाजपेयेनोष्ठ्वा बृहस्पतिसवेन यजेते"ति सौत्रामणीं बृहस्पतिसवयोरन्यत्र करणतया स्वतन्त्रविध्यन्तरविहितयोरग्निचयन-वाजपेयाङ्गतयेतिकर्तव्यतादर्शनात्। तत्र करणेतिकर्तव्यताविधिवाक्यप्रमाणभेदात् युक्तं सौत्रामण्यादेरुभयथात्वमिति चेत्, सत्यम्; अर्थविरोधाभावे सति नित्यविधिसामर्थ्यात् संस्कारस्मृत्यनुमितश्रुतिसामर्थ्याच्च करणतया संस्कारतया च स्वतन्त्रफलशेषताऽऽत्मज्ञानेतिकर्तव्यता चेत्युभयथात्वमिहापि कल्प्यताम्। नचान्यार्थद्रव्यसंस्कारमात्रत्वादितिकर्तव्यता; आधानेऽदर्शनात्। संस्कृताग्नेरुद्देश्यत्वाद् तत्रानङ्गतेति चेत्, इहापि संस्कृतं विशुद्धान्तःकरणं विरक्तं विविदिषुमुद्दिश्य ज्ञानसाधनविधानादविरोधः। प्रत्यक्षेण विशुद्धिं प्रत्यक्प्रवणतां च चित्तस्य कर्मफलमवगच्छन् जन्मान्तरानुष्ठितं कर्मानुमाय ज्ञानस्यान्तरङ्गसाधनेषु प्रवर्तिष्यत इति। तस्माद् यथैव स्वतन्त्रविध्यन्तरविहितद्रव्यार्जनस्य सहकारिकारणसम्पत्तिभेदात् क्रतु-भोगयोः शेषत्वम्, तद्वन्नित्यकर्मणामपि सहकारिभेदादात्मज्ञानाभ्युदययोः शेषत्वं न विरुध्यत इति। योऽपि कश्चित् सर्वसंस्कारवादी वेदान्तार्थसूक्ष्मदूरीकृतविज्ञानो वेदान्तार्थदूषको न संस्कारार्थानि नित्यानि कर्माणीति वक्ति, स शास्त्रार्थविभागज्ञानशून्यत्वादुपेक्षणीय इति। अथवा--सर्वाण्येव कर्माण्युत्पत्तिविधिविहितानि संयोगभेदेन जीवनकामनाद्यधिकारविध्यन्तरवद् "ब्रह्मानुभवकामो यज्ञादीन्यनुतिष्ठेदि"त्यधिकारान्तरविधिविधेयानि भविष्यन्तीत्याह--यज्ञेन दानेनेत्यादिना।।

                कथम् आत्मतत्त्वापरोक्षानुभवस्तावदिष्यमाणतया स्वर्गादिवद्भावनासाध्योऽवगम्यते; पुरुषार्थत्वात्, शाब्दज्ञाने तु संजाते तत्कामनायोगात्, असंजाते विषयानवगमादेव तत्र कामनायोगात् शब्दावगतेऽपरोक्षज्ञानमिष्यत इति युक्तम्। तच्च प्रयत्नान्तरसाध्यमिति पुरस्ताद् दर्शितम्। तत्र

यज्ञादीनामिच्छोपसर्जनतयाऽऽख्यातसमीरितभावनाकरणतयाऽवगतानां साध्येनैवान्वयाद् यज्ञादीनि ब्रह्मानुभवसाधनान्यवगतानि। ततश्च--"आत्मानुभवकामो यज्ञादीन्यनुतिष्ठेदि"ति विधिः परिणमते। नचेच्छामात्रेण संयोगः; तस्या असाध्यमानतावगमात्। नच "विविदिषन्ती"ति वर्तमानताविरोधः, ले़ट्परिग्रहेण विधेरेवावगमात्। नच नित्य काम्यविकारान्तरविरोधः; एकस्य कर्मणोऽनेकाधिकारविधिसम्बन्धावगमात्। ननु कुण्डपायिनामयने "मासमग्निहोत्रं जुह्वती"त्यग्निहोत्रस्य प्रकरणान्तरत्वात् प्रसिद्धाग्निहोत्रात् कर्मान्तरत्ववद् विविदिषावाक्यस्य च प्रकरणान्तरत्वाद् न प्रसिद्धाग्निहोत्रादीनामत्र विनियोगः कल्पयितुं शक्यते; अतः कर्मान्तराण्येवेहोत्पत्त्यधिकाराभ्यां सह विधीयन्ते, नैतद्युक्तम्; कुण्डपायिनामयनेऽग्निहोत्रशब्दस्यालौकिकाभिधानत्वादाख्यातपरतन्त्रतया तदुक्तार्थाभिधायिनः स्वातन्त्र्येण प्रदेशान्तरविहिताग्निहोत्रपरामर्शकत्वानुपपत्तेराख्यातस्य च जुहोतेः सामान्यवाचिनः स्वसन्निहितः कारकागिनिरूपितं कर्मान्तरं विहाय व्यवहिताग्निहोत्रपरामर्शित्वायोगात् कर्मान्तरमेव मासगुणविशिष्टं निधीयत इत्युक्तम्, इह त्वध्ययन-यज्ञ-दान-तपोऽनाशकशब्दानां लौकिकाभिधानतया स्वातन्त्र्यात् प्रदेशान्तरविहिताध्ययनादिपरामर्शोपपत्तेस्तान्येव कर्माणि संयोगभेदेन विधीयन्त इत्युपपद्यते।।

                ननु एवमपि ब्रह्मज्ञानं दृष्टप्रमाणसामग्रीजन्यत्वाद् नादृष्टमपेक्षते; सति प्रमाणकारणे यज्ञाद्यभावाद् ज्ञानोदयादर्शनाभावात्, नैतत्, दृष्टकारणक्लृप्तौ अन्वय-व्यतिरेकप्रमाणान्तर्भूतत्वात् केवलव्यतिरेकस्य तदपेक्षा युज्यते, इह तु मुखस्य दृष्टकारणसम्पत्तौ केवलव्यतिरेकाभावेऽपि विधानादेवादृष्टसापेक्षत्ववत् सम्यग्ज्ञानेऽपि विधानादेवादृष्टसापेक्षत्वमुपपद्यते। ननु--कर्मणां विज्ञाने विनियोगद्वाराभावाद् विज्ञानफले मोक्षे विनियोगः कल्प्यते--इति, उच्यते;--यथा यागादिकर्मणां स्वर्गाद्युद्देशेन विहितानां तदुपपत्तये विधिसामर्थ्यादेव मध्यवर्त्यपूर्वाणि कल्प्यन्ते, एवमिहाप्यन्तःकरणशुद्धिचित्तैकाग्र्यादिद्वारं कल्प्यतामिति। किञ्च--साक्षाच्छ्रुतः ज्ञानसाधनत्वानुपपत्तौ तत्फलसाधनत्वकल्पनाद् वरं परम्परयाऽपि तत्साधनत्वकल्पनम्, करणविभक्तेः "काष्ठेः पचती"ति परम्परया साधनेऽपि दर्शनात्, फलसाधनत्वेऽपि तदयोगात्। नचास्मिन् वाक्ये यज्ञादिसाध्यो मोक्षः श्रूयते, आत्मा तु ज्ञाकर्मतया तत्साध्योऽवगम्यते, न यज्ञादिसाध्यः। किञ्च--प्रमाणान्तरविरोधं परिहृत्यैव श्रुतपरित्यागेनाश्रुतकल्पना युक्ता, अस्ति च "नान्या पन्था विद्यते" "न कर्मणा न प्रजये"त्यादिना कर्मणां मोक्षसाधनत्वनिषेधः। किञ्च--परम्परया साधनत्वकल्पना प्रमाणान्तरमध्यनुतरतीत्याह--येन केनचन यजेतेत्यादि।। अन्तःकरणशुद्धिपरवाक्यजातोपलक्षणार्थः।

