पञ्चपादिकाविवरणम्/द्वितीयवर्णकम्
← १ अध्यासभाष्यम् | पञ्चपादिकाविवरणम् श्रीप्रकाशात्मयतिः |
३ प्रथमसूत्रार्थवर्णनम् → |
तत्र उक्तस्तावद्विचारविधेः फलानुबन्धो व्यवहितविषयब्रह्मात्मतानुबन्धश्च; इदानीमव्यवहितविचारविषयानुबन्धमन्यत एव अप्राप्तानुष्ठानं दर्शयितुं प्रथममाक्षिपति--सिद्धैव ननु ब्रह्मजिज्ञासेति।। वेदान्तानामर्थनिर्णयापेक्षितो न्यायकलापः "अथातो धर्मजिज्ञासा" इत्यादिसूत्रैः सूत्रित इत्यर्थः।।
ननु विधिवाक्यार्थनिर्णयस्तत्र प्रवृत्तः इत्याशङ्क्याह--सकलवेदार्थस्य विचारितत्वादिति। वेदस्य कार्यमात्रपरत्वादित्यर्थः। ननु--वेदान्ततात्पर्यात् ब्रह्मावगम्यते, न कार्यम्, अनवगम्यं च न वाक्यप्रमेयमिति, तत्राह--ब्रह्मज्ञानस्य चेति।। ननु क्रियाविधिकलापो निरूपितः, ज्ञानविधिनिरूपणायेदमारभ्यत इति, नेत्याह--अतः सिद्धैवेति।। उत्पत्तिविनियोगप्रयोगाधिकाराणां विध्यपेक्षितरूपाणां क्रियाप्रतिपत्त्योः अविशेषेण निरूपितत्वादित्यर्थः।।
ननु--यथा प्रथमेऽध्याये वेदस्य प्रामाण्यं निरूपितम्; द्वितीये कर्मोत्पत्तिविधिभेदः; तृतीये विहितानामङ्गाङ्गिभावो निरूपितः; चतुर्थे क्रतुपुरुषार्थप्रयुक्तानुष्ठेयपरिमाणम्; पञ्चमे अनुष्ठानक्रमः; षष्ठे
विध्यपेक्षितोऽधिकारनिर्णयः; इति पूर्वषट्केन प्रकृतिविध्यपेक्षितो विचारः कृतः। समग्राङ्गसंयुक्तो विधिः प्रकृतिः विकलाङ्गसंयुक्तो विकृतिरित्युच्यते। तत्र सप्तमेन प्रकृत्युपदिष्टानामङ्गानां विकृतावतिदेशो निर्णीतः। अष्टमे तु "आग्नेयोऽष्टाकपालः" इत्यादिप्रकृत्युपदिष्टानामङ्गानां "सौर्यं चरुं निर्वपेत्" इत्यादिविकृतौ द्रव्यदेवतादिसामान्यद्वारेण विशेषातिदेशो निरूपितः; नवमे तु प्रकृत्युपदिष्टमन्त्रसामसंस्कारकर्मणां विकृतावतिदिष्टानां प्रकृतिविकृत्योर्द्रव्यदेवताभेदे सति प्रकृतिगतद्रव्यादिशब्दं विहाय विकृतिगतद्रव्यादिशब्दाध्याहारलक्षण ऊहो दर्शितः; यथा--"अग्नये जुष्टम्" इति मन्त्रस्य विकृतौ "सूर्याय जुष्ट"मिति पदप्रक्षेपः; दशमे तु विकृतावतिदिष्टानामङ्गानां प्रकृतौ सावकाशानां विकृतिगतविशेषाङ्गोपदेशादिना बाधो दर्शितः, यथा प्रकृतेः विकृतावतिदेशप्राप्तानां बर्हिषां "शरमयं बर्हि"रिति विकृतौ विशेषोपदेशेन बाधः; एकादशे तु अनेकशेषिविधिप्रयुक्तस्य शेषस्य सकृदनुष्ठानादेव सर्वशेषिणामुपकारसाम्यं तन्त्रं नामोक्तम्-- यथा "यदाग्नेयोऽष्टाकपालः" "उपांशुयाजमन्तरा यजति" "अग्नीषोमीयमेकादशकपालम्" इति च पौर्णमासकर्मत्रयप्रयुक्तस्य प्रयाजादेः सकृदनुष्ठानादेव शेषित्रयोपकारः इति; द्वादशे तु एकशेषिप्रयुक्तस्य शेषानुष्ठानस्य अप्रयोजकसामर्थ्ययुक्तशेष्यन्तरेऽपि उपकारः प्रसङ्गो नाम दर्शितः--यथा पशुविधिप्रयुक्तानामङ्गानां पशुपुरोडाशेऽप्युपकारः। तदेवं प्रत्यध्यायमाशङ्कान्तरनिराकरणेन विध्यंशभेदो निरूपितः, तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्यक्षादिभिरसिद्धत्वात् प्रतिपत्तिविध्ययोगाशङ्कायां तन्निराकरणाभेदमारभ्यत इति, तत्राह--अधिकाशङ्काऽभावादिति।। यूपाहवनीयादिवत् ब्रह्मणः सिद्धिः, असिद्धौ वा आरोपितरूपेणैवोपासनसिद्धिरित्यर्थः।।
अत्र पूर्ववादी सिद्धान्त्येकदेशीयान् दूषयितुं वेदान्तानां विधिनिष्ठत्वमङ्गीकृत्यैव या अभ्यधिकाशङ्का तन्निराकरणायैव तेषामारम्भप्रकारं दर्शयति--अत्र केचिदिति।। ननु क्वचिदेव विधिश्रवणेऽपि तदाकाङ्क्षितानुबन्धसमर्पणेन व्यवहितमपि वेदान्तवाक्यजातं तदेकवाक्यतया संबध्यते, किं सर्वत्र विधिश्रवणेन इत्याशङ्क्याह--यत्रापि विधिः श्रूयत इति।। तत्रापि विधेरनुपपत्तिरितिभावः।। ननु भावकर्मणोर्विहितानामपि कृत्यप्रत्ययानां "कृत्याश्च इति विधौ स्मरणात् तव्यप्रत्ययेन ज्ञानं विधीयते इति, तत्राह--तत्र यद्यपि कृत्या इति।। तथापीह विधिर्न सम्भवतीत्यर्थः। ननु गन्तव्यमिति गमनविधानवत् ज्ञानं विधीयताम्, सत्यम्--युक्तं भावविषये तव्यप्रत्यये विधानमित्याह--यो भावाभिधायीति।। भाव इति धात्वर्थमात्रमुच्यते। तत् प्राधान्येन स्वतन्त्रफलाय विधातुं शक्यत इत्यर्थः। ननु कर्माभिधायितव्यप्रत्ययादपि धात्वर्थविषयो विधिरवगम्यते--"स्वाध्यायोऽध्येतव्यः" इति, तत्राह--यत्र पुनः कर्म प्राधान्येनोच्यत इति।। तत्रापि स्वतन्त्रफलाय वा कर्म विधीयते किं वा कर्मकारकगतफलाय इति तत्र न तावत् स्वतन्त्रफलायेत्याह--तत्र द्रव्ये गुणभूतामिति।। अथ कर्मकारकसमवायिफलाय विधिः तत्राह--द्रव्यपरत्वे इति।। नन आत्मनि विहितक्रियासामर्थ्यात् अज्ञानाधर्मादिमलापकर्षः संस्कारः स्यादिति, नेत्याह--संस्कृतस्य चेति।। तत्र "सक्तून् जुहोति" इति क्रतुप्रकरणे श्रवणात् क्रत्वङ्गता सक्तुहोमस्य अवगता।।
तत्र अङ्गानि च द्विविधानि--अर्थकर्माणि संस्कारकर्माणि च।। क्रतूपकारकाण्यनाश्रित्य स्वातन्त्र्येण विहितानि प्रयाजादीन्यर्थकर्माणि, व्रीह्यादिकारकगुणभूतानि संस्कारकर्माणि। तत्र न तावत् सक्तुहोमस्य अर्थकर्मता; सक्तुद्रव्यस्य गुणभूतत्वात् प्रोक्षणादिवत्। संस्कारकर्म च द्विविधम्--विनियुक्तसंस्कारः--यथा "व्रीहिभिर्यजेत" इति विनियुक्तव्रीहीनुद्दिश्य प्रोक्षणादिसंस्कारः, कश्चिद्विनियोक्ष्यमाणसंस्कारः--यथा "आहवनीये जुहोति" इति विनियोक्ष्यमाणस्य आधानेन संस्कारः; संस्कृतस्य विनियोग इत्यर्थः। तत्र होमेन भस्मीकृतानां सक्तूनामुभयथापि क्रतौ विनियोगाभावात् वैयर्थ्यायोगाच्च संस्कारकर्मत्वं परित्यज्य "सक्तूनि"ति प्राधान्यं च विहाय सक्तुभिरिति गुणभावेन कर्मप्राधान्यमुपादाय अर्थकर्मता निरूपिता यथा; तथा "आत्मानमिति" साध्यतया प्राधान्यं विहाय "आत्मनोपासीत" इति गुणत्वोपगमेन स्वतन्त्रफलायोपासनं प्राधान्येन विधीयतामिति शङ्कते--अथ पुनर्विपरीत इति।। तत्र यथा होमप्राधान्येऽपि सकर्मकत्वाद्धातोः सक्तव एव कर्मकारकतया भस्मीक्रियन्ते, एवमवगमस्यापि सकर्मत्वादर्थतः कर्माभावे न विधानमिति परिहरति--तत्रापि न ज्ञायत इति।। शब्दतः करणत्वेऽप्यर्थतः
कर्मता आत्मन एवेत्याशङ्कते--अथ ज्ञायत इति।। तर्हि कर्मकारकत्वे सति आत्मनि कश्चिदतिशयो वक्तव्यः, तदभावान्निष्कर्मकं ज्ञानं न विधातुं शक्यत इत्याह--एवं तर्हि तदेवायातमिति।। ननु अवभास्यतया अवाप्तिरात्मनि विधेयक्रियाफलमिति, नेत्याह--तच्च कृतकरणमनर्थकमिति।। नित्यचैतन्येन प्रतीतितोऽवाप्तत्वात् न ज्ञानकर्मता इत्यर्थः।।
