पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२३

← अध्यायः ०२२ पद्मपुराणम्
अध्यायः ०२३
वेदव्यासः
अध्यायः ०२४ →

महादेवउवाच-
शृणु नारद वक्ष्यामि माहात्म्यं तुलसीभवम् ।
यच्छ्रुत्वा मुच्यते पापादाजन्ममरणांतिकात् १।
पत्रं पुष्पं फलं मूलं शाखा त्वक्स्कंधसंज्ञितम् ।
तुलसी संभवं सर्वं पावनं मृत्तिकादिकम् २।
शरीरं दह्यते येषां तुलसीकाष्ठवह्निना ।
दत्वा च तुलसीकाष्ठं सर्वांगेषु मृतस्य वै ३।
पश्चाद्यः कुरुते दाहं सोऽपि पापात्प्रमुच्यते ।
मरणे यस्य संप्राप्तं कीर्तनं स्मरणं हरेः ४।
तुलसीदारुणा दाहो न तस्य पुनरावृतिः ।
यद्येकं तुलसीकाष्ठं मध्ये काष्ठशतस्य हि ५।
दाहकाले भवेन्मुक्तिः कोटिपापायुतस्य च ।
गंगांभसाभिषेकेण यांति पुण्यानि पुण्यताम् ६।
तुलसीकाष्ठमिश्राणि यांति दारूणि पुण्यताम् ।
तुलसीकाष्ठसंमिश्रा यावत्प्रज्वलते चिता ७।
दह्यंति तस्य पापानि कल्पकोटिकृतानि वै ।
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ८।
नयंति तं विष्णुदूता न च वै यमकिंकराः ।
जन्मकोटिसहस्रैस्तु मुक्तो याति जनार्दनम् ९।
दह्यंते ये नरा लोके तुलसीकाष्ठवह्निना ।
तान्विमानस्थितान्देवाः क्षिपंति कुसुमांजलिम् १०।
नृत्यंत्यप्सरसः सर्वा गीतं गायंति गायकाः ।
जायंते वीक्ष्य तं विष्णुः संतुष्टः शंभुना सह ११।
गृहीत्वा तं करे शौरिर्गृहं नीत्वास्य चांगतः ।
मार्जयेत्सर्वपापानि पश्यतां त्रिदिवौकसाम् १२।
महोत्सवं कारयित्वा जयशब्दपुरःसरम् ।
ज्वलते यत्र चाज्येन तुलसीकाष्ठपावकः १३।
अग्न्यगारे श्मशाने वा दह्यते पातकं नृणाम् ।
होमं कुर्वंति ये विप्रास्तुलसीकाष्ठवह्निना ।
सिक्ते सिक्ते तिले वापि अग्निष्टोमफलं लभेत् १४।
यो ददाति हरेर्धूपं तुलसीकाष्ठसंभवम् ।
शतक्रतुसमं पुण्यं लभते गोशतं फलम् १५।
नैवेद्यं पच्यते यस्तु तुलसीकाष्ठवह्निना ।
मेरुतुल्यं भवेद्दत्तं तदन्नं केशवस्य हि १६।
तुलसीपावकेनाथ यो दीपं कुरुते हरेः ।
दीपलक्षसहस्राणां पुण्यं स लभते फलम् १७।
न तेन सदृशो लोके वैष्णवो भुवि दृश्यते ।
यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचंदनम् १८।
स जायते कृपापात्रं विष्णोर्वाडवसत्तम १९।
तुलसीदारुजातेन चंदनेन कलौ हरिम् ।
विलिप्य भक्तितो नित्यं रमते हरिसन्निधौ २०।
तुलसीपंकलिप्तांगः कुरुते विष्णुपूजनम् ।
पूजाशतदिनैकाह्ना लभ्यते गोशतं फलम् २१।
विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचंदनम् ।
मंदिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु २२।
तिलप्रस्थाष्टकं दत्वा यत्पुण्यं प्राप्नुयान्नरः ।
तत्फलं जायते पुंसां प्रसादाच्चक्रपाणिनः २३।
यो ददाति पितॄणां तु पिंडे तुलसिसंभवम् ।
दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका २४।
तुलसीमूलमृत्स्नैव स्नानं कुर्याद्विशेषतः ।
तेन तीर्थे कृतं स्नानं यावच्चांगे च मृत्तिका २५।
तदीय यातु मंजर्या पूजनं च करोति यः ।
नानापुष्पैः कृता पूजा यावच्चंद्रदिवाकरौ २६।
यस्मिन्गृहेऽवतिष्ठेत तुलसी वृक्षवाटिका ।
दर्शनात्स्पर्शनाच्चैव ब्रह्महत्यादिपातकम् ।
तत्सर्वं विलयं याति दर्शनेनैव नारद २७।
महादेव उवाच-
अथान्यत्ते प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
न कस्यापि च कथितं शृणु देवर्षिसत्तम २८।
यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत् ।
तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः २९।
गृहे तस्मिन्न दारिद्र्यं नायोगो बंधुसंभवः ।
न दुःखं न भयं रोगस्तुलसी यत्र तिष्ठति ३०।
सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः ।
संनिधौ तस्य देवस्य रोपणात्पृथिवीतले ३१।
तेषां विष्णुपदं नित्यं तुलस्यारोपणे कृते ।
उत्पादान्दारुणान्रोगान्दुर्निमित्तान्यनेकशः ।
तुलस्याभ्यर्चिते भक्त्या हंत शांतिकरो हरिः ३२।
तुलसीगंधमाघ्राय यत्र गच्छति मारुतः ।
दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः ३३।
यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका ।
सर्वदा तत्र तिष्ठंति देवताश्च शिवो हरिः ३४।
तुलसीवनजा छाया यत्र यत्र भवेद्दिवज ।
तर्पणं कुरुते तत्र पितॄणां दत्तमक्षयम् ३५।
तस्य मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ।
मंजर्यां वसते रुद्रः तुलसी तेन पावनी ३६।
विना यस्तुलसीं कुर्यात्संध्याकाले तु मार्जनम् ।
तत्सर्वं राक्षसहृतं नरकं च प्रयच्छति ३७।
तुलसीपत्रगलितं तोयं यः शिरसावहेत् ।
गंगाफलमवाप्नोति शतधेनुफलं लभेत् ३८।
शिवालये विशेषेण रोपयेत्तुलसीं यदि ।
बीजसंख्या वसेत्स्वर्गे प्रत्येकं युगसंख्यया ३९।
उमया तु पुरा देवि शंकरार्थं हिमालये ।
रोपिताः शतवृक्षास्तु तुलस्याः प्रणतोऽस्म्यहम् ४०।
पर्वण्यवसरे यस्तु श्रावणे चाथ रोपयेत् ।
संक्रांतिदिवसे चैव तुलसी चातिपुण्यदा ४१।
तुलसीं पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् ।
सर्वसिद्धिकरामूर्तिः कृष्णः कीर्तिं ददाति च ४२।
शालग्रामशिला यत्र तत्र संनिहितो हरिः ।
तत्र स्नानं च दानं च वाराणस्यां शताधिकम् ४३।
कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च ।
तस्य कोटिगुणं पुण्यं शालग्रामशिलार्चनात् ४४।
शालग्राममयी मुद्रा संस्थिता यत्र हि क्वचित् ।
वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत् ४५।
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ।
तत्सर्वं नाशयेदाशु शालग्रामशिलार्चनात् ४६।
इति श्रीपाद्मेमहापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे तुलसीशालग्राममाहात्म्यंनाम त्रयोविंशोऽध्यायः २३।