पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७७

← अध्यायः ०७६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७७
अज्ञातलेखकः
अध्यायः ०७८ →

सुकर्मोवाच-
कामस्य गीतलास्येन हास्येन ललितेन च ।
मोहितो राजराजेंद्रो नटरूपेण पिप्पल १।
कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजः ।
अकृत्वा पादयोः शौचमासने उपविष्टवान् २।
तदंतरं तु संप्राप्य संचचार जरा नृपम् ।
कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ३।
निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः ।
जराभिभूतो धर्मात्मा कामसंसक्तमानसः ४।
मोहितः काममोहेन विह्वलो विकलेंद्रियः ।
अतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ५।
एकदा तु गतो राजा मृगया व्यसनातुरः ।
वने च क्रीडते सोपि मोहरागवशं गतः ६।
सरसं क्रीडमानस्य नृपतेश्च महात्मनः ।
मृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ७।
सर्वांगसुंदरो राजन्हेमरूपतनूरुहः ।
रत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ८।
अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरः ।
इत्यमन्यत मेधावी कोपि दैत्यः समागतः ९।
मृगेण च स तेनापि दूरमाकर्षितो नृपः ।
गतः सरथवेगेन श्रमेण परिखेदितः १०।
वीक्षमाणस्य तस्यापि मृगश्चांतरधीयत ।
स पश्यति वनं तत्र नंदंनोपममद्भुतम् ११।
चारुवृक्षसमाकीर्णं भूतपंचकशोभितम् ।
गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः १२।
बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैः ।
पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः १३।
पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः ।
पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः १४।
वीक्षमाणो महाराज ददर्श सर उत्तमम् ।
पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् १५।
हंसकारंडवाकीर्णं जलपक्षिविनादितम् ।
कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् १६।
रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम् ।
नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् १७।
मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम् ।
एवं सर्वगुणोपेतं ददर्श सर उत्तमम् १८।
पंचयोजनविस्तीर्णं दशयोजनदीर्घकम् ।
तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् १९।
रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितः ।
निषसाद तटे तस्य चूतच्छायां सुशीतलाम् २०।
स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम् ।
सर्वश्रमोपशमनममृतोपममेव तत् २१।
वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता ।
गीतध्वनिः समाकर्णि गीयमानो यथा तथा २२।
यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः ।
गीतप्रियो महाराज एव चिंतां परां गतः २३।
चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम् ।
तावन्नारी वरा काचित्पीनश्रोणी पयोधरा २४।
नृपतेः पश्यतस्तस्य वने तस्मिन्समागता ।
सर्वाभरणशोभांगी शीललक्षणसंपदा २५।
तस्मिन्वने समायाता नृपतेः पुरतः स्थिता ।
तामुवाच महाराजः का हि कस्य भविष्यसि २६।
किमर्थं हि समायाता तन्मे त्वं कारणं वद ।
पृष्टा सती तदा तेन न किंचिदपि पिप्पल २७।
शुभाशुभं च भूपालं प्रत्यवोचद्वरानना ।
प्रहस्यैव गता शीघ्रं वीणादंडकराऽबला २८।
विस्मयेनापि राजेंद्रो महता व्यापितस्तदा ।
मया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् २९।
पुनश्चिंतां समापेदे ययातिः पृथिवीपतिः ।
यो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ३०।
तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे ।
मायारूपमिदं सत्यं दानवानां भविष्यति ३१।
चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजः ।
यावच्चिंतयते राजा तावन्नारी महावने ३२।
अंतर्धानं गता विप्र प्रहस्य नृपनंदनम् ।
एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ३३।
शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम् ।
जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ३४।
जलांते पुष्करं चैव सहस्रदलमुत्तमम् ।
तस्योपरि वरा नारी शीलरूपगुणान्विता ३५।
दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता ।
दिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ३६।
गायंती सुस्वरं गीतं तालमानलयान्वितम् ।
तेन गीतप्रभावेण मोहयंती चराचरान् ३७।
देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान् ।
तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ३८।
संसारे नास्ति चैवान्या नारीदृशी चराचरे ।
पुरा नटो जरायुक्तो नृपतेः कायमेव हि ३९।
संचारितो महाकामस्तदासौ प्रकटोभवत् ।
घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ४०।
तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत् ।
मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ४१।
ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी ।
चिंतयित्वा क्षणं राजा कामसंसक्तमानसः ४२।
तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदा ।
कामाग्निना दह्यमानः कामज्वरेणपीडितः ४३।
कथं स्यान्मम चैवेयं कथं भावो भविष्यति ।
यदा मां गूहते बाला पद्मास्या पद्मलोचना ४४।
यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत् ।
एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ४५।
तामुवाच वरारोहां का त्वं कस्यापि वा शुभे ।
पूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ४६।
तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगा ।
सर्वं कथय कल्याणि अहं हि नहुषात्मजः ४७।
सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभे ।
ययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ४८।
तव संगमने चेतो भावमेवं प्रवांछते ।
देहि मे संगमं भद्रे कुरु सुप्रियमेव हि ४९।
यं यं हि वांछसे भद्रे तद्ददामि न संशयः ।
दुर्जयेनापि कामेन हतोहं वरवर्णिनि ५०।
तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तव ।
राज्यं च सकलामुर्वीं शरीरमपि चात्मनः ५१।
संगमे तव दास्यामि त्रैलोक्यमिदमेव ते ।
तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ५२।
विशालां स्वसखीं प्राह ब्रूहि राजानमागतम् ।
नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ५३।
ममापि भावमेकाग्रमस्याग्रे च निवेदय ।
तस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ५४।
उवाच मधुरालापैः श्रूयतां नृपनंदन ।
विशालोवाच-
काम एष पुरा दग्धो देवदेवेन शंभुना ५५।
रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम् ।
अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ५६।
तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम् ।
समाकर्ण्य ततो देवाः कृपया परयान्विताः ५७।
संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन् ।
जीवयस्व महादेव पुनरेव मनोभवम् ५८।
वराकीयं महाभाग भर्तृहीना हि कीदृशी ।
कामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ५९।
तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम् ।
कायेनापि विहीनोयं पंचबाणो मनोभवः ६०।
भविष्यति न संदेहो माधवस्य सखा पुनः ।
दिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ६१।
महादेवप्रसादाच्च मीनकेतुः स जीवितः ।
आशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ६२।
गच्छ काम प्रवर्तस्व प्रियया सह नित्यशः ।
एवमाह महातेजाः स्थितिसंहारकारकः ६३।
पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिः ।
इदं कामसरो राजन्रतिरत्र सुसंस्थिता ६४।
दग्धे सति महाभागे मन्मथे दुःखधर्षिता ।
रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ६५।
अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिता ।
अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ६६।
नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवः ।
तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ६७।
जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम ।
वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ६८।
दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदा ।
मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ६९।
शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमः ।
प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ७०।
तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाः ।
रत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ७१।
मूर्तिमंतो महाराज सद्भावगुणसंयुताः ।
काम एष समायातः केनाप्युक्तं तदा नृप ७२।
महानंदेन संयुक्ता दृष्ट्वा कामं समागतम् ।
नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ७३।
अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाः ।
प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ७४।
तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तम ।
जज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ७५।
लीलाक्रीडा मनोभाव संयोगस्तु महान्नृप ।
रत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ७६।
जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम् ।
तस्मात्सुपंकजाज्जाता इयं नारी वरानना ७७।
अश्रुबिंदुमती नाम रतिपुत्री नरोत्तम ।
तस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ७८।
सखीभावस्वभावेन संहृष्टा सर्वदा शुभा ।
विशाला नाम मे ख्यातं वरुणस्य सुता नृप ७९।
अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदा ।
एतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ८०।
तपश्चचार राजेंद्र पतिकामा वरानना ।
राजोवाच-
सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ८१।
मामेवं हि भजत्वेषा रतिपुत्री वरानना ।
यमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ८२।
तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत् ।
विशालोवाच-
अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ८३।
पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम् ।
देवराजसमं राजन्धर्माचारसमन्वितम् ८४।
तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम् ।
गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ८५।
लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम् ।
सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ८६।
देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम् ।
ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ८७।
एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम् ।
सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ८८।
ययातिरुवाच-
एवं गुणैः समुपेतं विद्धि मामिह चागतम् ।
अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ८९।
विशालोवाच-
भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रये ।
पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ९०।
एकेनापि च दोषेण त्वामेषा हि न मन्यते ।
एष मे संशयो जातो भवान्विष्णुमयो नृप ९१।
ययातिरुवाच-
समाचक्ष्व महादोषं यमेषा नानुमन्यते ।
तत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ९२।
विशालोवाच-
आत्मदोषं न जानासि कस्मात्त्वं जगतीपते ।
जरया व्याप्तकायस्त्वमनेनेयं न मन्यते ९३।
एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः ।
दुःखेन महताविष्टस्तामुवाच पुनर्नृपः ९४।
जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा ।
समुद्भूतं ममांगे वै तं न जाने जरागमम् ९५।
यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभे ।
तमस्यै दातुकामोहं व्रियतां वर उत्तमः ९६।
विशालोवाच-
जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् ।
एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ९७।
श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यके ।
जरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ९८।
तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनः ।
उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९९।
यथात्मदानपुण्यस्य कृपया यो ददाति च ।
फलं राजन्हि तत्तस्य जायते नात्र संशयः १००।
दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते ।
सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते १०१।
पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव च ।
प्रगृह्यैव समागच्छ सुंदरत्वेन भूपते १०२।
यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपते ।
एवमाभाष्य सा भूपं विशाला विरराम ह १०३।
सुकर्मोवाच-
एवमाकर्ण्य राजेंद्रो विशालामवदत्तदा ।
राजोवाच-
एवमस्तु महाभागे करिष्ये वचनं तव १०४।
कामासक्तः समूढस्तु ययातिः पृथिवीपतिः ।
गृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह १०५।
तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम् ।
कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् १०६।
पुत्रा ऊचुः-
पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् ।
उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०७।
एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिः ।
आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः १०८।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे सप्तसप्ततितमोऽध्यायः ७७।