                ननु--विशुद्धिद्वारेण ज्ञानहोतुत्वे संस्कार-विविदिषापक्षयोः को विवेकः उच्यते--श्रवण-मनन-ध्यानाभ्यासादिसहकारिकारणसम्पत्तावेव संस्कारो विज्ञानं साधयति, तदभावे सत्यभ्युदयमेव, विविदिषायां तु विज्ञानस्य कर्मफलत्वात् फलपर्यन्तं साधनानि विज्ञानं जनयन्तीति विशेषः। अत्र कश्चिद्वेदान्तेऽपि सर्वसंकरवादी भेदाभेदमुखरताज़डवचनो विविदिषावाक्यादेव कर्मणां मोक्षसाधनत्वं कल्पयति, स च न्यायागमाभिज्ञानशून्यत्वादुपेक्ष्यत इति। "अश्वेन जिगमिषती"त्यत्राश्वस्य पुनरावृत्तिपर्यन्तताऽपि क्वचिद् दृष्टा, इति नासौ कर्मणां मोक्षसाधनत्वे दृष्टान्तः। न्यायागमाभ्यां तु ज्ञानमेव सद्वारं साध्यमित्युक्तम्, व्यवहितफलेषु कर्मसु न फलपर्यन्तमनुष्ठानप्राप्तिः; चित्तस्य प्रत्यक्प्रवणताद्वारफलमवगम्योपरमसिद्धेरित्येवं वर्णिते पूर्ववादिना, सिद्धान्तयति--सत्यमेवम्; यदि समानजन्मानुष्ठितमेवेति।। अयमाशयः--प्रवृत्तिपर्यन्तेच्छोदयप्रभृत्यनुभवपर्यन्तविषये प्रवृत्यधिकारोपाधितया पूर्वक्षणे प्रतिपत्तव्याधिकारिविशेषणप्रतिपादनार्थोऽयमथशब्दः। तत्राज्ञाततयैवानेकजन्मव्यवहितफलहेतुषु कर्मसु फलप्रवृत्तिसमकालप्रतिपत्त्यनपेक्षेषु न तत्प्रतिपत्त्यर्थोऽप्यथशब्द इति। ननु--समानजन्मानुष्ठितकर्मावगमोऽपि ब्रह्मजिज्ञासाधिकारहेतुर्भवति; एतज्जन्मप्रयुक्तत्वादृणसम्बन्धस्य, अपाकृतर्णत्रयस्यैव च मोक्षाधिकारादिति, तत्राह--एतेन ऋणापाकरणद्वारेणापीति।। ननु--"ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेषयेत्। अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः"।। इति स्मर्यते, सत्यम्; श्रुतिविरोधादपस्मृतिरित्याह--तथाच श्रुति-स्मृती "यदि वेतरथा ब्रह्मचर्यादेवे"ति।। ननु--"जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते" इति श्रुतिरस्ति, सत्यम्; अर्थवादो विधिश्रुतिविरोधे बाध्यते। किञ्च ऋणशब्देन पुत्र-यज्ञ-ब्रह्मचर्याण्येवोच्यन्ते किं वा तद्विधय इति न तावद् जायमानस्य पुत्रादिसम्बन्धो युज्यते; योग्यानुपलब्धिविरोधात्, नापि

तद्विधिसम्बन्धः; विधिप्रतिपत्तिसामर्थ्यविकलस्याधिकाराभावात्, सामर्थ्यस्य चाधिकारिविशेषणत्वात्। गृहस्थो जायमानस्त्रिभिर्ऋणवा जायत इति चेत्, न; तथा कल्पनायां "गृहात् प्रव्रजेदि"ति विधिविरोधात्। तत्रापि च पुत्रादिजन्मसम्बन्धितया गृहस्थजन्मनि योग्यानुपलब्धिविरोधः समानः। नच पुत्रादिविध्यनुष्ठानसामर्थ्याभावाद् गृहस्थजन्मसमये तद्विधिसम्बन्धो युज्यते। जन्मारभ्य पुत्राद्यधिकारसम्पत्तेः प्राग्विरोधिविध्यन्तरसम्बन्धपरिहारार्थमिदं वचनमिति चेत्, न; तथाकल्पनायां संन्यासविध्यन्तरविरोधात्। तस्मादर्थवादमात्रमेतत्। ननु "ब्रह्मचर्यं समाप्य गृही भवेदि"ति विधिविरोधे कथं ब्रह्मचर्यादेव संन्यासो विधीयते न; विरक्तमुमुक्षुविषयत्वात् संन्यासस्य सामान्यविधिविरोधाभावात्। ननु कर्मानधिकृतान्धपड्ग्वादिविषयः संन्यासः किं न स्यात् न; "ब्रह्मचर्यात् गृहाद् वनाद्वा प्रव्रजेदि"त्यविशेषश्रवणात्, "अथ पुनरव्रती वा व्रती वा अस्नातको वा स्नातको वोत्सन्नाग्निको वे"त्यनधिकारिणामाश्रम्भ्यः पृथगेव संन्यासाधिकारित्वेनोपादानात्, अन्धादीनामपि पुत्र-पञ्चमहायज्ञादिकर्माधिकारादनधिकृतत्वासिद्धेः, अन्धादीनामप्यविरक्तानां संन्यासानधिकारात् तदेव संन्यासनिमित्तम्। "शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरि विश्रुवम्।" "अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमि"त्यादिनाऽऽत्मज्ञानाय शरीरेन्द्रियादिपाटवस्य प्रार्थ्यमानत्वात्, आत्मज्ञानशेषत्वाच्च संन्यासस्य "दृष्टिपूतं न्यसेत्पादनि"त्यादिस्मृतेश्च पटुतरेन्द्रियस्यैव संन्यासाधिकारः। सर्वत्रात्मज्ञानप्रकरणे संन्यासस्य विहितत्वात् श्रवणाद्यङ्गतयाऽऽत्मज्ञानफलता च संन्यासस्य सिद्धा। कथं पुनः कर्मणां तत्त्यागस्य चात्मज्ञानफलता शक्याऽवधारयितुम् षोडशिग्रहणयोरिव क्रत्वङ्गतयेति वदामः। क्रमेण वा कर्म-तत्त्यागयोरात्मज्ञानोपकारितया समुच्चयः कल्प्यते; द्वारोपकारभेदात्, निबर्हणीयकल्मषस्याचानन्तत्वात्। ब्रह्म-क्षत्रादिभेदेन वा व्यवस्था कल्प्यते।।

                कियत्पुनरत्र परित्यज्यते स्वशरीरव्यतिरिक्तं सर्वम्। ननु उपवीतादि न त्यागमर्हति, न; अग्निहोत्रादिभिरविशेषात्। ननु संन्यासक्रत्वङ्गतया कर्मपरित्यागेऽप्युपवीतादि पश्चादुपादीयताम्, न; जाबालश्रुतौ "प्रव्रजेदि"त्यग्निहोत्रादिभिरविशेषात् सहोपवीतादिना कृत्स्नपरित्यागं विधाय--"अथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः" इत्याश्रमधर्मविधिसमये--"अयज्ञोपवीति कथं ब्राह्मणः" इति प्रश्नपूर्वकम्--"इदमेवास्य तद् यज्ञोपवीतं य आत्मे"त्येवकारेण ब्राह्मयज्ञोपवीतादि व्यावर्त्य, आत्मन एव यज्ञोपवीतत्वसम्पादनात्।।

                अत्र सर्वसङ्करवादी--पुरस्ताद् यज्ञोपवीतत्यागस्यानिर्दिष्टत्वात्--"ब्राह्मणः कथमयज्ञोपवीती"ति प्रश्नस्य प्रसङ्गाभावात् प्रक्षिप्तमिदं वाक्यमिति--जल्पति, तस्य तत्त्वदर्शन-तन्निष्ठपरमहंसपरिव्राजकद्वेष एवापराध्यते; पुरस्ताद्विधिसामर्थ्यलब्धसर्वपरित्यागेनोपवीतादित्यागप्रसङ्गापरिज्ञानस्य स्वाभाविकत्वात्। तथाच--"अथ परिव्राडेकशाटीपरिवीतो मुण्डो दरपात्र्यपरण्यनित्यो भिक्षार्थी ग्रामं प्रविशेदासायं प्रदक्षिणेनाविचिकित्सं सार्ववर्णिकं भैक्ष्यचर्यमभिदस्तपतितवर्जमयज्ञोपवीति शौचनिष्ठः काममेकं वैणवं दण्डमाददीते"ति परिव्राजकमेवोद्दिश्य मैत्रायणी श्रुतिः। तथाच बोधायनोऽपि--"अत ऊर्ध्वं यज्ञोपवीतमासनं शिखा यष्टयः शिक्यं जलपवित्रं कमण्डलुपात्रमि"त्येतानि वर्जयित्वाऽथ दण्डमादत्ते सखा मा गोपाये"ति संन्यासादूर्ध्वमेव दर्शयति। तस्मादुक्त एवात्मज्ञानाङ्गभूतः संन्यासः। "तस्मात्साधूक्तमि"ति भाष्योपसंहारः।।

