पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८८

← अध्यायः ०८७ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ०८८
अज्ञातलेखकः
अध्यायः ०८९ →

कुंजल उवाच-
व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रक ।
मयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् १।
एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत् ।
प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् २।
इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधय ।
अशून्यशयनं नाम व्रतराजं वदस्व ताम् ३।
समुद्धर महापापाद्राजकन्यां यशस्विनीम् ।
त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ४।
गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः ।
श्रीविष्णुरुवाच-
उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि ५।
प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः ।
जगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ६।
तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम् ।
नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम् ७।
नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृप ।
नद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ८।
किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृप ।
अप्सरोभिः समाकीर्णं देववृंदैरुपावृतम् ९।
सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम् ।
नानापक्षिनिनादैश्च सर्वत्र परिनादितम् १०।
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः ।
सुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ११।
रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत् ।
का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम् १२।
कमाश्रिता महाभागे केन ते विप्रियं कृतम् ।
समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् १३।
दिव्यादेव्युवाच-
विपाको हि महाभाग कर्मणां मम सांप्रतम् ।
इह तिष्ठामि दुःखेन वैधव्येन समन्विता १४।
भवान्को हि महाभाग कृपया मम पीडितः ।
पक्षिरूपधरो वत्स सोत्सवं परिभाषते १५।
एवमाकर्ण्य तत्सर्वं भाषितं राजकन्यया ।
अहं पक्षी महाभागे कृपया तव पीडितः १६।
पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान् ।
रुदमानां महालापैर्भवतीं दृष्टवानिह १७।
ततः पृच्छाम्यहं देवि वद मे कारणं त्विह ।
पितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि १८।
तया निवेदितं सर्वं यथासंख्येन दुःखदम् ।
समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः १९।
तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ।
यथा विवाहकाले ते भर्तारो मरणं गताः २०।
स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाः ।
एतत्ते चेष्टितं सर्वं मया पितरि भाषितम् २१।
अन्यजन्मकृतंकर्मतव पापं सुलोचने ।
मम पित्रा ममाग्रे तु कृपया परिभाषितम् २२।
तेन दोषेण संपुष्टा लिप्ता जाता वरानने ।
एतावत्कारणं सर्वं तातेन परिभाषितम् २३।
पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वस ।
एवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् २४।
प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनः ।
प्रणता दीनया वाचा कुरु पक्षिन्कृपां मम २५।
कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम् ।
प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् २६।
येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषा ।
प्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः २७।
उज्ज्वल उवाच-
तवार्थं तु महाभागे पितरं पृष्टवानहम् ।
समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् २८।
तत्त्वं कुरु महाभागे सर्वपातकशोधनम् ।
ध्यायस्व हि हृषीकेशं शतनामजपस्व च २९।
भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम् ।
अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ३०।
समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम् ।
ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ३१।
विष्णुरुवाच-
तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वने ।
सर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता ३२।
व्रतं चक्रे जिताहारा निराधारा सुदुःखिता ।
कामक्रोधविहीना सा वर्गं संयम्य नित्यशः ३३।
इंद्रियाणां महाराज महामोहं निरस्य सा ।
अब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ३४।
तस्यै वरं दातुकामश्चायातो वरनायकः ।
तस्यै संदर्शयामास स्वरूपं वरदः प्रभुः ३५।
सूत उवाच-
इंद्रनीलघनश्यामं शंखचक्रगदाधरम् ।
सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ३६।
बद्धांजलिपुटा भूत्वा वेपमाना निराश्रया ।
उवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ३७।
तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हि ।
दिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ३८।
कथयस्व प्रसादेन किमत्र तव कारणम् ।
सर्वमेव प्रसादेन प्रब्रवीहि महामते ३९।
देवमेवं विजानामि तेजसा इंगितैस्तव ।
ज्ञानहीना जगन्नाथ न जाने रूपनामनी ४०।
किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हि ।
एवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता ४१।
तामुवाच जगन्नाथः प्रणतां राजनंदिनीम् ।
श्रीभगवानुवाच-
त्रयाणामपि देवानामंतरं नास्ति शोभने ४२।
ब्रह्मा समर्चितो येन शंकरो वा वरानने ।
तेनाहमर्चितो नित्यं नात्र कार्या विचारणा ४३।
एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् ।
अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ४४।
अहं देवो हृषीकेशः कृपया तव चागतः ।
स्तवेनानेन पुण्येन व्रतेन नियमेन च ४५।
संजाता कल्मषैर्हीना वरं वरय शोभने ।
दिव्यादेव्युवाच-
विजयस्व हृषीकेश कृष्णक्लेशापहारक ४६।
नमामि चरणद्वंद्वं मामुद्धर सुरेश्वर ।
वरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ४७।
आत्मपादयुगस्यापि भक्तिं देहि ममानघ ।
दर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ४८।
दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दन ।
श्रीभगवानुवाच-
एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ४९ ।
वैष्णवं परमं लोकं दुर्लभं योगिभिः सदा ।
गच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम् ५०।
एवमुक्ते ततो वाक्ये माधवेन महात्मना ।
दिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ५१।
पश्यतां सर्वलोकानां दिव्याभरणभूषिता ।
दिव्यमालान्विता सा च दिव्यहारविलंबिनी ५२।
गता सा वैष्णवं लोकं दाहप्रलयवर्जितम् ।
पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ५३।
तत्सर्वं कथयामास पितरं प्रति सत्तमः ५४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः ८८।