अपरे पुनः इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।। अविद्याधर्मादिनिवृत्तिः संस्कारः, न च संस्कृतस्य अन्यत्र विनियोगाकाङ्क्षा; स्वयंपुरुषार्थत्वात् पुरुषार्थसंस्कारस्य च विनियोगापेक्षत्वात् तदर्थमारभ्यते इति पृथगारम्भवादिनो मतम्।।
अपरे पुनरेवमारभन्ते इत्यादेरयमर्थः--प्रतिपत्तिविध्यपेक्षितोऽपि चतुर्विधो न्यायः प्रथमतन्त्रे निरूपितः। तत्र तद्विषयस्य ब्रह्मणो निरूपणाय शास्त्रमारब्धव्यम्स, तच्च न संभवति ; ब्रह्मणि प्रमाणाभावात् इति।।
अत्रोच्यते इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः। अधिकारिनियोगविषयतयेति।। अयमर्थः--ज्ञानस्य फलसम्बन्धोऽवगम्यते, तत्फलकामिना तदनुष्ठेयम्, नियोगाच्च अनुष्ठानमिति फलकामिनियोगविषयता अवगमादिति भावः।।
अत्रोच्यते इत्यादिना आरम्भद्वयं पूर्ववादी निराचष्टे। यदि लोके कृत्यप्रत्ययो न नियोगं गमयतीति शङ्कते तन्नास्तीत्याह--तत् स्वयमेवेति।। अथ वेदे, तत्राह--प्रसिद्धं चैतदिति। अतः प्रथमसूत्रेण अध्ययनविधिमङ्गीकुर्वतां गत एवायं विचार इत्यर्थः। ननु चतुर्विधस्य इत्यादिरुक्तार्थः। करणत्वेऽपि च आत्मन एव कर्मकारकत्वे स्वतोऽपरोक्षतया नित्यसिद्धस्य विधेयक्रियाजन्यप्रतिभासायोगात् अकर्मत्वात् निष्कर्मकं ज्ञानं न विधातुं शक्यमित्युक्तमित्याह--तदपि नेति।। आत्मनि चतुर्विधफलाभावादकर्मत्वेऽपि कर्तृसमवायिमोक्षफलाय तदवभासिज्ञानसन्ताननियमविधिः स्यात्;यथा "हिरण्यं बिभृयादि"ति पक्षे अप्राप्तस्य नियमविधिरभ्युदयः, तद्वदित्याह--सिद्धस्यैवेति।। ननु अवस्थात्रयेऽपि ज्ञानसन्तानाविच्छेदान्न नियमविधिरित्याह--ननु न विधानतोऽपीति।। तर्हि अनात्मप्रतिभासनिवृत्तये परिसङ्ख्याविधिरदृष्टार्थः स्यादित्याह--एवं तर्हीति।। अतो गतार्थत्वात् न अधिकाशङ्केति भावः। सत्यपि ज्ञानविधाने प्रयोजनाभावात् न शास्त्रारम्भ इत्याह--यत् पुनरात्मज्ञानादित्यादि।। न च अनर्थनिवृत्तौ स्वयमहेतुरपि ज्ञानसन्तानो विधानादनर्थं निवर्तयति; विशेषाभावादित्यर्थः। तर्हि अलौकिकात्मतत्त्वज्ञानमविद्यादिदोषनिवृत्तिफलं विधीयतामित्याशङ्कते--अथ पुनरहंप्रत्ययावसेयादिति।। न; अत्यन्तमसिद्धमुद्दिश्य विधानानुपपत्तेरित्याह--तदसत्; विधिर्हीति।। यथा सामान्यप्रसिद्धं यागमुद्दिश्य पूर्वानुभूतयागव्यक्तिसदृशं व्यक्त्यन्तरं बुद्धिस्थमेव विधीयते, एवमलौकिकात्मज्ञानं सामान्यतः प्रसिद्धमुद्दिश्य पूर्वानुभूतज्ञानव्यक्तिसदृशं व्यक्त्यन्तरं बुद्धावाकलय्य तत् कर्तव्यतया विधेयमित्यर्थः। ननु ज्ञानसामान्यस्य लोके सिद्धत्वात् तदुद्देशेन विधाने तद्व्यक्तित्वेन अलौकिकात्मज्ञानं कर्तव्यतया प्रतीयतामिति, नेत्याह--तद्यदि नाम ज्ञानमिति।। तादृगात्मज्ञानस्य ज्ञानसामान्यव्यक्तित्वेनाप्रसिद्धत्वात् तादृशं ज्ञानं कर्तव्यतया बुद्धावरोपयितुं न शक्यमित्यर्थः। अथ तादृगात्मज्ञानं सिद्धम्, किं स्वात्मनि पुरुषान्तरे वा पुरुषान्तरे चेत्, अन्यस्य अधिकारिणः तदप्रतिपत्तेः न तादृशं व्यक्त्यन्तरं कर्तव्यतया बुद्धावारोपयितुं शक्यम्। अथ स्वात्मनि तत्राह--किं विधिनेति।।। यदपि मतान्तरं इत्यादिरुक्तार्थः। तद्विचाराय=ब्रह्मविचाराय शास्त्रारम्भ इत्यर्थः।।
अपरं मतमिति।। स एव प्रतिपत्तिविधिवादी स्वपक्षमुपपादयति--सत्यम्, कार्यपरादपि वेदात् ब्रह्मणोऽपि प्रतिपत्तेः युक्तः प्रतिपत्तिविधिरित्याह--ननु तावन्मात्र इति।। ननु--विरुद्धमिदं, अर्थान्तरपरात् शब्दादर्थान्तरप्रतिपत्तिरिति, तत्राह--तस्मिन् सतीति।। विधिप्रमाणात् विधिसंसृष्टतया अन्येऽपि पदार्थाः तदपेक्षिताः प्रमीयन्ते इत्यर्थः। यथा रूपविषयस्य चक्षुषः तत्संसर्गि सर्वं विषयः इति दृष्टान्तमाह--यथा रूपे सतीति।। ननु "द्रष्टव्यः" इत्यादिना नापरोक्षज्ञानं विधेयम्; सुखसंवेदनतया स्वर्गादिवत् पुरुषार्थस्य अविधेयत्वात्, नापि शाब्दज्ञानम्; तत्र विधेरश्रवणात् इति चोदयति--कथमिति।। अस्ति शाब्दज्ञाने विधानमित्याह--उच्यत इति।। ननु इदं वाक्यमात्मनः अनात्मरूपताविधानपरम्; अतोऽपुरुषार्थत्वान्न विधेयमिति, नेत्याह--न तावत् सर्वरूपतेति।। प्रतिपन्नमुद्दिश्य अप्रतिपन्नात्मरूपस्यैव विधानादित्यर्थः।
दूषणान्तरमाह--यदि सर्वरूपता आत्मन इति।। किं तर्हि विधीयते इति अत आह--अतः सर्वस्येति।। "नेतिने"त्यादिवाक्यपर्यालोचनयाप्यनात्मोपमर्देन आत्मैव विधेय इत्याह--अनात्मस्वरूपविलयेनेति।। ननु आत्मनोऽद्वितीयत्वप्रतिपादनपरमिदं वाक्यम्, न तत्र ज्ञाने वस्तुनि वा विधिरवगम्यते इत्याह--ननु अत्र विधिर्न श्रूयत इति।। "पूषा प्रपिष्टभागः" इत्यादाविव कल्प्यतामित्याह--कल्प्यतां तर्हीति।। किं प्रतीते विध्यर्थे इत्यादेरयमर्थः--कालत्रयानवमृष्टे अनुष्ठानयोग्ये कर्मणि शब्दसामर्थ्यात् प्रतिपन्ने तदन्यथानुपपत्त्या च कर्तव्यरूपे नियोगे अवगते विधायकपदार्थे पश्चाद्विधिर्विधायकपदं कल्प्यते किं वा एवंविधार्थेऽप्रतिपन्ने अननुष्ठेये वस्तुमात्रे च प्रतिपन्ने विधिपदं कल्प्यते इति प्रतीते चेत्, प्रमितये अनुवादाय वा पदं कल्प्यते नानुवादेन प्रयोजनम्। प्रमितये चेत्, तत्राह--प्रतीते कल्पनावैयर्थ्यमिति।। प्रतिपादकतया लिङादिपदकल्पनावैयर्थ्यमित्यर्थः। अननुष्ठेयवस्तुप्रतिपत्तौ विधिकल्पनाहेत्वभावात् न तत्र पदादनुष्ठेयप्रतिपत्तिरित्याह--अथाप्रतीत इति।। अर्थवादसंसर्गेष्वपि कल्पनाप्रसङ्गादिति भावः।
ननु विकल्पदुषणयोः सर्वत्र अविशेषात् न क्वचिदपि विधिकल्पनमिति मन्वानश्चोदयति--ननु अश्रूयमाणेति।। तत्र द्रव्यदेवतासम्बन्धः कालत्रयानवमृष्टः प्रमीयमाणः स्वाविनाभूतं यागं गमयति, यागश्च स्वाविनाभूतं नियोगमिति श्रुतसामर्थ्यादेव विध्यर्थः प्रतिपन्नः, तत्र व्यवहारमात्राया पूषोद्देशेन पिष्टद्रव्यत्यागः कर्तव्य इत्युपसंह्रियते, न तथेह श्रुतसामर्थ्याद्वित्यर्थः प्रतिपन्न इत्याह--सत्यम् युक्तं तत्रेति।। ननु इहापि श्रुतस्य आत्मनः सामर्थ्यात् नियोगः प्रतिपन्न इत्याह--नन्विहाप्यात्मपदमिति।। न; यागनियोगयोः नियोगप्रतिपत्तारमन्तरेण अनुपपत्तिवत् प्रतिपत्तुर्नियोगमन्तरेण अनुपपत्त्यभावादित्याह--नैतत् सारम्; नियोगो हीति।।
