पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०८
← अध्यायः ०७ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः ०८ [[लेखकः :|]] |
अध्यायः ०९ → |
शौनक उवाच-
समुद्रमथनं सूत पुरा कस्मात्कृतं गुरो ।।
हृदये कौतुकं जातं श्रोतुं मे वद चामरैः ॥१।
सूत उवाच-
ब्रह्मन्वच्मि समासेन सिंधोर्मथनकारणम् ।।
दुर्वाससेंद्र संवादमितिहासं शृणुष्व तत् ॥२।
महातपा महातेजा दुर्वासा ईश्वरांशजः ।।
ब्रह्मर्षिः प्रययौ स्वर्गमिन्द्रं द्रष्टुं स चैकदा ॥३।
तस्मिन्ददर्श काले तं गजारूढंv शचीपतिम् ।।
दृष्ट्वा स्रजं पारिजातां ददौ तस्मै महामुनिः ॥४।
गृहीत्वा तां स्रजं चेंद्रो विन्यस्य गजमूर्द्धनि ।।
देवराट्प्रययौ ब्रह्मन्ससैन्यो नंदनं प्रति ५।
हस्ती चादाय तां मालां छित्त्वा तु धरणीतले ।।
चिक्षेप च महाक्रुद्धस्तमित्याह महामुनिः ॥६।
त्रैलोक्यैकश्रियायुक्तो यस्मात्त्वमवमन्यसे ।।
तव त्रैलोक्यश्रीर्नष्टा भवत्येव न संशयः ॥७।
ततः शक्रो जगामाशु सुप्तश्च स्वपुरं पुनः ।।
ददर्श जगतां माता चांतर्द्धानं गता स्वयम् ॥८।
नष्टमंतर्द्धानवत्यां तदा तस्यां जगत्त्रयम् ।।
क्षुत्पिपासान्विताः सर्वे चुक्रुशुर्वै निरंतरम् ॥९।
न ववर्षुर्वारिवाहाः शुष्काश्चैव जलाशयाः ।।
सर्वे ते शाखिनः शुष्काः फलपुष्पविवर्जिताः ॥१०।
क्षुत्पिपासार्दिताः सर्वे ब्रह्मणः सन्निधिं ययुः ।।
तं सर्वे कथयामासुः दुःखशोकं पितामहम् ॥११।
देवानां वचनं श्रुत्वा धाता देवगणैः सह ।।
भृग्वादिमुनिभिश्चैव प्रययौ क्षीरसागरम् ॥१२।
विष्णुं समर्चयामास क्षीराब्धेरुत्तरे तटे ।।
मंत्रमष्टाक्षरं वेधा जपन्ध्यायन्जगत्पतिम् ॥१३।
ततः प्रसन्नो भगवान्सर्वेषां च दिवौकसाम् ।।
वैनतेयं समारुह्य चागतः सदयः प्रभुः ॥१४।
पीतवस्त्रं चतुर्बाहुं शंखचक्रगदाधरम् ।।
दृष्ट्वा तं जगतामीशं पुंडरीकनिभेक्षणम् ॥१५।
विष्णुं भवोदधेः पोतं वनमालाविभूषितम् ।।
श्रीवत्सकौस्तुभोरस्कमानंदाश्रुपरिप्लुताः ॥१६।
तुष्टुवुर्जयशब्देन नमश्चक्रुर्निरंतरम् ।।
श्रीभगवानुवाच-
वरं वृणीध्वं भो देवाः कस्माद्यूयं समागताः ।।
वरदोऽस्मि तद्वदत वो ददामि च नान्यथा ॥१७।
देवा ऊचुः-
कृपालो ब्रह्मशापेन संपद्धीनं जगत्त्रयम् ।।
क्षुत्पिपासार्दितं नाथ सदेवासुरमानुषम् ॥१८।
रक्ष सर्वानिमाँल्लोकान्याताः स्म शरणं तव ।।
श्रीभगवानुवाच-
इंदिरा ब्रह्मशापेन चान्तर्द्धानं गता सुराः १९।
यस्याः कटाक्षमात्रेण जगदैश्वर्यसंयुतम् ।।
तदा यूयं सुराः सर्वे चोत्पाट्य स्वर्णपर्वतम्॥ २०।
मंदरं घर्घरं कृत्वा सर्पराजेन वेष्टितम् ।।
कुरुध्वं मथनं देवाः सदैत्याः क्षीरसागरम् ॥२१।
तस्मादुत्पत्स्यते लक्ष्मीर्जगन्माता च भोः सुराः ।।
तया हृष्टा महाभागा भविष्यथ न संशयः॥ २२।
धारयाम्यहमेवाद्रिं कूर्मरूपेण सर्वतः ।।
इत्युक्त्वा भगवान्विष्णुरंतर्द्धानं जगाम सः ।।
जग्मुः सुरासुराः सर्वे समुद्रमथनं द्विज॥ २३।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे समुद्रमथनोद्योगोनामाष्टमोऽध्यायः ८।