तृतीयः सर्गः ।

अथ वीक्ष्य स शैलकन्यया सहितं चन्द्रकलाधरं पुरः ।
रभसादुदतिष्ठदासनात्प्रणमन्नञ्जलिना पतञ्जलिः ॥ १ ॥

तदुपागमहर्षविस्मयौ स्तिमितं यद्यपि तं वितेनतुः ।
स तथापि चकार दण्डवत्प्रणिपातं भुवि भक्तियन्त्रितः ॥ २ ॥
 
प्रणिपत्य समुत्थितस्तदा मुदितो मूर्ध्नि कृताञ्जलिर्मुनिः ।
तरुणेन्दुवतंसमादरात्तमुपश्लोकयितुं प्रचक्रमे ॥ ३ ॥

श्रु[१]तयोऽपि न शक्नुवन्ति ते स्तुतये किं पुनरीश मादृशः ।
भणितिर्गृणती भवद्गुणान्परिशुध्येदिति किं तु मे म[२]तिः॥ ४ ॥

जगदीश यदेकमद्वयं तव सच्चित्सुखलक्षणं वपुः ।
विधिविष्णुहरा इति त्रिधा बिभिदे तन्निजयैव मायया ॥ ५ ॥

तव देव गिरा यथार्थया ननु कर्माणि नरा वितन्वते ।
सुखबोधमयं सुमेधसः परमं ब्रह्म वदन्ति केवलम् ॥ ६ ॥
 
अतिसुन्दरमस्तु मे सदा हृदये त्वद्वपुरिन्दुभूषणम् ।
नियतं खलु यस्य दर्शनात्स्मरणीयो रमणो रतेरभूत् ॥ ७ ॥

[३]डमेव रथाङ्गमेकमप्यपरं द्वादशधा विभज्यते ।
कुरथेन ततस्त्वया कथं विजितं वैरिपुरत्रयं विभौ ॥ ८ ॥

भवदाश्रयणेन मार्गणा अपि लक्ष्मीपतयो भवन्ति यत् ।
विपरीतमभूदिदं यतोऽजनि लक्ष्मीपतिरेव मार्गणः ॥ ९ ॥

अपि सेव्यमनेकशाखया भजतामप्यधिकं फलप्रदम् ।
परमेश भवन्तमीदृशं जगतः स्थाणुरिति ब्रुवन्त्यहो ॥ १० ॥

विनिहत्य रणेऽन्धकं कलाधरचूडामणिरप्यहो भवान् ।
न खलु त्रपते ततो यतः परिपूर्णं त्वयि नास्ति पौरुषम् ॥ ११ ॥

किमिहाद्भुतमस्ति यज्जटातटिनीं कामपि तावकी पपौ ।
जलधिं चुलुकीचकार किं तव भक्तोऽपि न कुम्भसंभवः ॥ १२ ॥

तव पञ्चमुखानि लोचनान्यपि तु त्रीणि तथाष्टमूर्तय: ।
इति शैलसुतातिसुन्दरं किमिति त्वामवृणीत गेहिनम् ॥ १३ ॥

वसनं करिचर्म वाहनं वृषभः कोऽपि विभूषणं फणी ।
अशनं विषमासिका गिराविति चित्रं जगतां त्वमीशिषे ॥ १४ ॥

वहतो नृकरोटिमालिकामनुलिप्तस्य परेतभस्मना ।
पितृकानननर्तकस्य ते प्रमथेशस्य गुणास्तु पावनाः ॥ १५ ॥

अरुणेन पदाम्बुजेन ते मम चित्रं क्रियते मनः शुचि ।
मृदुनाप्यमुना भुजान्तरं कठिनं न त्रुटितं यमस्य किम् ॥ १६ ॥

विजिताद्रजतेन निर्मितौ विषमेषोरिषुधी इवाहृतौ ।
कलये हृदि काङ्क्षितप्रदे तव जङ्घे तरुणेन्दुशेखर ॥ १७ ॥
 