ननु यः कश्चित् वेदे संसर्गः प्रतिपन्नः, स साक्षात् परम्परया वा नियोगसंसृष्ट एव; "वायुर्वै क्षेपिष्ठः" इत्यादावपि परम्परया विधिसंसर्गाभ्युपगमात्, तत्र सर्वस्य आत्मस्वभावताप्यविनाभावात् विधिमुपस्थापयतीति, तत्राह--अथापि भवतु नामेति।। भावार्थविषयत्वात् नियोगस्य नासौ भूतसंसर्गविषय इति भावः। एवं तर्हि भावार्थोऽपि विधिविषय संसर्गमात्रेण अविनाभूतः, इति सोऽपि कल्प्यतामित्याह--धातुनैव सह कल्प्यत इति।।
सर्वधात्वर्थदोषविवक्षया पृच्छति--कोऽसाविति।। प्रथमं सर्वधात्वर्थसामान्यातिलङ्घने कारणाभावात् कृतिधातुमुस्थापयति--यदि तावत् कर्तव्यमिति।। तत्र दूषणमाह--तत्रानात्मनस्वभावतेति।। प्रपञ्चविलयनेनैव ह्यात्मदर्शनमिति भावः। दूषणान्तरमाह--इतिकर्तव्यतया चेत्।। शमादयस्तु ज्ञानेतिकर्तव्यम्, न प्रपञ्चविलयनेतिकर्तव्यमित्यर्थः। धात्वन्तरमाह--अथेति।। दूषयति--एवमपीति।। न हि योषिदादिषु अग्न्यादिभावेन ज्ञायमानेषु योषिदादिभावो निवर्तते; विधेयबुद्धेः अप्रामाणिकत्वादिति भावः। उभयथापि धात्वर्थविधौ दूषणान्तरमाह--अशक्यार्थोपदेशश्चेति।।
ननु योषिदग्न्यादिषु मानसी क्रिया, ज्ञानं तु विधीयमानमनात्मानं निवर्तयतीति, तत्राह--न हि वस्तु वस्त्वन्तरात्मनेति।। तर्हि पुरुषस्वरूपप्रविलयनेन स्थाणुनिश्चयप्रमाणवत् अनात्मप्रविलयेन आत्मनो निश्चायकं प्रमाणज्ञानमन्यतः प्राप्तमनूद्यविधिमात्रमध्याह्रियते इत्याह--एवं तर्हि ज्ञातव्य इत्यादिना।। तर्हि विधिवाक्यार्थमितिव्यतिरेकेण ब्रह्मसंवेदनस्य अन्यतः प्राप्तस्य अनुवादो वक्तव्यः, न च प्रमाणान्तरमस्तीत्याह--कुतः प्राप्तेरिति।। ननु विधायकपदव्यतिरिक्तेभ्यो वेदन्ताभिधानेभ्य इत्याह--अभिधानत इति।। तर्हि विधिनिमित्तप्रतिपत्तिमनपेक्ष्य अभिधानप्रमाणादेव ब्रह्मसंवेदने सिद्धे न विधिना कृत्यमित्याह--एवं तर्हि विधानमनर्थकमिति।। ननु निष्पन्नेऽपि संवेदने पुनः तादृशं व्यक्त्यन्तरं चोद्यते इत्याह--पुनः कर्तव्यतयेति।। ननु किं तेन कार्यम् पूर्वेणैव प्रयोजनसिद्धेरिति, तत्राह--यथा मन्त्रेष्विति।।
अयमर्थः--मन्त्राः स्वाध्यायविधिनैव उपात्ता गृहीतपदपदार्थसम्बन्धस्य स्वार्थे प्रत्ययमुत्पाद्य व्यवस्थिताः स्वार्थस्य अननुष्ठेयत्वात् ब्राह्मणवाक्यैश्च प्रमितत्वात् प्रवृत्तिनिवृत्तिप्रयोजनशून्या व्यवतिष्ठन्ते। तत्र--"ऐन्द्र्या गार्हपत्यम्" "बर्हिर्देवसदनं दामि" "इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते" इत्यादिश्रुतिलिङ्गवाक्यादिभिः व्रीह्यादिवत् कर्माङ्गभावेन विनियुक्ताः प्रधानापूर्वनिर्वृत्तिद्वारेण प्रयोजनवन्तो मन्त्रा इत्युच्यन्ते। तत्र मन्त्राः केन
उपकारेण अपूर्वसिद्धेरुपकुर्वन्तीति वीक्षायामध्ययनविधेरर्थज्ञानार्थत्वात् दृष्टोपकारे सति अदृष्टकल्पनानुपपत्तेः तेषु अनुष्ठानकाले प्रतिपत्त्यपेक्षस्य द्रव्यदेवतादेः प्रतिपत्तिमुत्पाद्य तद्द्वारेण अपूर्वस्य उपकुर्वन्तीति कल्प्यते। ततश्च मन्त्रैरेवानुस्मृत्यानुष्ठाने अपूर्वसिद्धिः, न ब्राह्मणवाक्यैरिति, गम्यते। तत्र प्रयोगविधिः अङ्गैरपूर्वोपकारं कारयन् मन्त्रैरर्थज्ञानं कारयतीति। तत्र यथा प्रयोगवचनो मन्त्रैः प्रथमोत्पन्नज्ञानातिरिक्तमपूर्वोपकारि ज्ञानान्तरमनुष्ठापयति, एवं ब्रह्मसंवेदनमपरमनुष्ठीयते मोक्षफलायेति।।
ननु युक्तं तत्र स्वार्थे प्रत्ययमुत्पाद्य निवृत्तानां मन्त्राणां श्रुत्यादिविनियोगसामर्थ्यात् प्रयोगवचनेन ज्ञानस्य पुनः कर्तव्यत्वम्, न च आत्मज्ञाने प्रयोगवचनोऽस्तीत्याह--प्रयोगवचनस्तत्र विधायक इति।। इहापि तर्हि स सम्पाद्यते इत्याह पूर्ववादी--इहापि प्रयोगवचनो विधायक इति।। कथम् "वेदान्तवाक्यैः आत्मज्ञानं कुर्यादि"ति वेदान्तशब्दकरणविशिष्टोत्पत्तिविधिस्तावदध्याहृतः "सोमेन यजेत" इतिवत्। स च विधिः कथं ज्ञानं कर्तव्यमिति इतिकर्तव्यताभेदमीक्षमाणः प्रकरणपठितशमादिविधीन् फलवदात्मज्ञानविधिसन्निहितानितिकर्तव्यतात्वेन विनियोजयन् विनियोगविधिः सम्पद्यते। पुनश्च साङ्गे कर्मणि नियोज्यमधिकारिणं ममेदं कर्तव्यमिति प्रतिपत्तारमाकाङ्क्षन् अर्थवादगतं मोक्षं रात्रिसत्रन्यायेनोपसंहृत्य मोक्षकामो वेदान्तवाक्यकरणैः शमादीतिकर्तव्यतानुगृहीतैरात्मज्ञानं कुर्यादिति स एव विनियोगविधिरधिकारविधिः सम्पद्यते। पुनः स एव साङ्गं तत्त्वज्ञानमधिकारिणमनुष्ठापयन् प्रयोगविधिः सम्पद्यते इति।
पुनश्च सिद्धान्ती मन्त्रेभ्यो वेदान्तानां वैलक्षण्यमाह--ननु मन्त्रेष्विति।। प्रत्ययपरत्वमिति। अपूर्वोपकारिप्रत्ययमात्रे मन्त्राणां तात्पर्यं, नार्थतथात्वे इत्यर्थः। तत्र वेदन्तानां स्वार्थविधिपरत्वं प्रयोजनवदज्ञातार्थावगन्तृत्वादिति। तत्र विधेयप्रत्ययसमर्पणेन विधिपरत्वमज्ञातार्थपरत्वं चोभयं न विरुद्धमित्याह--अन्यार्थमपि प्रकृतमिति।। ननु स्थायिपदार्थानां क्रमेण वा युगपद्वा अनेकानि कार्याणि सम्भवन्ति, शब्दस्य तु तात्पर्यात् सकृत् कार्यहेतोः कथमुभयपरत्वम् इति तत्राह--यथा वा पदार्थानामिति।। सिद्धान्ती ब्रह्मण्याभिधानिकप्रथमप्रत्ययोपगमेनैव पुरुषार्थसिद्धेः न मन्त्रेष्विव विधिशेषतया द्वितीयप्रत्ययाय उत्पत्तिविनियोगाधिकारप्रयोगविधिकल्पनं अपेक्ष्यते इति दर्शयितुं मन्त्रेभ्यो वैलक्षण्यमाह--तदेतदनिरूपितमिवेति।। विधिविषयसमर्पणेन विधिप्रमितशेषस्य योषिदग्न्यादिवाक्यस्य तज्जन्यज्ञानस्य वा प्रमेयपरत्वादर्शनादिति वाक्यशेषः। ननु लौकिकप्रमाणगम्यत्वात् प्रमेयस्य तत्परत्वाभावः, इह तु विधिब्रह्मणोरलौकिकत्वादुभयपरत्वं स्यादिति, नेत्याह--न च युगपदुभयमिति।। ज्ञानं प्रति ब्रह्मणः प्रमेयतया प्राधान्यम्, विधेयज्ञानविशेषणतया गुणभावः, प्रमेयत्वादुपादेयता, विधिं पत्युद्देश्यता, प्रमेयत्वाद्विधेयता, विधानायानुवाद्यता चेत् ब्रह्मणः स्वज्ञानस्य विधिविषयतया तत्प्रमितिशेषत्वे च प्राधान्योपादेयत्वप्रमेयत्वानि तद्विरुद्धगुणत्वोद्देश्यत्वानुवाद्यत्वानि च एकस्यां शब्दजन्यप्रमितौ प्रसज्यन्ते। तदिदं वैरूप्यम्।। ननु प्रथमज्ञानमर्थपरं द्वितीयज्ञानं विधिविषयतया तत्परमित्यविरोधः किं न स्यात् न;शब्दस्य उभयपरत्वाभावे तज्जन्यज्ञानस्य असकृज्जनितस्यापि उभयपरत्वानुपपत्तेः।।
