पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२०

← अध्यायः ११९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२०
अज्ञातलेखकः
अध्यायः १२१ →

कुंजल उवाच-
कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् ।
सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः १।
कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः ।
कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम् २।
तया संपूजितो विप्रः सुवाक्यैः स्वागतादिभिः ।
दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः ३।
सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे ।
अनामयं च पप्रच्छ आशीर्भिरभिनंद्य ताम् ४।
कामोदोवाच-।
प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम् ।
कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम् ५।
महामोहः समुत्पन्नो ममांगे मुनिपुंगव ।
व्यापकः सर्वलोकानां ममांगे मतिनाशकः ६।
तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते ।
सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने ७।
केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम ।
अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति ८।
तदा प्रभृति दुःखेन व्यापिताहं महामते ।
तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः ९।
नारद उवाच-
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ।
स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः १०।
न जायते च देवेषु स्वप्नो निद्रा च सुंदरि ।
आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः ११।
सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः ।
अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे १२।
महावातांदोलनैश्च चलंत्यापो वरानने ।
त्रुटंत्यंबुकणाः सूक्ष्मास्तस्मादुदकसंचयात् १३।
बहिरेव पतंत्येते निर्मलांबुकणाः शुभे ।
पुनर्लयं प्रयांत्येते दृश्यादृश्या भवंति वै १४।
तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि ।
आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः १५।
पंचभूतात्मकानां च मुषित्वैव सुनिश्चलः ।
षड्विंशतिसु तत्वानां मध्ये चैष विराजते १६।
शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः ।
तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा १७।
आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते ।
अंतरात्मा शुभं नाम तस्य एव प्रकथ्यते १८।
पयसश्च यथा भिन्ना भवंत्यंबुकणाः शुभे ।
आत्मनस्तु तथा तेज अंतरात्मा प्रकथ्यते १९।
स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि ।
स वै तोयं स दीप्येत एते पंच पुरा कृताः २०।
आत्मनस्तेजसो भूता मलरूपा महात्मनः ।
तस्यापि संगतिं प्राप्ता एकत्वं हि प्रयांति ते २१।
स्वात्मभावप्रदोषेण नाशयंति वरानने ।
तत्पिंडमन्यमिच्छंति वारं वारं वरानने २२।
तेषां क्रीडाविहारोयं सृष्टिसंबंधकारणम् ।
उदकस्य तरंगस्तु जायते च विलीयते २३।
पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः ।
अपां रूपस्य दृष्टांतं तद्वदेषां न संशयः २४।
आत्मा न नश्यते देवि तेजो वायुर्न नश्यति ।
न नश्यतो धराकाशौ न नश्यंत्याप एव च २५।
पंचैव आत्मना सार्द्धं प्रभवंति प्रयांति च ।
आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः २६।
पिंड एव प्रणश्येत तेषां संजात एव च ।
विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः २७।
प्राणाः प्रयांति वै पिंडात्पंचपंचात्मका द्विज ।
पिंडांते वसते आत्मा प्रतिरूपस्तु तस्य च २८।
अंतरात्मा यथा चाग्नेः स्फुलिंगस्तु प्रकाशते ।
तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते २९।
शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः ।
अंतरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः ३०।
अन्नाहारेण संपुष्टैरंतरात्मा सुखं व्रजेत् ।
सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति ३१।
पश्चात्संजायते निद्रा तामसी लयवर्द्धिनी ।
नाडीमार्गेण यः सूर्यो मेरुमुल्लंघ्य गच्छति ३२।
तदा रात्रिः प्रजायेत यावन्नोदयते रविः ।
विषयांधकारैर्मुक्तस्तु अंतरात्मा प्रकाशते ३३।
भावैस्तत्त्वात्मकानां तु पंचतत्त्वैः प्रपोषितैः ।
पूर्वजन्मस्थितैः पिंडैरंतरात्मा प्रगृह्यते ३४।
स यास्यति च वै स्थानमुच्चावचं महामते ।
संसार अंतरात्मा वै दोषैर्बद्धः प्रणीयते ३५।
कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः ।
उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते ३६।
शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता ।
तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात् ३७।
आत्मनस्तु प्रभावेण उदानो बलवान्भवेत् ।
एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते ३८।
ततो निद्रा महामाया तस्यांगेषु प्रयाति सा ।
हृदि कंठे तथा चास्ये नासिकाग्रे प्रतिष्ठति ३९।
बाहू संकुच्य संतिष्ठेद्धृद्गतो नाभिमंडले ।
आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः ४०।
प्रजायते महातीव्रा बलरोधं करोति सः ।
यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः ४१।
तथा चात्मासु संलग्नः प्राणवायुर्न संशयः ।
अंतरात्मप्रसक्तस्तु प्राणवायुः शुभानने ४२।
बुद्धिवद्रोहितो भद्रे अंतरात्मा प्रधावति ।
पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति ४३।
तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ।
एवं नानाविधान्स्वप्नानंतरात्मा प्रपश्यति ४४।
उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति ।
गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति ४५।
तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम् ।
जलं नदीं तडागं च पयः स्थानानि पश्यति ४६।
अग्निं च पश्यते देवि बहुकांचनमुत्तमम् ।
तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम् ४७।
प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च ।
कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः ४८।
स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि ।
तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति ४९।
तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः ५०।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः १२०।