पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२३

← अध्यायः १२२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२३
अज्ञातलेखकः
अध्यायः १२४ →
च्यवनस्य कुंजलशुकेन सह संवादम्

सिद्ध उवाच-
श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः ।
ज्ञानस्य नास्ति वै देहो हस्तौ पादौ च चक्षुषी १।
नासाकर्णौ न ज्ञानस्य नास्ति चैवास्थिसंग्रहः ।
केन दृष्टं तु वै ज्ञानं कानि लिंगानि तस्य वै २।
आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित् ।
दिवाप्रकाशकः सूर्यो रात्रौ प्रकाशयेच्छशी ३।
गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमी ।
तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ४।
न विंदंति हि मूढास्ते मोहिता विष्णुमायया ।
कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ५।
तत्पदं तेन दृश्येत चंद्रसूर्यादिभिर्न च ।
हस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम् ६।
तस्य सर्वत्र गतिरस्ति सर्वं गृह्णाति पश्यति ।
सर्वमाघ्राति विप्रेंद्र शृणोत्येवं न संशयः ७।
नास्ति ज्ञानसमो दीपः सर्वांधकारनाशने ।
स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ८।
कायमध्ये स्थितं ज्ञानं न विंदंति कुबुद्धयः ।
ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ९।
प्राणिनां हृदये नित्यं निहितं सर्वदा द्विज ।
कामादीन्सुमहाभोगान्महामोहादिकांस्तथा १०।
विवेकवह्निना सर्वान्दिधक्षति सदैव यः ।
सर्वशांतिमयोभूत्वा इंद्रियार्थं प्रमर्द्दयेत् ११।
ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम् ।
तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकम् १२।
तस्माच्छांतिं कुरुष्व त्वं सर्वसौख्यप्रवर्द्धिनीम् ।
समः शत्रौ च मित्रे च यथात्मनि तथापरे १३।
भव स्वनियतो नित्यं जिताहारो जितेंद्रियः ।
मैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेत् १४।
निःसंगो निःस्पृहो भूत्वा एकांतस्थानमाश्रितः ।
सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि १५।
एकस्थानस्थितो वत्स त्रैलोक्ये यद्भविष्यति ।
वृत्तांतं वेत्स्यसि त्वं तु मत्प्रसादान्न संशयः १६।
कुंजल उवाच-
सिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशितम् ।
तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः १७।
त्रैलोक्ये वर्त्तते यद्यदेकस्थाने स्थितो ह्यहम् ।
तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः १८।
एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव हि ।
अन्यत्किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम १९।
च्यवन उवाच-
कीरयोनिं कथं प्राप्तो भवाञ्ज्ञानवतां वरः ।
तन्मे त्वं कारणं ब्रूहि सर्वसंदेहनाशनम् २०।
कुंजल उवाच-
संसर्गाज्जायते पापं संसर्गात्पुण्यमेव हि ।
तस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च २१।
लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः ।
बंधयित्वा समानीतो विक्रयार्थं समुद्यतः २२।
चाटुकांर सुरूपं तं पटुवाक्यं समीक्ष्य च ।
गृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः २३।
ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तम ।
समे बालस्वभावेन कौतुकात्करसंस्थितः २४।
तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तम ।
शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः २५।
मामेवं वदते सोपि ताततातेति आस्यताम् ।
स्नातुं गच्छ महाभाग देवमर्चय सांप्रतम् २६।
इत्यादिचाटुकैर्वाक्यैर्मामेवं परिभाषयेत् ।
तस्यवाक्यविनोदेन विस्मृतं ज्ञानमुत्तमम् २७।
पुष्पार्थं फलभोगार्थं गतोहं वनमेव च ।
नीतः शुको बिडालेन मम दुःखस्य हेतवे २८।
मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिः ।
बिडालेन हतः पक्षी तेनैव भक्षितो हि सः २९।