                ननु नानन्तर्याभिधानमुखेनाधिकारिविशेषप्रतिपत्त्यर्थोऽयमथशब्दः, किं तु तदभिधानमुखेन क्रमप्रतिपत्त्यर्थं इति चोदयति--अथापि स्यान्न हेतुत्वेनेति।। तत्र वक्तव्यम्--किं स्वयमेव क्रमं प्रतिपादयति आहोस्वित् प्रमाणान्तरप्रतिपन्नक्रमापेक्षितन्यायं सूचयति इति, न तावत् प्रथमः कल्प इत्याह--तदेतदयुक्तम्--न्यायसूत्र इति।। आगमाभावादित्यर्थः। आगमत्वाभावादित्यर्थः। द्वितीये विकल्पे धर्म-ब्रह्मजिज्ञासयोः क्रमापेक्षानिमित्तस्यैकविधिप्रयुक्त्यनुष्ठानत्वस्याभावान्न तदर्थं इत्याह--अपि चैककर्तृकाणामित्यादि।। उक्तेऽर्थे भाष्यमवतारयति--तदिदमाहेति।। अत्र कश्चित्--"धर्मब्रह्मजिज्ञासयोरि"ति विशेषोपादानमवगच्छन्नपि ज्योतिष्ठोमोद्गीथज्ञानयोरधिकृताधिकारत्वं खलु विद्यत इति--प्रतिवक्ति, स खलु मन्दभाग्य एव। उद्गीथाद्युपासनानां धर्मविशेषाणामेव निरूपितविधिचतुष्टयानां ब्रह्मप्रकरणे प्रत्ययत्वसाम्यात् प्रासङ्गिकत्वेन भेदादिमात्रस्यैव निरूपितत्वात् शास्त्रतात्पर्यावगम्यस्य ब्रह्मज्ञानस्य कर्मण्यधिकृताधिकारित्वाभावात्। ननु मा भूदेकविधिप्रयुक्त्यनुष्ठेयतयाऽऽक्षिप्तक्रमविशेषापेक्षितन्यायानुसरणपरोऽथशब्दः,

किंत्वेकफलप्रयुक्त्यनुष्ठेयतयैकप्रमेयजिज्ञास्यप्रयुक्त्यनुष्ठेयतया वा साधनद्वये कर्त्रैक्यात् क्रमस्याक्षेप इत्युत्तरभाष्यस्याशङ्कामाह--यथाऽऽग्नेयादीनामित्यादिना।।

                "चेदनाप्रवृत्तिभेदाच्चे"त्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।। अयमत्राशयः--न धर्म-ब्रह्मज्ञानयोरेकफलत्वे प्रमाणमस्ति, अर्थोऽपि न युज्यते, कथम् न तावद् विविदिषावाक्यस्य शब्दसामर्थ्यन्यायपरीक्षायां समुच्चये प्रामाण्यमित्युक्तम्। नच "विद्यां चाविद्यां च यस्तद्वेदोभयं सहे"ति समुच्चयविधिः; "अविद्यया मुत्युं तीर्त्वा विद्ययाऽमृतमश्नुते" इति फलभेदावगमात्, नापि "तेनैति ब्रह्मवित्पुण्यकृच्चे"ति ज्ञान-कर्मणोरेकस्मिन् पुरुषे समुच्चयविधिः; ब्रह्मवित्पुण्यकृतोः पुरुषयोर्मार्गे समुच्चयावगमात्, अन्वाचयार्थेन च चकारेण प्रत्येकं निरपेक्षमार्गान्वयोपपत्तेः, पुण्यकृच्छब्देन चाऽमानवपुरुषादर्चिरादिना गच्छतां प्रतीकालम्बनानामभिधानात्, इष्टादिकारिणां धूमादिमार्गश्रवणाच्च।।

                नच "तान्याचरथ नियतं सत्यकामाः" इति समुच्चयविधिरवगम्यते; केवलकर्मणामेव श्रवणात्, सत्यशब्देन च "एष वः पुण्यः सुकृतो ब्रह्मलोकः" इति वाक्यशेषात् सत्यलोकाभिधानात्, "प्लवा ह्येते अदृढा यज्ञरूपा नास्त्यकृतः कृतेने"ति च कर्मनिन्दया "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदि"ति च विज्ञानविधानात्। "सत्येन लभ्यस्तपसा ह्येष आत्मे"ति न समुच्चयविधिः; तपःशब्दस्य "मनसश्चेन्द्रियाणां चैकाग्र्यं परमं तपः" इति ध्यानस्यैवाभिधानात्। तस्मान्न समुच्चये प्रमाणमस्ति। प्रतिषेधाच्च; "नान्यः पन्था विद्यतेयनाय" "नास्त्यकृतः कृतेन" "न कर्मणा न प्रजया धनेन" "नान्यैर्देवैस्तपसा कर्मणा वा" "हित्वाऽविद्यां धियैवेयात् तद्विष्णोः परमं पदमि"ति च। केवलकर्मणां प्रतिषेध इति चेत्, न: अविशेषात्, समुच्चयविधायिप्रमाणाभावे सर्वकर्मणां प्रतिषेधोपपत्तेश्च। ज्ञानाङ्गतया सर्वकर्मसन्यासविधानाच्च न समुच्चयः। संन्यासाश्रमधर्मैः समुच्चय इति चेत्, न: तद्धर्माणां ध्यानादीनां ज्ञानस्वरूपोपकारित्वात्। नित्यकर्मविधानानुपपत्तिरेव ज्ञानसहकारितया कर्मणां मोक्षफलत्वं कल्पयतीति चेत्, न; नित्यकर्मणां फलनिरेक्षत्वात्, सापेक्षत्वे च विश्वजिन्न्यायावतारात्, संस्कारद्वारेण    च विनियोगस्य  दर्शितत्वात्, कर्मणामेव च विध्यनुपपत्त्या मोक्षसाधनत्वकल्पनात् समुच्चयासिद्धेः, कर्मप्रतिषेधस्योदितहोमप्रतिषेधवज्ज्ञानस्तुत्यर्थत्वोपपत्तेर्ज्ञानकर्मणोर्विकल्पेन मोक्षसाधनत्वप्रसङ्गात्। ननु ब्रह्मज्ञानमेवेतिकर्तव्यतया कर्मणां मोक्षसाधनत्वं  कल्प्यतीति चेत्, न; शमादीतिकर्तव्यतान्तरभावात्, करणतया विध्युद्देशप्रसिद्धानां च कर्मणां विधिविरोधात्। अर्थश्च विरुध्यते। कश्च कर्मणां साध्योऽर्थ इति वक्तव्यम् न तावद् ब्रह्मात्मैकत्वम्; तस्यासाध्यत्वात्, नाप्यविद्या-भेदांशाध्यास कर्मणां निवृत्तिः ; "भिद्यते हृदयग्रन्थिः" "ब्रह्म वेद ब्रह्मैव भवती" त्यादौ ब्रह्मदर्शननिवर्त्यत्वावगमात्। नहि-"तस्मिन् दृष्टे" इत्युक्ते कर्माणि सहकारित्वेनावगम्यन्ते। नाप्युपाधिद्वयनिवृत्तिः कर्मणां फलम्। तथा "विद्वान्नामरूपाद्विमुक्तः" "एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती"ति च ब्रह्मदर्शननिवर्त्यत्वावगमात्, अज्ञानमात्रोपादानत्वस्य दर्शितत्वाच्च कर्मोपाधीनाम्। किञ्च समुच्चयवादिनो न विज्ञानसाध्यमपि फलमस्ति ; कर्मोपाधीनां सत्यवस्तुतया विज्ञानानिवर्त्यत्वात्, मिथ्याध्यासस्य च क्षणिकतया स्वयमेव निवृत्तेः, प्रवाहस्य च प्रवाहिनिवृत्तिमन्तरेण पृथगुच्छेदाभावात्, अस्तुत्वाच्च, मिथ्याज्ञानसंस्कारस्य शुक्तिकादितत्वज्ञानेनाविरोधदर्शनादनिवर्त्यत्वात्, ब्रह्मात्मभावस्य च स्वयंप्रकाशतया विज्ञानाप्रकाश्यत्वात्, तत्त्वज्ञानाभ्याससंस्काराच्च, मिथ्याज्ञानसंस्कारनिवृत्तौ तत्त्वज्ञानान्मुक्तिश्रुतिविरोधात्। तस्मात् सर्वानर्थोपादानानादिमिथ्याज्ञाननिवृत्त्यैव विज्ञानं फलवत्, इति न समुच्चयावकाशः।। तत्र सर्वसङ्करवादी ब्रह्मविचारापेक्षिताधिकारमप्यज्ञानन् समुच्चयसामर्थ्यादेव धर्मावबोधानन्तरं ब्रह्मावबोधं जल्पति।। तत्र सति वा समुच्चये विपरीतं किं न स्यादिति निरूपणीयम्। तथाहि--ज्ञानवतैवानुष्ठितानि कर्माणि मोक्षं साधयन्ति, इति प्रथमं ब्रह्मावबोधमुत्पाद्य तद्वतैव ब्रह्मचारिणा धर्मविचारादि सर्वं स्वाश्रमधर्मानुष्ठानं कर्तुं युक्तम्, इति विपरीत  एव क्रमः स्यात्; अन्यथा त्वादावेव मुमुक्षोराधर्मविचारपरिसमाप्तेरनुष्ठीयमानकर्मणामानर्थक्यप्रसङ्गात्। दृश्यन्ते च प्रथमाश्रम एव मुमुक्षवः। सर्वसाधारणत्वाद्धर्मविचार एव प्रथमः कर्तव्य इति चेत्, देवानांप्रिय ! न सर्वसाधारणं कर्तुमयं प्रवृत्तः, किन्तु काम्यमानसाधनमवश्यानुष्ठेयं वा निर्वतयितुं प्रवृत्तः। तत्र यदि विचारद्वयं काम्यमानमोक्षसाधनमिथ्येत, तर्हि व्युत्क्रम एव श्रेयानित्युक्तम्। अथ नित्याध्ययनविधिः कर्मविचारं प्रयोजयति, अतोऽवश्यानुष्ठेयविचारान्तरं

