पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०७

← अध्यायः ०६ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

श्रीव्यास उवाच-
भूय एव प्रवक्ष्यामि गङ्गामाहात्म्यमुत्तमम् ।
तच्छ्रुत्वा मानवाः सर्वे सर्वान्कामानवाप्नुयुः १।
येन नाचरितं स्नानं गङ्गायां लोकमातरि ।
आलोक्य तन्मुखं सद्यः कर्त्तव्यं सूर्यदर्शनम् २।
प्रभाते यः स्मरेद्भक्त्या गङ्गा इत्यक्षरद्वयम् ।
तस्य नश्यंति पापानि तमोवदरुणोदये ३।
न दृष्टा येन सरितां प्रवरा जह्नुकन्यका ।
तस्याग्राह्याणि सर्वाणि अन्नादि सलिलानि च ४।
शरीराणि परित्यज्य गङ्गास्नानं प्रकुर्वताम् ।
गात्राण्यायान्ति पापानि गङ्गास्नानमकुर्वताम् ५।
अहो चित्रमहो चित्रमहोचित्रमिदं पुनः ।
पतंति नरके मूढा गङ्गानाम्निस्थिते सति ६।
शिरसा यो वहेद्भक्त्या गङ्गाम्भः कणिकामपि ।
स मुच्यते महापापैर्ब्रह्महत्यादिभिर्द्विजः ७।
ललाटे दृश्यते यस्य गङ्गासैकतमुत्तमम् ।
स पुण्यात्मा जगत्सर्वं पुनाति नात्र संशयः ८।
गङ्गातीरात्समायांतं यः पश्येत्परमादरैः ।
सोऽश्वमेधसहस्राणि फलं प्राप्नोति मानवः ९।
गङ्गातीरमहं यामि त्वमागच्छेति वक्ति यः ।
तस्य विष्णुः प्रसन्नात्मा सर्वान्कामान्प्रयच्छति १०।
गंगेति नाम संस्मृत्य यस्तु कूपजलेऽपि च ।
करोति मानवः स्नानं गङ्गास्नानफलं लभेत् ११।
गङ्गाम्भः शीकरं यस्तु संमितं सर्षपस्य च ।
प्राप्नोति मृत्युकालेषु स गच्छेत्परमं पदम् १२।
अत्रैव शृणु विप्रर्षे इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति १३।
आसीत्त्रेतायुगे विप्रो धर्मस्वो नाम धार्मिकः ।
शांतो दांतो दयायुक्तो वेदवेदाङ्गपारगः १४।
सत्यवादी क्रोधहीनो हिंसाहीनो जितेन्द्रियः ।
सर्वभूतहितैषी च योगाभ्यसरतः सदा १५।
संसारसागरं तर्त्तुं स विप्रो वैष्णवो जनः ।
पूजयामास देवेशं क्रियायोगेन केशवम् १६।
कदाचित्प्राप्य पुण्याहं स च विप्रर्षभो द्विज ।
जगाम जाह्नवीतीरं मुमुक्षुः स्नानहेतवे १७।
तत्र गंगांभसि स्नात्वा कृत्वा च तर्पणादिकम् ।
गृहं गंतुं मनश्चक्रे गंगांभः कर्त्तरीं वहन् १८।
तस्मिन्काले ततो विप्र वैश्यो रत्नकराह्वयः ।
कृत्वा वाणिज्यमायांतं सकलैः किंकरैर्वृतः १९।
तस्यैकः किंकरो विप्रः कालकल्प इति स्मृतः ।
दंडहस्तः समायातो विहिताखिलपातकः २०।
अथवर्त्मश्रमश्रांतस्तस्य रत्नकरस्य च ।
सुष्वापैको बलीवर्द्दः पथि ब्राह्मणसत्तम २१।
पथि स्वपंतं तं दृष्ट्वा कालकल्पो वृषं ततः ।
