पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १२

← अध्यायः ११ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

शौनक उवाच-
केन पुण्येन भो सूत चान्येन गतपातकः ।
नरो याति हरेः स्थानं तद्वदस्वानुकंपया १।
सूत उवाच-
ब्राह्मणस्य धनैः प्राणान्प्राणैर्वापि द्विजोत्तम ।
रक्षां करोति यो मर्त्यो विष्णुलोकं स गच्छति २।
पुरा राजा दीननाथो द्वापरे संज्ञके युगे ।
आसीदपुत्रो बलवान्वैष्णवः स तु याजकः ३।
एकदा गालवं राजा पप्रच्छ विनयान्वितः ।
केन पुण्येन जायेत पुत्रो वै करुणार्णव ४।
वदस्व मुनिशार्दूल करिष्यामि तवाज्ञया ।
येषां नृणां नास्ति सुतो जीवनं हि निरर्थकम् ५।
गालव उवाच-
राजन्शृणुष्वावहितो यत्पृष्टोऽस्मि तवाग्रतः ।
कथयामि समासेन पुत्रस्योद्भवकारणम् ६।
क्रतुं च नरमेधाख्यं कुरुष्व राजसत्तम ।
तदा ते संततिः स्याद्वै सर्वलक्षणसंयुता ७।
राजोवाच-
नरमेधं महायज्ञं यज्ञानां प्रवरं द्विज ।
कीदृशं नरमानीय करिष्यामि गुरो वद ८।
गालव उवाच-
सुंदरांगः सुवदनः समस्तशास्त्रविद्भवेत् ।
सत्कुले यदि जातः स तदा यज्ञाय कल्पते ९।
अंगहीनः कृष्णवर्णो मूर्खो योग्यो भवेन्नहि ।
इत्युक्ते गालवे विप्र स राजा मनुजेश्वरः १०।
प्रेषयामास दूतांश्च कथयित्वा मुनेर्वचः ।
द्रविणं बहु दत्वा च गालवप्रमुखान्द्विजान् ११।
यज्ञार्थे वरयामास समस्तशास्त्रपारगान् ।
ततो राजाज्ञया दूताः देशं देशं मुदा गताः १२।
ग्रामे ग्रामे द्विजश्रेष्ठ पत्तनेऽपि समाहिताः ।
कुत्रापि न प्राप्तवंतो गता जनपदं ततः १३।
नाम्ना दशपुरं विप्र प्रकीर्णं गुणिभिर्द्विजैः ।
यत्र नारीः सुकेशीश्च मृगशावक चक्षुषः १४।
दृष्ट्वा मुह्यंति पुरुषाश्चंद्रमुख्यश्च ता यतः ।
तस्मिन्पुरे मनोरम्ये कृष्णदेव इति द्विजः १५।
आसीत्पुत्रैस्त्रिभिः सार्द्धं भार्यया च सुशीलया ।
वैष्णवः प्रियवादी च विष्णुपूजारतः सदा १६।
साग्निकः पितृभक्तश्च वैष्णवानां प्रियंकरः ।
प्रार्थनां चक्रुरथ ते राज्ञो दूता द्विजोत्तमम् १७।
पुत्रं देहीति देहीति वद ब्राह्मणसत्तम ।
नास्ति राज्ञो द्विजश्रेष्ठ पुत्रः संतापनाशनः १८।
तदर्थं नरमेधाख्ये यज्ञेभव स दीक्षितः ।
नेष्यामस्तव पुत्रं वै बलिं दातुं महाक्रतौ १९।
सुवर्णानां चतुर्लक्षं ब्रह्मन्नय समाहितः ।
सुखेन यदि दातव्यो नो पुत्रः पुत्रलालसात् २०।
तदा बलेन नेष्यामो राजाज्ञाकारिणो वयम् ।
दूतानां वचनं श्रुत्वा ब्राह्मणौ शोकविह्वलौ २१।
