पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०८

← अध्यायः ०७ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

व्यास उवाच-
पुनर्वक्ष्यामि विप्रेन्द्र गङ्गामाहात्म्यमुत्तमम् ।
गङ्गाकथासुधापानं कुरु मुक्तिं यदीच्छसि १।
दानं दत्तं तेन सर्वं तेन सर्वे मखाः कृताः ।
तेन प्रपूजितो विष्णुर्यद्भक्तिर्भीष्म मातरि २।
गङ्गायां धर्मकर्माणि क्रियंते यानि कानि च ।
अक्षयानि भवंत्यस्य तानि सर्वाणि जैमिने ३।
वहंतं जलमालोक्य गाङ्गेयानि जलानि यः ।
भक्त्या गच्छेत्समुत्थाय सोऽश्वमेधसहस्रकृत् ४।
गङ्गाजलेष्वागतेषु यो नो तिष्ठति भक्तितः ।
पशुता शाश्वती तस्य जन्मजन्मनि जैमिने ५।
गाङ्गेयं जलमासाद्य यो न गृह्णाति भक्तितः ।
जन्मकोट्यर्जितं पुण्यं क्षणादेव तु नश्यति ६।
गङ्गातीरं जिगमिषुं यस्तु वारयते द्विज ।
स कोटिकुलसंयुक्तो रौरवं नरकं व्रजेत् ७।
मूत्रं वाथ पुरीषं वा गंगातीरे करोति यः ।
न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि ८।
श्लेष्माणं वापि निष्ठीवं दूषिकां वाश्रु वा मलम् ।
गंगातीरे त्यजेद्यस्तु स नूनं नारकी भवेत् ९।
उच्छिष्टं कफकं चैव गङ्गागर्भे च यस्त्यजेत् ।
स याति नरकं घोरं ब्रह्महत्यां च विंदति १०।
गङ्गारोधसि यः पापं कुरुते मूढधीर्नरः ।
तदक्षय भवेन्नूनं नान्यतीर्थेषु शाम्यति ११।
अन्यतीर्थे कृतं पापं गङ्गायां च विनश्यति ।
गङ्गायां यत्कृतं पापं तत्कुत्रापि न शाम्यते १२।
तस्मात्पापं न कर्तव्यं गङ्गायां शास्त्रकोविदैः ।
कर्मणा मनसा वाचा कर्तव्यो धर्मसंग्रहः १३।
न ते देशा न ते शैला न च तानि वनानि च ।
पापविध्वंसिनी यत्र न तिष्ठेत्सुरनिम्नगा १४।
गङ्गातीरं परित्यज्य मुहूर्तमपि जैमिने ।
न च स्थातव्यमन्यत्र यदि कार्यशतान्यपि १५।
भिक्षान्नमपि भुक्त्वा च स्थातव्यं जाह्नवीतटे ।
न चान्यत्र क्षणमपि प्राप्य भूपालतामपि १६।
संत्यज्य देहं गङ्गायां ब्रह्महापि विमुच्यते ।
अन्यत्र मुक्तये न स्यादश्वमेधसहस्रकृत् १७।
गङ्गातीरे वसन्यस्तु हरिपूजापरो भवेत् ।
जन्मजन्मांतरे येन कदाचिन्नार्चितो हरिः १८।
भक्तिर्भवति नैतस्य गङ्गायां लोकमातरि ।
श्रूयतां मानवाः सर्वे भूयोभूयो ब्रवीम्यहम् १९।
स्नानं विधाय गङ्गायां गम्यतां परमं पदम् ।
मृत्युकाले भजेद्यस्तु गङ्गागङ्गेति मानवः २०।
विमुक्तःपातकैः सर्वैर्दिवि देवयुगायुतम् ।
यस्य गङ्गाकथारम्भो मृत्युकाले भवेद्द्विज २१।
स गच्छेद्विष्णुभवनं गलिताखिल कल्मषः ।
