पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८२
← अध्यायः ०८१ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ८२ अज्ञातलेखकः |
अध्यायः ०८३ → |
सुकर्मोवाच-
एवं चिंतयते यावद्राजा परमधार्मिकः ।
तावत्प्रोवाच सा देवी रतिपुत्री वरानना १।
किमु चिंतयसे राजंस्त्वमिहैव महामते ।
प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः २।
नाहं चापल्यभावेन त्वामेवं प्रविचालये ।
नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम ३।
अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति च ।
अकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः ४।
लोकानां दर्शनायैव जाता श्रद्धा ममोरसि ।
देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः ५।
तेषां च दर्शनं राजन्कारयामि वदस्व मे ।
दोषं पापकरं यत्तु मत्संगादिह चेद्भवेत् ६।
एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनः ।
महाभयाद्यथाभीतो मोहगर्ते गतो यथा ७।
त्यज चिंतां महाराज न गंतव्यं त्वया दिवि ।
येन ते जायते दुःखं तन्न कार्यं मया कदा ८।
एवमुक्तस्तथा राजा तामुवाच वराननाम् ।
चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम् ९।
मानभंगो मया दृष्टो नैव स्वस्य मनःप्रिये ।
मयि स्वर्गं गते कांते प्रजा दीना भविष्यति १०।
त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः ।
त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने ११।
एवमाभाष्य तां राजा समाहूय सुतोत्तमम् ।
पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् १२।
एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम् ।
ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया १३।
जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः ।
राज्यं कुरु ममेदं त्वं सकोशबलवाहनम् १४।
आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम् ।
मया दत्तां महाभाग सग्रामवनपत्तनाम् १५।
प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ ।
दुष्टानां शासनं नित्यं साधूनां परिपालनम् १६।
कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः ।
ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा १७।
भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये ।
पंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः १८।
बलं च नित्यं संपूज्यं प्रसादधनभोजनैः ।
चारचक्षुर्भवस्व त्वं नित्यं दानपरो भव १९।
भव स्वनियतो मंत्रे सदा गोप्यः सुपंडितैः ।
नियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत २०।
विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबले ।
पात्राणां त्वं तु सर्वेषां कलानां कुरु संग्रहम् २१।
यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदा ।
प्रजानां कंटकान्सर्वान्मर्दयस्व दिने दिने २२।
प्रजानां वांछितं सर्वमर्पयस्व दिने दिने ।
प्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक २३।
स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाः ।
मतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा २४।
वेदानां हि सदा चिंता शास्त्राणां हि च सर्वदा ।
कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव २५।
संतुष्टः सर्वदा वत्स स्वशय्या निरतो भव ।
गजस्य वाजिनोभ्यासं स्यंदनस्य च सर्वदा २६।
एवमादिश्य तं पुत्रमाशीर्भिरभिनंद्य च ।
स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् २७।
स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य च ।
गंतुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः २८।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः ८२।