पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७६

← अध्यायः ०७५ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७६
अज्ञातलेखकः
अध्यायः ०७७ →

सुकर्मोवाच-
सौरिर्दूतैस्तथा सर्वैः सह स्वर्गं जगाम सः ।
द्रष्टुं तत्र सहस्राक्षं देववृंदैः समावृतम् १।
धर्मराजं समायांतं ददर्श सुरराट्तदा ।
समुत्थाय त्वरायुक्तो दत्वा चार्घमनुत्तमम् २।
पप्रच्छागमनं तस्य कथयस्व ममाग्रतः ।
समाकर्ण्य महद्वाक्यं देवराजस्य भाषितम् ३।
धर्मराजोऽब्रवीत्सर्वं ययातेश्चरितं महत् ।
धर्मराज उवाच-
श्रूयतां देवदेवेश यस्मादागमनं मम ४।
कथयाम्यहमत्रापि येनाहमागतस्तव ।
नहुषस्यात्मजेनापि वैष्णवेन महात्मना ५।
वैष्णवाश्च कृता मर्त्या ये वसंति महीतले ।
वैकुंठस्य समं रूपं मर्त्यलोकस्य वै कृतम् ६।
अमरा मानवा जाता जरारोगविवर्जिताः ।
पापमेव न कुर्वंति असत्यं न वदंति ते ७।
कामक्रोधविहीनास्ते लोभमोहविवर्जिताः ।
दानशीला महात्मानः सर्वे धर्मपरायणाः ८।
सर्वधर्मैः समर्चंति नारायणमनामयम् ।
तेन वैष्णवधर्मेण मानवा जगतीतले ९।
निरामया वीतशोकाः सर्वे च स्थिरयौवनाः ।
दूर्वा वटा यथा देव विस्तारं यांति भूतले १०।
तथा ते विस्तरं प्राप्ताः पुत्रपौत्रैः प्रपौत्रकैः ।
तेषां पुत्रैः प्रपौत्रैश्च वंशाद्वंशांतरं गताः ११।
एवं हि वैष्णवः सर्वो जरामृत्युविवर्जितः ।
मर्त्यलोकः कृतस्तेन नहुषस्यात्मजेन वै १२।
पदभ्रष्टोस्मि संजातो व्यापारेण विवर्जितः ।
एतत्सर्वं समाख्यातं मम कर्मविनाशनम् १३।
एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु ।
एतत्ते सर्वमाख्यातं यथापृष्टोस्मि वै त्वया १४।
एतस्मात्कारणादिंद्र आगतस्तव सन्निधौ ।
इंद्र उवाच-
पूर्वमेव मया दूत आगमाय महात्मनः १५।
प्रेषितो धर्मराजेंद्र दूतेनास्यापि भाषितम् ।
नाहं स्वर्गसुखस्यार्थी नागमिष्ये दिवं पुनः १६।
स्वर्गरूपं करिष्यामि सर्वं तद्भूमिमंडलम् ।
इत्याचचक्षे भूपालः प्रजापाल्यं करोति सः १७।
तस्य धर्मप्रभावेण भीतस्तिष्ठामि सर्वदा ।
धर्म उवाच-
येनकेनाप्युपायेन तमानय सुभूपतिम् १८।
देवराज महाभाग यदीच्छसि मम प्रियम् ।
इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः १९।
चिंतयामास मेधावी सर्वतत्वेन भूपते ।
कामदेवं समाहूय गंधर्वांश्च पुरंदरः २०।
मकरंदं रतिं देव आनिनाय महामनाः ।
तथा कुरुत वै यूयं यथाऽगच्छति भूपतिः २१।
यूयं गच्छन्तु भूर्लोकं मयादिष्टा न संशयः ।
काम उवाच-
युवयोस्तु प्रियं पुण्यं करिष्यामि न संशयः २२।
राजानं पश्य मां चैव स्थितं चैव समा युधि ।
तथेत्युक्त्वा गताः सर्वे यत्र राजा स नाहुषिः २३।
नटरूपेण ते सर्वे कामाद्याः कर्मणा द्विज ।
आशीर्भिरभिनंद्यैव ते च ऊचुः सुनाटकम् २४।
तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः ।
सभां चकार मेधावी देवरूपां सुपंडितैः २५।
समायातः स्वयं भूपो ज्ञानविज्ञानकोविदः ।
तेषां तु नाटकं राजा पश्यमानः स नाहुषिः २६।
चरितं वामनस्यापि उत्पत्तिं विप्ररूपिणः ।
रूपेणाप्रतिमा लोके सुस्वरं गीतमुत्तमम् २७।
गायमाना जरा राजन्नार्यारूपेण वै तदा ।
तस्या गीतविलासेन हास्येन ललितेन च २८।
मधुरालापतस्तस्य कंदर्पस्य च मायया ।
मोहितस्तेन भावेन दिव्येन चरितेन च २९।
बलेश्चैव यथारूपं विंध्यावल्या यथा पुरा ।
वामनस्य यथारूपं चक्रे मारोथ तादृशम् ३०।
सूत्रधारः स्वयं कामो वसंतः पारिपार्श्वकः ।
नटीवेषधरा जाता सा रतिर्हृष्टवल्लभा ३१।
नेपथ्यांतश्चरी राजन्सा तस्मिन्नृत्यकर्मणि ।
मकरंदो महाप्राज्ञः क्षोभयामास भूपतिम् ३२।
यथायथा पश्यति नृत्यमुत्तमं गीतं समाकर्णति स क्षितीशः ।
तथातथा मोहितवान्स भूपतिं नटीप्रणीतेन महानुभावः ३३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थे ययातिचरित्रे षट्सप्ततितमोऽध्यायः ७६।