पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२५

← अध्यायः १२४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२५
अज्ञातलेखकः

सूत उवाच-
वेनस्याज्ञां सुसंप्राप्य पृथुः परमधार्मिकः ।
संबभ्रे सर्वसंभारान्नानापुण्यान्नृपात्मजः १।
निमंत्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानपि ।
अथ वेन इयाजासावश्वमेधेन भूपतिः २।
दानान्यदाद्ब्राह्मणेभ्यो नानारूपाण्यनेकशः ।
जगाम वैष्णवं लोकं सकायो जगतीपतिः ३।
विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते ।
एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः ४।
सर्वपापप्रशमनं सर्वदुःखविनाशनम् ।
पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति ५।
त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः ।
प्रजास्तु रंजितास्तेन पुण्यधर्मानुकर्मभिः ६।
एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम् ।
प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ७।
भूमिखंडस्यमाहात्म्यं कथयिष्याम्यहं पुनः ।
अस्य खंडस्य वै श्लोकं यः शृणोति नरोत्तमः ८।
दिनस्यैकस्य वै पापं तस्य चैव प्रणश्यति ।
यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः ९।
तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ।
दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि १०।
यत्फलं तत्प्रजायेत विष्णुस्तस्य प्रसीदति ।
अस्य पद्मपुराणस्य पठमानस्य नित्यशः ११।
कलौयुगे तु विघ्नाश्च न जायंते नरस्य वै ।
व्यास उवाच-
कस्मात्कलौ न जायंते शृण्वानस्य च पद्मज १२।
नरस्य पुण्ययुक्तस्य नाना विघ्नाः सुदारुणाः ।
ब्रह्मोवाच-
मखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते १३।
तत्फलं दृश्यते तात पुराणे पद्मसंज्ञके ।
अश्वमेधमखः पुण्यः कलौ नैव प्रवर्तते १४।
पुराणं चापि यत्तद्वदश्वमेधसमं किल ।
अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् १५।
न भुंजंति नराः पापाः पापमार्गेषु संस्थिताः ।
पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम १६।
अश्वमेधसमं पुण्यं न भुंजंति कलौ नराः ।
कलौ युगे नरैः पापैर्गंतव्यं नरकार्णवम् १७।
कस्माच्छ्रोष्यंति तत्पुण्यं चतुर्वर्गप्रसाधनम् ।
येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् १८।
सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम् ।
अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामते १९।
कलौ युगे गताः स्वर्गे सवेदाः सांगसस्वराः ।
यः कोपि सत्वसंपन्नः श्रद्धावान्भगवत्परः २०।
श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह ।
श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते २१।
शृण्वानस्य नरस्यापि महाविघ्नो न संचरेत् ।
अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च २२।
लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तम ।
प्रेषितो विष्णुदेवेन महामोहः स दारुणः २३।
अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः ।
दूषकाः कुत्सकाः पापाः संभवंति दिने दिने २४।
ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना ।
संजातं दृश्यते व्यास तथा होमं समाचरेत् २५।
वैष्णवैश्च महामंत्रैर्विष्णुसूक्तैः सुपुण्यदैः ।
विष्णोरराटमंत्रेण सहस्रशीर्षकेण च २६।
इदं विष्णु सुमंत्रेण आब्रह्मेण पुनः पुनः ।
त्र्यंबकेन च मंत्रेण होममेवं समाचरेत् २७।
बृहत्साम्ना सुमंत्रेण द्वादशाक्षरकेण च ।
यस्य देवस्य यो होमस्तस्य मंत्रेण होमयेत् २८।
अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि ।
ग्रहाणामपि कर्त्तव्यं स्थापनं पूजनं द्विज २९।
विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीम् ।
जातवेदां महामायां चंडिकां क्षेत्रनायकम् ३०।
तिलैश्च तंदुलैराज्यैस्तेषां मंत्रसमुद्यतैः ।
एवं होमः प्रकर्त्तव्यो ब्राह्मणेभ्यो ददेद्धनम् ३१।
यथासंभाविकां तात दक्षिणां धेनुसंयुताम् ।
ततो विघ्नाः प्रणश्यंति पुराणं सिद्धिमाप्नुयात् ३२।
एवं न कुरुते यो हि तस्य विघ्नं वदाम्यहम् ।
तस्यांगे जायते रोगो बहुपीडाप्रदायकः ३३।
भार्या शोकः पुत्रशोको धनहानिः प्रजायते ।
नानाविधान्महारोगान्भुंजते नात्र संशयः ३४।
यस्य गेहे नास्ति वित्तमुपवासं समाचरेत् ।
एकादशीं सुसंप्राप्य पूजयेन्मधुसूदनम् ३५।
षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा ।
ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः ३६।
केशवाय ततो दत्वा संकल्पं हविषान्वितम् ।
स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बांधवैः ३७।
पुत्रैस्तु भार्यया युक्तस्ततः सिद्धिमवाप्नुयात् ।
पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः ३८।
चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा ।
सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु ३९।
कृते युगे तु निष्पापाः शृण्वंति मनुजा द्विज ।
लक्षस्यार्द्धं ततः कृत्स्नं पुराणं पद्मसंज्ञकम् ४०।
श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकम् ।
त्रेतायुगे तथा प्राप्ते यदा श्रोष्यंति मानवाः ४१।
चतुर्वर्गफलं भुक्त्वा ते यास्यंति हरिं पुनः ।
द्वाविंशतिसहस्राणि संहितापद्मसंज्ञिता ४२।
द्वापरे कथिता विप्र ब्रह्मणा परमात्मना ।
द्वादशैव सहस्राणां पद्माख्या सा तु संहिता ४३।
कलौ युगे पठिष्यंति मानवा विष्णुतत्पराः ।
एकोर्थश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः ४४।
संहितास्वेव विप्रेंद्र शेषाख्यानप्रविस्तरः ।
द्वादशैव सहस्राणि नाशं यास्यंति सत्तम ४५।
कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति ।
भूमिखंडं नरः श्रुत्वासर्वपापैः प्रमुच्यते ४६।
मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते ।
अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् ४७।
श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् ।
प्रथमं सृष्टिखंडं तु द्वितीयं भूमिखंडकम् ४८।
तृतीयं स्वर्गखंडं च पातालं तु चतुर्थकम् ।
पंचमं चोत्तरं खंडं सर्वपापप्रणाशनम् ४९।
यः शृणोति नरो भक्त्या पंचखंडान्यनुक्रमात् ।
गोप्रदानसहस्रस्य मानवो लभते फलम् ५०।
महाभाग्येन लभ्यंते पंचखंडानि भूसुराः ।
श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ५१।
इति श्रीपद्मपुराणे भूमिखंडे पंचपंचाशत्सहस्रसंहितायां वेनोपाख्याने पंचविंशत्यधिकशततमोऽध्यायः १२५।