दण्डेन ताडयामास बाहुधाऽत्यंतनिर्द्दयः २२।
तद्दण्डघातजनितक्रोधेन वृषभेन सः ।
विषाणाभ्यां सुतीक्ष्णाभ्यां समुत्थाय विदारितः २३।
तच्छृङ्गद्वयनिर्भिन्नवक्षाः स गतलोचनः ।
तत्सन्निधिं दयायुक्तो धर्मस्तु त्वरितो ययौ २४।
ततः कर्णात्समादाय तुलसीपत्रमुत्तमम् ।
गङ्गाम्भः शीकरैर्दिव्यैः सिक्तोसौ तेन धीमता २५।
गतप्राणं समालोक्य स विप्रः परमार्थवित् ।
विस्मितः स्वगृहं गंतुं मनश्चक्रे द्विजोत्तम २६।
अथ गच्छन्पथि प्राज्ञो गङ्गानामानि कीर्तयन् ।
यमदूतान्ददर्शाग्रे कोटिकोटि सहस्रशः २७।
छिन्नैकपादाः केचिच्च केचिच्छिन्नैकपाणयः ।
केऽपि केऽपि च्छिन्नकर्णाः केऽप्येकनयनास्तथा २८।
केचिच्च च्छिन्ननासाश्च च्छिन्नजिह्वाश्च केचन ।
भग्नदंताः केऽपि केऽपि केऽपि दंतविवर्जिताः २९।
केऽपि शोणितधाराभिर्लिप्तसर्वकलेवराः ।
विमुक्तकैशिकाः केऽपि केऽपि वक्त्रविवर्जिताः ३०।
केऽपि केऽपि तथा नग्नाः केऽपि निर्भिन्नवक्षसः ।
केऽपि जर्जरितांगाश्च महातीक्ष्णैः शिलीमुखैः ३१।
निषिद्धांगुलिहस्ताश्च दृढपाशैस्तथापरे ।
क्रंदंतो व्यथया केऽपि पलायनपरायणाः ३२।
एवंभूतान्यमप्रेष्यान्स विलोक्य द्विजोत्तमः ।
सकंपहृदयो भीत्या ततः स्तब्धइवाभवत् ३३।
अवलंब्य ततो धैर्यं स विप्रो हरिभक्तिकृत् ।
इत्यपृच्छन्मधुरया किरातान्यमकिंकरान् ३४।
धर्म उवाच-।
के यूयं विकृताकाराः पाशमुद्गरपाणयः ।
दंष्ट्राकरालवदना अंगारसदृशप्रभाः ३५।
यूयं सर्वे महावीर ज्वलत्पावकलोचनाः ।
कृता तथापि युष्माकमियं केनापि दुर्गतिः ३६।
यमदूता ऊचुः -
यमदूता वयं सर्वे यमाज्ञाहारिणः सदा ।
सदंडोऽयं द्विजास्माकं सुमहान्कदनोदयः ३७।
धर्मस्व उवाच-
अकस्मादागता यूयं महाबलपराक्रमाः ।
एतावत इयं केन कथं वा दुर्गतिः कृता ३८।
यमदूता ऊचुः-
भयं मुंच द्विजश्रेष्ठ वृत्तांतं सकलं शृणु ।
यथास्माकमिदं दुःखं बभूवात्यंतदुःसहम् ३९।
योऽसौ वृषेण शृङ्गाभ्यां कालकल्पो विदारितः ।
तं नेतुं धर्मराजेन प्रेरिताः किंकरा वयम् ४०।
तेनाज्ञप्ता वयं सर्वे समस्तायुधपाणयः ।
बद्ध्वा तं पापिनां श्रेष्ठं नेतुमिह समागताः ४१।
अथासौ प्राप्तकालश्च कालकल्पो दुराशयः ।
वृषेणहेतुभूतेन विषाणाभ्यां विदारितः ४२।
सदयेन तथा तत्र गङ्गापानीयसीकरैः ।
सिक्तः पातकिनां श्रेष्ठो गङ्गानामानि जल्पता ४३।
गङ्गाम्भः कणिकासेकैर्गतकल्मषमप्यमुम् ।
बद्ध्वा पाशैर्दृढं नेतुमुद्यमं प्रतिचक्रिरे ४४।
नेतुं तमपि देवेशः शरणागतपालकः ।