गजहस्तजिगीषयेव यौ धृततारक्षवचर्मकङ्कटौ ।
गिरिजाकरमर्दनोचितौ भवदूरू भव भावये हृदि ॥ १८ ॥

तव मध्यमहं तनुं भजे नितरामीर्ष्यति यत्र नाभये ।
प्रलयोद्धतरुद्रलोचनद्रुतरूप्याद्रिनदीजलभ्रमः ॥ १९ ॥

भुजगाभरणं भुजान्तरं भसितोद्धूलितमीश ते भजे ।
स्फटिकाद्रिशिलातलं यथा करिकीर्णाम्बुजनालकोमलम् ॥ २० ॥

अरुणाङ्गुलिपल्लवौ नखद्युतिसंभावितपुष्पडम्बरौ ।
कलिमोचन कालकण्ठ ते कलयेऽहं करकल्पपादपौ ॥ २१ ॥

मुखचन्द्रसमीपवर्तिनीमरुणामीश घनावलीमिव ।
तव नौमि जटापरम्परां सितविद्युन्निभगाङ्गनिर्झराम् ॥ २२ ॥
 
अविवेकतमोनिवृत्तये विलसन्तं विषमास्त्रशासनम् ।
मधुरस्मितचन्द्रिकोदयं वदनेन्दुं तव चिन्तये हृदि ॥ २३ ॥
 
इति तं पुलकोद्गमैः स्तनौ हृदि भक्त्या प्रमदाश्रुणा दृशोः ।
वचसि स्तुतिभिश्च संगतं परितुष्यन्प्रभुरब्रवीदिदम् ॥ २४ ॥

तपसा तव शेष तोषितो वितरिष्यन्वरमागतोऽस्मि ते ।
अचिरेण वृणीष्व तं यतो वपुरीदृक्तव वारितं सुखात् ॥ २५ ॥

चरितं निजमादितः स्मरन्नथ शेषेति निमन्त्रितो मुनिः ।
पदवार्तिकभाष्यनिर्मितौ प्रथमं पाटवमभ्ययाचत ॥ २६ ॥

अथ तस्य जगत्त्रयप्रभोर्नटनालोकनयोग्यतां पुनः ।
मुनिमर्थयमानमात्मनः स तथास्त्वित्यवदन्मुदा मृडः ॥ २७ ॥

अयि वत्स चिदम्बराभिधं नगरं त्वं व्रज काननाध्वना ।
तव तत्र नटेयमीक्षितुं दययेत्यन्तरधादुदीर्य सः ॥ २८ ॥
 
इति तस्य गिरा चिदम्बरं नगरं प्रास्थित नाट्यलिप्सया ।
मुदितः स मुनिर्मुमुक्षया भवतप्तो निकटं गुरोरिव ॥ २९ ॥

अपरं प्रविशन्वनं वनादपरं चाश्रममाश्रमाद्व्रजन् ।
ददृशे स पवित्रदर्शनः सुरसिन्धोरिव पाथसां भरः ॥ ३० ॥
 
पथि तं फलपुष्पसंचयैः परिपूज्येव मुनिं वनद्रुमाः ।
पवनाकुलपल्लवच्छलात्सफलं जन्मन इत्यनर्तिषुः ॥ ३१ ॥

बुधमृद्धरसा पदे पदे परिपाकच्युतपुष्पकोमला ।
पदवी तमनन्दयत्कवेः पठितव्याकरणस्य वागिव ॥ ३२ ॥

गिरिनिर्झरशीकरान्किरन्सममारण्यविहङ्गकूजितैः ।
मुषितद्रुमपुष्पसौरभो मुदमाधत्त वनानिलो मुनेः ॥ ३३॥

कटिबद्धमृगादनत्वचं कपिलोन्नद्धजटाभरं मुनिम्
तमवेक्ष्य तरक्षवो वने न पलायन्त न चाभिचक्रमुः ॥ ३४ ॥