ननु वैरूप्यप्रसङ्गो न दोषमावहति, अन्यथा गुणकर्मविधानानुपपत्तेरिति चोदयति--नन्वेवं सति गुणकर्मणामिति।। क्रत्वङ्गभूतकारकसंस्कारार्थानि कर्माणि गुणकर्माणि। तत्र क्रियाजन्यातिशयविशिष्टमेव कर्मकारकं कारकविभक्त्यभिधेयमित्यङ्गीकृत्य वैरूप्यमुच्यते। व्रीहीणां तावत् प्रमाणान्तरसिद्धत्वात् कारकत्वाच्च अनुवाद्यत्वगुणत्वोद्देश्यत्वानि सिद्धानि। विधेयप्रोक्षणजन्यातिशयवत्तया साध्यत्वात् उपादेयत्वप्राधान्यविधेयत्वानि विभक्तिसामर्थ्यात् प्रतीयन्ते इत्येकस्यां प्रमितौ गुणकर्मसु वैरूप्यमिति।। तत्र न क्रियाजन्यातिशयो वैभक्तिकः, किन्तु तदर्थक्रियाविध्यनुपपत्तिगम्यः; अतः शाब्दज्ञाने गुणत्वोद्देश्यत्वानुवाद्यत्वान्येव प्रतीयन्ते, प्राधान्यप्रमेयत्वोपादेयत्वानि त्वार्थापत्तिप्रमित्यन्तरेऽवभासन्ते, इति ज्ञानभेदान्न वैरूप्यदोष इति परहरति--न निराकृतं स्यादिति।। इहापि तर्हि ब्रह्मज्ञानविधेयज्ञानयोर्भेदाद्विरुद्धत्रिकस्य व्यवस्थया अवभास इति, नेत्याह--यत्र पुनः प्रमाणान्तरादिति।। ननु इहापि ज्ञानद्वयमेवेष्यताम्, कस्तर्हि सामग्रीभेदः न चैकसामग्रीजन्यज्ञानसहस्रस्यापि प्रमेयभेदः सम्भवति। अस्तु तर्हि विधायकपदव्यतिरिक्तपदसमुदायस्य पृथगेव ब्रह्मस्वरूपं प्रतिपाद्य पुनस्तदनुवादज्ञानं जनयित्वा तस्य विधिविषयत्वसमर्पणेन पुनर्विधायकपदेन पदैकवाक्यतेति,
नेत्याह--न च स एव समन्वय इति।। ननु तर्हि विधिपदेन यानि पदैकवाक्यभूतानि, तद्व्यतिरिक्तपदानां पृथगन्वयेन ब्रह्मप्रतिपत्तिशेषतेत्याशङ्कते--अथ अर्थवादपदानीति।। ननु इहापि भूतार्थत्वात् अर्थवादजन्यज्ञानवद्विधिशेषतेति, नेत्याह--इह पुनरपरामृष्टेति।। प्रयोजनपर्यन्तत्वाय विधिशेषता, न भूतत्वनिमित्तेति भावः। यद्यपि शाब्दज्ञानात् अग्रहणं निवर्तते; तथापि मिथ्याज्ञानत्तत्संस्काराविद्यानिवृत्तिरपरोक्षानुभवात्, तस्य च शाब्दज्ञानात् अनुत्पद्यमानफलस्य सिद्धये ज्ञानं विधीयते इत्याशङ्कते--अथ पुनः शाब्दज्ञानादिति।। तर्हि विधीयमानज्ञानस्य व्रीह्यादिवत् करणकारकं वक्तव्यम्, तन्न सम्भवतीत्याह--किं तज्ज्ञानमिति।। ननु प्रत्यक्षादीनामपरोक्षज्ञानसाधनत्वं प्रसिद्धमिति, न; पूर्वज्ञानवदतत्फलत्वप्रसङ्गादित्याह--शाब्दं चेति।।
ननु विधीयमानं शाब्दं ज्ञानमिति, किं तज्ज्ञानं विधीयमानतया परोक्षफलम् प्राथमिकज्ञानम् तत्सन्तानो वा न तावत् प्राथमिकमित्याह--तदयुक्तं यत्तावदिति।। उभयपरत्वे वैरूप्यस्य दर्शितत्वादिति। वाक्यशेषः। ननु प्रथमज्ञानेन अवगते ब्रह्मणि तदुद्देशेन प्रत्ययसन्तानो विधीयताम्, तत्संस्कारप्रचयादपरोक्षसिद्धेः इति शङ्कते--अथ पुनस्तदेव ज्ञानमिति।। किमुपासनविधिसामर्थ्यादिदमवगतम् किं वा "आत्मन्येवात्मानं पश्येत्" इति दर्शनविधानसामर्थ्यात् इति न तावदुपासने विधिः श्रूयते; "आत्मेत्येवोपासीत" "आत्मानमेव लोकमुपासीत" "तमेव धीरो विज्ञाय" इत्यादेः स्वभावसिद्धप्रत्ययोपादानेन अलौकिकात्मविषयप्रतिपादनपरत्वात्, एवकारविशेषणश्रवणात् वाक्यस्य विशेषणपरत्वात्, उभयप्रतिपादने वाक्यभेदात्, "निदिध्यासितव्यः" इति च आत्मप्रतिपादनपरे वाक्यभेदाभावाय स्तुतिपरत्वात्। अथ दर्शनविधिसामर्थ्यादिति, नेत्याह--तत् कथं लभ्यते उपास्तिध्यायत्योरिति।। ननु ज्ञानस्य सर्वत्र प्रवाहेण अविनाभावात् ज्ञानविधानेन सन्तानविधिः लक्ष्यते इति, नेत्याह--नापि ज्ञानेनैवेति।। अथापि कथञ्चिदुपासनविधानं कल्प्येत निदिध्यासनविधेः; तथाप्यपरोक्षफलस्य अहेतुत्वात् उपासनस्य न शाब्दज्ञानाद्विशेष इत्याह--नाप्यभ्यासादिति।। अभ्यासस्य अप्रमाणत्वात् विषयस्य असम्प्रयुक्तत्वाच्च न वस्त्वापरोक्ष्यमभ्यासात्, किंतु मिथ्याऽऽपरोक्ष्यमित्यर्थः।।
ननु "ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति ध्यानमपरोक्षफलं श्रूयते सत्यम्; एकत्र चित्तस्य समवधानता तदैकाग्र्यनिमित्तं भवति, तदेकाग्रचेतसा सहकारिणा शब्द एव--"औपनिषदमि"ति तद्धितप्रत्ययसामर्थ्यात् अपरोक्षज्ञानमुत्पादयति; ध्यायमानो ज्ञानप्रसादेन पश्यतीति वाक्यस्य अन्वयात्, चित्तैकाग्र्यस्य सूक्ष्मवस्तुदर्शननिमित्तत्वात्, दृष्टेनैव उपकारसिद्धावदृष्टकल्पनायोगात्, अपरोक्षकामस्य उपासनायां स्वयंप्रवृत्तेः, दृष्टार्थत्वाच्च निदिध्यासनविधानस्य इत्युक्तम्, तदेतदाह--नापि श्रूयत इति।। दृष्टसामर्थ्यानुवादत्वात् वाक्यस्य विधिर्न श्रूयते इत्यर्थः। ननु ऐकाग्र्यद्वारेण आपरोक्ष्यनिमित्तत्वाद् दृष्टद्वारेणापि प्रवर्ततामिति चोदयति--ननु किमत्र श्रवणेनेति।। परिहारग्रन्थः स्पष्टार्थः। अतो ज्ञानद्वयाभावात् एकस्य ज्ञानस्य उभयार्थताऽयोगात् न ब्रह्मज्ञानं विधेयमिति भावः।।
यत्पुनरिति स्पष्टार्थः। न स्थायिवस्तुदृष्टान्तेन तात्पर्यसापेक्षशब्दव्यापारनिर्णय इत्याह--युक्तं तत्रेति।। ननु "समिधो यजति" "तनूनपातं यजति" "इडो यजति" "बर्हिर्यजति" "स्वाहाकारं यजति" इति पञ्च वाक्यानि पञ्च पदार्थान् विधाय तेषां क्रममपि विदधाति। अतः शब्दस्यैव द्वैयर्थ्यमित्युक्तमनुवदति--यदपीदमुक्तमिति।। पदार्था एव शब्दगम्याः, क्रमस्त्वर्थापत्तिगम्यो न शब्दगम्य इति परिहरति--यत्तावत् प्रत्येकमिति।। ये तावदित्यर्थः। तेषामेव। न क्रमस्य विधानमित्यध्याहारः। किं पदार्थेभ्योऽर्थान्तरभूतस्य क्रमस्य वाक्यैः प्रतिपादनमुच्यते किं वा किं वा पदार्थमात्रस्यैव क्रमस्य प्रतिपादनमिति न तावत् उत्तरः कल्प इत्याह--नापि ते क्रमशब्दाभिधेया इति।। ननु विहितमङ्गं भवति, अङ्गं च प्रयुङ्क्ते प्रयोगविधिः; अतः प्रयोगवचनप्रयोज्यत्वेन क्रमस्यापि विधेयत्वे वाक्येभ्य एव अपदार्थस्यापि क्रमस्य विधिरेष्टव्य इति, नेत्याह--प्रयोगवचनोऽपीति।। विहितस्यैव प्रयोज्यत्वात् पदार्थानामेव विहितत्वादित्यर्थः। अन्यथा विहिते प्रयोगविधिः, प्रयोगविधौ न विधिकल्पना इतीतरेतराश्रयात्। ननु पदार्था एव क्रमः, तस्मात् पदार्थान् प्रयुञ्जानः क्रममपि प्रयुङ्क्ते इति, नेत्याह--न ते क्रम इत्युक्तमिति।।