स्वदूतान्प्रेषयामास महाबलपराक्रमान् ४५।
केऽपि दूताः समागत्य ततो नारायणाज्ञया ।
सकोपाः प्राहुरित्यस्मान्पथि ब्राह्मणसत्तम ४६।
विष्णुदूता ऊचुः ।
के भवंतो महात्मानः कथमेनं महाशयम् ।
बद्ध्वा नयथ पाशेन यूयं वा कस्य किंकराः ४७।
विहायैनं महात्मानं पलायध्वं यथासुखम् ।
न चेच्छिरांसि युष्माकं छेत्स्यामश्चक्रधारया ४८।
तेषामेतानि वाक्यानि गर्वितानि द्विजोत्तम ।
संश्रुत्याच्युतदूतानां तेऽस्माभिरतिजल्पिताः ४९।
दण्डपाणेर्वयंदूताः सर्वे प्राणाधिपस्य वै ।
नीत्वैनं पापिनां श्रेष्ठं प्रयामः शमनालयम् ५० 7.7.50।
यूयं सर्वे महात्मानस्तुलसीमाल्यभूषिताः ।
स्फुटपद्मपलाशाक्षाबलिनो गरुडध्वजाः ५१।
दिव्यांबरधरा यूयं मयूरगलसुंदराः ।
शंखचक्रगदापद्मधारणाश्च चतुर्भुजाः ५२।
के यूयमीदृशाः सर्वे सर्वलक्षणसंयुताः ।
इमं पातकिनां श्रेष्ठं कथं वा नेतुमिच्छथ ५३।
विष्णुदूता ऊचुः-
वयं सर्वे विष्णुदूताः पुण्यात्मानमिमं नरम् ।
नेतुमत्र समायाता वैकुंठं प्रति संप्रति ५४।
इमं श्रीभगवद्भक्तं स्वजनं गतकल्मषम् ।
मुंचताशु यमप्रेष्या यदि जीवितुमिच्छथ ५५।
भूयस्तेषामिदं वाक्यं श्रुत्वा सर्वगतं द्विज ।
कोपाद्यदुक्तमस्माभिस्तदाकर्णय कथ्यते ५६।
अयं पापी दुराचारो ब्रह्महत्यासहस्रकृत् ।
कृतघ्नश्चैव गोघ्नश्च मित्रघ्नश्च दुराशयः ५७।
मेरुप्रमाणहेमानि हृतानि सुबहूनि च ।
परदारा हृता नित्यमनेनातिदुरात्मना ५८।
कोटिकोटिसहस्राणि जंतूनां विष्णुकिंकराः ।
कृताश्च बहुधा हत्याः स्त्रीहत्या च तथैव च ५९।
अयं न्यासापहरणं स्वमातृगमनं तथा ।
गोमांसभक्षणं चैव चकार प्रतिवासरम् ६०।
परहिंसाकृतानेन दाहश्च परवेश्मनः ।
सभायां परनिंदा च विधवागर्भपातनम् ६१।
गृहमायांतमतिथिं धनलोभेन सत्तम ।
अहनन्निशितैः खङ्गैर्निशायां यवनोपमः ६२।
एतान्यन्यानि पापानि महान्त्यगणितानि च ।
चकार नीचो मूढोऽसौ नाल्पमात्रं शुभावहम् ६३।
तस्मादयं महापापी नीयते यातनागृहम् ।
ज्ञेया हि पापिनो दंड्या धर्मराजस्य सत्तमाः ६४।
यूयं वै देवदेवस्य दूता भगवतो यदि ।
तदा कथमिमं नेतुं पापिनां श्रेष्ठमिच्छथ ६५।
विष्णुदूता ऊचुः ।
भविद्भः सत्यमेवोक्तं कोऽपि नास्त्यत्र संशयः ।
दण्ड्याः पातकिनः सर्वे जीविताधिपतेः सदा ६६।
अयं पापविनिर्मुक्तो गङ्गाशीकरसेचनात् ।
तस्मादेनं वयं सर्वे नेष्यामो हरिमंदिरम् ६७।
तावत्तिष्ठंति देहेषु पातकानि शरीरिणाम् ।
गङ्गाम्भः शीकरा यावन्न स्पृशंति सुदुर्ल्लभम् ६८।