चटुलाक्षमुदञ्चिताननं चलवालाञ्चलमीषदन्तरम् ।
कुतुकेन कुरङ्गशावकास्तमृषिं ज्ञातिमिवानुदुद्रुवुः ॥ ३५ ॥

कपयस्तदवेक्षणे तरून्व्यथयामासुरसाधुभिः पदैः ।
पदशास्त्र इवानधीतिनः कवयः कर्णपथान्विपश्चिताम् ॥ ३६ ॥

तमवेक्ष्य नि[४]निन्दुरुच्चकैरपदे पक्कणकुक्कुराः पथि ।
सरसस्य कवेः क्रमं गिरामवकर्ण्याक्षमयेव दुर्धियः ॥ ३७ ॥

ददृशे किल तेन गच्छता गिरिनद्यां कलहंसमण्डली ।
कियदप्यसृगुक्षिता तनौ गिरिशस्येव कपालमालिका ॥ ३८ ॥

अचलोर्ध्वतलादवस्थितं निपतन्तं स ददर्श निर्झरम् ।
रविरश्मिजिता कृतं ध्वजे विपिनेनेव दुकूलपल्लवम् ॥ ३९ ॥

कठिनोपलघट्टनोत्थितान्पतितान्निर्झरपाथसां कणान् ।
चलितानविशेषतोऽग्रहीच्चमराणामपि वालधीन्मुनिः ॥ ४० ॥

निबिडोपलगर्तनिःसरत्फणिफूत्कारभियापसर्पिणः ।
हरिणा नयनैः समाकुलैः पदवीमुत्पलिनीं मुनेर्व्यधुः ॥ ४१ ॥

ज्वलितारुणपल्लवानल[५]श्चिरिबिल्वप्रसवैकलाजया ।
अचलस्य करग्रहोत्सवो वनलक्ष्म्येति विनिश्चिकाय सः ॥ ४२ ॥

मधुरध्वनयो मधुव्रता मदनिष्यन्दमलीमसे पथि ।
अवदन्मुनये निरक्षरं द्विपमासन्नसरोवगाहिनम् ॥ ४३ ॥

तरुमूलविहारिणो दरीभुवि भल्लूकगणानजीगणत् ।
मृडकण्ठरुचीन्वनश्रियः कचभारानिव जङ्गमान्मुनिः ॥ ४४ ॥

मृगराजकराहतित्रुटत्करिकुम्भच्युतमौक्तिके पथि ।
निबिडोडुकदम्बडम्बरे स मुनिश्चन्द्र इवाम्बरे ययौ ॥ ४५ ॥

अतिलङ्घ्य वनानि जग्मुषा ददृशे तेन चिदम्बरं पुरम् ।
इह ताण्डवयिष्यतीश्वरः कृपयेति प्रथमं गणैर्वृतम् ॥ ४६ ॥

पृथुलश्रवसो बृहन्मुखा गडुकण्ठा गिरिसन्निभोदराः ।
विकटोच्छ्रितजानवः स्मरं विहसन्तीव यदागता गणाः ॥ ४७ ॥

तमसामिव देहिनो भरा यमुनाया इव पिण्डिता झराः ।
जलदा इव मूर्तसंचराः प्रमथा यत्परितो विजह्रिरे ॥ ४८ ॥

विहरन्ति तरक्षुभिर्मिथो निनदैर्यत्र निगृह्णते हरीन् ।
मुखविक्रियया च तर्जयन्त्यगकन्यापरिचारिणीर्गणाः ॥ ४९ ॥

कुसुमाहृतये गणैः प्रभोर्नवमुन्मत्तवनं प्ररोप्यते ।
अपि यत्र विमृश्य लूयते प्रसवामोदघना च केतकी ॥ ५० ॥

