पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०७

← अध्यायः १०६ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०७
अज्ञातलेखकः
अध्यायः १०८ →

कुंजल उवाच-
अथासौ नारदः स्वर्गादायुराजानमागतः ।
आगत्य कथयामास कस्माद्राजन्प्रशोचसे १।
पुत्रापहरणं तेऽद्य क्षेमं जातं महामते ।
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः २।
सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः ।
सर्वकलाभिसंपूर्ण आगमिष्यति ते सुतः ३।
येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः ।
आत्मगेहे महाराज कालो नीतो न संशयः ४।
तस्याप्यंतं स वै कर्त्ता महावीर्यो महाबलः ।
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ५।
इंद्रोपेंद्रसमः पुत्रो भविष्यति स्वतेजसा ।
इंद्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ६।
एवमाभाष्य राजानमायुं देवर्षिसत्तमः ।
जगाम सहसा तस्य पश्यतः सानुगस्य ह ७।
गते तस्मिन्महाभागे नारदे देवसंमिते ।
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ८।
दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः ।
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ९।
येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने ।
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति १०।
इत्याह नारदो भद्रे मा कृथाः शोकमेव च ।
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ११।
भर्तुर्वाक्यं निशम्यैवं राज्ञी इंदुमती ततः ।
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति १२।
यथोक्तं देवऋषिणा तत्तथैव भविष्यति ।
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः १३।
भविष्यति न संदेहः प्रतिभात्येनमेव हि ।
इत्येवं चिंतयित्वा तु ननाम द्विजपुंगवम् १४।
नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ।
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः १५।
एवमुक्त्वा तु सा देवी विरराम सुदुःखिता ।
आगमिष्यंतमाज्ञाय नहुषं तनयं पुनः १६।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः १०७।