काम्यमानब्रह्मविचारः प्रयुज्यत इति चेत्, नैतत् सारम्; काम्यमानब्रह्मविचारानन्तरमपि नित्यधर्मविचारोपपत्तेः। ननु अध्ययनानन्तरं कर्मविचाराननुष्ठाने प्रत्यवायः स्यात्, सत्यम्; नित्यवदल्पानुष्ठानेऽपि प्रत्यवायपरिहारात्। किंच तावन्मात्रमुपेयाताम्; विदुषाऽनुष्ठीयमानब्रह्मचारिधर्माणामपि मोक्षसाधनत्वलाभात्, वेदानुवचनादिषु प्रत्येकं निरपेक्षकरणविभक्तिश्रवणाद्वा, आश्रमकर्मणां विकल्पेन मोक्षसाधनत्वोपपत्तेः, ब्रह्मचर्यादेव संन्यासविधानाच्च। धर्मावबोधो नित्यतयाऽनुष्ठितोऽपि न ब्रह्मविचारहोतुः, अननुष्ठेयश्च धर्मविचारः, अग्निहोत्रादिव्यतिरिक्तसंन्यासधर्माणामपि ज्ञाने समुच्चयाङ्गीकरणात्। किंच अध्ययनविधिः कर्मविचारं प्रयुञ्जानो ब्रह्मविचारं किमिति न प्रयुङ्क्ते इति वक्तव्यम्, "श्रोतव्यः" इति विध्यन्तरश्रवणादिति चेत्, अश्रुतमीमांसावृत्तान्तो देवानांप्रियः, धर्मविचारे क्लृप्तप्रवर्तकभावेनानेनैवाध्ययनविधिना ब्रह्मविचारस्यापि प्रयोगसम्भवे श्रोतव्य इति विधेर्विनियोगाधिकार-प्रयोगविधिकल्पनया प्रवर्तकत्वकल्पनाऽयोगात्। ब्रह्मज्ञानस्य काम्यमानसाधनतया तद्विचारस्यापि काम्यत्वाद् न नित्याध्ययनविधिप्रयुक्ततेति चेत्, कर्मविचारे काम्यमानकर्मवाक्यविचारस्याप्येतत्प्रयुक्तत्वप्रसङ्गः।।

                स्यादेतत्--ब्रह्मविचारस्य वैराग्य-शम-दमोपसदनादिसाधनविशेषाणामङ्गत्वेन विधानादध्ययनविधेः कर्मविचारे शमाद्यङ्गशून्यस्य ब्रह्मविचारे तदङ्गानामाक्षेपकत्वानुपपत्तेः साङ्गविध्यन्तरं कल्प्यत इति, सोऽयमनुरूपितविधिव्यापारो वावदूकः; स्वाध्यायविधिः खलु शिरोव्रत-भूभोजनाद्यङ्गविकलमेव वाक्यान्तराध्ययनं विदधानो मुण्डक कारीर्याद्यध्ययनं शिरोव्रताद्यङ्गाक्षेपपुरःसरमेव विदधाति। विचारं च प्रयुञ्जानः प्रतिवाक्यं दृष्टतयैवाङ्गभूतान् न्यायभेदानाक्षिप्यैव विचारं प्रयुङ्क्ते। दर्शपूर्णमासविधिश्च नित्याधिकारो यथाशक्त्यङ्गानुष्ठानं प्रयुङ्क्ते, काम्याधिकारस्तु सर्वाङ्गानुष्ठानमिति। तथा स एव विधिरुपांशुयाजे कर्मण्याज्यावेक्षणाद्यङ्गमाक्षिपति, यागान्तरेष्ववघाताद्यङ्गमिति। एवमध्ययनविधिर्ब्रह्मविचारे शमाद्यङ्गमाक्षिपेत् नेतरत्रेति न विरुध्यते। नचाधिकारिविशेषणत्वात् शमादीनामनुपादेयत्वादनाक्षेपः; अध्ययनविध्यधिकारिण एव तत्प्रयुक्तविचारेऽप्यधिकारित्वात्। तस्मात् प्रधानविधिर्दृष्टादृष्टाङ्गानामुपकारविशेषापेक्षया यत्र क्वचन यत्किञ्चिदङ्गं प्रयोजयतीति सर्वत्र समधिगतमेतत्। तस्मादेकाध्ययनविधिप्रयुक्तत्वाद् विचारद्वयस्य क्रमापेक्षायां ब्रह्मविचारानन्तरं धर्मविचारो युक्तः; विचारादीनामपि मोक्षसाधनत्वलाभात्। तस्माद् न फलैक्यादपि धर्मजिज्ञासानन्तरं ब्रह्मजिज्ञासेति। प्रतिवाक्यं च तात्पर्यभेदात् प्रमेयभेदसिद्धिः।

                तत्र हेत्वन्तरमाह--चोदनाप्रवृत्तिभेदादिति।। एतद् विवृणोति--इदमपरमित्यादिना।। चोदनेति शब्दभावनां कुर्वञ्छब्दोऽभिधीयते। सा च चोदनांऽशत्रयविशिष्टामर्थभावनां कुर्वती तस्मिन्ननवबुद्धे पुरुषप्रवृत्त्ययोगादर्थभावनामपि प्रतिपादयतीति भावः। ननु ब्रह्मावबोधे भाव्ये पुरुषं प्रेरयन्ती चोदनाऽवबोधव्यावृत्तां भावनां प्रतिपादयतीति, नेत्याह--नावबोधे पुरुषः प्रेर्यत इति।। ननु अवबोधः पुरुषप्रयत्नसाध्य इति, नेत्याह--अवबोधो हि यथावस्त्विति।। अनिच्छतोऽप्रयतमानस्यापि दुर्गन्धादिज्ञानदर्शनादित्यर्थः।।