अपर आह--न क्रमो नाम कश्चिदस्ति, एकैकस्मिन् पदार्थेऽदर्शनात्, अनेकपदार्थाश्रयत्वे पदार्थयौगपद्यात् क्रमायोगात्, अयौगपद्ये च उभयाश्रयधर्मायोगादिति ; तत्राह--न च क्रमो नामेति।। ननु संयोगवत् उभयाश्रयत्वे पदार्थयौगपद्यमित्युक्तम्, तत्राह--तत्र क्रमो नाम वस्तुभूत इति।। क्रमत्वादेव न यौगपद्यापेक्षेति भावः। ननु देशकालवस्तूपाधिपरामर्शमन्तरेण क्रमो न दृश्यते इति, तदाह--त एवेति।। ननु अनुष्ठेयपदार्थानामनिष्पन्नस्वभावत्वात् न देशकालवस्तुक्रम इति, तत्राह--स्मृतिविज्ञानमेवेति।। पाठक्रम एव स्मर्यमाणोऽनुष्ठेयपदार्थेषूपरज्यते इत्यर्थः। सर्वथे इत्युपसंहारः। ननु क्रमस्य विधायकं वक्तव्यम्, न;क्रमस्य अविधेयत्वात्, किंतु अनुष्ठेयविशेषणतया प्रमीयते क्रमः, न विधीयते ; अननुष्ठेयत्वात्। केन तर्हि प्रमीयते एकस्यानेकपदार्थप्रयोगानुपपत्त्येत्याह--तच्चैकत्त्वात् कर्तुरिति।। सन्निहितं चेति।। अर्थक्रमाभावे पाठक्रम इत्यर्थः। तस्मात् सर्वत्र प्रमाणद्वयेनैव प्रमेयद्वयसिद्धिरिति प्रकरणार्थः।
न तथेह ज्ञानद्वयं इत्यारभ्य वेदोऽवगमयति इतिपर्यन्तः स्पष्टार्थः। प्रतिवस्तुसंप्रयोगं निरपेक्षमेव प्रमाणं चक्षुः, न तथा प्रतिपदार्थं प्रमाणं शब्दः, किन्तु यत्र तात्पर्यं, तत्र सम्भूयैव प्रमाणमित्याह--युक्तं तत्र यद्यदवबोधयतीति।। नन्वाभिधानिकमात्मतत्त्वज्ञानं प्रमेयपरमेव मा भूत्, किन्तु विधिविषयतया विधायकपदजन्यविधिप्रमितिविषयत्वेन विधिशेष इत्याह--मा भूदिति।। कथं तर्हि ब्रह्मात्मसिद्धिरिति तत्राह--तस्मिन् विहितेऽर्थादिति।। ननु कस्यानुपपत्त्या तत्त्वसिद्धिरिति तदाह--सविषयत्वादिति।। अवगमसिध्यन्यथानुपपत्यैवेत्यर्थः। परिहरति--एवमप्यविवक्षितोऽर्थ इति।। एकस्मिन्विषये प्रथमप्रतिपत्तिरप्रमाणं, तस्मिन्नेव द्वितीयज्ञानं प्रमाणमिति=श्रुतिश्च न प्रमाणं श्रुत्यर्थापत्तिश्च प्रमाणमित्यादि विरुद्धमित्यर्थः। किञ्चावगमविधानानुपपत्तिर्नावगम्यस्य वस्तुत्वं गमयतीत्याह--नच नियोगत इति ननु ज्ञानस्य स्वतःप्रमाण्यात् तथाभूतार्थतैव युक्ता; अन्यथा आरोपितज्ञानस्य विधौ प्रयोजनाभावादिति, तत्राह--भवन्ति हि परिकल्पितविषया इति।। आभिधानिकप्रत्ययस्य विधिसंसर्गात् प्रागपि स्वतःप्रामाण्यं किं न स्यादिति भावः। ननु विधेयज्ञानस्यापि स्वविषयप्रमितिरेव दृष्टं फलम्, तत् परित्यज्य आरोपितविषयत्वे अदृष्टकल्पना स्यादिति, तत्राह--एतदेवात्र युक्तिमिति।। सकलप्रमाणविरोधेन दृष्टकल्पनाददृष्टकल्पनमेव युक्तमित्यर्थः। "तस्मात् कार्यनिष्ठे वेदे" इति अनारम्भवादी सिद्धान्त्येकदेशीयदूषणमुपसंहरति।।
ननु वेदान्तानां धर्मब्रह्मविषयत्वाभावे अध्ययनविध्युपात्तानामानर्थक्यं स्यादिति, नेत्याह--एवं च सत्ययमात्मा ब्रह्मेत्यादिना।। तत्र आत्मनो वेदान्तसङ्कीर्तितसमस्तगुणविशिष्टस्योपासनोत्पत्तिविधौ शमादीतिकर्तव्योपसंहारेण विनियोगविधौ मोक्षकामनियोज्यसम्बन्धितया चाधिकारविधौ साङ्गे कर्मण्यधिकारिणोऽनुष्ठापकतया च प्रयोगविधौ वेदान्ताः पर्यवस्यन्ति; तच्च सर्वं निरूपितमिति। अत्र किं शब्दानां कार्यान्वितस्वार्थावबोधसामर्थ्यात् सर्वो वेदः कार्यपरतया निरूपित इत्युच्यते किं वा सूत्रकाराद्यभियुक्तवचनसामर्थ्यादिति न तावत् प्रथमः कल्पः; समन्वयसूत्रे तस्य निराकरिष्यमाणत्वात्। अभियुक्तवचनसामर्थ्याच्चेति, तत्राह--स्यादेतदेवं यदि सर्व एव वेदार्थ इति।। ननु धर्मस्यैवोपक्रान्तत्वेऽपि प्रासङ्गिकत्वेनेदं ब्रह्म निरूपितमिति, नेत्याह--विचारितश्चेति।। कथमवगम्यते च वेदार्थोपाधो विचारः प्रवृत्त इति सूत्रभाष्यवार्तिककारवचनसामर्थ्यादित्याह--यावता कार्यनिष्ठ एवेति।।
अत्रायमाशयः--अथातो धर्मजिज्ञासा। धर्ममीमांसाशास्त्र विषयः। तत् किमारम्भणीयं न वेति विचारः। नारम्भणीयमिति पूर्वः पक्षः; विचार्यमाणार्थनिर्णये प्रत्यक्षादीनामसाधनत्वात् आम्नायस्य चाध्ययनविधाना अदृष्टार्थतया विनियोगात्। तदर्थमध्ययनविधिः अदृष्टार्थो दृष्टार्थो वेति विचार्यते। दृष्टसाधने विधेरयोगाददृष्टनियमाद्विधेरदृष्टार्थ इति प्राप्तम्। ननु स्वाध्यायः अध्ययनक्रियाकर्मतया अवगम्यमानः संस्कार्यो वा, आप्यो वेति, दृष्टसम्भवे कथमदृष्टार्थता सम्भवेत् न; संस्कृतस्य क्रत्वन्तरे विनियोजकप्रमाणाभावात्। अवाप्तस्य च निष्फलत्वात्। ननु अवाप्तादाम्नायात् फलवदर्थावबोधे दृष्टफले नादृष्टं कल्पयितुं शक्यते, न;दृष्टफलसाधने अन्यत एव प्रवृत्तेः विधिवैयर्थ्यप्रसङ्गात्। ननु कर्मकारकप्रधानस्याध्ययनस्य कथं स्वतन्त्रादृष्टफलत्वं कल्प्यते न;कर्मकारकस्य वैफल्यात् सक्तुन्यायेन "स्वाध्यायेनाधीयीते"ति वैपरीत्यकल्पनात्। ननु न श्रूयते फलमध्ययनस्यार्थवादेऽपि, तन्न;
जपाध्ययनफलस्य घृतकुल्यादेरध्ययनत्वसामान्येन प्रथमाध्ययनेऽप्यतिदिश्य रात्रिसत्रन्यायेन "घृतकुल्यादिकामः स्वाध्यायेनाधीयीते"ति फलविपरिणामात्। संस्कारकर्मत्वाभावाच्च न फलश्रुतेरर्थवादता। नन्वदृष्टार्थत्वेऽपि स्वाभाविकस्यार्थावबोधसामर्थ्यस्य का हानिः न;विषनिर्हरणादिकार्यान्तरे विनियुक्तानां मन्त्राणामर्थविवक्षाप्रतिबन्धदर्शनात्। तस्मादाम्नायस्यार्थविवक्षाऽभावात् प्रत्यक्षाद्यविषयत्वात्, प्रमाणानुग्राहकत्वाच्च विचारस्य निरालम्बनो धर्मविचारो नारब्धव्य इति प्राप्तम्।। आरम्भणीय एवायं विचार इति सिद्धान्तः; तस्य स्वाध्यायाध्ययनविधिप्रमितकर्तव्यत्वात्।।
ननु निरालम्बनत्वमुक्तम्, न; आम्नायस्य आलम्बनत्वात्। ननु अदृष्टार्थोऽसौ दर्शितः, न; अध्ययनस्य कर्मकारकप्रधानत्वात् स्वतन्त्रादृष्टार्थत्वायोगात्। ननु कर्मकारके न किञ्चित् प्रयोजनमस्ति इत्युक्तम्, न; उभयस्याप्युपपत्तेः--अध्ययनेन दृष्टद्वारेण आप्यते, साङ्गाध्ययनविधिसामर्थ्यात् संस्क्रियते च स्वाध्याय इति। ननु संस्कृतस्य विनियोगाभाव उक्तः, न; क्रतुविध्युपादानप्रमाणादेव विनियोगसिद्धेः। क्रतुविधिर्हि स्वविषयावबोधमाकाङ्क्षमाणः तस्य जनकतया संस्कृतं स्वाध्यायमुपादत्ते। ननु उपादानप्रमाणं ज्ञानस्य जनकतया स्वाध्यायमात्रमादत्ते, न संस्कारमिति, सत्यम्; अध्ययनविधिसामर्थ्यादेव संस्कृतस्वाध्यायजन्यविशिष्टज्ञानवतैव अनुष्ठितो यागोऽपूर्वं जनयतीति कल्प्यते। अतः विधिसामर्थ्यमीक्षमाणः क्रतुविधिः स्वविषयज्ञानजनकतया संस्कृतं स्वाध्यायमुपादत्ते। ननु स्वतन्त्रादृष्टं कल्प्यतामित्युक्तम्, न; दृष्टार्थाक्षरस्वीकरणतज्जन्यज्ञानादिसमवाय्यदृष्टसम्पत्तौ श्रुतविरोधेन कारकवैपरीत्यमादाय स्वतन्त्रादृष्टकल्पनानुपपत्तेः। आधानवदनङ्गस्याप्यध्ययनस्य क्रतूपकारित्वं न विरुध्यते। ननु तव्यप्रत्ययेन प्रकृत्यर्थोपरक्तमपूर्वमेव स्वतन्त्रमभिधीयते, तन्न; अपूर्वाभिधानेऽपि भिन्नपदोपात्तप्रकृत्यर्थोपरक्तापूर्वाभिधानात् वरमेकपदोपात्तकर्मकारकगतापूर्वाभिधानम्। भावार्थजन्यमपूर्वं न द्रव्यादिजन्यमित्येतावत्, समवायस्तु यत्र क्वापि सम्भवति। अदृष्टार्थतया च स्वाध्यायस्य अर्थविवक्षाऽभावे अध्ययनविधिवाक्यस्याप्यर्थविवक्षाऽभावात् अदृष्टार्थतया अध्ययनविधानमेव न स्यात्। तस्मात् साङ्गाध्ययनविधिप्रयुक्तादृष्टस्य स्वसमवायितया अक्षरग्रहणार्थावबोधक्रतुप्रवृत्त्यादिदृष्टफलसापेक्षत्वात् स्वाध्यायस्य स्वभावनिमित्तार्थावबोधप्रतिबन्धकताऽभावात् विवक्षितार्थमाम्नायमवलम्ब्य धर्मविचारः कर्तव्य इति।
