पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३९

← अध्यायः ३८ पद्मपुराणम्
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

ऋषय ऊचुः-
कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः ।
तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर १।
सूतउवाच-
ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम ।
कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः २।
पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम् ।
रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ३।
तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने ।
वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ४।
तस्योग्रतपसादेवः शंखचक्रगदाधरः ।
प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ५।
उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः ।
वेन उवाच-
यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ६।
अनेनापि शरीरेण गंतुमिच्छामि त्वत्पदम् ।
पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर ।
तवैव तेजसा देव तद्विष्णोः परमं पदम् ७।
श्रीवासुदेव उवाच-
क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप ।
लोभेन मोहयुक्तेन तमोमार्गे निपातितः ८।
वेन उवाच-
यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो ।
अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ९।
प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो ।
भगवानुवाच-
साधु भूप महाभाग पापं ते नाशमागतम् १०।
शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम् ।
पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ११।
तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम् ।
एकदा ब्रह्मणा ध्यानस्थितेन नाभिपंकजे १२।
प्रादुरास तदा तस्य वरदानाय सुव्रत ।
तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् १३।
वासुदेवाभिधानं च सुगतिप्रदमिच्छता ।
स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् १४।
सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा ।
उपादिशं महाभाग विष्णुप्रीतिकरं परम् १५।
विष्णुरुवाच-
एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना ।
अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः १६।
वसंति यत्र भूतानि वसत्येषु च यो विभुः ।
स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् १७।
संकर्षति प्रजाश्चांते ह्यव्यक्ताय यतो विभुः ।
ततः संकर्षणो नाम्ना विज्ञेयः शरणागतैः १८।
इंगिते कामरूपोहं बहु स्यामिति काम्यया ।
प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः १९।
अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ ।
निरुद्धोहं योगबलान्न केनातोनिरुद्धवत् २०।
विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः ।
अहमित्यभिमानी च जाग्रच्चिंतासमाकुलः २१।
तैजसोहं जगच्चेष्टामयश्चेंद्रियरूपवान् ।
ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् २२।
प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः ।
सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः २३।
तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः ।
निर्लिप्तः साक्षिवद्विश्व प्रतिबिंबित विग्रहः २४।
चिदाभासश्चिदानंदश्चिन्मयश्चित्स्वरूपवान् ।
नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् २५।
भगवानुवाच-
इत्युक्त्वांतर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा ।
सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् २६।
राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च ।
तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत २७।
तुष्टो विष्णुस्तमभ्याह वरं वरय मानद ।
वेन उवाच-
सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् २८।
शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः ।
विष्णुरुवाच-
पूर्वमेव महाभाग त्वंगेनापि महात्मना २९।
अहमाराधितस्तेन तस्मै दत्तो वरो मया ।
प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ३०।
कर्मणा स्वेन विप्रेंद्र पुण्येन नृपनंदन ।
आत्मार्थे त्वं महाभाग वरमेव प्रयाचय ३१।
शृणु वेन महाभाग वृत्तांतं पूर्वसंभवम् ।
तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ३२।
सुशंखेन सुनीथायै बाल्ये पूर्वं महात्मना ।
ततस्त्वंगे वरो दत्तो मयैव विदितात्मना ३३।
त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति ।
एवमुक्त्वा तु पितरं तवाहं गुणवत्सल ३४।
भवदंगात्समुद्भूतः करिष्ये लोकपालनम् ।
दिवींद्रो हि यथा भाति तथाहं भूतले स्थितः ३५।
आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः ।
अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ३६।
गत्यर्थमात्मनो राजन्दानमेकं समाचर ।
यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप ३७।
अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम् ।
अन्यथा तु सुशंखस्य वाक्यमेवान्यथा भवेत् ३८।
अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम ।
कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ३९।
दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् ।
तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ४०।
दानेन नश्यते पापं तस्माद्दानं ददस्व हि ।
अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ४१।
भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै ।
सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ४२।
सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम् ।
दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ४३।
दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम ।
काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ४४।
पात्रभूताय विप्राय श्रद्धापूतेन चेतसा ।
यो ददाति महादानं मयि भावं निवेश्य च ४५।
तस्याहं सकलं दद्मि मनसा यंयमिच्छति ।
वेन उवाच-
कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ४६।
तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम् ।
दानस्यापि जगन्नाथ विधिं विस्तरतो वद ४७।
प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते ।
श्रीकृष्ण उवाच-।
दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ४८।
काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः ।
सूर्योदयस्य वेलायां पापं नश्यति सर्वतः ४९।
अंधकाराधिका घोरा नराणां नाशकारकाः ।
दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ५०।
तस्यैव तेजसा दग्धा भस्मतां यांति किल्बिषाः ।
उदयंतं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ५१।
तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम् ।
संप्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ५२।
स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः ।
यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ५३।
अन्नं पयः फलं पुष्पं वस्त्रं तांबूलभूषणम् ।
हेमरत्नादिकं चैव तस्य पुण्यमनंतकम् ५४।
मध्याह्ने तु ततो राजन्नपराह्णे तथैव च ।
मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनंतकम् ५५।
खाद्यपानादिकं मिष्ट लेपनं गंधकुंकुमम् ।
कर्पूरादिकमेवापि वस्त्रालंकारसंयुतम् ५६।
अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम् ।
नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ५७।
अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम् ।
त्रिकालेष्वपि दातव्यं दानमेव न संशयः ५८।
शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता ।
यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप ५९।
तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः ।
धनाढ्यो गुणवान्प्राज्ञः पंडितोऽपि विचक्षणः ६०।
पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम् ।
तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ६१।
स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम् ।
उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ६२।
तेषां कायेष्वसंतुष्टो बहुपीडाप्रदायकम् ।
मंदानलेन संयुक्तं ज्वरसंतापकारकम् ६३।
त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च ।
स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ६४।
प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत् ।
उपवासैर्महाराज कायशोषकरादिकैः ६५।
चर्मकारो यथा चर्म कुंडस्थोपरि निर्घृणः ।
शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ६६।
तथाहं पापकर्तारं शोधयामि न संशयः ।
औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ६७।
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा ।
अन्ये भुंजन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ६८।
किं करोति समर्थश्च न दत्तं दानमुत्तमम् ।
महता पापरूपेण तमेवं परितापये ६९।
नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा ।
न दत्तं राजराजेंद्र श्रद्धापूतेन चेतसा ७०।
तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल ।
वासुदेव उवाच-
नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ७१।
प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः ।
अमावास्या महाराज पौर्णमासी तथैव च ७२।
यदा भवति संक्रांतिर्व्यतीपातो नरेश्वर ।
वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ७३।
महामाघी तथाषाढी वैशाखी कार्तिकी तथा ।
अमासोमसमायोगे मन्वादिषु युगादिषु ७४।
गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च ।
एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ७५।
एतेषु दीयते दानं तस्य दानस्य यत्फलम् ।
तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ७६।
मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति ।
तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ७७।
गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु ।
काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ७८।
व्रतानामेव सर्वेषां देवादीनां तथैव च ।
दानस्य पुण्यकालं तु संप्रोक्तं द्विजसत्तमैः ७९।
आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप ।
मखानामेव सर्वेषां वैवाहिकमनुत्तमम् ८०।
पुत्रस्य जातमात्रस्य चौलमौंज्यादिकं तथा ।
प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ८१।
वापीकूपतडागानां गृहवास्तुमयं नृप ।
तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ८२।
तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम् ।
आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ८३।
अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम् ।
मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नरोत्तम ८४।
