पतञ्जलिचरितम्/पञ्चमः सर्गः
पञ्चमः सर्गः ।
अथ नटनमवेक्ष्य चन्द्रमौलेरपसरति त्रिदशव्रजे विमानैः ।
कलिमलहृतये नृणां मुनी तौ लिलिखतुरादिनटं क्वचित्प्रदेशे ॥ १ ॥
विलिखितमधुनापि संयमिभ्यां शिवमवलोक्य नटं चिदम्बरेशम् ।
अपहतकलुषाः कलौ मनुष्या दधति भवाब्धिविलङ्घनक्षमत्वम् ॥ २ ॥
कतकुलतिलकेन कल्पितानामथ मुनिना पदशास्त्रवार्तिकानाम् ।
जगदुपकृतये चकार भाष्यं महदचिरेण पतञ्जलिर्महात्मा ॥ ३ ॥
तमृषिमनुययुस्तदीयभाष्यं पिपठिषवः किल पण्डिताः सहस्रम् ।
गुरुपरिचरणादृते कुतो वा भवति परं सुलभा जनेन विद्या ॥ ४ ॥
तदनु यवनिकां वितत्य गूढं वपुरनया च पतञ्जलिर्विधाय ।
उपविशत बहिस्तिरस्करिण्याः पठत कृतिं च ममेति तानुवाच ॥ ५ ॥
मम स तु न भवेन्मनःप्रियो मां य इह तिरस्करिणीमुदस्य पश्येत् ।
इति पुनरभिधाय पाठनार्थं फणिपतिरूपमृषिः समाललम्बे ॥ ६ ॥
अथ गुरुचरणेन शान्तिमन्त्रान्प्रथममजापिषुरुत्तरं च पाठात् ।
अहरहरखिला बुधाः कृती स्याद्गुरुवचसि स्थित एव हीष्टसिध्द्या ॥ ७ ॥
कृतिपठनमुखे गुरोस्तदन्तेऽप्यतनिषत द्व्यधिकान्दशप्रणामान् ।
ब[१]हुमतविनया बुधाः किमन्यत्सुकृतमिहास्ति गुरुप्रणामतोऽपि ॥ ८ ॥
पठति बुधगणे फणीन्द्रभाष्यं करधृतपुस्तकमुच्चकैस्तदग्रे ।
सुत इव सुखयास्य वाक्यभङ्ग्या निशमयताममृतद्रवः श्रवःसु ॥ ९ ॥
दुरवगमपदार्थबोधहेतोरमृतरुचेरिव चन्द्रिकाविशुद्धा ।
भणितिरहिपतेर्बुधावलीनामपनयति स्म तमस्तदा समस्तम् ॥ १० ॥
अहमहमिकया स्थितं क्षिपद्भिः परिचितगौतमजैमिनिप्रबन्धैः ।
सुमतिभिरनुयुक्तमर्थमुक्त्या झटिति स युक्तिभिरिद्धया विवव्रे ॥ ११ ॥
किमपि विघटयन्किमप्यनुज्झन्किमपि समुज्ज्वलयंश्च वार्तिकेषु ।
नृप इव भटमण्डलेषु भाष्ये व्यहरत राज्य इवास्य वाङ्निगुम्फः ॥ १२ ॥
तुहिनशिखरितुङ्गशृङ्गपातक्षणरणदभ्रनदीतरङ्गभङ्गीम्।
परिभवति पतञ्जलेः पठन्तो वचसि दधुः किल विस्मयं तदा ते ॥ १३ ॥
अधिफणिकृति तावदेव पेठुर्विलसति यावति वासरूपसूत्रम् ।
विनयभरजुषो विचक्षणास्ते बहुतपसां हि भवेत्तदन्तपाठः ॥ १४ ॥
प्रतिपुरुषमिहाननैः कियद्भिर्युगपदयं वदतीति विस्मयेन ।
अपहृतमनसोऽथ तेऽपनिन्युः सपदि तिरस्करिणीं तदीक्षणाय ॥ १५ ॥
वि[२]वृतफणसहस्रमुग्रदंष्ट्रं क्षितितलकुण्डलितार्धभोगभीमम् ।
प्रसृतपरिहृतोभयाग्रजिह्वं तरलदृशं तमथ व्यलोकयंस्ते ॥ १६ ॥
दधुरथ सदृशीस्तनूः स्मरेण त्रिपुररिपोरलिकाक्षिलक्षितेन ।