चंद्रैककलया सर्वं तिमिरं हन्यते यथा ।
गङ्गाम्भः शीकरेणापि पातकं हन्यते तथा ६९।
गंगानामानि संस्मृत्य पापी मुच्येत पातकात् ।
साक्षात्तत्सलिलं दृष्ट्वा मुच्यतेऽत्र किमद्भुतम् ७०।
शीतमप्युदकं गाड्गं वह्निवत्पापकानने ।
यथाग्निवत्पद्मवने शीतं तोयं च दाहकृत् ७१।
तस्मादयं पुण्यकर्मा द्वितीय इव केशवः ।
गच्छध्वं शमनप्रेष्या यदि कल्याणमिच्छत ७२।
तेषां केशवदूतानां श्रुत्वास्माभिरिदं वचः ।
भूय एव निरुक्तं यद्विहस्योच्चैः शृणुष्व तत् ७३।
अहो चित्रमहो चित्रमयं कल्मषमंदिरः ।
गङ्गाम्भः सेचनादेव विमुक्तः सर्वपातकैः ७४।
स्वहस्तोपार्जितं कर्म शुभं वा यदि वाशुभम् ।
नाभुक्त्वा मुच्यते मर्त्यः कल्पकोटिशतैरपि ७५।
यमाज्ञया नेतुमिमं वयं सर्वे समागताः ।
कस्यायं वचसास्माभिस्त्यज्यते पापिनां वरः ७६।
विष्णुदूता ऊचुः ।
यूयं पापधियो नूनं विवेकपरिवर्जिताः ।
युष्माभिर्जह्नुकन्याया न ज्ञायंते यतो गुणाः ७७।
कार्यं वेदे निषिद्धं यत्तत्पातकमिति स्मृतम् ।
यद्वेदसंमतं कार्यं तदेव धर्म्यमुच्यते ७८।
देवो नारायणः साक्षात्स्वयंभूरिति शुश्रुम ।
यथा विष्णुस्तथा गंगा गंगैव सर्वपापहा ७९।
अशुभं वा शुभं कर्म स्वहस्तरचितं हरिः ।
हरौ प्रसन्ने पापानि कुत्र तिष्ठंति देहिनाम् ८०।
जन्मान्तरार्जितैः पापैर्गता यूयमिमां गतिम् ।
अद्यापि पापकर्माणः किमर्थं पापमिच्छथ ८१।
गङ्गानिन्दाकरा यूयं विष्णुनिंदाकरास्तथा ।
अतो युष्मान्हनिष्यामः पापिनश्चक्रधारया ८२।
इत्युक्त्वा विष्णुदूतास्ते कोपादरुणलोचनाः ।
चक्रिरे समरारंभमस्माभिः सह सत्तम ८३।
जीवेश दूता हन्यंतामिति प्रोचुश्च ते रुषा ।
भूयोभूयो वदंतोऽस्मान्निजघ्नुश्चक्रधारया ८४।
इत्युक्त्वा विष्णुदूतास्ते संग्रामेत्यंतदारुणाः ।
सर्वे शंखान्समादध्मुः सहसा हृष्टमानसाः ८५।
ततोऽस्माकं सिंहनादैः पयोदस्तनितैरिव ।
कोदंडानां च विस्तारैर्व्याप्तं विप्र जगत्त्रयम् ८६।
अथ वृक्षैः शिलाभिश्च तथा पर्वतवृष्टिभिः ।
अस्माभिर्विष्णुदूतास्ते बाणैश्च विदलीकृताः ८७।
ऋष्टिभिर्भिंदिपालैश्च बाणैश्च परिघैस्तथा ।
कुठारैश्छुरिकाभिश्च दंडैश्च शंकुभिस्तथा ८८।
खङ्गैश्च शक्तिभिश्चैव निशितैश्च शिलीमुखैः ।
गदाभिश्चक्रधाराभिर्नाराचैश्च सुभीषणैः ८९।
एतैरन्यैश्च विषमैरस्त्रैस्ते विष्णुकिंकराः ।
निजघ्नुर्बहुधा कोपाद्वज्रकल्पैर्महार्णवे ९०।
तदास्त्रजर्जराः सर्वे वयं भीत्या पलायिताः ।
निपेतुः केऽपि संग्रामे गतप्राणाः सहस्रशः ९१।
