पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११७
← अध्यायः ११६ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ११७ अज्ञातलेखकः |
अध्यायः ११८ → |
कुंजल उवाच-
नहुषः प्रियया सार्द्धं तया चैव सरंभया ।
ऐंद्रेणापि स दिव्येन स्यंदनेन वरेण च १।
नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम् ।
दिव्यैर्मंगलकैर्युक्तं भवनैरुपशोभितम् २।
हेमतोरणसंयुक्तं पताकाभिरलंकृतम् ।
नानावादित्रनादैश्च बंदिचारणशोभितम् ३।
देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् ।
नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यंदनैस्तथा ४।
नानामंगलशब्दैश्च वेदध्वनिसमाकुलम् ।
गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्ततः ५।
सर्वशोभासमाकीर्णं विवेश स पुरोत्तमम् ।
वेदमंगलघोषैश्च ब्राह्मणैश्चैव पूजितः ६।
ददृशे पितरं वीरो मातरं च सुपुण्यकाम् ।
हर्षेण महताविष्टः पितुः पादौ ननाम सः ७।
अशोकसुंदरी सा तु तयोः पादौ पुनः पुनः ।
ननाम भक्त्या भावेन उभयोः सा वरानना ८।
रंभा च सा ननामाथ प्रीतिं चैवाप्यदर्शयत् ।
नमस्कृत्वा समाभाष्य स्वगुरुं नृपनंदनः ९।
अनामयं च पप्रच्छ मातरं पितरं प्रति ।
एवमुक्तो महाभागः सानंदपुलकोद्गमः १०।
आयुरुवाच-
अद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ ।
भवतो दर्शनात्पुत्र सुतुष्ट्या हृष्यते जगत् ११।
कृतकृत्योस्मि संजातस्त्वयि जाते महौजसि ।
स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः १२।
इंदुमत्युवाच-
पर्वणि प्राप्य इंदोस्तु तेजो दृष्ट्वा महोदधिः ।
वृद्धिं याति महाभाग तथाहं तव दर्शनात् १३।
वर्द्धितास्मि सुहृष्टास्मि आनंदेन समाकुला ।
दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद १४।
एवं संभाष्य तं पुत्रमालिंग्य तनयोत्तमम् ।
शिरश्चाघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् १५।
अभिनंद्य सुतं प्राप्तं नहुषं देवरूपिणम् ।
आशीर्भिश्चार्चयद्देवी पुण्या इंदुमती तदा १६।
सूत उवाच-
अथासौ मातरं पुण्यां देवीमिंदुमतीं सुतः ।
कथयामास वृत्तांतं यथाहरणमात्मनः १७।
स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः ।
हुंडेनापि यथा युद्धं हुंडस्यापि निपातनम् १८।
समासेन समस्तं तदाख्यातं स्वयमेव हि ।
मातापित्रोर्यथा वृत्तं तयोरानंददायकम् १९।
मातापितरावाकर्ण्य पुत्रस्य विक्रमोद्यमम् ।
हर्षेण महताविष्टौ संजातौ पूर्णमानसौ २०।
नहुषो धनुरादाय इंद्रस्य स्यंदनेन वै ।
जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनाम् २१।
पित्रे समर्पयामास वसुपूर्णां वसुंधराम् ।
पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः २२।
पितरं याजयामास राजसूयादिभिस्तदा ।
महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः २३।
सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः ।
सुसंपूर्णौ कृतौ तौ तु पितरौ चायुसूनुना २४।
अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् ।
अभ्यषिंचन्महात्मानं नहुषं वीरमर्दनम् २५।
मुनिभिश्च सुसिद्धैश्च आयुना तेन भूभुजा ।
अभिषिंच्य स्वराज्ये तं समेतं शिवकन्यया २६।
भार्यायुक्तः स्वकायेन आयु राजा महायशाः ।
दिवं जगाम धर्मात्मा देवैः सिद्धैः सुपूजितः २७।
ऐंद्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः ।
हरलोकं जगामाथ मुनिभिर्देवपूजितः २८।
स्वकर्मभिर्महाराजः पुत्रस्यापि सुतेजसा ।
हरेर्लोकं गतः पुण्यैर्निवसत्येष भूपतिः २९।
पुरुषैः पुण्यकर्माख्यैरीदृशं पुण्यमुत्तमम् ।
जनितव्यं महाभाग किमन्यैः शोककारकैः ३०।
यथा जातः स धर्मात्मा नहुषः पितृतारकः ।
कुलस्य धर्त्ता सर्वस्य नहुषो ज्ञानपंडितः ३१।
एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः ।
अन्यत्किं ते प्रवक्ष्यामि वद पुत्र कपिंजल ३२।
एवंविधं पुण्यमयं पवित्रं चरित्रमेतद्यशसा समेतम् ।
आयोः सुतस्यापि शृणोति मर्त्यो भोगान्स भुक्त्वैति पदं मुरारेः ३३।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः ११७।