अपि दश विदुषां शतानि पुंसो गुरुवचनव्यतिलङ्घनं ह्यनर्थः ॥ १७ ॥
फणिपतिरभिवीक्ष्य तादृशांस्तान्कथमिदमित्यनुचिन्त्य यावदास्त ।
परिसरमुपसृत्य तावदेकः प्रणमितमौलिरिदं भयादवादीत् ॥ १८ ॥
फणिवर भगवन्प्रसीद मह्यं बेहिरगमं जलमोचनाय यावत् ।
विधुतयवनिकाः कृतापराधा बत मम तावदिति स्थिताः सतीर्थ्याः॥ १९ ॥
इति गदितगिरं शशाप कोपाद्यदविहितोत्तरशान्तिमन्त्रपाठः ।
बहिरसि गतवान्पठन्मदीयां कृतिमपि तद्भव राक्षसोऽञ्जसेति ॥ २० ॥
प्रणिपतनगुणस्तवप्रबन्धैः फणिपतिरस्य कथंचन प्रसन्नः ।
धृतजटिलमनुष्यमूर्तिरित्थं तमवददापदमुत्क्षिपन्निवोक्त्या ॥ २१ ॥
मा भज वत्स विषादं मत्वा कर्माणि जगति चित्राणि ।
कथमिव मे त्वयि कोपः कथमिव शापश्च तादृशोऽपरथा ॥ २२ ॥
निष्ठायां किं रूपं पचेरिति त्वं बुधान्पृच्छ ।
पक्वमिति वदति यस्तं मम कृतिमध्याप्य मुच्यसे शापात् ॥ २३ ॥
व्याकरणमहाभाष्यं मत्कृतमखिलं मम प्रसादात्ते ।
स्फुरतु यथेष्टं याहीत्युक्त्वा तमृषिस्तिरोदधे सहसा ॥ २४ ॥
सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।
कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥ २५ ॥
गोनर्दाख्यं देशं प्राप्य नमस्कृत्य गोणिकां जननीम् ।
तस्यां त्रिदिवगतायां तस्थौ शेषः स्वयं स मुनिः ॥ २६ ॥
अथ स पतञ्जलिशिष्यो रक्षो भूत्वाधिरुह्य वटमेकम् ।
पचिरूपं निष्ठायां पृच्छन्पचितमिति वादिनोऽखादीत् ॥ २७ ॥
अथ बहुषु गतेषु वत्सरेषु द्विजमुपकण्ठमुपेयिवांसमेकम् ।
पु[३]नरपि तदपृच्छदेव रक्षो झटिति स पक्वमिति स्फुटं जगाद ॥ २८ ॥
द्विजगिरमवकर्ण्य कर्णरम्यामवतरति स्म वटात्तदाशु रक्षः ।
अयमुदयति शापमोक्षकालो मम गुरुणोक्त इति प्रहृष्यदन्त: ॥ २९ ॥
द्विजवर वद को भवान्कुतस्त्यस्तव किमिहागमने प्रयोजनं वा ।
कृतमतिरसि पाणिनीयशास्त्रे यदि च रुचिः पठ मत्फणीन्द्रभाष्यम् ॥ ३० ॥
इति कथयति रक्षसि प्रहृष्यन्निदमगदीदहमस्मि चन्द्रगुप्तः ।
उपगम इह मेऽयमुज्जयिन्याः पठितुमहीश्वरभाष्यमन्तिके ते ॥ ३१ ॥
इति गदितवते द्विजाय तस्मै फणिपतिभाष्यमशेषमाचचक्षे ।
शुचिरनिशमसंविशन्ननश्नंस्तदपि च मासयुगेन सोऽध्यगीष्ट ॥ ३२ ॥
प्रतिदिवसमसौ पपाठ यावद्भुजगकृतौ किल रक्षसः समीपे ।
अपचितवटपत्रजालगर्भे नखशिखरेण दृढं लिलेख तावत् ॥ ३३ ॥
अ[४]थ पृथुलशिरोणुमात्रकण्ठं चलदतिशुष्कपिचण्डमायतोरु ।
ह्रसिमभृदकृशाङ्घ्रिपाणि रक्षो वपुरपहाय स दिव्यमूर्तिरासीत् ॥ ३४ ॥
