पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२४

← अध्यायः १२३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२४
अज्ञातलेखकः
अध्यायः १२५ →

सूत उवाच-
अंतर्द्धानं गते विष्णौ वेनो राजा महामतिः ।
क्व गतो देवदेवेश इति चिंतापरोऽभवत् १।
हर्षेण महताविष्टश्चिंतयित्वा नृपोत्तमः ।
समाहूय नृपश्रेष्ठं तं पृथुं मधुराक्षरैः २।
तमुवाच महात्मानं हर्षेण महता तदा ।
त्वया पुत्रेण भूर्लोके तारितोस्मि सुपातकात् ३।
नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो ।
मया विनाशितो दोषैस्त्वया गुणैः प्रकाशितः ४।
यजेहमश्वमेधेन दास्ये दानान्यनेकशः ।
विष्णुलोकं व्रजाम्यद्य सकायस्ते प्रसादतः ५।
संभरस्व महाभाग संभारांस्त्वं नृपोत्तम ।
आमंत्रय महाभाग ब्राह्मणान्वेदपारगान् ६।
एवं पृथुः समादिष्टो वेनेनापि महात्मना ।
प्रत्युवाच महात्मा स वेनं पितरमादरात् ७।
कुरु राज्यं महाराज भुंक्ष्व भोगान्मनोनुगान् ।
दिव्यान्वा मानुषान्पुण्यान्यज्ञैर्यज जनार्दनम् ८।
एवमुक्त्वा प्रणम्यैव पितरं ज्ञानतत्परम् ।
धनुरादाय पृथ्वीशः सबाणं यत्नपूर्वकम् ९।
आदिदेश भटान्सर्वान्घोषध्वं भूतले मम ।
पापमेव न कर्तव्यं कर्मणा त्रिविधेन वै १०।
करिष्यंति च यत्पापं आज्ञां वेनस्य भूपतेः ।
उल्लंघ्य वध्यतां सो हि यास्यते नात्र संशयः ११।
दानमेव प्रदातव्यं यज्ञैश्चैव जनार्दनम् ।
यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः १२।
एवं शिक्षां प्रदत्वासौ राज्यं भृत्येषु वेनजः ।
निःक्षिप्य च गतो विप्रास्तपसोर्थे तपोवनम् १३।
सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान् ।
शतवर्षप्रमाणं वै निराहारो बभूव ह १४।
तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह ।
तपस्तपसि कस्मात्त्वं तन्मे त्वं कारणं वद १५।
पृथुरुवाच-
वेन एष महाप्राज्ञः पिता मे कीर्तिवर्द्धनः ।
समाचरति यः पापमस्य राज्ये नराधमः १६।
शिरश्छेत्ता भवत्वेष तस्य देवो जनार्दनः ।
अदृष्टैश्च महाचक्रैर्हरिः शास्ता भवेत्स्वयम् १७।
मनसा कर्मणा वाचा कर्तुं वांछति पातकम् ।
तेषां शिरांसि त्रुट्यंतु फलं पक्वं यथा द्रुमात् १८।
एतदेव वरं मन्ये त्वत्तः शृणु सुरेश्वर ।
प्रजानां दोषभावेन न लिप्यति पिता मम १९।
तथा कुरुष्व देवेश वरं दातुं यदीच्छसि ।
ददस्व उत्तमं कामं चतुर्मुखनमोऽस्तु ते २०।
ब्रह्मोवाच-
एवमस्तु महाभाग पिता ते पूततां गतः ।
विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो २१।
एवं पृथुं समुद्दिश्य वरं दत्वा गतो विभुः ।
पृथुरेव समायातो राज्यकर्मणि संस्थितः २२।
वैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाचरेत् ।
यस्तु चिंतयते पापं त्रिविधेनापि कर्मणा २३।
शिरश्छेदो भवेत्तस्य यथाचक्रैर्निकृंतितः ।
तदाप्रभृति वै पापं नैव कोपि समाचरेत् २४।
इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः ।
सर्वलोकाः समाचारैः परिवर्तंति नित्यशः २५।
दानभोगैः प्रवर्तंते सर्वधर्मपरायणाः ।
सर्वसौख्यैः प्रवर्द्धंते प्रसादात्तस्य भूपतेः २६।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुर्विंशत्यधिक शततमोऽध्यायः १२४।