ततोऽस्मांस्ते समालोक्य पलायनपरायणान् ।
मुदा कंबून्समादध्मुर्बलिनो विष्णुकिंकराः ९२।
अथ च्छित्त्वा द्विजश्रेष्ठ कालकल्पस्य बंधनम् ।
विमाने तं समारोप्य जग्मुर्भगवतः पुरम् ९३।
गङ्गाशीकरसेकस्य प्रभावेनैव सत्तम ।
जगाम हरिसालोक्यं कालकल्पोऽति पातकी ९४।
स्थित्वा कल्पशतं तत्र भुक्त्वा भोगान्मनोहरान् ।
ज्ञानमासाद्य तत्रैव परमं मोक्षमाप्तवान् ९५।
गङ्गाप्रभावैरस्माकमेतद्दुःखं गतं प्रभो ।
गच्छ ब्राह्मण भद्रं ते सुप्रीतो निजमंदिरम् ९६।
इत्युक्त्वा यमदूतास्ते ययुर्यमपुरं द्विज ।
भूय एव स धर्मस्वः प्रीतो गङ्गातटं ययौ ९७।
गंगायां स्नानमाचर्य सर्वलोकस्य मातरि ।
बद्धाञ्जलिः स विप्रस्तां तुष्टाव परमेश्वरीम् ९८।
धर्मस्व उवाच-
गंगे समस्तजगदंब चलत्तरंगेऽनगादिचारुतरमस्तकपुष्पमाले ।
कंसारिचारुचरणद्वयरेणुहन्त्रि भक्त्या नमामि दुरितक्षयकारिणीं त्वाम् ९९।
मातः समस्तसुखदे प्रवरे नदीनां व्यासादिविप्रचयगीतगणे गुणाढ्ये ।
संसारभैरवमहार्णवमध्यनौके वंदेत वांघ्रियुगलं दुरितापहारि १०० 7.7.100।
यस्यास्तवांबुकणिकामपि जह्नुकन्ये सौदासनामनृपतिर्द्विजकोटिहत्याम् ।
संप्राप्य मुक्तिमगमत्त्रिसुरैरलभ्यां तां त्वां नमामि शिरसा वरदे प्रसीद १०१।
नारायणाच्युतजनार्द्दनकृष्णराम गङ्गादि नाम गदतो मम देवि मातः ।
संसारपातकनिवारिणि देहपातस्त्वद्वारिणीह भवतु त्वदनुग्रहेण २।
किं वा तपोभिरखिलेश्वरि किं जपैर्वा दानैश्च किं तुरगमे द्युमखैश्च किंवा ।
त्वन्नीरशीकरमवाप्य सुरैरलभ्यां मुक्तिं व्रजंति मनुजा अतिपापिनोऽपि ३।
स्वाहा त्वमेव परमेश्वरि या स्वधा त्वं गीर्वाणवृंदपितृलोकसुतृप्तिहेतोः ।
सत्वं रजस्तम इति त्रिगुणस्वरूपां सृष्टिस्थितिप्रलयकारिणि नौमि तां त्वाम् ४।
धत्ते ललाटफलके तव सैकतं यः पुण्ड्रं च देवि तव तीरमृदा सदैवम् ।
त्वन्नाम सर्वरसधामवदेच्च भक्त्या त्वत्पादरेणुरखिलोस्तु ममैव मूर्ध्नि ५।
त्वद्रोधसि त्रिपथगे वसतिं विधाय पीत्वा च वारि तव पातकनाशकारि ।
स्मृत्वा च नाम तव वीचिरसं च दृष्ट्वा संसारबंधनहरे मम जातु जन्म ६।
नाकं शुभे सुमहदुल्लसिता मनुष्याः कुर्वंति भीतिरतिदुर्गमवर्त्म मत्वा ।
व्यर्थेव सा किल यतोऽमृतदे त्वदीयं सोपानभूतमुदकं त्रिदिवप्रयाणे ७।
पापानि रोगनिकराश्च शरीरदेहे तिष्ठंति तावदखिलेश्वरि भुक्तिदात्रि ।
कुर्वंति यावदमलेषु तवोदकेषु स्नानं न हि त्रिपथगे सरितां प्रधाने ८।
यस्यास्तवाच्युत विरंचि शिवादयोऽपि शक्रादिदेवनिकरा व्रजितुं महिम्नाम् ।