व्रज सुखमवनौ कुरु प्रचारं भु[५]जगकृतेरिति तं स शेषशिष्यः ।
दिवमगमदुदीर्य सोऽपि बद्ध्वा वटदलसंचयमंशुके प्रतस्थे ॥ ३५ ॥
नखलिखितपतञ्जलिप्रबन्धं वटदलजालकमुत्तरीयबद्धम् ।
शिरसि दधदभीष्टलाभहृष्टः स निववृते वनवर्त्मना मनीषी ॥ ३६ ॥
पथिकपरिगृहीतवृक्षमूलस्थलमचलत्खगमप्रवृत्तवातम् ।
दिशि दिशि विसृतातपोष्म भेजे पथि चलता किल तेन मध्यमाह: ३७
तदनु पथि चलन्स चन्द्रगुप्तः सरितमवैक्षत कामपि प्रसन्नाम् ।
विकचकमलगर्भरेणुगन्धी श्रममपहन्ति नृणां यदूर्मिवातः ॥ ३८ ॥
बभुरनवरतं यदम्बुलोलेष्वलिकलभाः कमलेषु संचरन्तः ।
वसतिषु शयितं श्रियो जनन्याः प्रभुमिव पञ्चशरं गवेषयन्तः ॥ ३९ ॥
अदधुरिव वनानि स[६]ल्लकानां परिमललोलदलिव्रजच्छलेन ।
निगलमतरलेतरं यदूर्मौ झटिति नियन्त्रयितुं दृशो जनानाम् ॥ ४० ॥
कुमुदमुकुलजालकं यदीये पयसि बभौ करिदन्तकान्तकान्ति ।
पथिकतरुणदुर्दशानिमित्तं पतितमिवोडुकदम्बमम्बरान्तात् ॥ ४१ ॥
अविरलमसितं यदम्बुपूरे कुवलयकुड्मलमण्डलं चकाशे ।
प[७]थिकयुवविहन्तुरङ्गजस्य स्थितमिव जालमकीर्तिकन्दलानाम् ॥ ४२ ॥
पयसि विहरतोऽनिशं यदीये कलनिनदः कलहंसमण्डलस्य ।
श्रुतिषु परिणनाम पान्थयूनां कुपितमनोभवयोधसिंहनादः ॥ ४३ ॥
प्रसृमरमवकर्ण्य चक्रवाकप्रणदितमध्वनि तीरभाजि यस्याः ।
विनमितमुदितस्मितं तरुण्या वदनमलुम्पत वल्लभस्य धैर्यम् ॥ ४४ ॥
परिणतिविगलत्कदम्बपुष्पस्तबकपरागकरम्बितां यदूर्मिम् ।
न पुनरुपससार दावबुध्द्या वनकलभस्तृषितोऽपि वारि पातुम् ॥ ४५ ॥
शिखरितटनिषण्णमेणशावं कमपि यदम्बुनि ल[८]म्भितानुबिम्बम्।
ततकरकमलं गृहीतुकामा प[९]तिहसिता शबरी परं ललज्जे ॥ ४६ ॥
तटरुहसहकारमञ्जरीणां पयसि मुहुः प्र[१०]तिबिम्बितानि यस्याः ।
मधुकरकुलमुज्झितारविन्दस्पृहमसकृद्भ्रमयांबभूवुरुच्चै: ॥ ४७ ॥
यदुपवनरसालवाटिकायां मणितमनुत्सुकया भिया विधातुम् ।
अरमत सुदृशा कयापि जारो मदकलकोकिलकूजितानि शृण्वन् ॥ ४८ ॥
ततमपि मणितं तटे यदीये तरुविटपाग्रकलक्वणत्कपोते ।
इह विहरति जारयुग्ममन्तर्निचुलनिकुञ्जभुवीति न व्यनक्ति ॥ ४९ ॥
कमलदलदृशा विटं कयाचित्कृतसमयं यदुपान्तनीपवन्याम् ।
व्यवहितविवृतोऽसकृत्कलापी तरुषु कचभ्रमकृन्निनाय दूरम् ॥ ५० ॥
स्फटिकनिभविसर्पिचन्द्रपादे कुवलयसौरभचोरगन्धवाहे ।
दयिततमपदानि जारिणीभिर्निशि निशि यत्पुलिने गवेषितानि ॥ ५१ ॥
व्रतिमतिततिभिः प्रतानिनीनामिह विजहार चिराय जारयुग्मम् ।