                उच्यते नित्यानित्यवस्तुविवेक इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। शास्त्रीयस्य विधेः शास्त्रीयमेवाधिकारनिमित्तं वक्तव्यमित्यभिप्रेत्याह--नित्यानित्यवस्तुविवेक इत्यादि।। "सोऽन्वेष्टव्य" इति विधिप्रकरणे--"तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः धीयते" इति नित्यानित्यवस्तुविवेको दर्शितः; "परीक्ष्य लोकान् कर्मचितान्" "आत्मनस्तु कामाय सर्वे प्रियं भवती"ति च ज्ञानश्रवणविधिप्रकरण इहामुत्रार्थभोगविरागो दर्शितः; "शान्तो दान्तः"  इति च दर्शनविधिप्रकरणे शमादयो दर्शिताः; "तद्विजिज्ञासस्वे"ति विचारविधिप्रकरणे "वरुणं पितरमुपससारे"ति गुरूपसदनं दर्शितम्; सर्वत्र च फलश्रुतयः कामनोत्पादनद्वारेण मुमुक्षोरधिकारप्रदर्शनार्थाः; अन्यथा साधनानुष्ठानादेव सङ्कीर्तनवैफल्यात्। ज्ञानस्याविधेयत्वात् तद्विधयोऽपि तत्साधनविधिपराः; तत्र सर्वशाखाप्रत्ययन्यायेन विधीनामेकत्वोपपत्तेः। स चैको विधिरधिकारमीक्षमाणः प्रकरणसामर्थ्यात् सङ्कीर्तनवैफल्यपरिहाराच्च वर्णितं धर्मकलापमधिकारनिमित्तत्वेन स्वीकरोति; निरधिकारस्य विधेः प्रवृत्तिपर्यन्तत्वायोगात्। ननु एषु वाक्येषु विचारो विधीयत इति कथमवगम्यते उच्यते--"विजिज्ञासितव्यः" "विजिज्ञासस्वे"ति चान्तर्णीतो विचारो विधीयते; इष्यमाणज्ञानस्येच्छायाश्च

विधेयत्वायोगात्। "श्रोतव्यः" इति च स्वयमेव विचारो विहितः; "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदि"ति ज्ञानस्य साध्यतावगमात्। गुरूपसदनविधानाच्च तत्साधनश्रवणादिविधिः कल्प्यते। "आत्मन्येवात्मानं पश्येदि"ति ज्ञानविधानायोगात् तत्साधने विधिरूपादीयते, इति सर्वत्र मनन-निदिध्यासनाभ्यां सह श्रवणं नामाङ्गिविधीयत इति सिद्धम्।।

                ननु फलसाधनविधौ फलकामनैव पुष्कलाधिकारनिमित्तं भवति, किमितरधर्मकलापेनेति सत्यम्  शास्त्रीयेऽधिकारनिमित्ते सङ्कीर्तनादेव जीवन-गृहदाहादिवदधिकारनिमित्तमिति गम्यते। ननु साधनकलापस्यानुष्ठेयतया तत्र विधिं परिकल्प्य प्रयाजादिवत् फलोपकार्यङ्गत्वमेव कल्प्यताम् सत्यम् अङ्गस्यापिप्रदोषादिकालवदधिकारविशेषणत्वं न विरुध्यते; शान्त्यादिगुणो भूत्वा पश्येदित्यादिलिङ्गात्, दीक्षाया अप्युत्तरक्रत्वधिकारनिमित्ततादर्शनात्। तस्माद् युक्तमुक्तम्--नित्यानित्यवस्तुविवेक इति।। "तेषु हि सत्स्वि"त्युत्तरं भाष्यं साधनकलापस्य ब्रह्मानुभवपर्यन्तविचारादिसाधनप्रवृत्तेरन्वय-व्यतिरेकसिद्धदृष्टहेतुतां प्रतिपादयति। तद् व्यावर्णयितुं मुमुक्षुत्वमन्तरेण तावन्न प्रवृत्तिरित्याह--उक्तं पुरस्तादधिकारार्थत्व इत्यादिना।। तस्माद् मुमुक्षुत्वं तावदिष्यमाणसाधने प्रवृत्तिनिमित्तमित्यर्थः। ननु फलकामनायां सत्यामितरधर्माभावात् फलसाधने प्रवृत्त्यभावो न दृश्यते, सत्यम्; पूर्वस्य पूर्वस्योत्तरोत्तरस्वरूपोपाधित्वेन प्रतिपन्नतया मुमुक्षुत्वोपाधित्वादधिकारनिमित्ततेत्याह--तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्येत्यादिना।। ननु सर्वम्, अनित्यमेव, सत्त्वात्; स्वप्नवदिति, नेत्याह--विनश्यदपीदमिति।। नच निरूपादानं किञ्चित् कार्यमवगम्यते; कार्यस्य च कार्यान्तरोपादानत्वे पूर्वेषां कृत्स्नकारणानामुत्तरस्मिन् कार्येऽन्वयः स्यात्; अनन्वयिनोऽनुपादानत्वात्, अतः प्रतिकार्यप्रवाहमनादित्वादनाद्यनेकोपादानकल्पनाद् वरमेकस्यैवानादेः सर्वकार्योपादानत्वकल्पनम्। तच्चाविकारिकूटस्थम्; अन्यथा कार्यत्वप्रसङ्गात्। तथा सर्वे कार्यम्, कदाचित् कात्र्स्न्येन विनश्यति, एकोपादानत्वात्, सुषुप्तावात्मगतमुखादिवत्, इति सर्वस्य च विनाशस्तथाविधवस्तुपर्यन्त एव; अन्यथा पूर्वकल्पस्य शून्यतापर्यन्तं विनष्टस्य स्वोपादानशेषतया स्वसंस्कारावस्थानाभावात् तत्सजातीयाकारेण पुनर्जन्माभाववद् वर्तमानस्यापि निरूपादानतया जन्माभावप्रसङ्गादिति। भोगान् भुञ्जानस्य भोक्तुः सह भोगैरभिमुखविनाशदर्शनादिति योजना। अत्रैवमन्वयः--यावदनित्यत्वं नावैति, तावन्नित्यं वस्तु न प्रतिपद्यत इत्यध्याहारः। यावच्च नित्यानित्यवस्तुविवेको न जायते, तावद्विरक्तो न जायत इत्यध्याहारः। "यावच्चाभिमुखविनाशे"त्यत्र यावच्छब्दो नकारमध्याहृत्य विरक्तशब्देन संबध्यते, यावच्च न विरक्त इति। तावन्मुमुक्षुत्वं नालम्बत इत्यध्याहारः। यावच्च मुमुक्षुत्वं नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत इति साधनकलापाभावे न विचारप्रवृत्तिरिति व्यतिरेकोऽयं दर्शितः। ननु नास्ति व्यतिरेकः, साधनकलापाभावेऽपि प्रवृत्तिदर्शनादित्याशङ्क्याह--कथंचिद्वा दैववशादिति।। शूद्रयागादिवत् फलपर्यन्तता न स्यादित्यर्थः। व्यतिरेकनियमादेवान्वयमपि सिद्धवत् करोतीत्याह--तस्माद्वर्णितवस्तुकलापानन्तर्यमिति।। उक्तेऽर्थे भाष्यमवतारयति--तदाह भाष्यकार इति।।

