पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८३

← अध्यायः ०८२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ८३
अज्ञातलेखकः
अध्यायः ०८४ →

सुकर्मोवाच-
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः ।
हर्षेण महताविष्ट इदं वचनमब्रवीत् १।
इंद्रलोकं ब्रह्मलोकं रुद्रलोकमतः परम् ।
वैष्णवं सर्वपापघ्नं प्राणिनां गतिदायकम् २।
व्रजाम्यहं न संदेहो ह्यनया सह सत्तमाः ।
ब्राह्मणाः क्षत्रिया वैश्याः सशूद्रा श्च प्रजा मम ३।
सुखेनापि सकुटुंबैः स्थातव्यं तु महीतले ।
पूरुरेष महाभागो भवतां पालकस्त्विह ४।
स्थापितोस्ति मया लोका राजा धीरः सदंडकः ।
एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् ५।
श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम ।
धर्म एवं यतो लोके न दृष्टः केन वै पुरा ६।
दृष्टोस्माभिरसौ धर्मो दशांगः सत्यवल्लभः ।
सोमवंशसमुत्पन्नो नहुषस्य महागृहे ७।
हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः ।
ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः ८।
गुणानां हि महाराज आकरः सत्यपंडितः ।
कुर्वंति च महाधर्मं सत्यवंतो महौजसः ९।
तं धर्मं दृष्टवंतः स्म भवंतं कामरूपिणम् ।
भवंतं कामकर्तारमीदृशं सत्यवादिनम् १०।
कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः ।
यत्र त्वं तत्र गच्छामः सुसुखं पुण्यमेव च ११।
नरकेपि भवान्यत्र वयं तत्र न संशयः ।
किं दारैर्धनभोगैश्च किं जीवैर्जीवितेन च १२।
त्वां विनासुमहाराज तेन नास्त्यत्र कारणम् ।
त्वयैव सह राजेंद्र वयं यास्याम नान्यथा १३।
एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः ।
हर्षेण महताविष्टः प्रजावाक्यमुवाच ह १४।
आगच्छंतु मया सार्द्धं सर्वे लोकाः सुपुण्यकाः ।
नृपो रथं समारुह्य तया वै कामकन्यया १५।
रथेन हंसवर्णेन चंद्रबिंबानुकारिणा ।
चामरैर्व्यजनैश्चापि वीज्यमानो गतव्यथः १६।
केतुना तेन पुण्येन शुभ्रेणापि महीयसा ।
शोभमानो यथा देवो देवराजः पुरंदरः १७।
ऋषिभिः स्तूयमानस्तु बंदिभिश्चारणैस्तथा ।
प्रजाभिः स्तूयमानश्च ययातिर्नहुषात्मजः १८।
प्रजाः सर्वास्ततो यानैः समायाता नरेश्वरम् ।
गजैरश्वै रथैश्चान्यैः प्रस्थिताश्च दिवं प्रति १९।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः ।
सर्वे च वैष्णवा लोका विष्णुध्यानपरायणाः २०।
तेषां तु केतवः शुक्ला हेमदंडैरलंकृताः ।
शंखचक्रांकिताः सर्वे सदंडाः सपताकिनः २१।
प्रजावृंदेषु भासंते पताका मारुतेरिताः ।
दिव्यमालाधरास्सर्वे शोभितास्तुलसीदलैः २२।
दिव्यचंदनदिग्धांगा दिव्यगंधानुलेपनाः ।
दिव्यवस्त्रकृता शोभा दिव्याभरणभूषिताः २३।
सर्वे लोकाः सुरूपास्ते राजानमुपजग्मिरे ।
प्रजाशतसहस्राणि लक्षकोटिशतानि च २४।
अर्वखर्वसहस्राणि ते जनाः प्रतिजग्मिरे ।
ते तु राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः २५।
विष्णुध्यानपराः सर्वे जपदानपरायणाः ।
सुकर्मोवाच-
एवं ते प्रस्थिताः सर्वे हर्षेण महतान्विताः २६।
