पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०९

← अध्यायः ०८ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः ०९
[[लेखकः :|]]
अध्यायः १० →

सूत उवाच-
ततोऽमरगणास्ते च सगंधर्वाः सदानवा ।
उत्पाट्य मंदरं शैलं चिक्षिपुः पयसां निधौ १।
ततः सनातनः श्रीमान्दयालुर्जगदीश्वरः ।
अधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः २।
अनंतं तत्र संवेष्ट्य ममंथुर्दुग्धसागरम् ।
एकादश्यां मथ्यमाने चोद्भूतं प्रथमं द्विज ३।
कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः ।
ततस्तान्विद्रुतान्दृष्ट्वा शंकरश्चोक्तवानिदम् ४।
भोभोऽमरगणा यूयं विषं कुरुतमादरम् ।
वारयिष्याम्यहं तूर्णं कालकूटं महाविषम् ५।
इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि ।
महामंत्रं समुच्चार्य विषमादद्भयंकरम् ६।
महामंत्रप्रभावेण विषं जीर्णं गतं महत् ।
अच्युतानंतगोविंद इति नामत्रयं हरेः ७।
योजपेत्प्रयतो भक्त्या प्रणवाद्यं नमोंऽतिकम् ।
विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा ८।
ततो हृष्टमना देवा ममंथुः क्षीरसागरम् ।
ततोऽलक्ष्मीः समुत्पन्ना कालास्या रक्तलोचना ९।
रूक्षपिंगलकेशा च जरतीं बिभ्रती तनुम् ।
सा च ज्येष्ठाब्रवीद्देवान्किंकर्तव्यं मयेति वै १०।
देवास्तथाब्रुवंस्तां च देवीं दुःखस्यभाजनम् ।
येषां नॄणां गृहे देवी कलहः संप्रवर्तते ११।
तत्र स्थानं प्रयच्छामो वस ज्येष्ठे शुभान्विता ।
निष्ठुरं वचनं ये च वदंति येऽनृतं नराः १२।
संध्यायां ये हि चाश्नंति दुःखदा तिष्ठ तद्गृहे ।
कपालकेशभस्मास्थि तुषांगाराणि यत्र तु १३।
स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः ।
अकृत्वा पादयोर्धौतं ये चाश्नंति नराधमाः १४।
तद्गृहे सर्वदा तिष्ठ दुःखदारिद्रदायिनी ।
वालुकालवणांगारैः कुर्वंति दंतधावनम् १५।
तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह ।
छत्राकं श्रीफलं शिष्टं ये खादंति नराधमाः १६।
गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि ।
तिलपिष्टमलाबुं ये गृंजनं पोतिकादलम् १७।
कलं बुकं पलांडुं ये चाश्नंति पापबुद्धयः ।
तेषां गृहे तव स्थानं भविष्यति न संशयः १८।
गुरु देवातिथीनां च यज्ञदानविवर्जितम् ।
यत्रवेदध्वनिर्नास्ति तत्र तिष्ठ सदाऽशुभे १९।
दंपत्योः कलहो यत्र पितृदेवार्चनं न वै ।
दुरोदररता यत्र तत्र तिष्ठ सदाशुभे २०।
परदाररता यत्र परद्रव्यापहारिणः ।
विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते ।
तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी २१।
इत्यादिश्य सुरा ज्येष्ठां सर्वेषां कलिवल्लभाम् ।
क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः २२।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे समुद्रमथनंनाम नवमोऽध्यायः ९।