तदेवमर्थविवक्षाधर्मविचारावसरप्रदर्शनपरे शास्त्रारम्भे न सर्ववेदार्थविचारसिद्धिरिति, प्रारभ्यमाणविचारो धर्मविषयो न वेदार्थमात्रविषय इत्युपपादयति--तथा हि शास्त्रारम्भ इति।। ननु "वेदवाक्यानि विचारयेत्" इत्यादिभाष्यलिङ्गात् वेदार्थमात्रविचारारम्भोऽवगम्यते इति शङ्कते--कथमिति।। सामान्यप्रसिद्धिविशेषविप्रतिपत्त्योः भाष्यकारेण धर्मे प्रदर्शितत्वात् स एव विचार्यते इत्याह--धर्मो नाम कश्चित् साधयितुरिति।। एवं विषयविप्रतिपत्ती दर्शयित्वा धर्मविषय एव पूर्वपक्षप्राप्तिं दर्शयतीत्याह--तत्राग्निहोत्रादिलक्षण एवेति।। नकारस्तु पूर्वपरयोः सम्बध्यते। "एवमाशङ्किते" इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः।।
एवमाशङ्किते शास्त्रारम्भे सिद्धान्तसूत्रं तत्प्रतिपाद्यार्थकथनेन अवतारयति--धर्माय वेदवाक्यानीति।। यस्य आम्नायस्य अर्थविवक्षा, तस्यैव विचारावसरश्चेति तदर्थविवक्षाविचारावसरौ। विवक्षाविचारावसरधर्मविचारान् सूत्रार्थान् सूत्रयोजनया दर्शयति--वेदमधीत्यानन्तरमिति।। ततः किमायातम् इत्यत आह--एवं स्थित इति।। किं तत्र विवक्षितं गम्यते इति तत्राह--किं तु धर्मातिरिक्त इति।। अयमर्थः--वेदस्य अर्थविवक्षाप्रदर्शनेन वेदार्थविचारः कर्तव्य इति वक्तव्ये धर्मग्रहणं कुर्वन् मा भूत् सर्ववेदार्थविचारप्रतिज्ञा, किंत्वेकदेशविचारोऽयमिति मन्यते सूत्रकार इति गम्यते।।
ननु "अथातः"शब्दानां स्वाध्यायस्य पूर्वनिर्वृत्ततया विचारहेतुत्वमुच्यते। स्वाध्यायो हि स्वार्थविचारहेतुर्भवति, न धर्मविचारहेतुः; अतः अथातःशब्दविरोधात् न धर्मविचारः प्रतिज्ञातुं शक्यत इति चोदयति--तत् कथम् यत्तावदिदमिति।। सामान्यविशेषाभ्यां विचार्यमाणप्रधानाभिधायिधर्मपदग्रहणसामर्थ्यात्, तस्यैव विप्रतिपत्त्या पुरुषार्थसाधनतया च जिज्ञासितत्वात्, प्रामाण्यप्रतिपादनात् प्राक् वेदार्थे सामान्यप्रतिपत्तिविशेषविप्रतिपत्तिपुरुषार्थसाधनत्वादीनां अनवगमात्, जिज्ञासितत्वायोगात् धर्म एव विचार्यत
इत्याह--उच्यते धर्मो नामेत्यादिना।। तत्र धर्मे जिज्ञासायोग्यत्वप्रदर्शनेन वेदार्थे तदभावं विवक्षति--लोकप्रवादादिति।। ननु धर्मविचारे स्वाध्यायस्य पूर्वनिर्वृत्ततया हेतुत्वम्, अर्थविवक्षायाः प्रदर्शनं च अनुपयोगि इत्युक्तम्। सत्यम्; अग्निहोत्रादेरपि धर्मस्कन्धत्वात् देवगत्या च धर्मत्वादुपयोग इत्याह--अग्निहोत्रादिरपि वेदार्थ इति।। यत इति।। विप्रतिपत्तिस्कन्धत्वादित्यर्थः। तेन विवक्षितोऽसौ स्वाध्याय इति प्रदर्शनीयमित्यर्थः। ननु पुरुषार्थत्वाच्चेद्धर्मविचारः, अध्ययनेनैव तत्सिद्धेः किं धर्मविचारेण इति नेत्याह--न च अध्ययनमात्रादिति।। अतो न--"अथातः"शब्दविरोध इत्याह--अतोऽध्ययनानन्तरमिति।। किं च धर्मशब्दस्य प्रधानत्वात् अथातश्शब्दविरोधेऽपि धर्मविचार एव युक्त इत्याह--इति वदितुं धर्मग्रहणं युक्तमिति।। पुरुषा हि धर्ममेव जिज्ञासन्ते न वेदार्थम्; तस्यापि धर्मत्वप्रयुक्तत्वात् उपादानस्य इत्याह--यतो न वेदार्थेति।।
सामान्यग्रहणविशेषविप्रतिपत्तिपुरुषार्थसाधनत्वधर्मशब्दग्रहणैः धर्मविचारपरं प्रथमसूत्रमित्युक्तम्, द्वितीयमपि सूत्रं तथैवेत्याह--यत् पुनः धर्मस्येति।। धर्मलक्षणपरं सूत्रं, अर्थात् प्रमाणप्रतिज्ञेति प्राभाकराः। मुखतः प्रमाणप्रतिज्ञा, अर्थात् धर्मलक्षणत्वमिति वार्तिककारीयाः। सर्वथाप्युभयं विवक्षितमिति। तत्र वेदग्रहणे प्राप्ते सर्वो वेदो धर्मविषयो मा भूदिति चोदनामग्रहीत् इति गम्यत इत्याह--तन्नूनमिति।।
ननु चोदनाग्रहणं सर्ववेदस्य धर्मे प्रामाण्यपरिहाराय न भवति, किं त्वन्यदेव प्रयोजनमित्याह--ननु चोदनाग्रहणस्येति।।
अयमर्थः--लिङादिशब्दव्यापारः पुरुषप्रवृत्तिलक्षणार्थभावनालक्षणभाव्यनिष्ठः स्वज्ञानकरणकः स्तुतिनिन्दार्थवादादिज्ञानेतिकर्तव्यताको लिङादिशब्देन आख्यातत्वसामान्यादर्शभावनाभिधायिनाऽपि लिङ्विशेषेण अभिधीयमानः शब्दभावनेति कथ्यते। शब्द एव वा प्रदर्शितांशत्रयविशिष्टः शब्दभावना, शब्दगुणो वा। सर्वत्र हि करणमितिकर्तव्यतानुगृहीतं भाव्यनिर्वृत्तिद्वारेणैव भावनां प्रति करणं भवति। तत्र शब्दभावनाविषयं ज्ञानं लिङादिशब्दजन्यं प्रवर्तकज्ञानत्वात् स्तुत्यादिज्ञानानुगृहीतं पुरुषप्रवृत्तिनिवृत्तिहेतुरिति, भाव्यनिर्वृत्तिद्वारेण शब्दभावनां प्रति करणमुच्यते। सा च शब्दभावना पुरुषप्रवृत्तिमुत्पादयन्ती तस्याः पुरुषार्थविषयत्वमन्तरेण नोत्पादयितुं क्षमते ; अपुरुषार्थे पुरुषस्य अप्रवृत्तेः। ततः चोदनाप्रयुक्तपुरुषप्रवृत्तेः समानपदोपात्तमपुरुषार्थं धात्वर्थं भाव्यं विहाय पुरुषविशेषणमपि स्वर्गादिकं भाव्यत्वेनोपादाय धात्वर्थकरणिका प्रयाजादीतिकर्तव्यताका स्वर्गादिभाव्यनिष्ठा पुरुषप्रवृत्तिरर्थभावना सम्पद्यते। तत् एवंविधार्थभावनानिष्पत्तये शब्दभावनायाः प्रवर्तकत्वद्योतनाय चोदनाग्रहणमिति।।
नेतत् सारम्; अध्ययनविधिः इत्यादिः परिहारः। तस्यायमर्थः--"स्वाध्यायोऽध्येतव्यः" इति तव्यप्रत्ययव्यापारः शब्दभावना अध्ययने पुरुषप्रवृत्तिलक्षणार्थभावनाभाव्यनिष्ठा स्वविषयप्रवर्तकज्ञानकरणिका अध्ययनफलार्थवादादिविज्ञानेतिकर्तव्यताका भवति। सा च पुरुषप्रवृत्तिलक्षणामर्थभावनामध्ययनकरणिकां स्वाध्यायभाव्यनिष्ठां प्राङ्मुखत्वादीतिकर्तव्यताकामुत्पादयति। सा च भाव्यस्य स्वाध्यायस्य फलवद्विज्ञानजनननिमित्तत्वमन्तरेण अर्थभावनामुत्पादयितुमसमर्था स्वाध्यायगतलिङादिशब्दाभिधेयक्रतुभावनानां स्वर्गादिविषयत्वं परम्परया कल्पयति इत्यध्ययनविधिसामर्थ्यादेव वेदस्य विशिष्टफलविषयभावनानां प्रतिपादकत्वं सिद्धम्। अतो वेदग्रहणेनैव भावनानां धात्वर्थं विहाय स्वर्गाद्यालम्बनकत्वं सिध्यतीति।।
