चतुर्थः सर्गः

वासवादिभिरथामरैस्तदा चोदितेन भुवि विश्वकर्मणा ।
ताण्डवाय गिरिशस्य निर्मिता तत्र हाटकमयी सभा बभौ ॥ १ ॥

यत्र हेमवलभीविलम्बिनो दिव्यमौक्तिकसरा विरेजिरे ।
सर्वतः सुरगिरेरधित्यकां संगता इव नवोडुपङ्क्तयः ॥ २ ॥

यत्र सिन्धुचलशैवलाङ्कितं नाभिपङ्कजमिवेन्दिरापतेः ।
गारुडाश्मखचितं हिरण्मयं पुण्डरीकमुपरि व्यराजत ॥ ३ ॥

चञ्चलध्वजपटाञ्चलाञ्चितं यत्सुवर्णशिखरं समुन्नतम् ।
अन्वकारि हरिवज्रतो भिया मेरुणा तनुरुहाणि धुन्वता ॥ ४ ॥

वीक्ष्य मां सफलयध्वमक्षिणी भो नरा इति गिरेव शंसति ।
या विशङ्कटविटङ्ककोटिभाक्किङ्किणीगणघणंघणारवैः ॥ ५ ॥

यद्विशालमणिजालकान्तरादुत्पतन्त्यगरुधूपपङ्क्तयः ।
आह्वयन्त इव शैवमीक्षितुं नर्तनोत्सवममर्त्यसुन्दरीः ॥ ६ ॥

यत्र काञ्चनवितानसंयतो नन्दनद्रुकुसुमस्रजां गणः ।
अश्रु भाविहरनृत्तदर्शनप्रेमजं मधुमिषादिवोज्झति ॥ ७ ॥

शातकुम्भवलभीसमुन्नतव्रातबद्धमुकुरावलीच्छलात् ।
या बिभर्ति नयनानि कौतुकादाभिरूप्यमिव वीक्षितुं निजम् ॥ ८ ॥

द्वारपार्श्वयुगले हिरण्मये गारुडाश्मकदलीवनश्रिया ।
या परस्परसमागमार्हयोः शंसतीव घटने मनोज्ञताम् ॥ ९ ॥

आदितोऽन्तत उपोढविभ्रमैर्यत्र मौक्तिकसरैश्चकाशिरे ।
हेमतोरणमरीचिवीचयो राजहंसनिचयैरिवागतैः ॥ १० ॥

अत्यवर्तत यदीयकाञ्चनस्तम्भजालमनरालमुन्नतम् ।
अप्यहीनगुणभूषमुन्मिषद्वक्रिमाणममरालयं गिरिम् ॥ ११ ॥

देवताप्रतिकृतीर्यदन्तरे शिल्पिनाः मणिमयीः प्रकल्पिताः ।
देवताः प्रथममागता नटं द्रष्टुमैशमिति मेनिरे नराः ॥ १२ ॥

यत्र भान्ति कुरुविन्दनिर्मितत्रोटयो मरकतच्छदाः शुकाः ।
एष्यदीशगणराट्करस्फुरद्दाडिमग्रहकृतादरा इव ॥ १३ ॥

यत्र यत्र फलपुष्पमण्डितं वृक्षषण्डमरुचद्विनिर्मितम् ।
प्रागरण्यमिव नन्दिहुंकृतिस्तम्भितं चरति शंकरे तपः ॥ १४ ॥

भान्ति यत्र मणिकुट्टिमे नरा बिम्बिता भगवतो नटिष्यतः ।
संजिघृक्षव इवालयाद्बलेः पारितोषिकविभूषणान्यहीन् ॥ १५ ॥

सिक्तमृष्टतलमुच्छ्रितध्वजं स व्यतीत्य पुरमार्गमायतम् ।
तां सभामथ विवेश तादृशीं व्याघ्रपादनुगतः पतञ्जलिः ॥ १६ ॥

कायवानिव तपःसमुच्चयो जङ्गमेव शिवभक्तिरूर्जिता ।
स्वात्मबोध इव मूर्तिसंचरस्तावृषी ऋषिगणोऽन्ववर्तत ॥ १७ ॥

यत्पुराणकिटिनापि शौरिणा न व्यलोकि चरणद्वयं प्रभोः ।
लोकयेमहि तदेव किंत्विति व्यस्मयन्त मुनयस्तदा मुहुः ॥ १८ ॥

आगताः प्रथममेव भूतले नीलनीरदनिभा गणास्तदा ।
विद्रवन्नरवितीर्णमार्गया सर्वतः समचरन्त लीलया ॥ १९ ॥

भूतनाथनटने दिदृक्षया भूतलेऽवतरतां दिवौकसाम् ।
उन्मुखक्षितिमयूरवीक्षितो दुन्दुभिध्वनिरभूदथाध्वनि ॥ २० ॥

