पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९२
← अध्यायः ०९१ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ९२ अज्ञातलेखकः |
अध्यायः ०९३ → |
कुंजल उवाच-
कालंजरं समासाद्य निवसंति सुदुःखिताः ।
महापापैस्तु संदग्धा हाहाभूता विचेतनाः १।
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः ।
तेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः २।
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः ।
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ३।
सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः ।
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ४।
गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाः ।
गंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ ५।
पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ ।
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ६।
कालंजरात्ततो जग्मुः सत्वरं पापपीडिताः ।
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ७।
प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम ।
अमासोमं सुसंप्राप्य जग्मुस्ते च महापुरीम् ८।
विदुरश्चंद्रशर्मा च वेदशर्मा तृतीयकः ।
वैश्यो वंजुलकश्चैव सुरापः पापचेतनः ९।
तस्मिन्पर्वणि संप्राप्ते स्नाता गंगांभसि द्विज ।
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः १०।
ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः ।
लिप्तानि तानि तीर्थानि परिभ्रमंति मेदिनीम् ११।
पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः ।
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम १२।
कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः ।
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः १३।
कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम् ।
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः १४।
यं यं तीर्थं प्रयांत्येते सर्वे तीर्था द्विजोत्तम ।
हंसरूपेण वै यांति तैः सार्द्धं तु सुदुःखिताः १५।
भार्याः पातकरूपाश्च भ्रमंति परितस्तथा ।
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः १६।
तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः ।
मानसं चागतास्ते च पातकाकुलमानसाः १७।
तत्र स्नाता महाराज न जहाति च पातकः ।
लज्जयाविष्टमनसा मानसो हंसरूपधृक् १८।
संजातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा ।
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् १९।
कुब्जायाः संगमे ते तु सुरसिद्धनिषेविते ।
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम २०।
विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे ।
यं यं तीर्थं प्रयांत्येते हंसाः स्नानं प्रचक्रमुः २१।
जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति ।
तोयानलेन कुब्जायाः पातकं वरमेव च २२।
भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः ।
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः २३।
भस्मीभूतास्तु संजाता रेवायाः कुब्जया हताः ।
तास्तु हता महाभाग या मृतास्तु सरित्तटे २४।
अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु ।
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् २५।
चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु ।
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् २६।
वाराणसी चतुर्थी च चत्वारः पापनाशनाः ।
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः २७।
तीर्थान्येतानि दुःखेन तीर्थेषु च महामते ।
न गतं पातकं घोरं तेषां तु भ्रमतां सुत २८।
कुब्जायाः संगमे शुद्धा विमुक्ताः किल्बिषात्किल ।
तीर्थानामेव सर्वेषां पुण्यानामिह संमतः २९।
राजा प्रयागः संजात इंद्रस्य पुरतः किल ।
तावद्गर्जंतु तीर्थानि यावद्रेवा न दृश्यते ३०।
ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता ।
कपिलासंगमे पुण्ये रेवायाः संगमे तथा ३१।
मेघनादसमायोगे तथा चैवोरुसंगमे ।
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ३२।
सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसंगमे ।
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ३३।
विटंकासंगमे पुण्या श्रीकंठे मंगलेश्वरे ।
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ३४।
तीर्थमाता महादेवी अघराशिविनाशिनी ।
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ३५।
अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवः ।
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ३६।
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम् ।
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ३७।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ९२।