अपि च चोदनाग्रहणे वेदान्तानामर्थान्तरपरत्वाशङ्का स्यात्, तन्निवृत्तये वेदग्रहणमेव युक्तमित्याह--अपि च वेदग्रहणमेवेति।। संदेहान्तरमाह--चोदनाग्रहणे हीति।। ननु वेदाध्ययनानन्तरं धर्मविचारं प्रतिज्ञाय चोदनालक्षण इति ब्रुवन् वैदिकचोदनामेव ब्रवीति, न; तत्र विशेषाभावात्। अनेन च सूत्रेण तत्रापि सर्वचोदनानन्तर्यं किं न स्यात् प्रकारान्तरेण वैदिकचोदनानियममाह--अथ वेदाधिकरणे इति।। लक्षणसूत्रे प्राप्तं वेदग्रहणं विहाय अन्यत्र कुर्वन् न बुद्धिपूर्वकारी स्यादिति परिहरति--सोऽयमाभाणक इति।। अतो वेदान्तानां धर्मपरत्वपर्युदासाय चोदनाग्रहणमित्याह--अतश्चोदनाग्रहणादिति।। तस्मात् सूत्रभाष्यवार्तिककाराभिप्रायेण ब्रह्मपरत्वमेव, न धर्मपरत्वमित्याह--तदेवं सूत्रकार इति।।
ननु तेषामेव कृत्स्नस्य वेदस्य धर्मे विनियोजकं वचनमस्तीत्याह--ननु दृष्टो हि तस्यार्थ इति।। सत्यम्; धर्मचोदनासूत्रप्रक्रमसामर्थ्यादुत्तरं सामान्यवचनं प्रकृतविशेषे उपसंह्रियते इत्याह--सत्यम्; तत्प्रक्रमबलादिति।। सामान्येन परिहारमभिधाय प्रत्येकमाह--अपि च दृष्टो हीति।। ननु आम्नायशब्देन सकलवेदस्य धर्मावबोधे विनियोगः स्पष्ट इति चोदयति--कथमिति।। न विनियोगकात्र्स्न्यपरं भाष्यम्, किं तु आम्नायस्यार्थसद्भावपरम्; यथा "रूपं प्रत्यक्षमि"त्युक्ते न सर्वप्रत्यक्षस्य रूपे विनियोगः, किं तु रूपस्य प्रत्यक्षान्वयमात्रं कथ्यते, तद्वत् इति परिहरति--वेदाध्ययनानन्तरमित्यादिना।। अयोगव्यवच्छेद इति।। वेदस्य कर्मावबोधेनासंबन्घं निराकृत्य सम्बन्धः प्रतिपाद्यत इति। नान्ययोगव्यवच्छेद इति।। वेदस्य अर्थान्तरसम्बन्धो नास्तीति नाभिधीयत इत्यर्थः। ननु कर्मशब्दः प्रमेयमात्रपरतया धर्मब्रह्मणोरविशिष्टः किं न स्यात् इति नेत्याह--कर्मशब्देन चेति।। क्रियायां विषयमात्रे च प्रसिद्धस्य शब्दस्य कुतः क्रियापरत्वम् इति प्रकरणादित्याह--यतस्तदवबोधेति।। तस्मात् इत्युपसंहारः।।
यत् पुनः इत्युक्तानुवादः। आनर्थक्यशब्देन अभिधेयाभावः प्रयोजनाभावो वाभिधीयते न तावदभिधेयाभाव इत्याह--तत्र यद्यानर्थक्यमर्थाभाव इत्यादिना।। अथेति निष्प्रयोजनत्वमनूद्य दूषणमाह--भवतु सोऽरोदीदिति।। ननु तेषामपि "पूषा प्रपिष्टभागः" इत्यादिसंसर्गेष्विव प्रयोजनं कल्प्यतामिति, नेत्याह--एकवाक्यत्वादिति।। ननु "अधस्तात् समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यः" इत्युपरिधारणस्य पूर्वेण एकवाक्यस्य विधानवत् सप्रयोजनो विधिः कल्प्यतामिति, नेत्याह--कल्पयितुं चाशक्यत्वादिति।। वेदान्तवाक्यान्यपि तर्हि प्रयोजनशून्यतया क्रियार्थानीति, नेत्याह--यानि पुनरपास्ताशेषाशिवमिति।। अतः सूत्रं क्रियाप्रकरणपठितवाक्यविषयमित्याह--अतः स्वयमपुरुषार्थत्वादिति।। क्रियाप्रकरणपठितानामेव प्रयोजनशून्यानां स्तावकत्वेन क्रियान्वयो दर्शितः, न वेदान्तानामित्यत्र लिङ्गमाह--तथा च तद्विधान्येवेति।। न वेदान्तवाक्यं किंचिदप्यर्थवादाधिकरणे क्रियाशेषत्वेनोदाहृतमस्तीत्यर्थः।।
यदपि केचिदिति प्राभाकराणां शास्त्रारम्भप्रकारं दर्शयति। अयमाशयः--अध्ययनविधिर्हि विचारं विदधाति। स च स्वाध्यायस्य फलपर्यन्ततामाकाङ्क्षन् वेदार्थविचारमेव विदध्यात्, न धर्मविचारमिति। ननु सामान्यप्रतिपत्तिविशेषविप्रतिपत्तिभ्यां जिज्ञासितोऽर्थो विचारमर्हति, न तथा वेदार्थ इति, तत्राह--किं तर्हि अधीतवेदस्येति।।
"उद्भिदा यजेत पशुकामः" इत्यत्र पशुकाम इत्यत्र पशुकाममुद्दिश्य यागो विधीयते यागविधानं वोद्दिश्य पशुकामाधिकारः किं वा उभयम् इति तथा सत्रे यजमाना एवर्त्विजः, इति यजमानानुद्दिश्य ऋत्विग्भावो विधीयते किं वा ऋत्विज उद्दिश्य यजमानभावो विधीयते इत्यादिवचनव्यक्तिसंशयाद्विचार इति।। "अथातो धर्मजिज्ञासा।" वेदार्थविचारो विषयः। स कर्तव्यो वा न वेति विचारः। नेति तावत् प्राप्तम्; आलम्बनप्रमाणाभावात्। ननु आम्नायालम्बनो विचारः स्यात्, न; अध्यापनविधिशेषतया आम्नायस्य स्वार्थविवक्षाऽभावात्। कथम् अध्ययनं तावत् अधायपनविधिप्रयुक्तानुष्ठानत्वात् तच्छेषतामश्नुते। स्वाध्यायोऽप्यध्ययननिर्वृत्तिद्वारेण अध्यापननिर्वृत्तिपरो विषनिर्हरणादिवाक्यवत् न स्वार्थविवक्षामर्हतीति केचित्।।
अन्ये तु स्वाध्यायविधिवाक्ये तव्यप्रत्ययेन अपूर्वस्य प्रतिपादनात् तदङ्गता तावत् स्वाध्यायस्याधिगता। तत्र विहिताप्ययनस्य प्रयोजकत्वात् अध्यापनविधेः प्रथमावगतामपूर्वाङ्गतामनपाकृत्यैव अध्ययनेन अध्यापनं निर्वर्त्यते इति।। ततश्च अपूर्वाङ्गत्वादविवक्षितार्थत्वाद्विचारानारम्भः प्राप्तः।।
तत्र आरम्भणीयो विचारः; स्वाध्यायस्य विवक्षितार्थत्वात्। ननु अध्यापनविधिशेषः स्वाध्याय इत्युक्तम्, न; प्रयुक्तिमात्रेण अङ्गत्वानुपपत्तेः। न ह्याधानमुत्तरक्रतुप्रयुक्तिमात्रात् तदङ्गं भवति। ननु लिङ्गसंख्याप्रयाजादयः क्रतुविधिप्रयुक्तानुष्ठानाः तदङ्गतामश्नुवते, न; प्रकरणादिविनियोगप्रमाणसामर्थ्यादङ्गभावः, तदङ्गत्वाच्च तत्प्रयुक्तानुष्ठेयता। न तथेह विनियोगे प्रमाणमस्ति। न च प्रयुक्तिमात्रादङ्गतेति विशेषः। अतः स्वातन्त्र्यात् विवक्षितार्थः स्वाध्याय इति। यत्तु अध्ययनापूर्वाङ्गतेति, तत्रापि अपूर्वस्य प्रयोजनाकाङ्क्षायां, दृष्टे सत्यदृष्टकल्पनानुपपत्तेः स्वाध्यायसामर्थ्यजन्यं प्रयोजनवद्विज्ञानं फलत्वेन कल्प्यते। ननु न नैयोगिकं तत्, किं तु दृष्टसामर्थ्यजन्यं फलविज्ञानम्, सत्यम्; अनैयोगिकफलस्यैव
विज्ञानस्य अनुष्ठानाङ्गतया अपूर्वोपकारः कल्प्यते; अथ वा अर्थे तात्पर्यं विज्ञानस्य नैयोगिकफलत्वाधीनमिति कल्प्यते। लौकिकतात्पर्यनिमित्तविवक्षाद्यभावात्। तदेवं विवक्षितार्थत्वाद् शास्त्रमारम्भणीयमिति।।
तत्र वेदार्थविचारारम्भेऽपि न वेदान्तानां गतार्थत्वमिति परिहरति--तत्रापि न निखिलवेदार्थेति।। वेदार्थोपाधिविचारेऽपि धर्मग्रहणसामर्थ्यात् तदेकदेशो विचारित इति भावः। ननु कृत्स्नाध्ययनविधिप्रयुक्तो विचारः कथमेकदेशविषयः स्यात् इति चोदयति--तत्कथमिति।। परिहरति--तथा सत्यथात इति।। प्रतिवाक्याध्ययनविचारं विधिव्यापारभेदात् प्रयोजनभेदवशात् एकदेशविचारेऽपि न विधिप्रयोज्यत्वविरोधः; यथा चक्षुषा रूपं पश्येदिति विधिप्रयुक्त्या रूपैकदेशनीलदर्शनेऽपि तत्प्रयुक्तिः न विरुध्यते तद्वदित्यर्थः। अन्यथा विध्यनुसारेण कृत्स्नवेदार्थविचारविवक्षायां धर्मग्रहणं न स्यादित्याह--यतो धर्म इति कृत्वेति।।
