सप्तत्रिंशोऽध्यायः 2.37
ऋषय ऊचुः-
एवं वेनस्य चैवासीत्सृष्टिरेव महात्मनः
धर्माचारं परित्यज्य कथं पापमतिर्भवेत् १
सूत उवाच-
ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः
शुभाशुभं वदंत्येवं तन्न स्यादिह चान्यथा २
तप्यमानेन तेनापि सुशंखेन महात्मना
दत्तः शापः कथं विप्रा न यथावच्च जायते ३
वेनस्य पातकाचारं सर्वमेव वदाम्यहम्
तस्मिञ्छासति धर्मज्ञे प्रजापाले महात्मनि ४
पुरुषः कश्चिदायातश्छद्म लिंगधरस्तदा
नग्नरूपोवमहाकायःवशिरोमुंडो महाप्रभः ५
मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन्
गृहीतं पानपात्रं तु नालिकेरमयं करे ६
पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम्
यत्र वेनो महाराजस्तत्रायातस्त्वरान्वितः ७
सभायां तस्य वेनस्य प्रविवेश स पापवान्
तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाकरोत् ८
भवान्को हि समायात ईदृग्रूपधरो मम
सभायां वर्तमानस्य पुरः कस्मात्समागतः ९
को वेषः किं नु ते नाम को धर्मः कर्म ते वद
को वेदस्ते क आचारः किं तपः का प्रभावना १०
किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम्
तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च ११
श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत्
पातक उवाच-
करोष्येवं वृथा राज्यं महामूढो न संशयः १२
अहं धर्मस्य सर्वस्वमहं पूज्यतमोसुरैः
अहं ज्ञानमहं सत्यमहं धाता सनातनः १३
अहं धर्मं अहं मोक्षः सर्वदेवमयो ह्यहम्
ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा १४
जिनरूपं विजानीहि सत्यधर्मकलेवरम्
मामेव हि प्रधावंति योगिनो ज्ञानतत्पराः १५
वेन उवाच-
तवैव कीदृशं कर्म किं ते दर्शनमेव च
किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा १६
पातक उवाच-
अर्हंतो देवता यत्र निर्ग्रंथो दृश्यते गुरुः
दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते १७
दर्शनेस्मिन्न संदेह आचारान्प्रवदाम्यहम्
यजनं याजनं नास्ति वेदाध्ययनमेव च १८
नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम्
हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया १९
पितॄणां तर्पणं नास्ति नातिथिर्वैश्वदेविकम्
क्षपणस्य वरा पूजा अर्हतो ध्यानमुत्तमम् २०
अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते
एतत्ते सर्वमाख्यातं निजधर्मस्यलक्षणम् २१
वेन उवाच-
वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः
पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते २२
न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणम्
वद सत्यं ममाग्रे तु दयाधर्मं च कीदृशम् २३
पातक उवाच-
पंचतत्त्वप्रवृद्धोयं प्राणिनां काय एव च
आत्मा वायुस्वरूपोयं तेषां नास्ति प्रसंगता २४
यथा जलेषु भूतानामपिसंगमवेहि तत्
जायते बुद्बुदाकारं तद्वद्भूतसमागमः २५
पृथ्वीभावो रजःस्थस्तु चापस्तत्रैव संस्थिताः
ज्योतिस्तत्र प्रदृश्येत सुवायुर्वर्तते त्रिषु २६
आकाशमावृणोत्पश्चाद्बुद्बुदत्वं प्रजायते
अप्सुमध्ये प्रभात्येव सुतेजो वर्तुलं वरम् २७
क्षणमात्रं प्रदृश्येत क्षणान्नैव च दृश्यते
तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते २८
अंतकाले प्रयात्यात्मा पंच पंचसु यांति ते
मोहमुग्धास्ततो मर्त्या वर्तंते च परस्परम् २९
श्राद्धं कुर्वंति मोहेन क्षयाहे पितृतर्पणम्
क्वास्ते मृतः समश्नाति कीदृशोऽसौ नृपोत्तम ३०
किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः
मिष्टान्नं भोजयित्वा च तृप्ता यांति च ब्राह्मणाः ३१
कस्य श्राद्धं प्रदीयेत सा तु श्रद्धा निरर्थिका
अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ३२
यदातिथिर्गृहे याति महोक्षं पचते द्विजः
अजं वा राजराजेंद्र अतिथिं परिभोजयेत् ३३
अश्वमेधमखे अश्वं गोमेधे वृषमेव च
नरमेधे नरं राजन्वाजपेये तथा ह्यजान् ३४
राजसूये महाराज प्राणिनां घातनं बहु
पुंडरीके गजं हन्याद्गजमेधेऽथ कुंजरम् ३५
सौत्रामण्यां पशुं मेध्यं मेषमेव प्रदृश्यते
नानारूपेषु सर्वेषु श्रूयतां नृपनंदन ३६
नानाजातिविशेषाणां पशूनां घातनं स्मृतम्
यच्चापि दीयते दानं किं तद्दानस्य लक्षणम् ३७
ज्ञेयं तदन्नमुच्छिष्टं क्रियते भूरिभोजनम्
अत्यंतदोषहीनांस्तान्हिंसंति यन्महामखे ३८
तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते
पशूनां मारणं यत्र निर्दिष्टं वेदपंडितैः ३९
तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकम्
दयां विना हि यो धर्मः स धर्मो विफलायते ४०
जीवानां पालनं यत्र तत्र धर्मो न संशयः
स्वाहाकारः स्वधाकारस्तपः सत्यं नृपोत्तम ४१
दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि
एते वेदा न वेदाः स्युर्दया यत्र न विद्यते ४२
दयादानपरो नित्यं जीवमेव प्ररक्षयेत्
चांडालोऽप्यथ शूद्रो वा स वै ब्राह्मण उच्यते ४३
ब्राह्मणो निर्दयो यो वै पशुघातपरायणः
स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ४४
वंचकैः कथितो वेदो यो वेदो ज्ञानवर्जितः
यत्र ज्ञानं भवेन्नित्यं तत्र वेदः प्रतिष्ठति ४५
दयाहीनेषु वेदेषु विप्रेषु च महामते
नास्ति सत्यं क्रिया तत्र वेदविप्रेषु वै तदा ४६
वेदा न वेदा राजेंद्र ब्राह्मणाः सत्यवर्जिताः
दानस्यापि फलं नास्ति तस्माद्दानं न दीयते ४७
यथा श्राद्धस्य वै चिह्नं तथा दानस्य लक्षणम्
जिनस्यापि च यद्धर्मं भुक्तिमुक्तिप्रदायकम् ४८
तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम्
आदौ दया प्रकर्तव्या शांतभूतेन चेतसा ४९
आराधयेद्धृदा देवं जिनं येन चराचरम्
मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ५०
नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा
मातापित्रोस्तु वै पादौ कदा नैव प्रवंदयेत् ५१
अन्येषामपि का वार्ता श्रूयतां राजसत्तम
वेन उवाच-
एते विप्राश्च आचार्या गंगाद्याः सरितस्तथा ५२
वदंति पुण्यतीर्थानि बहुपुण्यप्रदानि च
तत्किं वदस्व सत्यं मे यदि धर्ममिहेच्छसि ५३
पातक उवाच-
आकाशाद्वै महाराज मेघा वर्षंति वै जलम्
भूमौ हि पर्वतेष्वेवं सर्वत्र पतिते जलम् ५४
स आप्लाव्य ततस्तिष्ठेद्दयां सर्वत्र भावयेत्
नद्यः पापप्रवाहास्तु तासु तीर्थं श्रुतं कथम् ५५
जलाशया महाराज तडागाः सागरास्तथा
पृथिव्याधारकाश्चैव गिरयो अश्मराशयः ५६
नास्त्येतेषु च वै तीर्थं जलैर्जलदमुत्तमम्
स्नाने यदा महत्पुण्यं कस्मान्मत्स्येषु वै नहि ५७
दृष्टा स्नानेन वै सिद्धिर्मीनाः शुद्ध्यंति नान्यथा
यत्र जिनस्तत्र तीर्थं तत्र धर्मः सनातनः ५८
तपोदानादिकं सर्वं पुण्यं तत्र प्रतिष्ठितम् ५९
एको जिनः सर्वमयो नृपेंद्र नास्त्येव धर्मं परमं हि तीर्थम्
अयं तु लाभः परमस्तु तस्माद्ध्य्यास्व नित्यं सुसुखो भविष्यसि ६०
विनिंद्य धर्मं सकलं सवेदं दानं सपुण्यं परयज्ञरूपम्
पापस्वभावैर्बहुबोधितो नृपस्त्वंगस्य पुत्रो भुवि तेन पापिना ६१
 इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे
वेनोपाख्याने सप्तत्रिंशोऽध्यायः ३७