पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ११८
← अध्यायः ११७ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ११८ अज्ञातलेखकः |
अध्यायः ११९ → |
कपिंजल उवाच-
गंगामुखे पुरा तात रोदमाना वरांगना ।
नेत्राभ्यामश्रुबिंदूनि पतंति च महाजले १।
गंगामध्ये निमज्जंति भवंति कमलानि च ।
पुष्पाणि दिव्यरूपाणि सौगंधानि महांति च २।
तस्यास्तात सुनेत्राभ्यां किमर्थं प्रपतंति च ।
गंगोदके महाभाग निर्मला अश्रुबिंदवः ३।
अस्थिचर्मावशेषस्तु जटाचीरधरः पुनः ।
तानि सौगंधयुक्तानि पद्मानि विचिनोति सः ४।
हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेत् ।
सा का नारी समाचक्ष्व स वा को हि महामते ५।
अर्चयित्वा शिवं सोथ कस्मात्पश्चात्प्रदेवति ।
एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव ६।
कुंजल उवाच-
शृणु वत्स प्रवक्ष्यामि वृत्तांतं देवनिर्मितम् ।
चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः ७।
योसौ हुंडो महावीर्यो नहुषेण हतो रणे ।
तस्य पुत्रस्तु विख्यातो विहुंडस्तप आस्थितः ८।
निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम् ।
आयुपुत्रेण वीरेण नहुषेण बलीयसा ९।
तपस्तपति सक्रोधाद्देवान्हंतुं समुद्यतः ।
पौरुषं तस्य दुष्टस्य तपसा वर्द्धितस्य च १०।
जानंति देवताः सर्वा दुःसहं समरांगणे ।
हुंडात्मजो विहुंडस्तु त्रैलोक्यं हंतुमुद्यतः ११।
पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान् ।
एवं समुद्यतः पापी देवब्राह्मणकंटकः १२।
उपद्रवं समारेभे प्रजाः पीडयते च सः ।
तस्यैव तेजसा दग्धा देवाश्चेंद्रपुरोगमाः १३।
शरणं देवदेवस्य जग्मुर्विष्णोर्महात्मनः ।
देवदेवं जगन्नाथं शंखचक्रगदाधरम् १४।
ऊचुश्च पाहि नो नित्यं विहुंडस्य महाभयात् ।
श्रीविष्णुरुवाच-
वर्द्धंतु देवताः सर्वाः सुसुखेन महेश्वराः १५।
विहुंडं नाशयिष्यामि पापिष्ठं देवकंटकम् ।
एवमाभाष्य तान्देवान्मायां कृत्वा जनार्दनः १६।
स्वयमेवस्थितस्तत्र नंदने सुमहायशाः ।
मायामयं चकाराथ स्त्रीरूपं च गुणान्वितम् १७।
विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी ।
चकार रूपमतुलं विष्णोर्मायाप्रमोहिनी १८।
विहुंडस्य वधार्थाय रूपलावण्यशालिनी ।
कुंजल उवाच-
स देवानां वधार्थाय दिव्यमार्गं जगाम ह १९।
नंदनांते ततो मायामपश्यद्दितिजेश्वरः ।
तया विमोहितो दैत्यः कामबाणकृतांतरः २०।
आत्मनाशं न जानाति कालरूपां वरस्त्रियम् ।
तां दृष्ट्वा नवहेमाभां रूपद्रविणशालिनीम् २१।
लुब्धो विहुंडः पापात्मा तामुवाच वरांगनाम् ।
कासि कस्य वरारोहे ममचित्तप्रमाथिनि २२।
संगमं देहि मे भद्रे रक्षरक्ष वरानने ।
संगमात्तव देवेशि यद्यदिच्छसि सांप्रतम् २३।
तत्तद्दद्मि महाभागे दुर्लभं देवदानवैः ।
मायोवाच-
मामेव भोक्तुमिच्छा चेद्दायं मे देहि दानव २४।
सप्तकोटिमितैश्चैव पुष्पैः पूजय शंकरम् ।
कामोदसंभवैर्दिव्यैः सौगंधैर्देवदुर्लभैः २५।
तेषां पुष्पकृतां मालां मम कंठे तु दानव ।
आरोपय महाभाग एतद्दायं प्रदेहि मे २६।
तदाहं सुप्रिया भार्या भविष्यामि न संशयः ।
विहुंड उवाच-
एवं देवि करिष्यामि वरं दद्मि प्रयाचितम् २७।
वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः ।
बभ्राममन्मथाविष्टो न च पश्यति तं द्रुमम् २८।
कामोदकाख्यं पप्रच्छ यत्रतत्र गतः स्वयम् ।
कामोदाख्यद्रुमो नास्ति वदंत्येवं महाजनाः २९।
पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः ।
पप्रच्छ भार्गवं गत्वा भक्त्या नमित कंधरः ३०।
कामोदकं द्रुमं ब्रूहि कांतं पुष्पसमन्वितम् ।
शुक्र उवाच-
कामोदः पादपो नास्ति योषिदेवास्ति दानव ३१।
यदा सा हसते चैव प्रसंगेन प्रहर्षिता ।
तद्धासाज्जज्ञिरे दैत्य सुगंधीनि वराण्यपि ३२।
सुमान्येतानि दिव्यानि कामोदाया न संशयः ।
हृद्यानि पीतपुष्पाणि सौरभेण युतानि च ३३।
तेनाप्येकेन पुष्पेण यः समर्चति शंकरम् ।
तस्येप्सितं महाकामं संपूरयति शंकरः ३४।
अस्याश्च रोदनाद्दैत्य प्रभवंति न संशयः ।
तादृशान्येव पुष्पाणि लोहितानि महांति च ३५।
सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत् ।
एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् ३६।
उवाच सा तु कुत्रास्ति कामोदा भृगुनंदन ।
शुक्र उवाच-
गंगाद्वारे महापुण्ये महापातकनाशने ३७।
कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा ।
कामोदपत्तने नारी दिव्यभोगैरलंकृता ३८।
तथा चाभरणैर्भाति सर्वदेवैः सुपूजिता ।
त्वया तत्रैव गंतव्यं पूजितव्या वराप्सराः ३९।
उपायेनापि पुण्येन तां प्रहासय दानव ।
एवमुक्त्वा तु योगींद्र सः शुक्रो दानवं प्रति ४०।
विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ४१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्यानेऽष्टादशाधिकशततमोऽध्यायः ११८।