सुनीथोवाच-
सत्यमुक्तं त्वया भद्रे एवमेतत्करोम्यहम्
अनया विद्यया विप्रं मोहयिष्यामि नान्यथा १
साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम्
एवमुक्ता तया रंभा तामुवाच मनस्विनीम् २
कीदृग्ददामि साहाय्यं तत्त्वं कथय भामिनि
दूतत्वं गच्छ मे भद्रे एतं प्रति सुसांप्रतम् ३
एवमुक्तं तया तां तु रंभां प्रति सुलोचनाम्
एवमेव प्रतिज्ञातं रंभया देवयोषिता ४
करिष्ये तव साहाय्यमादेशो मम दीयताम्
सद्भावेन विशालाक्षी रूपयौवनशालिनी ५
मायया दिव्यरूपा सा संबभूव वरानना
रूपेणाप्रतिमालोके मोहयंती जगत्त्रयम् ६
मेरोश्चैव महापुण्ये शिखरे चारुकंदरे
नानाधातुसमाकीर्णे नानारत्नोपशोभिते ७
देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते
देववृंदसमाकीर्णे गंधर्वाप्सरसेविते ८
मनोहरे सुरम्ये च शीतच्छायासमाकुले
चंदनानामशोकानां तरूणां चारुहासिनी ९
दोलायां सा समारूढा सर्वशृङ्गारशोभिता
कौशेयेन सुनीलेन राजमाना वरानना १०
बंधूकपुष्पवर्णेन कंचुकेन द्विजोत्तम
सर्वांगसुंदरी बाला वीणातालकराविला ११
गायमाना वरं गीतं सुस्वरं विश्वमोहनम्
ताभिः परिवृता बाला सखीभिः सुमनोहरा १२
अंगस्तु कंदरे पुण्ये एकांते ध्यानमास्थितः
कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् १३
स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम्
तालमानक्रियोपेतं सर्वसत्वविकर्षणम् १४
ध्यानाच्चचाल तेजस्वी मायागीतेन मोहितः
समुत्थायासनात्तूर्णं वीक्षमाणो मुहुर्मुहुः १५
जगाम तत्र वेगेन मायाचलितमानसः
दोलासंस्थां विलोक्यैव वीणादंडकराविलाम् १६
हसमानां सुगायंतीं पूर्णचंद्रनिभाननाम्
मोहितस्तेन गीतेन रूपेणापि महायशाः १७
तस्या लावण्यभावेन मन्मथस्य शराहतः
आकुलव्याकुलज्ञान ऋषिपुत्रो द्विजोत्तमः १८
प्रलपत्यतिमोहेन जृंभते च पुनः पुनः
स्वेदः कंपोथ संतापस्तस्याजायत तत्क्षणात् १९
मुह्यन्निव महामोहैर्ग्लानश्चलितमानसः
वेपमानस्ततस्त्वंगो दूयमानः समागतः २०
तामालोक्य विशालाक्षीं मृत्युकन्यां यशस्विनीम्
अथोवाच महात्मा स सुनीथां चारुहासिनीम् २१
का त्वं कस्य वरारोहे सखीभिः परिवारिता
केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम् २२
तवांगं सुंदरं सर्वमत्र भाति महावने
समाचक्ष्व ममाद्यैव प्रसादसुमुखी भव २३
मायामोहेन संमुग्धस्तस्याः कर्म न विंदति
मार्गणैर्मन्मथस्यापि परिविद्धो महामुनिः २४
एवंविधं महद्वाक्यं समाकर्ण्य महामतेः
नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम् २५
रंभां च प्रेरयामास सुनीथा संज्ञया सखीम्
समुवाच ततो रंभा सादरं तं द्विजं प्रति २६
इयं कन्या महाभागा मृत्योश्चापि महात्मनः
सुनीथाख्या प्रसिद्धेयं सर्वलक्षणसंपदा २७
पतिमन्विच्छती बाला धर्मवंतं तपोनिधिम्
शांतं दांतं महाप्राज्ञं वेदविद्याविशारदम् २८
एवंविधं महद्वाक्यं समाकर्ण्य महामुनिः
तामुवाच ततस्त्वंगो रंभामप्सरसां वराम् २९
मया चाराधितो विष्णुः सर्वविश्वमयो हरिः