यस्तु स्मरति वै प्राज्ञो मृत्युकाले द्विजोत्तम २२।
गङ्गेति मुक्तिदं नाम तस्य तुष्टो भवेद्धरिः ।
मृत्युकाले भवेद्यस्तु गङ्गामृत्पुण्ड्रमुत्तमम् २३।
गङ्गास्नायिनमालोक्य त्यजेद्यस्तु कलेवरम् ।
श्मशानेऽपि द्विजश्रेष्ठ स गङ्गामरणं लभेत् २४।
तिष्ठंत्यस्थीनि गङ्गायां यावत्कालं शरीरिणः ।
तावत्कल्पसहस्राणि विष्णुलोके महीयते २५।
यस्य मज्जन्ति गङ्गायां भस्मास्थीनि नखानि च ।
शिरोरुहाण्यपि प्राज्ञः स विष्णोर्भुवनं वसेत् २६।
स्थितेष्वस्थिषु गङ्गायां यत्कर्म लभते नरः ।
ब्रवीमि तत्फलं सर्वं शृणु नान्यमना द्विज २७।
एकदा भगवाञ्छक्रो नानालंकारभूषितः ।
क्रीडागृहं ययौ कामी युवत्या पद्मगंधया २८।
पद्मगंधा रसज्ञा सा संप्राप्त नवयौवना ।
नानारसप्रदानेन चकार सुरसं प्रति २९।
सपत्न्याः स्वर्णपर्यंके तस्याः शिशुमृगीदृशः ।
प्रीतः पादतले जिष्णुरुवास स्मरमोहितः ३०।
अथ तस्यै स्वयं शक्रो निर्माय स्वर्णवीटिकाम् ।
ददाति परमप्रीतस्तद्गुणाकृष्टमानसः ३१।
एतस्मिन्नेव काले तु पौलोमी वरसुन्दरी ।
भूषणैर्भूषिता सर्वैः स्वयं तद्गृहमाययौ ३२।
दृष्ट्वा तथाविधं शक्रं सर्वदेवाधिपं प्रभुम् ।
भृशं चुकोप पौलोमी प्राहेति च सुलक्षणा ३३।
शच्युवाच-
देव किं कुरुषे कांत त्वं समस्तसुराधिप ।
मम दासीस्वरूपायै ददासि स्वर्णवीटिकाम् ३४।
स्पृशंति त्रिदशाः सर्वे शिरसा चरणौ तव ।
त्वं कथं पद्मगन्धाया दास्याः पादतले प्रभोः ३५।
याचितश्च सुगन्धित्वाद्भृंगः स्यानचतद्यशः ।
सुंदरी कोटिभर्त्ता त्वं समस्तरसवित्प्रभो ३६।
कथमेवंविधं कर्म करोष्यत्यंतकुत्सितम् ।
निर्गुणे पद्मगन्धेहे दासिदूरं परिव्रज ३७।
त्वमीश्वरी च पर्यंके शक्रः पादतले तव ।
व्यास उवाच-
तया निर्भर्त्सिता साध्वी पौलोम्या बहुधा ततः ३८।
उवाच पद्मगन्धा सा क्रोधादिति वरांगना ।
पद्मगंधोवाच-
गुणं च मम दोषं च स्वयं स्वाम्येव वेत्ति वै ३९।
केनाधिकारेणागत्य त्वं मां निंदसि निर्गुणे ।
अन्ये नेत्रद्वयेनापि पश्यंति गुणदोषकौ ४०।
सहस्रनेत्रैरप्येष न पश्येत्किं दुराशये ।
यथा दोषो हि लोकानां प्रचरेन्न गुणं तथा ४१।
आदौ कलंकश्चन्द्रस्य दृश्यते गुणवज्जनैः ।
अनर्थभाषिणी क्रूरा कुमूर्त्तिर्गुणवर्जिता ४२।
यदाहं नास्मि गुणिनी भजतु त्वां तदा पतिः ।
व्यास उवाच-
इत्युक्त्वा पद्मगंधा सा क्रोधात्कोकनदेक्षणा ४३।
उत्तस्थौ स्वर्णपर्यङ्कात्कुर्वंती करुणं महत् ।
इन्द्र उवाच-
प्रिये प्राणेश्वरि श्रेष्ठे मां विहाय क्व गच्छसि ४४।