पूरुं पुत्रं महाराज स्वराज्ये परिषिच्य तम् ।
ऐंद्रं लोकं जगामाथ ययातिः पृथिवीपतिः २७।
तेजसा तस्य पुण्येन धर्मेण तपसा तदा ।
ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् २८।
ततो देवाः सगंधर्वाः किन्नराश्चारणास्तथा ।
सहिता देवराजेन आगताः संमुखं तदा २९।
तस्यैवापि नृपेंद्रस्य पूजयंतो नृपोत्तम ।
इंद्र उवाच-
स्वागतं ते महाराज मम गेहं समाविश ३०।
अत्र भोगान्प्रभुंक्ष्व त्वं दिव्यान्कामान्मनोऽनुगान् ।
राजोवाच-
सहस्राक्ष महाप्राज्ञ तव पादांबुजद्वयम् ३१।
नमस्करोम्यहं देव ब्रह्मलोकं व्रजाम्यहम् ।
देवैः संस्तूयमानश्च ब्रह्मलोकं जगाम ह ३२।
पद्मयोनिर्महातेजाः सार्धं मुनिवरैस्तदा ।
आतिथ्यं च चकारास्य पाद्यार्घादि सुविष्टरैः ३३।
उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा ।
एवमाभाषिते धात्रा जगाम शिवमंदिरम् ३४।
चक्रे आतिथ्यपूजां च उमया सह शंकरः ।
तस्यै वापि नृपेंद्रस्य राजानमिदमब्रवीत् ३५।
कृष्णभक्तोसि राजेंद्र ममापि सुप्रियो भवान् ।
ततो ययाते राजेंद्र वस त्वं मम मंदिरम् ३६।
सर्वान्भोगान्प्रभुंक्ष्व त्वं दुःखप्राप्यान्हि मानुषैः ।
अंतरं नास्ति राजेंद्र मम विष्णोर्न संशयः ३७।
योसौ विष्णुस्वरूपेण स वै रुद्रो न संशयः ।
यो रुद्रो विद्यते राजन्स च विष्णुः सनातनः ३८।
उभयोरंतरं नास्ति तस्माच्चैव वदाम्यहम् ।
विष्णुभक्तस्यपुण्यस्यस्थानमेवददाम्यहम् ३९।
तस्मादत्र महाराज स्थातव्यं हि त्वयानघ ।
एवमुक्तः शिवेनापि ययातिर्हरिवल्लभः ४०।
भक्त्या प्रणम्य देवेशं शंकरं नतकंधरः ।
एतत्सर्वं महादेव त्वयोक्तमिह सांप्रतम् ४१।
युवयोरंतरं नास्ति एका मूर्तिर्द्विधाभवत् ।
वैष्णवं गंतुमिच्छामि पादौ तव नमाम्यहम् ४२।
एवमस्तु महाराज गच्छ लोकं तु वैष्णवम् ।
समादिष्टः शिवेनापि प्रतस्थे वसुधाधिपः ४३।
पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः ।
नृत्यमानैस्ततस्तैस्तु पुरतस्तस्य भूपतेः ४४।
शंखशब्दैः सुपापघ्नैः सिंहनादैः सुपुष्कलैः ।
जगाम निःस्वनै राजा पूज्यमानः सुचारणैः ४५।
सुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदैः ।
गायंति पुरतस्तस्य गंधर्वा गीततत्पराः ४६।
ऋषिभिः स्तूयमानश्च देववृंदैः समन्वितैः ।
अप्सरोभिः सुरूपाभिः सेव्यमानः स नाहुषिः ४७।
गंधर्वैः किन्नरैः सिद्धैश्चारणैः पुण्यमंगलैः ।
साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा ४८।
रुद्रैश्चादित्यवर्गैश्च लोकपालैर्दिगीश्वरैः ।
स्तूयमानो महाराजस्त्रैलोक्येन समंततः ४९।
ददृशे वैष्णवं लोकमनौपम्यमनामयम् ।
विमानैः कांचनै राजन्सर्वशोभासमाविलैः ५०।
हंसकुंदेंदुधवलैर्विमानैरुपशोभितैः ।
प्रासादैः शतभौमैश्च मेरुमंदरसंनिभैः ५१।
शिखरैरुल्लिखद्भिश्च स्वर्व्योमहाटकान्वितैः ।
जाज्वल्यमानैः कलशैः शोभते सुपुरोत्तमम् ५२।
तारागणैर्यथाकाशं तेजः श्रिया प्रकाशते ।
प्रज्वलत्तेजोज्वालाभिर्लोचनैरिव लोकते ५३।
नानारत्नैर्हरेर्लोकः प्रहसद्दशनैरिव ।
समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान् ५४।