                तदेवं साधनकलापस्य विधेयतया विज्ञानाङ्गत्वेऽपि शास्त्र-युक्तिभ्यामधिकारिविशेषणत्वलाभाद् वर्णितसाधनसंपत्त्यनन्तरं ब्रह्मविचारे सिद्धेऽपि कश्चित्प्रमाणव्यापारवार्तानभिज्ञो देवानांप्रियः शास्त्रार्थप्रद्वेषदोषधूयमानचेताः सर्वसंकरवादी यत्किञ्चिदत्र जल्पति--विचारकर्तव्यतां प्रतिपद्यमानस्य किल सूत्रकारस्य शमादयो न बुद्धिसमारूढाः, नचाबुद्धिसमारूढमर्थमधिकारिविशेषणतयाऽथशब्देनोपादातुमर्हति; धर्मविचारस्तु बुद्धिगतोऽधिकारिविशेषणतयोपादीयत इति, नैतद्युक्तम्; नहि पूर्वापरवाक्यपरामर्शप्रज्ञाविकलस्त्वमिव सूत्रकारः। तथाहि--श्रौतं विचारविधि सूत्रयितुं प्रतिपद्यमाने विधिप्रयुक्तमधिकार्यनुबन्धमीक्षमाणः स्वप्रकरणपठितमन्वय-व्यतिरेकप्रमाणगम्यं चाधिकारिविशेषणं प्रतिपद्याथशब्देन किमिति न सूत्रयेत् किंच साधनकलापस्याथशब्दोपादानत्वाभावेऽप्यवश्यं ब्रह्मणि प्रवृत्त्यङ्गता तावद् वक्तव्या; रागाद्याक्षिप्तस्य तत्र प्रवृत्त्यनुपपत्तेः, अवश्यापेक्षणीयत्वे च तदेवाधिकारिविशेषणं वक्तव्यम्। नच धर्मजिज्ञासा दृष्टद्वारेण वा शास्त्रीयता वाऽधिकारिविशेषणतामनुगच्छति; प्रमाणाभावात्। अत एव न बुद्धिस्थाऽपि सा, अथशब्देन च नोपादानमर्हति; व्यवहिताच्च बुद्धिस्थात् स्ववाक्यगतमेव संनिहिततरं बुद्धिस्थं च

साधनचतुष्टयमुपादानमर्हति। तस्माद् यत्किंचिद्देतदिति।।

                अतः शब्दो हेत्वर्थः। ननु--अथशब्द एवानन्तर्याभिधानमुखेन हेतुतया पूर्वनिर्वृत्तमेवार्थं गमयतीत्युक्तम्, ननु हेतुत्वमार्थिकम्, तन्नाभिधेयमथशब्दस्य, सत्यम्; आर्थिकार्ये तात्पर्यात्, आनन्तर्यमात्रे वैफल्यात्, "यत्परः शब्दः स वाक्यप्रयोगे शब्दार्थः" इत्यथशब्देनैव हेतुत्वसिद्धेर्नातश्शब्दोऽपेक्ष्यत इति। अतःशब्दाभावे माङ्गल्यादीनामन्यतमार्थताऽथशब्दस्य प्रसज्यत इति चेत्, न; निराकृतत्वात्, धर्ममीमांसायां सत्यप्यथशब्देनाऽपि तस्य हेतुत्वमुक्तमिति चेत्, अन्धगोलाङ्गूलन्यायैकशरणोऽयं सर्वसंकरवादी। नह्यन्यत्र विद्यमानः पुनरुक्तिदोषोऽस्माभिरप्यनुसरणीयः; तस्मादतःशब्दवैयर्थ्यमिति--प्राप्तम्, अत्राथशब्दपरिगृहीतस्यैव हेतुत्वस्य हेत्वन्तरेणापवादाशङ्कायां तन्निराकरणं पुनरथशब्दोक्तहेतुत्वाभिधायिनाऽतःशब्देन क्रियत इति दर्शितम्--2यस्माद्वेद एवाग्निहोत्रादीनामित्यादिभाष्येण2।। तत्र तामाशङ्कां दर्शयति--स्यादेतत् कृतकत्व-परिच्छेदावित्यादिना।। यदा तु कृतकत्वाद्यनुमानमनैकान्तिकम्, तदा कर्मफलस्यापि कृतकस्यानित्यत्वनियमाभावान्नित्यपुरुषार्थकामिनस्तत्रापि प्रवृत्तिः स्यात्। अतो नित्यानित्यवस्तुविवेको न ब्रह्मण्येव नियमेन प्रवृत्तिहेतुरित्यर्थः। ननु कर्मफलस्यैकान्ततोऽनित्यताऽभावेऽपि नित्यत्वे न प्रमाणमिति, तत्राह--वेदेऽप्यक्षप्यं ह वै चातुर्मास्ययाजिन इति।। ननु एवमपि ब्रह्मणि प्रवृत्तेः किमायातमिति तत्राह--अतो विषयभोगान्न नियमेन विराग इति।। ततो न ब्रह्मणि प्रवर्तत इत्यर्थः। विरज्यन् वा चातुर्मास्यादिव्यतिरिक्तविषयाद् विरक्तस्तत्रैव प्रवर्तत इति। मा भूद् ब्रह्मण्येव प्रवृत्तिनियमः; तत्रापि ब्रह्मण्यपि विकल्पेन प्रवृत्तिः स्यादिति, नेत्याह--नापि कूटस्थनित्यवस्त्ववष्टम्भेनेति।। ननु विरुद्धपदार्थतादात्म्याभावेऽपि संयोगलक्षणा ब्रह्मप्राप्तिः स्यादिति, नेत्याह--न तदवाप्तिरिति।। ननु ब्रह्मानन्दोपभोदो विद्यते, न; स्वाश्रयसुखोपलब्धेरुपभोगत्वात्, नच ब्रह्मधर्मस्य सुखस्य जीवाश्रयतयोपलब्धिः संभवति। ननु सुखापरोक्ष्यमात्रमुपभोगः, न स्वाश्रयसुखापरोक्ष्यम्; विशेषणायोगात्, तथाऽपि भेदेनावस्थाने जीव-ब्रह्मणोर्लोके पुरुषान्तरसुखस्य पुरुषान्तरं प्रत्यापरोक्ष्यादर्शनान्नोपभोगः। ननु आत्मैव सुखसंवित्स्वभावः, तद्रूपावस्थानं च मोक्ष इति, न; योग्यानुपलब्धिविरोधात्। नच देवाद्यानन्दपरित्यागेन निरानन्दात्मनाऽवस्थानं मोक्षं कश्चित् प्रार्थयते। तस्मान्न साधनचतुष्टयसंपन्नस्य ब्रह्मणि प्रवृत्तिः, किन्तु कर्मफल इत्युपसंहरति--अतोऽजीर्णभयादित्यादिना।। तत्रोक्ताशङ्कानिराकरणहेतुवचनं भाष्यमवतारयितुमतःशब्देन साधनचतुष्टयस्य हेतुत्वाभिधायिना कथमाशङ्कानिराकरणहेतुभूतं प्रमाणं सूचितमिति पृच्छति--कथमिति।।

                तदाह--यस्माद्वेद एवाग्निहोत्रादीनामिति।। ब्रह्मव्यतिरिक्तपुरुषार्थजातस्यानित्यतां दर्शयतीत्यर्थः। ननु "तद्यथेह कर्मचितो लोकः" इति सामान्यश्रुतिश्चार्तुर्मास्यादिविशेषादन्यत्रैव वर्ततामिति चोदयति--ननु पुण्यस्येति।। तत्र तावच्चातुर्मास्यश्रुतिः सुकृतस्याक्षय्यत्वमाह, न तत्फलस्य; सत्यपि सुकृते फलस्यानुपभोगवत् क्षयोपपत्तेः। तत्र वाक्यस्य श्रुतार्थे परित्यज्य फलाक्षयविषयत्वकल्पना प्रमाणविरुद्धेत्याह--न तस्य वस्तुबलप्रवृत्तेति।। व्याप्तिबलप्रवृत्तेत्यर्थः। अनुमानानुगृहीतश्रुतिविरोध इति योजयितव्यम्। "हिरण्यदा अमृतत्वं भजन्ते" इति श्रुतिर्वर्तमानापदेशाद् योग्यानुपलब्धिविरुद्धा भवति। भजिष्यन्त इति कल्पना पूर्ववत्प्रमाणविरुद्धा, अनुमानानुगृहीतदेवसर्ग-प्रलयश्रुतिविरुद्धा। "अपाम सोममि"ति श्रुतिः, "स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते" इति श्रुतिर्न फलस्य नित्यतां दर्शयति, वाक्यस्य फलविषयत्वकल्पना तु पूर्ववत् प्रमाणविरुद्धा; अविरोधापेक्षत्वात् कल्पनायाः। किञ्च "यदि ह वा अप्यनेवंविद् महत्पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयते" इत्युपक्रम्य "स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते" इति वचनादात्मोपासनाकर्मण एवापरोक्षानुभवद्वारेणाक्षयाविद्यानिवृत्तिफलत्वात्--"न कर्म क्षीयते" इत्युपासनाकर्मप्रशंसामात्रमेतदुपादीयते। अनेवंविदः कर्मक्षयस्य श्रवणादेवंविदाऽनुष्ठितस्याग्निहोत्रादेरेव मोक्षफलतयाऽक्षयो विधीयत इति चेत्, न; लिङ्गस्य "नान्यः पन्था विद्यते" "क्षीयन्ते चास्य कर्माणी" त्यादिनिषेधश्रुतिविरोधात्। तस्माद् ब्रह्मव्यतिरिक्तपुरुषार्थेऽनित्यतया वैराग्यमुपपन्नमिति। ननु दोषस्य तुल्यत्वान्न ब्रह्मण्यपि प्रवृत्तिकारणमेतदित्युक्तम्, तत्राह--यत्पुनर्मुमुक्षुत्वाभाव इति।। विरुद्धपदार्थतादात्म्यमनुपपन्नम्, इत्यनुमानं "ब्रह्म वेद ब्रह्मैव भवती"त्यादिश्रुतिविरुद्धम्; किन्तु बिम्ब-प्रतिबिम्बयोरिव तादात्म्यमुक्तम्।