मया किमपराद्धं ते मम तद्वद सुंदरि ।
कांते दासोऽस्म्यहं नूनं दासकर्म करोमि ते ४५।
दासपत्नी भवेद्दासी वाक्यं त्वं न शृणोषि कम् ।
समुत्थाय ततः शक्रस्तन्मोहाकुलमानसः ४६।
अंके निवेशयामास भूयस्तां वरसुंदरीम् ।
शच्युवाच-
क्रौंचित्वज्जीवनं धन्यं व्यर्थं मज्जीवनं ध्रुवम् ४७।
त्वं स्वामिसुभगा नित्यं दुर्भगाहं वरांगना ।
यावत्पुण्यक्षयं क्रौंचि तत्पुण्यं यास्यते क्षयम् ४८।
क्रौंचवंशसमुत्पन्ना दुःखंभूयोऽपि भोक्ष्यसि ।
देवेन्द्रेणसमं तावत्कुरु केलि यथासुखम् ४९।
कियद्भिर्दिवसैः क्रौंचि न भवेत्तव निर्गुणे ।
अत्यद्भुतं वचस्तस्याः पद्मगन्धा निशम्य सा ५० 7.8.50।
द्वन्द्वभावं परित्यज्य प्रणम्योवाच तां सतीम् ।
पद्मगंधोवाच-
पुलोमजे वरारोहे चित्रमेतत्त्वयोदितम् ५१।
क्रौंची कथमहं ब्रूहि श्रोतुमिच्छामि यत्नतः ।
काहं कुत्रस्थिता चापि कथमत्रागता सती ५२।
कालैः कियद्भिर्मत्पुण्यं क्षीणत्वं प्रतियास्यति ।
शच्युवाच-
पद्मगन्धे पुरा त्वं हि क्रौंची पक्षिसमुद्भवा ५३।
अमेध्यमामिषं कीटान्भक्षयंती क्षितौ स्थिता ।
न्यग्रोधतरुरेकोऽस्ति गङ्गातीरे मनोरमे ५४।
तत्र नीडं विनिर्माय भवत्या वसतिः कृता ।
एकदा कृष्णसर्पेण तस्मिन्न्यग्रोधपादपे ५५।
नीडं प्रविश्य दष्टा त्वं सहसा पंचतां गता ।
क्रव्याणि तव सर्वाणि स सर्पो भक्षयत्क्रुधा ५६।
स्थितानि तत्रैवास्थीनि निर्मांसानि वरानने ।
कदाचित्पवनैर्भद्रे महद्भिः स च पातितः ५७।
भग्नः पपात गङ्गायां समूलोऽपि वरांगने ।
गङ्गायां पतिते तस्मिन्न्यग्रोधे धरणीरुहे ५८।
गङ्गाजलैः प्लावितानि तान्यस्थीनि तवोत्तमे ।
यावदस्थीनि गङ्गायां तावत्तिष्ठंति तानि च ५९।
तावत्त्वं स्वामिसुभगा भविष्यसि सदैव हि ।
इति ते कथितं सर्वं पद्मगंधे मयाधुना ६०।
येन पुण्यप्रभावेण शक्रोऽपि वशगस्तव ।
धन्या तु जाह्नवी देवी क्रौंची यस्याः प्रसादतः ६१।
त्वमस्पृश्यासि चाण्डालैरंकेस्वपिषि वज्रिणः ।
तेनापमानिता साध्वी शक्रेणापि पुलोमजा ६२।
परिम्लानमुखांभोजा सा जगाम यथागता ।
शक्रांक एव सा तस्थौ पद्मगन्धा वरांगना ६३।
तद्वाक्यं हृदये तस्या जागरूकमिवस्थितम् ।
अथैकदा सुराधीशः सुप्रीतस्तद्गुणैर्द्विज ६४।
वरं वरय सुश्रोणि स्वयं तामित्युवाच ह ।
पद्मगंधोवाच ।
त्वं सर्वदेवताधीशो नारीकोटिपतिस्थता ६५।
तथाप्यसि ममाधीनः स्वामिन्किमपरैर्वरैः ।
तथापि त्वं वरं दित्सुर्यदा नूनं सुरोत्तम ६६।