निर्जरानथ कदाप्यनीक्षितानीक्षितुं भुवि दिवोऽवरोहतः ।
दिव्यदुन्दुभिरवावकर्णनात्सन्ननाह कुतुकी नृणां गणः ॥ २१ ॥

अम्बरे ददृशिरेऽथ सुन्दरा हाटकाङ्गदकिरीटकुण्डलाः ।
अञ्चलालिखितहंसवाससः पञ्चविंशवयसो दिवौकसः ॥ २२ ॥

तेषु मेषवरवाहनश्चतुः शृङ्गमौलियुगलः शिखोज्ज्वलः ।
स्रक्स्रवादिवहबाहुसप्तकः प्रत्यदृश्यत हुताशनस्त्रिपात् ॥ २३ ॥

साध्वसेन शिवभक्तसंनिधिं यः स्थितः परिहरंश्चिरादपि ।
तं मृकण्डुतनये कृतागसं शाम्भवा ददृशुरम्बरेऽन्तकम् ॥ २४ ॥

मूर्तयामुनतरङ्गवल्लरीविभ्रमावहमहासिभासितः ।
पाणिराननमुदग्रदंष्ट्रमप्याचचक्ष इव नैर्ऋतं नृणाम् ॥ २५ ॥

दन्तलग्नजलमर्त्यजाङ्गलक्रूरदूरविवृतास्यकन्दरम् ।
आगतस्य वरुणस्य मानवास्तत्र वाहनमवेक्ष्य तत्रसुः ॥ २६ ॥

योऽधिरुह्य पृषतं करे वहन्केतु[]मत्वरत पांसुकेतनः ।
तं नरा निरणयन्धिया स्वया तातमाशरपुरीदहः कपेः ॥ २७ ॥

अभ्रसिन्धुतरिविभ्रमस्पृशा निष्पपात दिवि पुष्पकेण यः ।
तं गदोज्ज्वलभुजं महाङ्गदं किन्नराधिपमलोकयन्नराः ॥ २८ ॥

चन्द्रखण्डकृतचारुशेखरः पुण्डरीकदलपाण्डराकृतिः ।
शूलपाणिरहिजालभूषणः प्रादुरास वृषवाहनो हरः ॥ २९ ॥

राहुरुज्झति मुहुर्निगीर्य मां पालयेति शशिनेव सेवितः ।
आतपत्रवपुषा स चाययौ वज्रपाणिरिभराजवाहनः ॥ ३० ॥

रम्भयास्य चरमोपविष्टया चामरद्वयमधूयताभितः ।
लोलहंसमिथुनान्तरस्फुरत्पद्म चारु विदधे यदाननम् ॥ ३१ ॥

मेनकापि विततार वीटिकां चन्द्रखण्डसुरभिं शचीपतेः ।
तेन सा हि जगृहे मृणालिका दन्तिनेव करिणीकरार्पिता ॥ ३२ ॥

अग्रतस्तदनु सिद्धचारणा वारणाधिपधृतस्य वज्रिणः ।
वृत्रजम्भवलपाकपातनख्यातमस्तुवत बाहुविक्रमम् ॥ ३३ ॥

तच्चिदम्बरपुरं पुरंदरे साकमम्बरचरैः समागते ।
प्राङ्नटेशनटनादहो मुदा तत्र मर्त्यहृदयान्यनर्तिषुः ॥ ३४ ॥

शङ्खमर्दलमृदङ्गदुन्दुभिध्वानसंकथितमुत्सवं तदा ।
वीक्षितुं किमु जनस्य नाविशन्कर्णरन्ध्रमितरेतरोक्तयः ॥ ३५ ॥

रेजिरे दिगधिपा वनौकसो व्याघ्रपाद्गणवराः पतञ्जलि: ।
पौरजानपदमानवास्तदा संमताः कनकसंसदन्तरे ॥ ३६ ॥

यावदन्तरनघ: पतञ्जलिर्ध्यातुमीशममिमीलदक्षिणी ।
तावदागमनशंसि धूर्जटेः काहलीरणितमाशु शुश्रुवे ॥ ३७ ॥

येन निःसरति काहलीरवस्तत्र वर्त्मनि जना दृशो दधुः ।
लोचनानि निदधुश्च यत्र ते तत्र संन्यधित शंकरः स्वयम् ॥ ३८ ॥

दर्शनोत्सुकसुपर्वपङ्क्त्यहंपूर्विकापरिगताग्रभूमिकम् ।
नन्दिहस्तधृतवेत्रसंगमत्राससंकुचदवेक्षकाङ्गकम् ॥ ३९ ॥