तेन दत्तो वरो मह्यं पुत्राख्यः सर्वसिद्धिदः ३०
तन्निमित्तमहं भद्रे सुतार्थं नित्यमेव च
कस्यचित्पुण्यवीर्यस्य कन्यामेकां प्रचिंतये ३१
सदैवाहं न पश्यामि सुभार्यां सत्यमीदृशीम्
इयं धर्मस्य वै कन्या धर्माचारा वरानना ३२
मामेवं हि भजत्वेषा यदि कान्तमिहेच्छति
यं यमिच्छेदियं बाला तं ददामि न संशयः ३३
अदेयं देयमित्याह अस्याः संगमकारणात्
एकमेवं त्वया देयं श्रूयतां द्विजसत्तम ३४
रंभोवाच-
विप्रेंद्र त्वं शृणुष्वेह प्रतिज्ञां वच्मि सांप्रतम्
एषा नैव त्वया त्याज्या धर्मपत्नी तवैव हि ३५
अस्या दोषो गुणो नैव ग्राह्य एव त्वया कदा
इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ३६
स्वहस्तं देहि विप्रेंद्र सत्यप्रत्ययकारकम्
एवमस्तु मया दत्तो ह्यस्या हस्तो न संशयः ३७
सूत उवाच-
एवं संबधिकं कृत्वा सत्यप्रत्ययकारकम्
गांधर्वेण विवाहेन सुनीथामुपयेमिवान् ३८
तस्मै दत्वा सुनीथां तां रंभा हृष्टेन चेतसा
सा तां चामंत्रयित्वा वै गता गेहं स्वकं पुनः ३९
प्रहृष्टचेतसः सख्यः स्वस्थानं परिजग्मिरे
गतासु तासु सर्वासु सखीषु द्विजसत्तमः ४०
रेमे त्वंगस्तया सार्धं प्रियया भार्यया सह
तस्यामुत्पाद्य तनयं सर्वलक्षणसंयुतम् ४१
चकार नाम तस्यैव वेनाख्यं तनयस्य हि
ववृधे स महातेजाः सुनीथातनयस्तदा ४२
वेदशास्त्रमधीत्यैव धनुर्वेदं गुणान्वितम्
सर्वासामपि मेधावी विद्यानां पारमेयिवान् ४३
अंगस्य तनयो वेनः शिष्टाचारेण वर्तते
स वेनो ब्राह्मणश्रेष्ठः क्षत्त्राचारपरोऽभवत् ४४
दिवि चेंद्रो यथा भाति सर्वतेजःसमन्वितः
भात्येवं तु महाप्राज्ञः स्वबलेन पराक्रमैः ४५
चाक्षुषस्यांतरे प्राप्ते वैवस्वतसमागते
प्रजापालं विना लोके प्रजाः सीदंति सर्वदा ४६
ऋषयो धर्मतत्त्वज्ञाः प्रजाहेतोस्तपोधनाः
व्यचिंतयन्महीपालं धर्मज्ञं सत्यपंडितम् ४७
तं वेनमेव ददृशुः संपन्नं लक्षणैर्युतम्
प्राजापत्ये पदे पुण्ये अभ्यषिंचन्द्विजोत्तमाः ४८
अभिषिक्ते महाभागे त्वंगपुत्रे तदा नृपे
ते प्रजापतयः सर्वे जग्मुश्चैव तपोवनम् ४९
गतेषु तेषु सर्वेषु वेनो राज्यमकारयत्
सूत उवाच-
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् ५०
विशंकते प्रभावेण शापात्तस्य महात्मनः
मम पुत्रो महाभागो धर्मत्राता भविष्यति ५१
इत्येवं चिंतयेन्नित्यं पूर्वपापाद्विशंकिता
धर्मांगानि सुपुण्यानि सुताग्रे परिदर्शयेत् ५२
सत्यभावादि कान्पुण्यान्गुणान्सा वै प्रकाशयेत्
इत्युवाच सुतं सा हि अहं धर्मसुता सुत ५३
पिता ते धर्मतत्त्वज्ञस्तस्माद्धर्मं समाचर
इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती ५४
मातापित्रोस्तयोर्वाक्यं प्रजायुक्तं प्रपालयेत्
एवं वेनः प्रजापालः संजातःक्षितिमंडले ५५
सुखेन जीवते लोकःप्रजाधर्मेणरंजिताः
एवं राज्यप्रभावं तु वेनस्यापि महात्मनः ५६
धर्मभावाः प्रवर्तंते तस्मिञ्छासति पार्थिवे ५७
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने षट्त्रिंशोऽध्यायः ३६