नच--सुखानुभवाभावादपुरुषार्थ इति--युक्तम्; ब्रह्मानन्दानुभवात्। ननु तादात्म्ये "अहं सुखमि"त्यनुभवः स्यात्, "नाहं सुखी"ति, "अहं सुखी"ति चानुभवो लोके पुरुषार्थ इति, नैष दोषः; सुखापरोक्ष्यमात्रस्य पुरुषार्थत्वात्। ननु स्वाश्रयं सुखमेव पुरुषार्थो न सुखापरोक्ष्यमिति, न; उपलब्धानामेव सुखसाधनानां पुरुषार्थत्वादिष्टत्वाविशेषात् सुखमप्युपलभ्यमानमेव पुरुषार्थ इति गम्यते। तत्र साधनपारतन्त्र्यानित्यत्वादिवद् विषयसुखस्यात्मनो भेदोऽप्यानुषङ्गिको नावभासतेऽहं सुखीति, न पुरुषार्थतया, इत्यतो ब्रह्मानन्दोऽप्यपरोक्षावभासः पुरुषार्थ इति। ननु नास्ति नित्यं सुखमिति नैयायिकादयः, सत्यम्; नास्त्येव जन्यमपि सुखम्। ननु साधनोपादानाद् जन्यताऽवगम्यते, न; सिद्धस्यैव सुखस्याभिव्यक्तिहेतुत्वात्, अन्यथा सुखसन्तानजन्म-प्रतिभासयोग्यत्वयोः साधनाधीनताकल्पनागौरवात् साध्यान्तराशेषतया वाऽव्यभिचारित्वेन वा निरुपाधिकप्रेमात्पदत्वेन वा सुख-दुःखावस्थयोरविशेषेण सुखरूप आत्मा प्रत्यक्षेणावभासते। यस्मादतःशब्देन शङ्खानिराकरणहेतुसूचनद्वारेण साधनकलापस्य हेतुत्वं समर्थितम्, 2तस्माद्यथोक्तसाधनेत्युपसंहारः।2 तत्रेच्छाप्राधान्येन सूत्रवाक्यार्थो दर्शितः। साधनचतुष्टयस्यावश्यारम्भकत्वं व्यतिरेकमुखेन दर्शितम्, इदानीमन्वयमुखेन तदेव प्रतिपादयति--यतो द्वैतानुषङ्गादित्यादिना।। ननु साधनकलापवद् धर्मजिज्ञासाऽपि नियमेनारम्भिकेति, नेत्याह--एवं सत्यर्थादिति।। आगमार्थापत्तिभ्यामेव धर्मकलापस्यावश्यारम्भकत्वेऽसिद्धे तदुभयप्रमाणविकलस्य धर्मविचारस्य न हेतुतेत्यर्थः।।

                2ब्रह्मणो जिज्ञासेति भाष्यम्।2 ननु धर्माय जिज्ञासेतिवत् चतुर्थीसमासः किं न स्यादिति अत्राह--अन्तर्णीतविचारार्थान्वये हीति।। इच्छाप्राधान्ये हीच्छायाः कर्मप्रयोजनयोरैक्यात् प्राधान्यात् कर्मणि षष्ठीसमासः स्यात्, विचारप्राधान्ये तु कर्म-प्रयोजनभेदात् प्रयोजनविवक्षया तु चतुर्थीसमासोऽपि स्यादिति। ननु किं तद् ब्रह्म यदिच्छायाः प्रयोजनतया कर्मत्वेन वर्तत इति, तदाह--ब्रह्मशब्दस्यार्थनिर्देशावसर इति।। "तत्र यदन्यैरि"त्यारभ्य "ब्रह्मण इति कर्मणि षष्ठी"त्यतः प्राक्तनेन ग्रन्थेन जाति-जीव-कमलासन-शब्दराशीनां ब्रह्मशब्दाभिधेयतया जिज्ञासां प्रति कर्तृत्वेन कर्मत्वेन वा प्रतिपादनानुपपत्तेरस्मिन् प्रयोगे न ब्रह्मशब्दस्य जात्याद्यर्थतेति दर्शितम्।।

                तत्र "ब्रह्मण इति कर्मणि षष्ठी"त्यारभ्य किञ्च शास्त्रप्रवृत्तिरेवेत्यतः प्राक्तनेन ग्रन्थेनाप्रधानविचारान् शब्देन मुख्यया वृत्त्योपादाय प्रधानस्यार्थाक्षेपकल्पनाद् वरं मुखतः प्रधानविचारमेवोपादायाप्रधानविचाराणामर्थाक्षेपकल्पनमिति कर्मणि षष्ठी दर्शिता। शेष इति संबन्धसामान्यमुच्यते, न कारकपञ्चकव्यतिरिक्ताः संबन्धविशेषा उच्यन्ते। तत्र यथा देवदत्तस्य स्वमिति षष्ठी विशेषसंबन्धेऽप्यन्विताभिधानमर्हति, एवं "देवदत्तस्य गच्छति" "देवदत्तस्य गम्यते" इत्यादिकारकसंबन्धविशेषेऽप्यन्विताभिधानं नार्हति, किंत्वभिहितसंबन्धसामान्ये; सामर्थ्याद्, क्वचित् कारकसंबन्धविशेषश्चार्थतोऽवगम्यत इति। एतावता "षष्ठी शेषे" इत्युक्तम्, नार्थादपि कारकसंबन्धाप्रतिभास इत्युक्तमिति पूर्ववादिनो मतम्। "किंच शास्त्रप्रवृत्तिरेवेत्यारभ्य ज्ञातुमिच्छा जिज्ञासे"त्यतः प्राक्तनेन ग्रन्थेन साधिकारविषयस्य विचारविधेः प्रतिपादके वाक्ये ब्रह्मणः कर्मकारकत्वं निर्दिष्टम्, सूत्रस्य च तदेकार्थत्वात् तत्रापि ब्रह्मणः कर्मत्वमेवमेव शब्देन वक्तव्यमिति दर्शितम्।।

                ज्ञातुमिच्छेत्यादि भाष्यम्। तत्रावगतविषयत्वादिच्छाया ब्रह्मण्यवगते तज्ज्ञानेच्छानुपपत्तेरनवगते सुतरामिति कथं ब्रह्मज्ञानेच्छेति अत आह--ततश्चेच्छायाः फलविषयत्वादिति।। का चेयमिष्यमाणाऽवगतिरिति तदाह--साक्षादनुभव इति।। ननु प्रथममेवावगतिरुत्पद्यते, तत्राह--ज्ञानं तु परोक्ष इति। शब्दात् परोक्षतयाऽवगतेऽपरोक्षज्ञानमिति इत्यर्थः। यदा पुनः शब्दादपरोक्षज्ञानमुत्पद्यते, तत्राह--सन्निहितेऽपीति।। प्रमाणेनावगन्तुमति=अपरोक्षनिश्चयानुभवेनेत्यर्थः।।