चन्दनद्रवसमुक्षणक्षणक्षिप्तपुष्पचयसिद्धचारणम् ।
सान्द्रितध्वजपताकितान्तरस्निग्धगत्यगरुधूपवल्लिकम् ॥ ४० ॥

मर्दलानुगुणनृत्यदप्सरःपादनूपुरनिनादमेदुरम् ।
संनिधानगतदिव्यमागधप्रस्फुरज्जयजयोक्तिबन्धुरम् ॥ ४१ ॥

आगतेभमुखमूषिकश्रमश्वासतृप्ततदलंक्रियोरगम् ।
आपतद्गुहशिखण्डिताण्डवप्रक्रमिप्रमथडिण्डिमारवम् ॥ ४२ ॥

तुन्दिलैकगणधारितामलच्छत्रमच्छशशिखण्डमण्डितम् ।
उक्षवाहनमुमासमन्वितं तं ददर्श गिरिशं पतञ्जलिः ॥ ४३ ॥

वामपार्श्वगतवारिजेक्षणं दक्षिणेऽम्बुजभुवा कृताञ्जलिम् ।
वन्दितं चरमभागमाश्रितैर्वासवप्रभृतिभिः सुपर्वभिः ॥ ४४ ॥

सर्वतोऽपि सनकादिभिर्मुदा सेव्यमानमृषिभिश्चिरंतनैः ।
नारदेन महतीं नखाञ्चलैर्विध्यता च मृदुगीतवैभवम् ॥ ४५ ॥

नूपुरोरगफणामणिश्रियामङ्कुरैररुणितेन योऽङ्घ्रिणा ।
नूतनातपनिपातपाटलं पश्यतां हृदि निनाय पङ्कजम् ॥ १६ ॥

भालपावकहुते स्मरे रतावप्यपास्तविहृतौ वृथास्थितौ ।
केलिरत्नमुकुराविवैतयोर्जानुमण्डलमिषाद्बिभर्ति यः ॥ ४७ ॥

व्याघ्रचर्मपरिकर्मशालिनी सक्थिनी गुरुतरे दधाति यः ।
देवदैत्ययुधि दिग्गजेन्द्रयोरागृहीतकवचौ कराविव ॥ ४८ ॥

मण्डलं दिनकरस्य मध्यतो नीयमानमुनिनिर्मितान्तरम् ।
यस्य नूनमपदिश्य काञ्चनं पट्टबन्धमुदरे विराजते ॥ ४९ ॥

भाति यस्य किल कण्ठलम्बिनी शंकराक्षमणिमालिकोरसि ।
कालकूटकलुषीकृता गलान्निर्गतेव निगमाक्षरावली ॥ ५० ॥

कृष्णसर्पकृतचारुकङ्कणैर्यश्चतुर्भिरपि भाति बाहुभिः ।
शक्रवाहनगजः शशिप्रभैरिन्द्रनीलवलयै रदैरिव ॥ ५१ ॥

भासमानभसितत्रिपुण्ड्रया यो ललाटतुहिनांशुलेखया ।
पञ्चबाणवपुरिन्धनानलं लोचनं वहति कुड्मलीकृतम् ॥ ५२ ॥

यस्य मौलिरपि धातृसौधभूनिर्गताभ्रतटिनीनिपातजम् ।
फेनपिण्डमिव वेगवक्रितं कान्तमुद्वहति खण्डमैन्दवम् ॥ ५३ ॥

शंकरोऽथ चलमौलिजाह्नवीवारिपूरणरणत्करोटिकम् ।
दक्षिणेतरकरावलम्बितश्रीशपाणि वृषभादवातरत् ॥ ५४ ॥

सोऽवतीर्य गिरिसन्निभाद्वृषात्साकमद्रिसुतया सविभ्रमम् ।
प्राविशत्कनकसंसदन्तरं पश्यतामिव शरीरिणां मन: ॥ ५५ ॥

तापसप्रमथदेवमानवैः सान्द्रिता विलसति स्म सा सभा ।
शंकरेण मधुनेव चारुणा भूरिभूरुहकरम्बितावनी ॥ ५६ ॥

अञ्जलिस्तबकितेन मौलिना कीर्तिवर्णनकृता मुखेन च ।
जन्मिनो जनिशमार्थमर्थयामासुरीशमचिरेण नर्तितुम् ॥ ५७ ॥

व्याघ्रपादमृषिमीरितस्तवं तं पतञ्जलिमपि स्तवोन्मुखम् ।
वीक्ष्य शीतलदृशा शिवोऽवदन्नर्तनं मम निरीक्ष्यतामिति ॥ ५८ ॥

नर्तनाय गिरिशे कृतत्वरे चत्वरे महति हेमसंसदः ।
मास्तु शब्द इति वेत्रपाणिना सर्वतो जगदतर्जि नन्दिना ॥ ५९ ॥