अनुलेपनसंग्रहं प्रभोः प्रमथा यत्र परे वितन्वते ।
परितर्जितघोरफेरवं प्रतिपद्यैव परेतभूतलम् ॥ ५१ ॥

मलयद्रुमकोटरान्तरादपि वल्मीकबिलोदरादहीन् ।
चकृषुः किल यत्र भूषणं नवमीशाय गणाः प्रदित्सवः ॥ ५२ ॥

मलयाद्रिपटीरवासितान्द्रुतिगर्तेषु समीरणार्भकान् ।
प्रभुकङ्कणकुक्षिपूरणं तनितुं यत्र गणा निरुन्धते ॥ ५३ ॥

पुरदाहमनङ्गपातनं गरलास्वादनमन्तकक्षतिम् ।
गजदानवखण्डनं जगुः प्रमथा यत्र चरित्रमैश्वरम् ॥ ५४ ॥

कलयन्ति विभूतिभस्त्रिकां कतिचिद्यत्र गृहीतसूचयः ।
अपरैरपि नाम सीव्यते नवरुद्राक्षमणिप्रसञ्जनात् ॥ ५५ ॥

विलसद्भसितत्रिपुण्ड्रका धृतरुद्राक्षकिरीटमौलयः ।

कति यत्र नयन्ति वासरान्शिवपञ्चाक्षरमन्त्रजापिनः ॥ ५६ ॥
 
शिवभक्तगणे प्रदक्षिणक्रमणं यत्परितो वितन्वति ।
भसितैरपरः समुन्नतो वरणोऽकल्प्यत तत्तनुच्युतैः ॥ ५७ ॥

घटनाय जटहिमांशुना परिगृह्णन्त्युडुमण्डलीमिव ।
शिवमर्चयितुं यदाश्रया द्विजलोका धवलार्कमञ्जरीम् ॥ ५८ ॥

गिरिशार्चनबिल्वपल्लवग्रहजैः पाणिषु कण्टकक्षतैः ।
कमलप्रमुखाङ्करेखिका वसतां यत्र बतोपमीयते ॥ ५९ ॥

निवसन्ति दिवः कति श्रियः कति वाण्यः कति मुक्तयः कति ।
इति वेद्मि न तत्र याः शिवो विनियुङ्क्ते प्रतिभक्तपूरुषम् ॥ ६० ॥

मृडनाट्यदिदृक्षुभिर्जनैः परितस्तन्नगरं परिष्कृतम् ।
प्रविशन्ददृशे पतञ्जलिः प्रथमं व्याघ्रपदा तपस्विना ॥ ६१ ॥

स समाधिदृशा निशामयन्फणिनामेष पतिः पतञ्जलिः ।
इति तस्य सभाजनार्थमानयदर्घ्यं सह पाद्यवारिणा ॥ ६२ ॥
 
उपचारमुपेत्य तत्कृतं स च माध्यंदिनसंभवं मुनिम् ।
कुशलं फणिनामधीश्वरः परिपप्रच्छ तपःसमाधिषु ॥ ६३ ॥

तावेवं परिचयलब्धगाढसख्या-
वग्रण्यौ शिवपदपद्मभक्तिभाजाम् ।
त्रैयक्षं नटनमहोत्सवं दिदृक्षू
योगीन्द्रौ कनकसभामगाहिषाताम् ॥ ६४ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
तृतीयः सर्ग: ।


  1. 'अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
    रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

    स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः

    पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥’

    इति महिम्नःस्तोत्रे.
  2. ‘मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
    पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥’
    इति महिम्नःस्तोत्रे.
  3. ‘रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
    रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।

    दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि-

    र्विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥’

    इति महिम्नःस्तोत्रे.
  4. ‘ननद्रुरुच्चकेः’ इति ख-पुस्तके; ननर्दुरुच्चकैः’ इति भव्यः पाठो भवेत्.
  5. चिरिबिल्वप्रसवैकरम्यया' क.