श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम् ।
महता दुःखभावेन असुखेनातिदुःखितः ३०।
तस्य दुःखेन मुग्धोस्मि तीव्रेणापि सुपीडितः ।
महता मोहजालेन बद्धोऽहं द्विजपुंगव ३१।
प्रालपं रामचंद्रेति शुकराजेति पंडित ।
श्लोकराजेति तं विप्र मोहाच्चलितमानसः ३२।
ततोऽहं दुःखसंतप्तः संजातः स्वेनकर्मणा ।
वियोगेनापि विप्रेंद्र शुकस्य शृणु सांप्रतम् ३३।
विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम् ।
संस्मरञ्छोकसंतप्तस्तं शुकं चाटुकारकम् ३४।
वत्सवत्सेति नित्यं वै प्रलपञ्छृणु भार्गव ।
गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ३५।
त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम् ।
कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम् ३६।
अस्मिन्सुनिर्जनोद्याने विहाय क्व गतो भवान् ।
केन दोषेण लिप्तोस्मि तन्मे कथय सांप्रतम् ३७।
एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः ।
एवमादि प्रलप्याहं शोकेनापि सुपीडितः ३८।
मृतोहं तेन मोहेन तद्भावेनापि मोहितः ।
मरणे यादृशो भावो मतिश्चासीच्च यादृशी ३९।
तादृशेनापि भावेन जातोऽहं द्विजसत्तम ।
गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ४०।
स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितम् ।
मया पापेन मूढेन किं कृतं ह्यकृतात्मना ४१।
गर्भयोगसमारूढः पुनस्तं चिंतयाम्यहम् ।
तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकम् ४२।
गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमम् ।
तस्यवाक्योदकैः स्वच्छैः कायस्य मलमेव च ४३।
सबाह्याभ्यंतरं विप्र क्षालितं निर्मलं कृतम् ।
तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ४४।
शुकस्य ध्यानभावेन मरणे समुपस्थिते ।
तस्मिन्काले मृतो विप्र तद्भावेनापि भावितः ४५।
तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले ।
मरणे यादृशो भावः प्राणिनां परिजायते ४६।
तादृशाः स्युस्तु सत्वास्ते तद्रूपास्तत्परायणाः ।
तद्गुणास्तत्स्वरूपास्ते भावभूता भवंति हि ४७।
मृत्यकालस्य विप्रेंद्र भावेनापि न संशयः ।
अतुलं प्राप्तवाञ्ज्ञानमहमत्र महामते ४८।
तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यति ।
वर्तमानं महाप्राज्ञ ज्ञानेनापि महामते ४९।
सर्वं विदाम्यहं ह्यत्र संस्थितोपि न संशयः ।
तारणाय मनुष्याणां संसारे परिवर्तताम् ५०।
नास्ति तीर्थं गुरुसमं बंधच्छेदकरं द्विज ।
एतत्ते सर्वमाख्यातं शृणु भार्गवनंदन ५१।
यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितम् ।
स्थलजाच्चोदकात्सर्वं बाह्यं मलं प्रणश्यति ५२।
जन्मांतरकृतान्पापान्गुरुतीर्थं प्रणाशयेत् ।
संसारतारणायैव जंगमं तीर्थमुत्तमम् ५३।
विष्णुरुवाच-
शुक एवं महाप्राज्ञश्च्यवनाय महात्मने ।
तत्त्वं प्रकाशयित्वा तु विरराम नृपोत्तम ५४।
एतत्ते सर्वमाख्यातं जंगमं तीर्थमुत्तमम् ।
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ५५।
वेन उवाच-
नाहं राज्यस्य कामार्थी नान्यत्किंचित्प्रकामये ।
सदेहो गंतुमिच्छामि तव कायं जनार्दन ५६।
एवं वरमहं मन्ये यदि दातुमिहेच्छसि ।
विष्णुरुवाच-
यज त्वमश्वमेधेन राजसूयेन भूपते ५७।
गो भू स्वर्णाम्बुधान्यानां कुरु दानं महामते ।
दानान्नश्यति वै पापं ब्रह्मवध्यादिघोरकम् ५८।
चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयः ।
तस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते ५९।
यादृशेनापि भावेन मामुद्दिश्य ददाति यः ।
तादृशं तस्य वै भावं सत्यमेवं करोम्यहम् ६०।
ऋषीणां दर्शनात्स्पर्शाद्भ्रष्टस्ते पापसंचयः ।
आगमिष्यसि यज्ञांते मम देहं न संशयः ६१।
एवमाभाष्य तं वेनमंतर्द्धानं गतो हरिः ६२।

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्यसंपूर्तिवर्णने। च्यवनचरित्रसमाप्तौ च त्रयोविंशत्यधिकशततमोऽध्यायः १२३।