                ननु किमिह ज्ञानमित्युच्यते संवेदनमेव प्रमाणफलं विज्ञानमिति सुगत-प्रभाकर-वैशेषिक-नैयायिकाः। नच संवेदन-फल-चतुष्टयसन्निकर्षादि सामग्र्यं चान्तरेण प्रमातृव्यापारो नाम ज्ञानमस्तीति। वार्तिककारीयाणां तु प्रमातृव्यापारः संविज्जनको ज्ञानमिति। क्षपणक-लोकायतिकानां चात्मचैतन्यमेव ज्ञानम्। साङ्ख्य-वेदान्तिनां करणव्युत्पत्त्या बुद्धिवृत्तिर्ज्ञानम्, भावव्युत्पत्त्या संवेदनमिति। तत्र न तावत् स्थायिन्यात्मनि संवित्फलोदयः

कर्तृव्यापारमन्तरेणोपपद्यते। ननु यतः कारणात् कर्तृव्यापारजन्म, तत एवानुभवजन्म स्यात्, आत्मनः परिस्पन्दव्यापारानुपपत्तेरिति। अयमत्र वक्तव्यः-किं लोके कर्तृव्यापारात् फलजन्म प्रत्यक्षेणावगतम् न वेति न चेद् व्याप्तिग्रहणाभावादप्रत्यक्षत्वाच्च न सर्वत्र कर्तृव्यापारावगमः स्यात्। अवगम्यते च लोके कर्तृव्यापारः। अथ लोके फलहेतुतया प्रत्यक्षसिद्धः कर्तृव्यापारः, तर्ह्यात्मन्यपि तदनुमीयते; व्याप्तिनियमात्। ननु न परिणामो नाम व्यापारोऽस्ति, आरम्भाभ्युपगमादिति वैशेषिकादयः, तर्हि प्रयत्नव्यापारजन्यं फलमस्तु, कर्तृव्यापारव्याप्तिनियमात्फलस्य। ननु मनःसंयोगादेवासमवायिकारणाद् व्यापारमन्तरेण ज्ञानमुत्पद्यते, न; करणसंयोगव्यतिरेकेण फलजन्मनि कर्तृव्यापारदर्शनात्। अत्र सर्वसङ्करवादी विलपति--पाकादिषु फलस्य कर्तृव्यापाराधीनतादर्शनात् तत्र तथाऽवगम्यताम्, इह तु तद्दर्शनाभावान्न कर्तृव्यापारः--इति, स चानुमानप्रक्रियायामनभिज्ञ इत्यपेक्ष्यते। सुगतानामपि नित्यात्मसाधनादेव संविदां कर्तृव्यापारापेक्षाऽनुमीयते। क्षपणकानामपि स्वरूपचैतन्यस्य निरुपाधिकस्य विषयावभासित्वे सर्वदा सर्वविषयावभासः स्यात्। लोकायतस्य च जन्यसंवेदनत्वात् तद्व्यापारानुमानम्। ननु सर्वगतस्य निरवयवस्यात्मनो न परिस्पन्द-परिणामौ युक्तौ, सत्यम्; अध्यासपरिनिष्पन्नान्तःकरणसम्पिण्डितस्यात्मनो ज्ञानाकारपरिणामात्। नच संवेदनाकारेण परिणामः; तस्य नित्यसिद्धत्वात्; अतोऽन्तःकरणपरिणामविशेषश्चैतन्यस्य विषयावच्छेदोपाधिः करणव्युत्पत्त्या ज्ञानम्, भावव्युत्पत्त्या तु संवेदनमेवार्थप्रकाशो ज्ञाप्तिर्ज्ञानमित्युच्यते। तत्रार्थोपाधि, अपरोक्षसंविदवच्छेदकं ज्ञानमपरोक्षम्, इति तत्रावयवार्थव्युत्पादनेनापरोक्षावगमेच्छाया वाक्यार्थत्वमुक्तम्।

                इष्यमाणज्ञानफलोपदेशमुखेनान्तर्णीतं तत्साधनं विचारं कर्तव्यतया वाक्यार्थं प्रतिपादवत्युत्तरं भाष्यम्। तस्य तात्पर्यं दर्शयितुमाशङ्कान्तरं निवर्तयति। कथम् नास्य सूत्रस्य वाक्यार्थो वर्णनीयः। तथाहि--अस्य सूत्रस्य शास्त्रान्तर्भूतत्वे विचारारम्भकर्तव्यता। विचारसूत्रस्य केनारम्भः क्रियते स्वेनैव चेत्, आत्माश्रयतापत्तिः; सूत्रान्तरेण चेत्, अनवस्थापातः, अथानन्तर्भूतम्, तर्हि प्रथमसूत्रस्याशास्त्रतयाऽनारम्भप्रसङ्ग इति, तत्राह--तदेतच्छास्त्रान्तर्भूतं सूत्रमिति।। आपातप्रतिपन्नोत्तरविचारविधिरेव स्वापेक्षितविचाराय प्रथमसूत्रमारम्भयति। विधौ च विचारिते विधिविषयविचारसूत्राणि पश्चादारम्भयतीत्येकशास्त्रत्वेऽपि नानवस्था। श्रोतव्यादिवाक्यानां स्वार्थे समन्वयद्वारेण विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयनिमित्तत्वासमन्वये च संबन्ध इति। अत्र च श्रुत्या किं प्रतिपादितमिति तदाह--अनेन चेति।।

                "प्रयोज्यः" इत्यधिकारी। एकस्या इति।। साधनकलापस्येति। तस्य कारणान्तरमदृष्टं यज्ञादि दृष्टञ्च व्याप्त्यनुसंधानादि। अर्थादुपात्तमिति।। आनन्तर्याभिधानसामर्थ्यादिति। अतः शब्दस्य मुखतो हेतुत्वाभिधायिनोऽप्याशङ्खान्तरनिवृत्तौ तात्पर्यादर्थाद्धेतुत्वमुक्तम्, इत्यनुवादे प्रयोजनाभावात् कर्तव्यपदमध्याहृत्य जिज्ञासा कर्तव्यतया श्रुत्याऽभिहिता। ननु इच्छासंयोगाद् ज्ञानस्य साध्यतावगमात् तदेव कर्तव्यमस्त्विति, नेत्याह--तत्र जानात्येवेति।। इष्यमाणस्य साध्यता स्वयं सिद्धा, न शब्दमपेक्षते; सुखसंवेदनत्वादित्यर्थः। किं तर्हि विधीयत इति तदाह--उपायं तु न वेदेति।।

                अनवगताभिलषितोपाय एव विधिशब्दैः प्रतिपाद्यत इत्यत इत्यर्थः। अदृष्टोपायत्वेऽप्यपरोक्षानुभवं प्रत्यदृष्टोपायताऽपि दर्शिता श्रवणादिविधेः। ननु--पदार्थव्याख्यानादेव स्वयमेव वाक्यार्थं प्रतिपद्यते, किं वाक्यार्थकथनेन सत्यम्; संबन्धादीनामर्थात् प्रतिभासो वाक्यार्थकथनेन भवतीत्याह--शास्त्रस्य संबन्धाभिधेयप्रयोजनानीति।। मुमुक्षुणा ब्रह्मानुभवाय विचारः कर्तव्य इति वाक्यार्थः। कथमत्रार्थात् संबन्धादिप्रतिपत्तिः तदाह--एतदुक्तं भवतीत्यादिना।। ननु ब्रह्मज्ञानद्वारेण काम्यमानमोक्षसाधनं विचारः, इति फलसंबन्धे सिद्धेऽपि कथं विषयादिसिद्धिरिति तत्राह--अर्थाच्छास्त्रस्येति।।

                   इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्यस्वप्रकाशानुभवभगवतः कृतौ

              पञ्चपादिकाविवरणे2 प्रथमसूत्रार्थवर्णनं नाम2 तृतीयवर्णकं समाप्तम्।।