पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०४०

← अध्यायः ३९ पद्मपुराणम्
अध्यायः ४०
वेदव्यासः
अध्यायः ४१ →

वेन उवाच-
नित्यदानफलं देव त्वत्तः पूर्वं मया श्रुतम् ।
नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् १।
तत्फलं मे समाचक्ष्व त्वत्प्रसादात्प्रयत्नतः ।
महातृप्तिं न गच्छामि श्रोतुं श्रद्धा प्रवर्तते २।
विष्णुरुवाच-
नैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम ।
महापर्वणि संप्राप्ते येन दानानि श्रद्धया ३।
सत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु ।
गजं रथं प्रदत्ते यो ह्यश्वं चापि नृपोत्तम ४।
स च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः ।
जायते हि महाराज मत्प्रसादान्न संशयः ५।
राजा भवति धर्मात्मा ज्ञानवान्बलवान्सुधीः ।
अजेयः सर्वभूतानां महातेजाः प्रजायते ६।
महापर्वणि संप्राप्ते भूमिदानं ददाति यः ।
गोदानं वा महाराज सर्वभोगपतिर्भवेत् ७।
ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः ।
महादानानि यो दद्यात्तीर्थे पर्वणि पात्रवित् ८।
तेषां चिह्नं प्रवक्ष्यामि भूपतित्वं प्रजायते ।
तीर्थे पर्वणि संप्राप्ते गुप्तदानं ददाति यः ९।
निधीनामाशुसंप्राप्तिरक्षरा परिजायते ।
महापर्वणि संप्राप्ते तीर्थेषु ब्राह्मणाय च १०।
सुचैलं च महादानं कांचनेन समन्वितम् ।
पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ११।
जायंते बहवः पुत्राः सुगुणा वेदपारगाः ।
आयुष्मंतः प्रजावंतो यशः पुण्यसमन्विताः १२।
विपुलाश्चैव जायंते स्फीता लक्ष्मीर्महामते ।
सौख्यं च लभते पुण्यं धर्मवान्परिजायते १३।
महापर्वणि संप्राप्ते तीर्थे गत्वा प्रयत्नतः ।
कपिलां कांचनीं दद्याद्ब्राह्मणाय महात्मने १४।
तस्य पुण्यं प्रवक्ष्यामि दानस्य च महामते ।
कपिलादो महाराज सर्वसौख्यान्प्रभुंजति १५।
यावद्ब्रह्मा प्रजीवेत्स तावत्तिष्ठति तत्र सः ।
महापर्वणि संप्राप्ते अलंकृत्य च गां तदा १६।
कांचनेनापि संयुक्तां वस्त्रालंकारभूषणैः ।
तस्य दानस्य राजेंद्र फलभोगं वदाम्यहम् १७।
विपुला जायते लक्ष्मीर्दानभोगसमाकुला ।
सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल १८।
विष्णुलोके वसेन्मर्त्यो यावत्तिष्ठति मेदिनी ।
तीर्थं गत्वा तु यो दद्याद्ब्राह्मणाय विभूषणम् १९।
भुक्त्वा तु विपुलान्भोगानिन्द्रेण क्रीडते सह ।
महापर्वणि संप्राप्ते वस्त्रं च द्विजपुंगवे २०।
दत्त्वान्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः ।
मोदते स तु वैकुंठे विष्णुतुल्यपराक्रमः २१।
सवस्त्रं कांचनं दत्त्वा द्विजाय परिशांतये ।
स्वेच्छया अग्निसदृशो वैकुंठे स वसेत्सुखी २२।
सुवर्णस्य सुकुंभं च घृतेन परिपूरयेत् ।
पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम् २३।
पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम् ।
प्रतिष्ठितं वेदमंत्रैस्तं संपूज्य महामते २४।
उपचारैः पवित्रैश्च षोडशैः परिपूजयेत् ।
स्वलंकृत्य ततो दद्याद्ब्राह्मणाय महात्मने २५।
षोडशैव ततो गावः सवस्त्राः कांस्यदोहनाः ।
कुंभयुक्ताश्च चत्वारो दक्षिणां च सकांचनाम् २६।
तथा द्वादशका गावो वस्त्रालंकारभूषणाः ।
पृथग्भूताय विप्राय दातव्या नात्र संशयः २७।
एवमादीनि दानानि अन्यानि नृपनंदन ।
तीर्थकालं सुसंप्राप्य विप्रावसथमेव च २८।
श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत् ।
विष्णुरुवाच-।
विष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् २९।
तस्य दानस्य भावेन भावनापरिभावितः ।
तादृक्फलं समश्नाति मानुषो नात्र संशयः ३०।
अभ्युदयं प्रवक्ष्यामि यज्ञादिषु प्रवर्तते ।
तेन दानेन तस्यापि श्रद्धया च द्विजोत्तम ३१।
प्रज्ञावृद्धिं समाप्नोति न च दुःखं प्रविंदति ।
भोगान्भुनक्ति धर्मात्मा जीवमानस्तु सांप्रतम् ३२।
ऐंद्रांस्तु भुंक्ते भोगान्स दाता दिव्यां गतिं गतः ।
स्वकुलं नयते स्वर्गं कल्पानां च सहस्रकम् ३३।
एवमाभ्युदयं प्रोक्तं प्राप्तं तेषु वदाम्यहम् ।
कायस्य च क्षयं ज्ञात्वा जरया परिपीडितः ३४।
दानं तेन प्रदातव्यमाशां कस्य न कारयेत् ।
मृते च मयि मे पुत्रा अन्ये स्वजनबांधवाः ३५।
कथमेते भविष्यंति मां विना सुहृदो मम ।
तेषां मोहात्प्रमुग्धो वै न ददाति स किंचन ३६।
मृत्युं प्रयाति मोहात्मा रुदंति मित्रबांधवाः ।
दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः ३७।
संकल्पयंति दानानि मोक्षं वै चिंतयंति च ।
तस्मिन्मृते महाराज मायामोहे गते सति ३८।
विस्मरंति च दानानि लोभात्मानो ददंति न ।
योऽसौ मृतो महाराज यमपंथं सुदुःखितः ३९।
तृषाक्षुधासमाक्रांतो बहुदुःखैः प्रपीडितः ।
तस्माद्दानं प्रदातव्यं स्वयमेव न संशयः ४०।
कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम ।
संसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते ४१।
ज्ञानवता प्रदातव्यं स्वयमेव न संशयः ।
अन्नं पानं च तांबूलमुदकं कांचनं तथा ४२।
युग्मं वस्त्रं च छत्रं च स्वयमेव न संशयः ।
जलपात्राण्यनेकानि सोदकानि नृपोत्तम ४३।
वाहनानि विचित्राणि यानान्येव महामते ।
नानागंधान्सकर्पूरं यमपंथ सुखप्रदे ४४।
उपानहौ प्रदातव्ये यदीच्छेद्विपुलं सुखम् ।
एतैर्दानैर्महाराज यमपंथं सुखेन वै ४५।
प्रयाति मानवो राजन्यमदूतैरलंकृतम् ४६।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने चत्वारिंशोऽध्यायः ४०।