पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९५

← अध्यायः ०९४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९५
अज्ञातलेखकः
अध्यायः ०९६ →

सुबाहुरुवाच-
स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं द्विजसत्तम ।
एतत्सर्वं द्विजश्रेष्ठ करिष्यामि स्वभाविकम् १।
जैमिनिरुवाच-
नंदनादीनि रम्याणि दिव्यानि विविधानि च ।
तत्रोद्यानानि पुण्यानि सर्वकामयुतानि च २।
सर्वकामफलैर्वृक्षैः शोभनानि समंततः ।
विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ३।
सर्वत्रैव विचित्राणि कामगानि वशानि च ।
तरुणादित्यवर्णानि मुक्ताजालांतराणि च ४।
चंद्रमंडलशुभ्राणि हेमशय्यासनानि च ।
सर्वकामसमृद्धाश्च सर्वदुःखविवर्जिताः ५।
नराः सुकृतिनस्तेषु विचरंति यथा भुवि ।
न तत्र नास्तिका यांति न स्तेना नाजितेंद्रियाः ६।
न नृशंसा न पिशुना न कृतघ्ना न मानिनः ।
सत्यास्तपःस्थिताः शूरा दयावंतः क्षमापराः ७।
यज्वानो दानशीलाश्च तत्र गच्छंति ते नराः ।
न रोगो न जरामृत्युर्न शोको न हिमातपौ ८।
न तत्र क्षुत्पिपासा च कस्य ग्लानिर्न विद्यते ।
एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते ९।
दोषास्तत्रैव ये संति ताञ्छृणुष्व च सांप्रतम् ।
शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते १०।
न चात्र क्रियते भूयः सोऽत्र दोषो महान्स्मृतः ।
असंतोषश्च भवति दृष्ट्वा दीप्तां परां श्रियम् ११।
सुखव्याप्तमनस्कानां सहसा पतनं तथा ।
इह यत्क्रियते कर्म फलं तत्रैव भुज्यते १२।
कर्मभूमिरियं राजन्फलभूमिरसौ स्मृता ।
सुबाहुरुवाच-
महांतस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः १३।
निर्दोषाः शाश्वता येन्ये तांस्त्वं लोकान्वद द्विज ।
जैमिनिरुवाच-
आब्रह्मसदनादेव दोषाः संति च वै नृप १४।
अतएव हि नेच्छंति स्वर्गप्राप्तिं मनीषिणः ।
आब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् १५।
शुभं सनातनं ज्योतिः परंब्रह्मेति तद्विदुः ।
न तत्र मूढा गच्छंति पुरुषा विषयात्मकाः १६।
दंभमोहभयद्रोह क्रोधलोभैरभिद्रुताः ।
निर्ममा निरहंकारा निर्द्वंद्वास्संयतेंद्रियाः १७।
ध्यानयोगरताश्चैव तत्र गच्छंति साधवः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि १८।
एवं स्वर्गगुणं श्रुत्वा सुबाहुः पृथिवीपतिः ।
तमुवाच महात्मानं जैमिनिं वदतांवरम् १९।
सुबाहुरुवाच-
नाहं स्वर्गं गमिष्यामि न चैवेच्छाम्यहं मुने ।
यस्माच्च पतनं प्रोक्तं तत्कर्म न करोम्यहम् २०।
दानमेकं महाभाग नाहं दास्येकदाध्रुवम् ।
दानाच्च फललोभाच्च तस्मात्पतति वै नरः २१।
इत्येवमुक्त्वा धर्मात्मा सुबाहुः पृथिवीपतिः ।
ध्यानयोगेन देवेशं यजिष्ये कमलाप्रियम् २२।
दाहप्रलयसंवर्जं विष्णुलोकं व्रजाम्यहम् ।
जैमिनिरुवाच-
सत्यमुक्तं त्वया भूप सर्वश्रेयः समाकुलम् २३।
राजानो धर्मशीलाश्च महायज्ञैर्यजंति ते ।
सर्वदानानि दीयंते यज्ञेषु नृपनंदन २४।
आदावन्नं तु यज्ञेषु वस्त्रं तांबूलमेव च ।
कांचनं भूमिदानं च गोदानं प्रददंति च २५।
सुयज्ञैर्वैष्णवं लोकं ते प्रयांति नरोत्तमाः ।
दानेन तृप्तिमायांति संतुष्टाः संति भूमिपाः २६।
तपस्विनो महात्मानो नित्यमेवं यजंति ते ।
सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः २७।
भिक्षार्थं तस्य भागानि प्रकुर्वंति च भूपते ।
ब्राह्मणाय विभागैकं गोग्रासं तु महामते २८।
सुपार्श्ववर्तिनां चैकं प्रयच्छंति तपोधनाः ।
तस्यान्नस्य प्रदानेन फलं भुंजंति मानवाः २९।
क्षुधातृषाविहीनास्ते विष्णुलोकं व्रजंति वै ।
तस्मात्त्वमपि राजेंद्र देहि न्यायार्जितं धनम् ३०।
दानाज्ज्ञानं ततः प्राप्य ज्ञानात्सिद्धिं प्रयास्यति ।
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम् ३१।
तस्य सर्वार्थसिद्धिः स्यात्पापं सर्वं विलीयते ।
विमुक्तः सर्वपापेभ्यो विष्णुलोकं सगच्छति ३२।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे पंचनवतितमोऽध्यायः ९५।