इति निजकुहरप्रकीर्णभूषामणिभिरुवाच यदीयतीरकुञ्जः ॥ ५२ ॥
करचरणपदानि यत्तटान्ते नवपुलिने निहितानि कुञ्जगर्भे ।
दयितसहचरीजनाय तस्याश्चतुरमचक्षत जारकेलिभेदम् ॥ ५३ ॥
विदितनिजपथेऽपि शालिगोपीं कथमिति पृच्छति पान्थयूनि मार्गम् ।
अयमिति [११]विहितस्मिता च सास्मै निरदिशदिक्षुवणं यदन्तिकस्थम् ॥ ५४ ॥
स्तनभरमभिवीक्ष्य शालिगोप्याः पथिकयुवा श्रम इत्यशेत कुञ्जे ।
अविरलपुलकस्तनी वितेने दिशि दिशि सा च दृ[१२]शौ तटे यदीये ॥ ५५ ॥
पथिकयुवरदक्षताधरा यत्तटभुवि काचन शा[१३]लिगोपकन्या ।
सहचरम[१४]तिसंदधे चाटूक्त्या न दशति केलिशुको न मां सखीति ॥ ५६ ॥
सलिलविहरमाणसारसाक्षीकुचतटकुङ्कुमपङ्किला यदूर्मिः ।
पथिकयुवजनस्य पश्यतोऽन्तःकरणमरञ्जयदद्भुतं न तत्किम् ॥ ५७ ॥
तटमधिवसतो विटस्य तन्वीं सपदि यदम्बुनि मज्जतीमवेक्ष्य ।
ज[१५]लमजनि मनो मृषा न चेदं यदियममज्जदिहापि साङ्गभूषा ॥ ५८ ॥
स्तनशिखरितटे तलोदरीणामतिकठिने पतिता दृशो विहाय ।
समजनि हृदयेषु हन्त पीडा तरुणजनस्य तटस्थितस्य यस्याः ॥ ५९ ॥
अहरदधररागमाससाद स्तनतटकुङ्कुममाममर्श काञ्चीम् ।
जघनघटनया चचाल यस्याः सलिलभरः सुकृती नितम्बिनीनाम् ॥ ६० ॥
गिरितटकठिनोपलाभिघातस्खलनझलज्झलितोरुनिर्झरा या ।
प्रकटसहचरापराधरोषक्षणपरुषोक्तिरिवाङ्गना बभासे ॥ ६१ ॥
अथ स बुधवरः श्रमेण तस्याः किमपि निपीय जलं तटद्रुमूले ।
दलचयमुपधाय वस्त्रबद्धं लिखितपतञ्जलिवाङ्मयं निदद्रौ ॥ ६२ ॥
- तावन्निद्रावशमयमगाद्यावदस्योपधानं
- वत्सः कश्चिद्वटदलचयग्रासलोलश्चकर्ष ।
- उत्थायाथ ग्रसनचटुलादक्षिपद्वत्सवक्त्रा-
- त्तद्दन्तालिक्षतलिपि हठात्केषुचित्तद्दलेषु ॥ ६३ ॥
- तावन्निद्रावशमयमगाद्यावदस्योपधानं
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
पञ्चमः सर्गः ।
- ↑ ‘बहुमतविबुधा बुधाः' ख.
- ↑ ‘विवृतफणमुदग्रमुग्रदंष्ट्रम्' क.
- ↑ ‘पुनरपि तदपृच्छदेष रक्षो’ क.
- ↑ ‘अथ पृथुशिथिलशिरोणुमात्रकण्ठं’ क.
- ↑ ‘भुजगकृतेरिति स शेषशिष्यः’ ख.
- ↑ ‘हल्लकानाम्’ ख.
- ↑ ‘पथिकयुवति हन्तुरङ्गजस्य’ क.
- ↑ ‘लम्बितानुबिम्बम्’ क.
- ↑ ‘परिहसिता’ क.
- ↑ 'परिबिम्बितानि’ क.
- ↑ 'विहितस्मिता च वामे’ क.
- ↑ ‘दृशस्तटे यदीये’ क.
- ↑ ‘शालिगोपकान्या’ क.
- ↑ ‘इति संदधे’ ख.
- ↑ जल=जड. ‘किमसुभिर्ग्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥’ इति नैषधकाव्ये.