पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११६

← अध्यायः ११५ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ११६
अज्ञातलेखकः
अध्यायः ११७ →

कुंजल उवाच-
अशोकसुंदरी पुण्या रंभया सह हर्षिता ।
नहुषं प्राप्य विक्रांतं तमुवाच तपस्विनी १।
अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी ।
उद्वाहयस्व मां वीर यदि धर्ममिहेच्छसि २।
सदैव चिंत्यमाना च त्वामहं तपसि स्थिता ।
भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम ३।
नहुष उवाच-
मदर्थे नियता भद्रे यदि त्वं तपसि स्थिता ।
गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ४।
अनया रंभया सार्द्धमावां गच्छाव भामिनि ।
समारोप्य रथे तां तु तां रंभां तु मनोरमाम् ५।
तेनैव रथवर्येण वशिष्ठस्याश्रमं प्रति ।
जगाम लघुवेगेन ताभ्यां सह महायशाः ६।
तमाश्रमगतं विप्रं समालोक्य प्रणम्य च ।
तया सार्द्धं महातेजा हर्षेण महतान्वितः ७।
यथा युद्धं रणे जातं निहतो दानवाधमः ।
निवेदयामास सर्वं वशिष्ठाय महात्मने ८।
वशिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् ।
हर्षेण महताविष्ट आशीर्भिरभिनंद्य तम् ९।
तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः ।
विवाहं कारयामास अग्निब्राह्मणसन्निधौ १०।
आशीर्भिरभिनंद्यैव मिथुनं प्रेषितं पुनः ।
मातरं पितरं पश्य द्रुतं गत्वा महामते ११।
त्वां च दृष्ट्वा हि ते माता पितासौ तव सुव्रत ।
हर्षेण वृद्धिमाप्नोतु पर्वणीव तु सागरः १२।
एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना ।
तेनैव रथवर्येण जगाम लघुविक्रमः १३।
नमस्कृत्य द्विजेंद्रं तं गतो मातलिना तदा ।
स्वपुरं पितरं द्रष्टुं तथैव च स्वमातरम् १४।
सूत उवाच-
अप्सरा मेनिका नाम प्रेषिता दैवतैस्ततः ।
आयोर्भार्या सुदुःखेन पतिता शोकसागरे १५।
तामुवाच महाभागां देवीमिंदुमतीं प्रति ।
मुंच शोकं महाभागे तनयं पश्य सस्नुषम् १६।
निहत्य दानवं पापं तव पुत्रापहारकम् ।
समायांतं सभायां च वीरश्रियासमन्वितम् १७।
सुवृत्तं संगरे तस्य नहुषेण यथा कृतम् ।
तस्यै निवेदयामास इंदुमत्यै च मेनिका १८।
मेनिकाया वचः श्रुत्वा हर्षेण महतान्विता ।
सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् १९।
सामृतं सुप्रियं प्रोक्तं मनःप्रोत्साहकारकम् ।
जीवादिकं मया देयं त्वयि सर्वस्वमेव हि २०।
एवमाभाष्य तां देवी राजानमिदमब्रवीत् ।
तव पुत्रो महाबाहुः समायातो हि सांप्रतम् २१।
आख्याति च महाराज एषा मे वै वराप्सराः ।
भर्तारमेवमाभाष्य विरराम सुहर्षिता २२।
समाकर्ण्य नृपेंद्रस्तु तामुवाच प्रियां प्रति ।
पुरा प्रोक्तं महाभागे मुनिना नारदेन हि २३।
पुत्रं प्रति न कर्तव्यं दुःखं राजंस्त्वया कदा ।
तं निहत्य सुवीर्येण दानवं चैष्यते सुतः २४।
संजातं सत्यमेवं वै मुनिना भाषितं पुरा ।
अन्यथा वचनं तस्य कथं देवि भविष्यति २५।
दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो भविष्यति ।
शुश्रूषितस्त्वया देवि मया च तपसा पुरा २६।
पुत्ररत्नं तेन दत्तं वैष्णवांशप्रधारकम् ।
सदा हनिष्यति परं दानवं पापचेतनम् २७।
सर्वदैत्यप्रहर्ता च प्रजापालो महाबलः ।
दत्तात्रेयेण मे दत्तो वैष्णवांशः सुतोत्तमः २८।
एवं संभाष्य तां देवीं राजा चेंदुमतीं तदा ।
महोत्सवं ततश्चक्रे पुत्रस्यागमनं प्रति २९।
हर्षेण महताविष्टो विष्णुं सस्मार वै पुनः ३०।
सर्वोपपन्नं सुरवर्गयुक्तमानंदरूपं परमार्थमेकम् ।
क्लेशापहं सौख्यप्रदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ३१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने षोडशाधिकशततमोऽध्यायः ११६।