सिद्धचारणकरान्तनिर्गलन्मुग्धपुष्पनिचये सभान्तरे ।
नन्दितर्जनवशात्कुतूहलादप्यतिष्ठदपसंकथो जनः ॥ ६० ॥

तत्र शंकरकटाक्षचोदितश्चारुमर्दलमवादयद्धरिः ।
य:[]पयोद इति पुष्कराश्रितो नीलकण्ठनटनोचितध्वनिः ॥ ६१ ॥

कामजिन्नटनकारणेन वा भारतीकुचयुगभ्रमेण वा ।
तत्र तालयुगलीमथाददे पाणिपङ्कजयुगेन पद्मभूः ॥ ६२ ॥

रम्भया हृतरसे रदच्छदे वंशनालमवसज्य वासवः ।
वादनादपि विमोहयञ्जनानाददे किल न वासवस्थितिम् ॥ ६३ ॥

वादय द्रुतमितीव शंसता स्फाटिकाक्षवलयेन दक्षिणे ।
आश्रिता श्रवसि चारुवल्लकी वादनं व्यतनुत प्रियाविधेः ॥ ६४ ॥

आयतेन फणिना जटाभरं मध्यभागमिभचर्मकक्ष्यया ।
बध्नतः प्रियतमस्य नर्तितुं वीक्ष्य संभ्रममुमा स्मितं व्यधात् ॥ ६५ ॥

वीक्षणोचितममांसचक्षुषा नर्तनोत्सवमवेक्षितुं निजम् ।
शंभुना सकलदेहिनां तदा दिव्यमक्षि दिदिशे दयालुना ॥ ६६ ॥

सं[]ददर्श सपदि भ्रमज्जटाताडितोडुपटलं तदा जनः ।
व्यालनूपुररणत्पदार्पणन्यञ्चितक्षिति नटेशनर्तनम् ॥ ६७ ॥

धर्मवारिकणकन्दलद्रवद्भस्मपुण्ड्रपरिकर्मितालिकम् ।
कण्ठलम्बितहराक्षमालिकाच्छेदकीर्णमणिहारि किंकरम् ॥ ६८ ॥

मध्यसीम्नि गलिताहिबन्धनव्याकुलद्विरदचर्मकक्ष्यकम् ।
पादताडितधरातलक्रमप्रोन्मिषत्पटपटायिताकुलम् ॥ ६९ ॥

मण्डलभ्रमिषु कीर्णजाह्नवीशीकरस्रपितचक्रवालकम् ।
बाहुवेगपवनाभिपूरितक्रन्ददन्तरदिगद्रिकन्दरम् ॥ ७० ॥

उद्धृतैकचरणाम्बुजप्रभासृज्यमानपरिवेषविग्रहम् ।
उत्पलोदरसहोदराम्बिकालोचनान्तवलनैकगोचरम् ॥ ७१ ॥

शाम्बरीयवनिकामथाक्षिपन्सप्रपञ्चमयनर्तनं शिवः ।
द्रागदर्शयत गोणिकासुतं व्याघ्रपादमितरानृषीनपि ॥ ७२ ॥

तेन ते स्वयमिदं जगन्मृषा जानते स्म परमार्थतः पुनः ।
ब्रह्म तत्परमनादि सच्चिदानन्दलक्षणमनन्तमद्वयम् ॥ ७३ ॥

इत्यवेक्ष्य नटनं जगत्पतेर्भक्तिभारलुलितेन चेतसा ।
तुष्टुवुस्तमखिलाः शरीरिणः श्रेयसा स समयोजयच्च तान् ॥ ७४ ॥

नृत्तं तत्फणिपतये स दर्शयित्वा
प्राहेदं प्रणयकिरा गिरा गिरीशः ।
त्वं कृत्वा भुवि पदशास्त्रवार्तिकानां
भाष्यं तद्विवृणु ततो दिवं व्रजेति ॥ ७५ ॥
आज्ञाप्यैवं फणिनमपरान्सोऽनुगृह्याक्षिपातै-
र्गौर्या साकं विधिहरिगणैश्चापि शंभुस्तिरोऽभूत् ।
हर्षाश्चर्यस्तिमितहृदयौ व्याघ्रपाद्गौणीकेया-
वस्तूयेतामृषिभिरनटद्यत्कृते चन्द्रचूडः ॥ ७६ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते चतुर्थः सर्गः


  1. ‘केतुमत्वरितपांसुकेतनम्' खं.
  2. ‘यः पयोद इव पुष्कराश्रितो’ क.
  3. ‘महीं पादाघाताद्व्रजति सहसा संशयपदं ।
    पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
    मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
    जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥’
    इति महिम्नःस्तवे.