पारं परे परममोक्षपदप्रदात्रीं तां त्वां वदंति तटिनीमितिकेऽपि मोहात् ९।
गङ्गे समस्तसुखदायिनि किंचिदेव जानाति ते पशुपतिर्भगवान्महत्त्वम् ।
यस्मादसौ सुमनसां प्रवरोऽतिभक्त्या धत्ते सदैव शिरसा जगदीश्वरीं त्वाम् ११०।
गंगे देवि जगन्मातः प्रसीद परमेश्वरि ।
परिपाहि नमस्तुभ्यं रक्ष मां सेवकं स्वकम् ११।
परब्रह्मस्वरूपां त्वां सर्वलोकैकमातरम् ।
शक्नोमि किमहं स्तोतुं भ्रांतचित्तोऽत्र मोक्षदे १२।
व्यास उवाच-
इति स्तुता जगद्धात्री तेन विप्रेण धीमता ।
आविर्बभूव सहसा गङ्गा मूर्तिमती द्विज १३।
ददर्श पुरतो गङ्गां द्विभुजां मकरासनाम् ।
कुन्देन्दुशङ्खधवलां सर्वालङ्कारभूषिताम् १४।
तां दृष्ट्वा पुरतो गङ्गां गङ्गागङ्गेति कीर्तयन् ।
ववंदे चरणौ तस्याः शिरसालिङ्ग्य मेदिनीम् १५।
मोहयंती स्मिता लोकैः सुप्रीता परमेश्वरी ।
तमुवाच ततो विप्र वरं वृण्विति जैमिने १६।
धर्मस्व उवाच-
मातस्त्वत्सलिलस्पर्शाद्ब्रह्महापि च मोक्षभाक् ।
मया त्वं दृश्यते साक्षात्साध्यं किमपरं मम ११७।
तथाप्येकं वरं याचे त्वन्नीरे परमेश्वरि ।
मृत्युर्भवतु मे देवि त्वन्नामस्मरतो मम ११८।
मया कृतेन स्तोत्रेण यस्त्वां स्तौति सदेश्वरि ।
सोऽपि भुक्त्वाखिलान्कामानंते यास्यति सद्गतिम् ११९।
गङ्गोवाच-
अनया भवतो भक्त्या संतुष्टास्मि द्विजोत्तम ।
शीघ्रं ते कुशलं सर्वं भविष्यति न संशयः १२०।
त्वया कृतमिदं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
तस्याहमपि संतुष्टा दास्यामि मुक्तिमुत्तमाम् १२१।
व्यास उवाच-
इति दत्वा वरं तस्मै सा देवी भक्तवत्सला ।
धर्मस्वनाम्ने विप्रेन्द्र तत्रैवांतरधीयत १२२।
स च विप्रो वरं प्राप्य कृतकृत्य इवाभवत् ।
गङ्गारोधसि तत्रैव तस्थौ विप्र मनोरमे १२३।
ततः कालेन महता विमले जाह्नवीजले ।
सुखमृत्युं समासाद्य जगाम पदमुत्तमम् १२४।
कालकल्पोऽपि पापात्मा सिक्तो गङ्गाम्बुशीकरैः ।
प्राप्तवानुत्तमं मोक्षमन्येषां का कथा द्विज १२५।
अनिच्छयापि गाङ्गेयं जलं स्पृष्ट्वा फलान्वितम् ।
स्पृशतां भक्तिभावेन किं भवेन्नहि वेद्मि तत् १२६।
गङ्गासमं नास्ति तीर्थं भूयोभूयो मयोच्यते ।
यदम्बुकणिकां स्पृष्ट्वा परमं धाम लभ्यते १२७।
ये भक्तिभावेन सरिद्वरायाः स्पृशंति येंऽभकणिकामपीह ।
ते यांति नूनं पदमच्युतस्य पापैर्विमुक्ताः सकलैर्महोग्रैः १२८।
इति श्रीपद्मपुराणे क्रियायोगसारे गङ्गाशीकरमाहात्म्ये सप्तमोऽध्यायः ७ ।