अभूतां विगतप्राणाविव संशयमानसौ ।
किं धनेन सुवर्णेन जीवनेनापि सद्मना ।
प्रोवाचेदं वचः सोऽपि ब्राह्मणो राजपूरुषान् २२।
ब्राह्मण उवाच-
यदि दूताः समानेतुं पुत्रं शोकतमोपहम् ।
आगता निश्चितं यूयं शृणुध्वं वचनं मम २३।
स्थित्वा पृथिव्यां को भ्रष्टां राजाज्ञां कर्तुमिच्छति ।
पुत्रं हित्वा किंतु यूयं वृद्धं मां नयत द्विजम् २४।
इति तस्य वचः श्रुत्वा दूताः क्रोधसमन्विताः ।
बलात्कारेण तद्गेहे सुवर्णानि च तत्यजुः २५।
यदा नेतुं मनश्चक्रुस्तत्पुत्रं किल ते क्रुधा ।
बद्धांजलिपुटोभूत्वा रुदन्प्रोवोच स द्विजः २६।
पुत्राणां ज्येष्ठपुत्रं मे हित्वान्यं पुत्रमुत्तमम् ।
नयतेति वचो वक्तुं वक्त्रेनायाति हे जनाः २७।
द्विजस्य वचनं श्रुत्वा ब्राह्मणीं रुदतीं सतीम् ।
प्रोचुर्दूताः कनीयांसं पुत्रं देहीति सत्तम २८।
तेषामिति वचः श्रुत्वा ब्राह्मणी भूमितस्तदा ।
पपात वात्यया सार्द्धं रंभेव भृशदुःखिनी २९।
मुद्गरं सा समादाय मौलौ चाताडयद्बलात् ।
कनिष्ठं मत्सुतं दूता नापि दास्यामि सर्वथा ३०।
एतस्मिन्समये विप्र विप्रस्य मध्यमः सुतः ।
प्रोवाच विनयाविष्टः प्रणम्य पितरौ रुदन् ३१।
माता यदि विषं दद्यात्पित्रा विक्रीयते सुतः ।
राजा हरति सर्वस्वं कस्तत्र पालको भवेत् ३२।
इत्युक्त्वा तत्सुतो मूर्ध्ना प्रणम्य पितरौ सह ।
दूतैर्जगाम त्वरितै राज्ञोऽस्य दीक्षितस्य च ३३।
अथ तौ ब्राह्मणौ पुत्रविच्छेदक्लिष्टमानसौ ।
रुदित्वा च रुदित्वा च अंधभावं प्रजग्मतुः ३४।
अथ ते पथ्यगच्छंत विश्वामित्रमुनेः किल ।
आश्रमं शिष्ययुक्तं च सेवितं मृगशावकैः ३५।
स मुनी राजपुरुषान्दृष्ट्वा पप्रच्छ सादरम् ।
के यूयं हो कुत्र गता यथाका वृत्तिरुच्यताम् ३६।
राजदूता ऊचुः-
शृणुष्वावहितो विप्र राज्ञः पुत्रो न जायते ।
तदर्थं नरमेधाख्ये यज्ञे राजा सुदीक्षितः ३७।
नयामस्तत्र बल्यर्थमिमं ब्राह्मणपुत्रकम् ।
इति तेषां वचः श्रुत्वा स विप्रः सदयोऽभवत् ३८।
प्राणा ममापि गच्छंतु सुखी भवतु बालकः ।
बालकार्थे द्विजार्थे च स्वाम्यर्थे ये जना इह ३९।
त्यजन्ति तृणवत्प्राणांस्तेषां लोकाः सनातनाः ।
विमृश्येति मुनिः स्वांते स प्रोवाच द्विजर्षभः ४०।
यज्ञे बलिं समादातुमिमं ब्राह्मणबालकम् ।
हित्वा मां नयथाथाशु ह्ययं बालक उत्तमः ४१।
संसारे जन्मसंप्राप्य न लब्धं सुखमत्र च ।
अनेन बालकेनापि मरिष्यति कथं त्वयम् ४२।
