पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३०

← अध्यायः २९ पद्मपुराणम्
अध्यायः ३०
वेदव्यासः
अध्यायः ३१ →

ऋषय ऊचुः-
योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः ।
तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज १।
चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा ।
विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते २।
सूत उवाच-
चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः ।
प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा ३।
जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि ।
विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः ४।
महापापानि सर्वाणि अर्जितानि नराधमैः ।
तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च ५।
सतां संगात्प्रजायेत पुण्यमेव न संशयः ।
पापानां तु प्रसंगेन पापमेव प्रजायते ६।
संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल ।
पापिनां संगमाच्चैव किल्बिषं परिसंचरेत् ७।
तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् ।
महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा ८।
पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः ।
ऋषय ऊचुः-
तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम ९।
तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते १०।
सूत उवाच-
लुब्धकाश्च महापापाः संजाता दासधीवराः ।
रेवा च यमुना गंगास्तासामंभसि संस्थिताः ११।
ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले ।
महानद्याः प्रसंगेन ते यांति परमां गतिम् १२।
दासत्वं पापसंघातं परित्यज्य व्रजंति ते ।
पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते १३।
महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः ।
महापुण्यजनस्यापि पापं नश्यति पापिनाम् १४।
प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा ।
अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः १५।
तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम् ।
कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने १६।
श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च ।
मृगान्घातयते नित्यं पिशितास्वादलंपटः १७।
एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः ।
श्वभिः परिवृतो दुर्गं वनं विंध्यस्य वै गतः १८।
मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून् ।
रेवातीरं समासाद्य कश्चिच्छफरघातकः १९।
शफरान्सूदयित्वा स निर्जगाम बहिर्जलात् ।
मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी २०।
जीवत्राणपरा सार्ता भीता चलितचेतना ।
त्वरमाणा पलायंती रेवातीरं समाश्रिता २१।
श्वभिश्च चालिता सा तु बाणघातक्षतातुरा ।
श्वसनस्यापि वेगेन सुलभो मृगघातकः २२।
पृष्ठ एव समायाति पुरतो याति सा मृगी ।
दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः २३।
धनुरानम्य वेगेन अनुरुध्य च तां मृगीम् ।
तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः २४।
न हंतव्या मदीयेयं मृगयां मे समागता ।
तस्य वाक्यं समाकर्ण्य मीनहा मांसलंपटः २५।
बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः ।
निहता मृगलुब्धेन बाणेन निशितेन च २६।
प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः ।
श्वभिर्दंतैः समाक्रांता त्वरमाणा पपात सा २७।
शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने ।
श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे २८।
मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः ।
मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया २९।
तमुवाच पुनः सोऽपि मीनहा मृगघातकम् ।
मदीयेयं न संदेहो अवलिप्त प्रभाषसे ३०।
युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम् ।
क्रोधलोभान्महाभागौ पतितौ विमले जले ३१।
तस्मिन्काले महापर्व वर्तते गतिदायकम् ।
अमावास्या समायोगं महापुण्यफलप्रदम् ३२।
वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम ।
जपध्यानविहीनास्ते भावसत्यविवर्जिताः ३३।
तीर्थस्नानप्रसंगेन मृगी श्वा च स लुब्धकः ।
सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ३४।
तीर्थानां च प्रभावेण सतां संगाद्द्विजोत्तमाः ।
नाशयेत्पापिनां पापं दहेदग्निरिवेंधनम् ३५।
सूत उवाच-
तेषामेवं हि संसर्गादृषीणां च महात्मनाम् ।
संभाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च ३६।
वेनस्य कल्मषं नष्टं सतां संगात्पुरा किल ।
अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम् ३७।
अत्युग्रपापिनां संगात्पापमेव प्रसंचरेत् ।
मातामहस्य दोषेण संलिप्तो वेन एव सः ३८।
ऋषय ऊचुः-
मातामहस्य को दोषस्तं नो विस्तरतो वद ।
स मृत्युः स च वै कालः स यमो धर्म एव च ३९।
न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः ।
चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ४०।
जीवंति च म्रियंते च भुंजंत्येवं स्वकर्मभिः ।
पापाः पश्यंति तं घोरं तेषां कर्मविपाकतः ४१।
निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान् ।
योजयेत्ताडयेत्सूत यम एष दिनेदिने ४२।
सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान् ।
योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते ४३।
स मृत्योः केन दोषेण पापी वेनस्त्वजायत ।
सूत उवाच-
स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् ४४।
वर्तते कालरूपेण तेषां कर्म विमृश्यति ।
दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत् ४५।
तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः ।
सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै ४६।
योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः ।
महता सौख्यभावेन गीतमंगलकारिणा ४७।
दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् ।
पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः ४८।
त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान् ।
कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते ४९।
मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते ।
सुनीथा नाम वै कन्या संजातैषा महात्मनः ५०।
पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा ।
प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम् ५१।
सा तु कन्या महाभागा सुनीथा नाम तस्य सा ।
रममाणा वनं प्राप्ता सखीभिः परिवारिता ५२।
तत्रापश्यन्महाभागं गंधर्वतनयं वरम् ।
गीतकोलाहलस्यापि सुशंखं नाम सा तदा ५३।
ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः ।
गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम् ५४।
तस्योपघातमेवासौ सा चकार दिने दिने ।
सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत् ५५।
प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् ।
तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम् ५६।
तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः ।
दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः ५७।
ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः ।
आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः ५८।
त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः ।
एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् ५९।
विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः ।
ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च ६०।
समुवाच महात्मानं सुशंखं तपसि स्थितम् ।
त्रैलोक्यवासिनां तातो ममैव परिघातकः ६१।
असतो घातयेन्नित्यं सत्यान्स परिपालयेत् ।
नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत् ६२।
एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत् ।
मया हि ताडितस्तात गंधर्वतनयो वने ६३।
तपस्तपन्सदैकांते कामक्रोधविवर्जितः ।
स मामुवाच धर्मात्मा क्रोधरागसमन्वितः ६४।
ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत् ।
इत्युवाच स मां तात तन्मे त्वं कारणं वद ६५।
एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः ।
किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ६६।
वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः ।
कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः ६७।
सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया ।
ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम् ६८।
निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः ।
अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम् ६९।
गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु ।
पापाचारमयः पुत्रो देवब्राह्मणनिंदकः ७०।
[]सर्वपापरतो दुष्टे तव गर्भे भविष्यति ।
एवं शप्त्वा गतः सोपि तप एव समाश्रितः ७१।
गते तस्मिन्महाभागे सा सुनीथा गृहं गता ।
समाचष्ट महात्मानं पितरं तप्तमानसा ७२।
यथा शप्ता तदा तेन गंधर्वतनयेन सा ।
तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम् ७३।
कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते ।
युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम् ७४।
एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः ।
बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन् ७५।
सूत उवाच-
अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान् ।
एकदा तु गतो विप्रा नंदनं प्रति स द्विजः ७६।
तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम् ।
अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा ७७।
गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा ।
वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः ७८।
योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः ।
छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा ७९।
राजमानं सहस्राक्षं सर्वाभरणभूषितम् ।
कामक्रीडागतं देवं दृष्टवानमितौजसम् ८०।
तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम् ।
रूपेण तेजसा चैव तपसा च यशस्विनीम् ८१।
सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम् ।
तया सह सहस्राक्षः स रेमे नंदने वने ८२।
तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः ।
धन्यो वै देवराजोऽयमीदृशैः परिवारितः ८३।
अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम् ।
यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः ८४।
भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः ।
इति चिंतापरो भूत्वा त्वरमाणो गृहागतः ८५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने त्रिंशोऽध्यायः ३०।

  1. सोमो विश्वविन्नीथा निनेषद्बृहस्पतिरुक्थामदानि शंसिषदिति ब्रह्म वै बृहस्पतिः क्षत्रं सोमः स्तुतशस्त्राणि नीथानि चोक्थमदानि च दैवेन चैवैतद्ब्रह्मणा प्रसूतो दैवेन च क्षत्रेणोक्थानि शंसत्येतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किंच - ऐब्रा. २.३८, द्र. सुनीथा उपरि संदर्भाः