कर्मणा मनसा वाचा प्रतिज्ञां कुरु मत्पुरः ।
इंद्र उवाच-
जीवितं च धनं चैव राज्यं चैव परिच्छदम् ६७।
आज्ञापय किमेतद्वै तुभ्यं दास्यामि सुंदरि ।
सत्यं सत्यं पुनः सत्यं संदेहो नात्र विद्यते ६८।
यदीच्छसि मृगीनेत्रे तत्ते दास्याम्यहं ध्रुवम् ।
पद्मगंधोवाच-
नूनमेव प्रसन्नोऽसि यदि त्वं त्रिदशेश्वर ६९।
जन्म मे हस्तियोनौ च भूयो देहीति मे वरम् ।
इंद्र उवाच-
कृतप्रतिज्ञः सुश्रोणि वरं तेऽहं ददामि वै ७०।
किंतु दुःखानि यातानि बहूनि हृदये मम ।
त्वामदृष्ट्वा वरारोहे प्रीतिर्न प्राप्यते क्षणम् ७१।
कथं ते चिरविच्छेदं सोढुं शक्नोमि दुःसहम् ।
यदा मय्यनुकंपास्ति तव पीनपयोधरे ७२।
तदा कियद्दिनं तिष्ठ मया सह वराङ्गने ।
ततो देवाधिराजस्य वदंती बहुसंपदम् ७३।
वर्षाणामयुतं तस्थौ सा देवनिलये सती ।
पद्मगन्धोवाच-
आज्ञां देहि सुराधीश साधितुं सुमनोरथम् ७४।
व्रजाम्यहं कर्मभूमिं वंदे पादद्वयं तव ।
इन्द्र उवाच-
त्वत्प्रेमसिंधुमानेन मया चन्द्रनिभानने ७५।
स्थित्वा कतिदिनं पश्चाद्गमिष्यसि यथासुखम् ।
ततस्तुकौतुकागारे तेन सार्द्धमहर्निशम् ७६।
क्रीडंती पद्मगंधा सा तस्थौ वर्षायुतत्रयम् ।
सुराधीशं ततः सेति तदा प्राह मुदान्विता ७७।
आदेशं कुरु गच्छामि पृथिवीं प्रति संप्रति ।
इंद्र उवाच-
जाड्यं जहीहि सुश्रोणि तिष्ठात्रैव मया सह ७८।
त्वां त्यक्तुं न हि शक्नोमि प्राणेभ्योऽपि गरीयसीम् ।
पद्मगन्धोवाच-
पुण्यक्षये सुराधीश यदा यास्याम्यहं भुवि ७९।
तदा चिरं ते विच्छेदो भविष्यति मया सह ।
यद्विच्छेदे मया नाथ पुनर्गंतुं भुवं प्रति ८०।
इच्छाम्यहं पुनर्द्यौश्च पुण्योपार्जनहेतवे ।
कर्मभूमिमहं गत्वा येनोपायेन वासव ८१।
तत्करिष्यामि विच्छेदः कदाचित्स्यात्त्वया न मे ।
इन्द्र उवाच-
भद्रे त्वया यदा नूनं कर्मेदं कर्तुमिच्छितम् ८२।
तदा गच्छ पुनः शीघ्रमागमिष्यसि सुंदरि ।
सह नेत्राद्धि विगलद्वाष्पसिक्ततनुस्ततः ८३।
दोर्भ्यामालिङ्ग्य तां शक्रो गच्छेत्याह प्रिये वदन् ।
तदादेशात्ततः साध्वी कर्मभूमिं समागता ८४।
जाता च हस्तिनी योनौ भूत्वा जातिस्मरा द्विज ।
स्मरंती निजवृत्तांतं सा कियद्भिर्दिनैस्ततः ८५।
जगाम जाह्नवीतीरं हस्तियोनिसु संभवा ।
गङ्गायां स्नानमासाद्य गङ्गाकर्दमभूषिता ८६।
गंगागंगेति जल्पंती ह्रदं निम्नं विवेश सा ।
तस्मिन्गंगाह्रदे गत्वा हस्तिनी पर्वताकृतिः ८७।
निजां जातिं स्मरंती सा जगाम पंचतां पुनः ।
तस्याः साहसमालोक्य हस्तिनीं सर्वदेवताः ८८।