ध्वज व्याजेन राजेंद्र चलिताग्रैः सुपल्लवैः ।
श्वसनांदोलितैस्तैश्च ध्वजाग्रैश्च मनोहरैः ५५।
हेमदंडैश्च घंटाभिः सर्वत्रसमलंकृतम् ।
सूर्यतेजः प्रकाशैश्च गोपुराट्टालकैस्ततः ५६।
गवाक्षैर्जालमालैश्च वातायनमनोहरैः ।
प्रतोलीनां प्रकाशैश्च प्राकारैर्हेमरूपकैः ५७।
तोरणैः सुपताकाभिर्नानाशब्दैः सुमंगलैः ।
कलशाग्रैश्चक्रबिंबै रविबिंबसमप्रभैः ५८।
सुभोगैः शतकक्षैश्च निर्जलांबुदसन्निभैः ।
दंडच्छत्रसमाकीर्णैः कलशैरुपशोभितैः ५९।
प्रावृट्कालांबुदाकारैर्मदिरैरुपशोभितैः ।
कलशैः शोभमानैस्तैर्ऋक्षैर्द्यौरिव भूतलम् ६०।
दंडजालपताकाभिर्ऋक्षजालसमप्रभैः ।
तादृशैः स्फाटिकाकारैः कांतिशंखेंदुसन्निभैः ६१।
हेमप्रासादसंबाधैर्नानाधातुमयैस्ततः ।
विमानैरर्बुदसंख्यैः शतकोटिसहस्रकैः ६२।
सर्वभोगयुतैश्चैव शोभते हरिपत्तनम् ।
यैः समाराधितो देवः शंखचक्रगदाधरः ६३।
ते प्रसादात्तस्य तेषु निवसंति गृहेषु च ।
सर्वपुण्येषु दिव्येषु भोगाढ्येषु च मानवाः ६४।
वैष्णवाः पुण्यकर्माणो निर्धूताशेषकल्मषाः ।
एवंविधैर्गृहैः पुण्यैः शोभितं विष्णुमंदिरम् ६५।
नानावृक्षैः समाकीर्णं वनैश्चंदनशोभितैः ।
सर्वकामफलै राजन्सर्वत्र समलंकृतम् ६६।
वापीकुंडतडागैश्च सारसैरुपशोभितैः ।
हंसकारंडवाकीर्णैः कल्हारैरुपशोभितैः ६७।
शतपत्रैर्महापद्मैः पद्मोत्पलविराजितैः ।
कनकोत्पलवर्णैश्च सरोभिश्च विराजते ६८।
वैकुंठं सर्वशोभाढ्यं देवोद्यानैरलंकृतम् ।
दिव्यशोभासमाकीर्णं वैष्णवैरुपशोभितम् ६९।
वैकुंठं ददृशे राजा मोक्षस्थानमनुत्तमम् ।
देववृंदैः समाकीर्णं ययातिर्नहुषात्मजः ७०।
प्रविवेश पुरं रम्यं सर्वदाहविवर्जितम् ।
ददृशे सर्वक्लेशघ्नं नारायणमनामयम् ७१।
विमानैरुपशोभंतं सर्वाभरणशालिनम् ।
पीतवासं जगन्नाथं श्रीवत्सांकं महाद्युतिम् ७२।
वैनतेयसमारूढं श्रियायुक्तं परात्परम् ।
सर्वेषां देवलोकानां यो गतिः परमेश्वरः ७३।
परमानंदरूपेण कैवल्येन विराजते ।
सेव्यमानं महालोकैःसुपुण्यैर्वैष्णवैर्हरिम् ७४।
देववृंदैः समाकीर्णं गंधर्वगणसेवितम् ।
अप्सरोभिर्महात्मानं दुःखक्लेशापहं हरिम् ७५।
नारायणं ननामाथ स्वपत्न्या सह भूपतिः ।
प्रणेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ७६।
गता ये वैष्णवाः सर्वे सह राज्ञा महामते ।
पादांबुजद्वयं तस्य नेमुर्भक्त्या महामते ७७।
प्रणमंतं महात्मानं राजानं दीप्ततेजसम् ।
तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत ७८।
वरं वरय राजेंद्र यत्ते मनसि वर्तते ।
तत्ते ददाम्यसंदेहं मद्भक्तोसि महामते ७९।
राजोवाच
यदि त्वं देवदेवेश तुष्टोसि मधुसूदन ।
दासत्वं देहि सततमात्मनश्च जगत्पते ८०।
विष्णुरुवाच-
एवमस्तु महाभाग मम भक्तो न संशयः ।
लोके मम महाराज स्थातव्यमनया सह ८१।
एवमुक्तो महाराजो ययातिः पृथिवीपतिः ।
प्रसादात्तस्य देवस्य विष्णुलोकं प्रसाधितम् ८२।
निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ८३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृतीर्थवर्णने ययातिचरित्रे ययातेः स्वर्गारोहणं नाम त्र्यशीतितमोऽध्यायः ८३।