पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८७

← अध्यायः ०८६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ०८७
अज्ञातलेखकः
अध्यायः ०८८ →
कुंजलशुकस्य पुत्र उज्ज्वलेन सह संवादम्

कुंजल उवाच-
व्रतभेदान्प्रवक्ष्यामि यैर्यैश्चाराधितो हरिः ।
जया च विजया चैव जयंती पापनाशिनी १।
त्रिस्पृशा वंजुली चान्या तिलदग्धा तथापरा ।
अखंडाचारकन्या च मनोरथा सुपुत्रक २।
एकादश्यास्तु भेदाश्च संति पुत्र अनेकधा ।
अशून्यशयनं चान्यज्जन्माष्टमी महाव्रतम् ३।
एतैर्व्रतैर्महापुण्यैः पापं दूरं प्रयाति च ।
प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ४।
कुंजल उवाच-
स्तोत्रं तस्य प्रवक्ष्यामि पापराशिविनाशनम् ।
सुपुत्रशतनामाख्यं नराणां गतिदायकम् ५।
तस्य देवस्य कृष्णस्य शतनामाख्यमुत्तमम् ।
संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुतोत्तम ६।
विष्णोर्नामशतस्यापि ऋषिं छंदो वदाम्यहम् ।
देवं चैव महाभाग सर्वपापविशोधनम् ७।
विष्णोर्नामशतस्यापि ऋषिर्ब्रह्मा प्रकीर्तितः ।
ॐकारो देवता प्रोक्तश्छंदोनुष्टुप्तथैव च ८।
सर्वकामिकसंसिद्ध्यै मोक्षे च विनियोगकः ।
अस्य विष्णोः शतनामस्तोत्रस्य ।
ब्रह्मा ऋषिः विष्णुर्देवता अनुष्टुप्छंदः ।
सर्वकामसमृद्ध्यर्थं सर्वपापक्षयार्थे विनियोगः ९।
नमाम्यहं हृषीकेशं केशवं मधुसूदनम् ।
सूदनं सर्वदैत्यानां नारायणमनामयम् १०।
जयंतं विजयं कृष्णमनंतं वामनं ततः ।
विष्णुं विश्वेश्वरं पुण्यं विश्वाधारं सुरार्चितम् ११।
अनघं त्वघहंतारं नरसिंहं श्रियः प्रियम् ।
श्रीपतिं श्रीधरं श्रीदं श्रीनिवासं महोदयम् १२।
श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम् ।
सर्वज्ञं सर्ववेत्तारं सर्वदं सर्वनायकम् १३।
हरिं मुरारिं गोविंदं पद्मनाभं प्रजापतिम् ।
आनंदं ज्ञानसंपन्नं ज्ञानदं ज्ञाननायकम् १४।
अच्युतं सबलं चंद्रं चक्रपाणिं परावरम् ।
युगाधारं जगद्योनिं ब्रह्मरूपं महेश्वरम् १५।
मुकुंदं तं सुवैकुंठमेकरूपं जगत्पतिम् ।
वासुदेवं महात्मानं ब्रह्मण्यं ब्राह्मणप्रियम् १६।
गोप्रियं गोहितं यज्ञंयज्ञांगं यज्ञवर्द्धनम् ।
यज्ञस्यापि सुभोक्तारं वेदवेदांगपारगम् १७।
वेदज्ञं वेदरूपं तं विद्यावासं सुरेश्वरम् ।
अव्यक्तं तं महाहंसं शंखपाणिं पुरातनम् १८।
पुरुषं पुष्कराक्षं तु वाराहं धरणीधरम् ।
प्रद्युम्नं कामपालं च व्यासं व्यालं महेश्वरम् १९।
सर्वसौख्यं महासौख्यं मोक्षं च परमेश्वरम् ।
योगरूपं महाज्ञानं योगिनां गतिदं प्रियम् २०।
मुरारिं लोकपालं तं पद्महस्तं गदाधरम् ।
गुहावासं सर्ववासं पुण्यवासं महाभुजम् २१।
वृंदानाथं बृहत्कायं पावनं पापनाशनम् ।
गोपीनाथं गोपसखं गोपालं गोगणाश्रयम् २२।
परात्मानं पराधीशं कपिलं कार्यमानुषम् ।
नमामि निश्चलं नित्यं मनोवाक्कायकर्मभिः २३।
नाम्नां शतेनापि सुपुण्यकर्ता यः स्तौति कृष्णं मनसा स्थिरेण ।
स याति लोकं मधुसूदनस्य विहाय लोकानिह पुण्यपूतः २४।
नाम्नां शतं महापुण्यं सर्वपातकशोधनम् ।
जपेदनन्यमनसा ध्यायेद्ध्यानसमन्वितम् २५।
नित्यमेव नरः पुण्यैर्गंगास्नानफलं लभेत् ।
तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपेत् २६।
त्रिकालं च जपेन्मर्त्यो नियतो नियमे स्थितः ।
अश्वमेधफलं तस्य जायते नात्र संशयः २७।
एकादश्यामुपोष्यैव पुरतो माधवस्य यः ।
जागरे प्रजपेन्मर्त्यस्तस्य पुण्यं वदाम्यहम् २८।
पुंडरीकस्य यज्ञस्य फलमाप्नोति मानवः ।
तुलसीसंनिधौ स्थित्वा मनसा यो जपेन्नरः २९।
राजसूयफलं भुंक्ते वर्षेणापि च मानवः ।
शालग्रामशिला यत्र यत्र द्वारावती शिला ३०।
उभयोः संनिधौ जाप्यं कर्तव्यं सुखमिच्छता ।
बहुसौख्यं प्रभुक्त्वैव कुलानां शतमेव च ३१।
एकेन चाधिकं मर्त्य आत्मना सह तारयेत् ।
कार्तिके स्नानकर्ता यः पूजयेन्मधुसूदनम् ३२।
यः पठेत्प्रयतः स्तोत्रं प्रयाति परमां गतिम् ।
माघस्नायी हरिं पूज्य भक्त्या च मधुसूदनम् ३३।
ध्यायेच्चैव हृषीकेशं जपेद्वाथ शृणोति वा ।
सुरापानादिकं पापं विहाय परमं पदम् ३४।
विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम् ।
श्राद्धकाले हि यो मर्त्यो विप्राणां भुंजतां पुरः ३५।
यो जपेच्च शतं नाम्नां स्तोत्रं पातकनाशनम् ।
पितरस्तुष्टिमायांति तृप्ता यांति परां गतिं ३६।
ब्राह्मणो वेदविद्वान्स्यात्क्षत्रियो विंदते महीम् ।
धनऋद्धिं प्रभुंजीत वैश्यो जपति यः सदा ३७।
शूद्रः सुःखं प्रभुंक्ते च ब्राह्मणत्वं च गच्छति ।
प्राप्य जन्मांतरं वत्स वेदविद्यां प्रविंदति ३८।
सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः ।
केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ३९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे सप्ताशीतितमोऽध्यायः ८७।