पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३१

← अध्यायः ३० पद्मपुराणम्
अध्यायः ३१
वेदव्यासः
अध्यायः ३२ →

सूत उवाच-
अथ त्वंगो महातेजा दृष्ट्वा इंद्रस्य संपदम् ।
भोगं चैव विलासं च लीलां तस्य महात्मनः १।
कथं मे इंद्र सदृशः पुत्रः स्याद्धर्मसंयुतः ।
चिंतयित्वा क्षणं चैव अंगो धर्मभृतां वरः २।
स्वकं गेहं समायातः स त्वंगः सत्यतत्परः ।
अत्रिं पप्रच्छ पितरं प्रणतो नम्रकंधरः ३।
कोऽयं पुण्यः समाचारैरिंद्रत्वं भुंजते महत् ।
कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम् ४।
कीदृशं तप एतस्य कमाराधितवान्पुरा ।
एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर ५।
अत्रिरुवाच-
साधुसाधु महाभाग यद्येवं पृच्छसे मयि ।
चरित्रमिंद्रस्य वत्स तन्मे निगदतः शृणु ६।
सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः ।
तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः ७।
पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल ।
विष्णोश्चैव प्रसादेन सुरराजो बभूव ह ८।
अंग उवाच-
कथमिंद्रसमः पुत्रो मम स्यात्पुत्रवत्सल ।
तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः ९।
अत्रिरुवाच-
समासेनैव तस्यैव सुव्रतस्य महात्मनः ।
चरित्रमखिलं पुण्यं निशामय महामते १०।
यथा सुव्रत मेधावी पुराराधितवान्हरिम् ।
तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः ११।
समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् ।
स ऐंद्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् १२।
विष्णोश्चैव प्रसादाच्च पदं भुंक्ते त्रिलोकधृक् ।
एवं ते सर्वमाख्यातमिंद्रस्यापि विचेष्टितम् १३।
भक्त्या तुष्यति गोविंदो भावध्यानेन सत्तम ।
सर्वं ददाति तुष्टात्मा भक्त्या संतोषितो हरिः १४।
तस्मादाराध्य गोविंदं सर्वदं सर्वसंभवम् ।
सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम् १५।
तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नंदन १६।
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः ।
तस्मात्तमाराधय गच्छ पुत्र संप्राप्स्यसे इंद्रसमं हि पुत्रम् १७।
आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन ।
संगृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः १८।
आमंत्र्य चांगः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव ।
संप्राप्तवान्मेरुगिरेस्तु शृंगं तं कांचनै रत्नमयैः समेतम् १९।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे।
वेनोपाख्याने एकत्रिंशोऽध्यायः ३१