आगतेऽस्मिन्गृहाद्दूताः पितरावस्य दुःखितौ ।
हतभाग्यौ गतो नूनं यमस्येव गृहं प्रति ४३।
एवं तस्य वचः श्रुत्वा दूताः प्रोचुरथ द्विजम् ।
भूपालस्य विनाज्ञां वै दीननाथस्य भूसुर ४४।
नेतुं त्वां पलितं प्राज्ञ नेष्यामो हि कथं वयम् ।
एवमुक्त्वा च ते दूता जग्मू राज्ञः पुरीं तदा ४५।
स मुनिर्दूतसंघैश्च गतवान्यज्ञमंदिरम् ।
राजानं कथयामासुर्दूता विप्रस्य चेष्टितम् ४६।
तच्छ्रुत्वाशंकितमनाः प्रोवाचेदं वचः स तम् ।
मुने यद्यपि मे यज्ञे कृते पुत्रो भविष्यति ४७।
बलिं विनापि भो ब्रह्मन्तदा विप्रसुतं नय ४८।
मुनिरुवाच-
यज्ञे त्वया कृते राजन्महापुत्रो भविष्यति ।
अत्र ते संशयो मा भूदमोघमपि दर्शनम् ४९।
इति तस्य वचः श्रुत्वा राजात्यंतसहर्षकः ।
चक्रे पूर्णाहुतिं यज्ञे समस्तैर्मुनिभिः सह ५०।
अथातः स मुनिः श्रेष्ठो ब्राह्मणस्य सुतं च तम् ।
गृह्य दशपुरं नाम नगरं गतवांस्तदा ५१।
भवनं तस्य गत्वा च उक्तवान्वचनं मुनिः ।
गृहे त्वं तिष्ठसे विप्र तिष्ठामि मृतवन्मुने ५२।
राजा बलेन मे पुत्रं नीतवान्किं करोम्यहम् ।
पुत्रे गते च भो विप्र दंपत्योरावयोः पुनः ५३।
गतानि चांधभावं वै क्रंदनैर्लोचनान्यपि ।
अथासौ मुनिशार्दूलः पुत्रं पश्य नयेति च ५४।
उक्तवांस्तौ यदा विप्र ब्राह्मणौ जातहर्षकौ ।
पुत्रायाकारणं कृत्वा गतावेतौ बहिः क्षणात् ५५।
मुनेर्वचनसिद्धित्वात्तत्क्षणं लोचनं तयोः ।
आलोकं तु गतं तूर्णं पुत्रस्य दर्शनादपि ५६।
पुत्रस्य मुखपद्मं तौ लोचनैरलिसंनिभैः ।
पीत्वा मुनिं चिरंतं च नमस्कृत्य पुनः पुनः ५७।
प्रोचतुर्वचनं विप्रा ब्राह्मणौ प्रियवादिनौ ।
अहो मुने जीवदानमावयोः सुकृतं किल ५८।
तयोरेव वचः श्रुत्वा स मुनिः करुणार्णवः ।
दत्वाशिषं च तौ विप्र जगाम निजमाश्रमम् ५९।
मुनिः करगतं चैव कृत्वा विष्णोः परं पदम् ।
तपस्तेपे महाभागो दैवतैरपि दुर्ल्लभम् ६०।
किंचित्काले गते विप्र तस्य राज्ञोऽभवत्सुतः ।
सुंदरो राजयोग्यश्च इंदुःक्षीरनिधाविव ।
पुत्रोत्सवे सोऽपि विप्र राजा दत्वा धनानि वै ६१।
बुभुजे देववद्भूम्यां विशोको जातकौतुकः ।
विप्रान्पालयते यस्तु प्राणान्दत्वा धनान्यपि ६२।
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ।
पठंति येऽत्र भक्त्या च शृण्वंति विप्रतः कथाम् ६३।
आख्यानं श्लोकमेकं वा गच्छंति विष्णुमंदिरम् ६४।
इति श्रीपाद्मे महापुराणे सूतशौनकसंवादे ब्रह्मखंडे ब्राह्मणपालनंनाम द्वादशोऽध्यायः १२।