धर्मग्रहणस्य च वेदार्थैकदेशविचारपर्युदासः प्रयोजनं, किं तु वेदार्थस्य पुरुषार्थतासिद्धिः प्रयोजनमिति शङ्कते--सत्यम्; तथापि शास्त्रकाराणामिति।। परिहरति--एवं तर्हीति।। धर्मशब्दस्य हि वेदार्थे प्रयोगनिमित्तं वक्तव्यम्, न तावद्रूढिः; चैत्यवन्दनादावपि प्रयोगविप्रतिपत्तेः। अथ अन्वयव्यतिरेकसिद्धःश्रेयस्साधनाभिधायीधर्मशब्दः, तथाभूतत्वात् वेदार्थस्यापि धर्मशब्दः तत्र प्रवर्तत इति, एवं तर्हि स्वाध्यायपाठादेव ब्रह्मणः प्रतीयमानस्य धर्मशब्दाभिधेयत्वाभावात् श्रेयोरूपत्वात् तस्य अर्थात् पर्युदस्तत्वात् धर्म इत्येवं कृत्वा विचारो युक्तः; अन्यथा आपातप्रतिपन्नधर्मब्रह्मसंग्रहज्ञापनाय वेदार्थजिज्ञासेति वक्तव्यमिति भावः। न हि अनुष्ठेयश्रेयोरूपमिति ब्रह्म पदान्वयमात्रादेव विचारात् प्राक् न प्रतीयते इति शक्यं वक्तुम्।
लक्षणसूत्रमपि धर्मविषयं न वेदार्थविषयमित्याह--तथा चोत्तरमपीति।। लक्षणं हि लक्ष्यस्य अन्यप्रसङ्गविभ्रमनिरासपरम्। तत्र च धर्म एव चैत्यवन्दनादौ प्रसक्ततया विप्रतिपन्नः, न वेदार्थः। अतो लक्षणस्य कृतार्थत्वाय धर्म एव लक्ष्यते इत्याह--धर्मस्वरूपविप्रतिपत्तिनिरासपरमिति।। ननु वेदार्थेऽपि विप्रतिपत्तयः सन्ति किमर्थवादलक्षणो वेदार्थः, किं वा चोदनालक्षणः इति; तन्निरासाय लक्षणमुच्यत इति तत्राह--इतरथा वेदार्थविप्रतिपत्ताविति।। मन्त्रादिषु कार्यस्य अप्रतीतेः येन यत् प्रतीयते, स तस्य अर्थ इति नियमात् नैवं विप्रतिपत्तिरिति भावः। ननु धर्मग्रहणेऽप्यर्थवादलक्षणत्वं निराकृत्य चोदनालक्षणत्वं वेदार्थस्य किं न सिध्यति इत्यत आह--यतो न धर्मग्रहणे सतीति।। वेदार्थविप्रतिपत्तिनिराकरणप्रतिभासाभावात् धर्मविप्रतिपत्तिनिरासप्रतिभासात् अप्रतिपन्नवेदार्थविप्रतिपत्तिनिरासग्रहणायोगादित्यर्थः।।
अथ धर्मशब्दस्य वेदार्थे प्रयोगात् तद्विप्रतिपत्तिनिरास एव विवक्ष्यतामिति चोदयति--कथमिति।। तत्र न तावत् रूढिमाश्रित्य धर्मशब्दस्य वेदार्थे प्रयोग इत्युक्तम् नापि लक्षणया; अभिधेयात् अन्यस्य लक्ष्यत्वेन वेदार्थस्य अधर्मत्वप्रसङ्गात्। इदानीं स्वार्थप्रक्षेपेण वा तत्र प्रवृत्तिः शब्दमात्रस्य वा संज्ञासंज्ञिसम्बन्धपरतयोपयोग इति शिष्यते तत्र न तावत् स्वार्थप्रक्षेपेणेत्याह--यत्तावच्चोदनालक्षणो योऽर्थ इति।। चोदनालक्षणत्वे, वेदार्थस्त्वेतावानिति न निर्णीतं भवति; चोदनाधर्मशब्दयोः वेतदर्थाभिधायित्वाभावात्; यथा यच्चाक्षुषं तद्रूपमित्युक्ते न सर्वस्य प्रत्यक्षस्य रूपमर्थ इत्युक्तं भवति, तद्वदिति भावः। चोदनालक्षणे धर्मसंज्ञाविधिपरत्वं सूत्रस्य निराकरोति--अथ पुनरित्यादिना।। अङ्गीकृत्य दूषणमाह--अथा कथच्चिदिति।। अयं भावः--चोदनालक्षणस्य वेदार्थत्वे अर्थशब्दस्य वैयर्थ्यं स्यात्; श्येनादीनामपि चोदनालक्षणत्वाद्वेदार्थत्वाच्च तद्व्यावृत्त्यनुपपत्तेः, अचोदनालक्षणत्वे अवेदार्थत्वे च ताभ्यामेव श्येनादिनिवृत्तेरर्थशब्दस्य वैयर्थ्यं स्यात्, लक्षणवाक्ये अनुवादमात्रानुपपत्तेश्च। प्रमाणप्रतिज्ञायामप्यर्थशब्दस्य वैयर्थ्यं स्यात्, धर्मविचारपक्षे श्येनादेः प्रतिषेधचोदनाविषयस्यानर्थत्वेनाधर्मत्वसिद्धिः प्रयोजनमिति। तथा चोदनाशब्दोऽपि कृत्स्नवेदलक्षणापरो वक्तव्यः। कथम् चोदनाव्यतिरिक्तोऽपि वेदभागोस्ति वा न वा नास्ति चेत्, चोदनालक्षणोऽर्थः चोदनार्थ इति लक्ष्यलक्षणयोरैक्यमेव स्यात्। अस्ति चेत्, सोऽप्यर्थवान् वेदभागः निरर्थको वा अर्थवांश्चेत्, कथं चोदनाप्रमेयोऽचोदनाभागस्यार्थः स्यात् अर्थशून्यश्चेत् चोदनाव्यतिरिक्तो वेदभागः, कथं तर्हि चोदनार्थोऽर्थानर्थवद्भागद्वयसमुदायवेदार्थः स्यात्। तस्मात् चोदनाशब्दः कृत्स्नवेदलक्षणापर इति। चोदनालक्षणो वेदार्थ इति वाक्ये शब्दद्वयदूषणमभिप्रेत्य--अथापि कथंचित् इत्युक्तम्।। तथा सति वेदस्य प्रामाण्यात् अर्थवत्त्वनिश्चये विचारात् प्रागेव संजाते किं वेदार्थः चोदनालक्षणः किं वा अर्थवादादिलक्षणः इति विशये,
नार्थवादादिलक्षणः किं तु चोदनालक्षणो वेदार्थः इति निर्णयपरं सूत्रं स्यात्। तच्चानुपपन्नम्; निश्चितत्वादर्थवत्त्वस्येत्याह--तथा सति चोदनालक्षण इति।।
ननु प्रथमसूत्रे स्वाध्यायस्य अर्थविवक्षायाः प्रदर्शितत्वादर्थवत्त्वनिश्चयात् तदुद्दिश्य लक्षणविधानं युक्तम्, न; अनिश्चिते प्रामाण्ये अर्थविवक्षाऽयोगात्। तत्र च अध्ययनविधिप्रयुक्ताप्रामाण्यमात्रनिराकरणेन अर्थविवक्षा दर्शिता, न तु पौरुषेयत्वप्रमाणान्तरयोग्यविषयत्वादिनिमित्ताप्रामाण्यं तत्र निराकृत्य प्रामाण्यं व्यवस्थापितम्। तस्मात् अर्थवत्त्वानिश्चयात् वेदार्थश्चोदनालक्षण इति नियन्तुं न शक्यते।
अथ प्रथमसूत्रसामर्थ्यादेव अर्थवत्त्वमङ्गीकृत्य लक्षणविधानमिति, तत्राह--तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येतेति।। ननु तस्यैव दृढीकरणाय पुनः प्रतिपादनम्, न---अर्थवत्त्वे निश्चिते दृढीकरणप्रयोजनाभावात्, अनिश्चिते च लक्षणप्रवृत्त्यभावात्। ननु वेदप्रामाण्यस्यापि वेदार्थत्वादेव प्रतिपादनं न वेदस्य अर्थवत्त्वनिश्चयायेति, न; वेदप्रामाण्यस्यापि वेदार्थत्वे, सिद्धे वस्तुनि प्रामाण्यप्रसङ्गात्। भाष्यकारश्च द्वितीयाध्यायमारभमाणो "वृत्तं प्रमाणलक्षण"मिति प्रथमाध्यायेन वेदस्य प्रामाण्यमेव साधितं दर्शयति, तन् युज्यते वेदस्य अर्थवत्त्वनिश्चियपूर्वे विचारे। अतो धर्मे प्रमाणप्रतिज्ञैव लक्षणं वा द्वितीयसूत्रेण क्रियत इत्याह--वृत्तं प्रमाणलक्षणमिति चेति।। किं च अस्मिन्नेव सूत्रे मन्त्रार्थवादयोर्धर्मे प्रामाण्यनिराकरणात् अर्थवादाधिकरणमनपेक्षितं स्यादित्याह--मन्त्रार्थवादेषु चेत्।। स्तावकत्वेन अन्वयप्रकारप्रतिपादनार्थमधिकरणमिति चेत्, न; अत्रैव धर्मे प्रामाण्यनिराकरणाद्धर्मस्य प्रतिपादकतया तत्र पूर्वपक्षानुदयात्।।
उपसंहरति--अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागौ विचार्यतया प्रक्रान्तो विचारितश्च, न वस्तुनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते।
इति श्रीमत्परमहंसपरिव्राजकानन्यानुभवपूज्यपादशिष्यस्वप्रकाशानुभवभगवतः कृतौ
पञ्चपादि2काविवरणे द्वितीयवर्णकं 2समाप्तम्।।