ववर्षुः पारिजाताद्यैः कुसुमैरुत्तमैर्मुदा ।
तामानेतुं ततः शक्रः सर्वदेवगणैर्वृतः ८९।
वेगात्तच्चिरविच्छेदात्कृष्णांगीं सुमना ययौ ।
पुष्पकेतां समालोक्य दिव्यदेहां सुराधिपः ९०।
कथयन्निजदुःखानि निजावासं जगाम ह ।
पुलोमजा च रंभा च प्रम्लोचा चोर्वशी तथा ९१।
सुंदर्योऽन्याश्च युवतीस्तस्यास्त्यक्त्वा मुदा गताः ।
शक्रस्य हृदयोत्साहं तन्वंती सा वरांगना ९२।
पुरंदरपुरे तस्थौ सुभगा प्रीतिवल्लभा ।
यस्यास्तिष्ठंति गङ्गायां यावदस्थीनि जैमिने ९३।
कुलकोटिशतं तावत्तस्थावास सुरालये ।
राजानो दिविराज्येषु ये ये भूतास्तपोबलात् ९४।
तेषांतेषां स्नेहभूमिर्भवत्यमरसुंदरी ।
गंगास्थिमज्जनादेव जैमिने फलमीदृशम् ९५।
गंगायां त्यजतो देहं फलं वक्तुं न शक्यते ।
मृतं शरीरं गंगायां यावदस्थीनि जैमिने ९६।
कल्पकोटिशतं तावत्तस्या वासः सुरालये ।
मृतं शरीरं गंगायां स्रोतोभिश्चलितं द्विज ९७।
दृश्यते देहिनस्तस्य तत्फलं शृणु जैमिने ।
स्वर्गे देवांगना त्रस्तचारुचामरवायुभिः ९८।
वीजितः स्वर्णपर्यंके सुप्तस्तिष्ठति कौतुकी ।
जाह्नवीसैकते यस्य शरीरं दृश्यते मृतम् ९९।
दिवाकरकरैस्तप्तं कुलं तस्य वदाम्यहम् ।
सुगन्धैश्चंदनैर्दिव्यैर्लिप्तसर्वकलेवरः १०० 7.8.100।
दिव्याङ्गनाभिः सहितो दिवि क्रीडतिसर्वदा ।
काकैर्गृध्रैश्च कंकैश्च शकुंतैर्भीष्ममातरि १०१।
वपुर्विदलितं यस्य दृश्यते तत्फलं शृणु ।
दिवि दिव्यांगनापीनप्रोत्तुङ्गरुचिरस्तनैः १०२।
श्लिष्टवक्षाश्च पर्यंके निद्राति नित्यमेव सः ।
पिपीलिकाभिः कीटैश्च मक्षिकाभिश्च वेष्टितः १०३।
गंगायां यस्य दृश्यंते अस्थीनि पतितानि च ।
तस्याक्षयं फलं विप्र वदतो मे निशामय १०४।
प्रणमत्त्रिदशव्यूह शिरोमुकुटभूषणैः ।
हतपादरजाः स्वर्गे स च शक्रायते चिरम् १०५।
अनिच्छयापि गङ्गायां यद्देहपतनं भवेत् ।
स विमुक्तोऽखिलैः पापैर्नरो नारायणो भवेत् १०६।
यस्यांगाराश्च दृश्यंते गङ्गायां चलिता जलैः ।
अङ्गारसङ्ख्यया स्वर्गे तिष्ठेत्कल्पशताधिकम् १०७।
सर्वेषामेव पुण्यानां कदाचित्क्षयमीक्षते ।
गङ्गायां पतिते देहे भवेत्पुण्यक्षयो न हि १०८।
बहुनात्र किमुक्तेन निश्चितं कथ्यतेऽधुना ।
गङ्गायां त्यक्तदेहस्य महिमा ज्ञायते नहि १०९।
विषमदुरितराशीनाशि गाङ्गं नरो यः स्पृशति भुवि कदाचिद्भावुको भक्तिभावैः ।
जगदुदधिजलं विलंघ्य घोरं व्रजति स पारमपारतुष्टि नावा ११०।
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गामाहात्म्येऽष्टमोऽध्यायः ८ ।