तत्र दानं प्रदातव्यं यममार्गसुखप्रदम् ।
नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ८५।
अंत्यःकालो महाराज समाख्यातस्तवाग्रतः ।
एते कालाः समाख्याताः स्वकर्मफलदायकाः ८६।
तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः ।
सुतीर्थानामियं गंगा भाति पुण्या सरस्वती ८७।
रेवा च यमुना तापी तथा चर्मण्वती नदी ।
सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ८८।
कावेरी कपिला चान्या विशाला विश्वतारणी ।
गोदावरी समाख्याता तुंगभद्रा नरोत्तम ८९।
पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते ।
देविका कृष्णगंगा च अन्याः सरिद्वरोत्तमाः ९०।
एतासां पुण्यकालेषु संति तीर्थान्यनेकशः ।
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ९१।
तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः ।
यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ९२।
नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप ।
तीर्थस्य देवता तद्वदहमेव न संशयः ९३।
मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः ।
तस्य पुण्यफलं जातं मन्नाम्ना नृपनंदन ९४।
अज्ञातानां सुतीर्थानां देवानां नृपसत्तम ।
स्नाने दाने महाराज मन्नाम हि समुच्चरेत् ९५।
तीर्थानामेव राजेंद्र धात्रा धात्र्य इमाः कृताः ।
सिंधवः सर्वपुण्यानां सर्वस्थाः क्षितिमंडले ९६।
यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप ।
अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ९७।
तीर्थरूपा महापुण्याः सागरा सप्त एव च ।
मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ९८।
निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः ।
स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ९९।
खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम् ।
पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले १००।
यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितः ।
श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः १०१।
होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च ।
गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् १०२।
सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम् ।
आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति १०३।
ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव च ।
अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् १०४।
एते तीर्थाः समाख्याताः पितामाता तथैव च ।
पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः १०५।
सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः ।
सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः १०६।
एते तीर्थाः समाख्याता राजवेश्म तथैव च ।
वेन उवाच-
पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम १०७।
प्रसादसुमुखो भूत्वा कृपया मम माधव ।
वासुदेव उवाच-
शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम् १०८।
यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिः ।
ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् १०९।
शांतं दांतं तपोयुक्तं शुक्लमेव विशेषतः ।
प्रज्ञावंतं ज्ञानवंतं देवपूजनतत्परम् ११०।
सत्यवंतं महापुण्यं वैष्णवं ज्ञानपंडितम् ।
धर्मज्ञं मुक्तलौल्यं च पाखंडैस्तु विवर्जितम् १११।
एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम् ।
एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् ११२।
एतं पात्रं विजानीहि दुहितुस्तनयं ततः ।
जामातरं महाराज भावैरेतैश्च संयुतम् ११३।
गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम ।
एतान्येव सुपात्राणि दानयोग्यानि सत्तम ११४।
वेदाचारसमोपेतस्तृप्तिं नैव च गच्छति ।
वर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम् ११५।
अतिकृष्णं महाराज कपिलं परिवर्जयेत् ।
कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत् ११६।
नीलदंतं तथा राजन्पीतदंतं तथैव च ।
गोघ्नं सुकृष्णदंतं च बर्बरं चातिपांशुलम् ११७।
हीनांगमधिकांगं च कुष्ठिनं कुनखं तथा ।
दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् ११८।
अन्यायेषु रता यस्य जाया विप्रस्य कस्य च ।
तस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत् ११९।
स्त्रीजिताय न दातव्यं शाखारंडे महामते ।
व्याधिताय न दातव्यं मृतभोजिषु भूपते १२०।
चोराय च न दातव्यं स यद्यत्रिसमो भवेत् ।
अतृप्ताय न दातव्यं शावं तु परिवर्जयेत् १२१।
अतिस्तब्धाय नो देयं शठाय च विशेषतः ।
वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः १२२।
श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत् ।
अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम् १२३।
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते ।
नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् १२४।
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप ।
श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत् १२५।
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम ।
एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् १२६।
अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत् १२७।
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने एकोनचत्वारिंशोऽध्यायः ३९।